SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ हितीय: परिषदः । अस्य भिन्नक्रियः कश्चिदविरुदक्रियोऽपरः । विरुद्धकर्मा चास्त्यन्यः श्लेषो नियमवानपि ॥३१४॥ नियमाक्षेपरूपोक्तिरविरोधी विरोध्यपि। तेषां निदर्शनेष्वव रूपमाविर्भविष्यति ॥ ३१५ ॥ वक्राः खभावमधुराः शंसत्यो रागमुल्वणम् ।। दृशो दृत्यश्च कर्षन्ति कान्ताभिःप्रेषिताः प्रियान्३१६ धर्मोपमायां श्लेषोपमायाञ्च अर्थशेषः, समानोपमायान्तु शब्दशेषः, एवमन्यत्रापि बोध्यम् ॥ ३१३ ॥ - दर्शयिथमाणानां भेदानाह अस्तीति। कश्चित् श्रेषः अभिवकियः, कश्चित् अविरुदक्रियः अपरः विरुद्धकर्मा, अन्यः पनियमवान्, नियमाक्षेपरूपोलि, पविरोधी, तथा विरोधी निदर्शनेषु वक्ष्यमाणेषु उदाहरणेषु तेषां मेदानां रूपं स्वरूपम् आविर्भविष्यति प्रकाशिष्यते ॥ ३१४ ॥ ३१५ ॥ तत्र अभिवक्रियमुदाहरति वक्रा इति। कान्ताभिः प्रेषिताः प्रक्षिप्ताः आनेतुं प्रेरिताच वक्राः स्वभावकुटिला: कुटिलमार्गदर्शयिताच, स्वभावेन मधुराः मनोहारियः मिष्टभाषिण्यश्च तथा उल्वणम् अतिप्राइं रागं लौहित्यं प्रेमानुरागच्च शंसन्त्यः सूचयन्त्यः प्रकाशयन्त्यश्च दृश: नयनानि दूत्यस प्रियान् कर्षन्ति । अत्र वक्रादीनां निष्टता, कर्षणक्रिया तु उभयत्रैकैव इति अभिक्रियः मेषस्तुल्ययोगितालङ्कारस्य पोषकत्वात् तदङ्गम् । केचित् तु एकया क्रियया वाक्ययस्य दीपनात् प्रधानस्य दीपकस्य अङ्गमित्याहुः ॥ ३१६ ॥
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy