SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ २०४ . काव्यादर्श उद्धृत्य राजकाटूर्वी ध्रियतेऽद्य भुजेन ते। वराहणोद्धृता यासौ वराहेरुपरिस्थिता ॥ २५ ॥ करेण ते रणेष्वन्तकरण द्विषतां हताः । करेणवः क्षरद्रता भान्ति सन्ध्याघना इव ॥ २६ ॥ परागतरुराजीव वातैयस्ता भटैश्चमः । परागतमिव क्वापि परागततमम्बरम् ॥ २७॥ रमणीयः मनोहरः सन् नृत्यति। अत्र द्वितीयचतुर्थपादगतं मिथं व्यवहितमादिभागयमकम् ॥ २४ ॥ ___ उद्धृत्येति। हे राजन् ! या असौ उर्वी वराहेण शूकरमूर्त्तिना भगवता उद्धृता सती वराहेः श्रेष्ठनागस्य वामुके: उपरि स्थिता, अद्य ते तव भुजेन सा उर्वी राजकात् राजसमूहात् उद्धृत्य ध्रियते। अत्र टतीयचतुर्थपादगतं मित्रं व्यवहितमादिभागयमकम् ॥ २५ ॥ करेणेति। हे राजन् ! रणेषु द्विषताम् अन्तकरेण विनाशकेन ते तव करेण हस्तेन हताः, अतएव क्षरद्रता: रक्तस्राविणः करणवः गजेन्द्राः करेणुरिभ्यां स्त्री नेभे इत्यमरः । सन्ध्याघना इव सन्ध्याकालौनमेघा इव भान्ति । अत्र प्रथमद्वितीयटतोयपादगतं मिथं व्यवहितमादिभागयमकम् ॥ २६ ॥ ___ परागेति। हे राजन् ! वातैः ध्वस्ता: पाटिताः अगस्य पर्वतस्य तरुराजीव वृक्षश्रेणीव परा शत्रुपक्षीया चमूः सेना भटैः तव सैनिकैः ध्वस्ता नाशिता, अतश्च परागैः पलायनपराणं शत्रुसैनिकानां पदरेग्युभिः ततं व्याप्तम् अम्बरमाकाशं कापि परागतमिव पलायितमिव धूलिभिरम्बरतलस्यादृश्य
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy