Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
Catalog link: https://jainqq.org/explore/032374/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ अहम् श्रीनगर्षिगणिविरचितदीपिकावृत्तिविभूषित ' पञ्चमगणधरश्रीसुधर्मस्वामिसन्दृब्ध श्रीस्थानाङ्गसूत्रम् । द्वितीयो विभाग: संशोधन-सम्पादनप्रेरकाः प.पू.प्राचीनश्रुतोद्धारक-वैराग्यदेशनादक्ष-आचार्यदेव श्रीमद्विजय-हेमचन्द्रसूरीश्वराः दानश्रुतसम बालायाम्। सप्ततिा तमंपदाम प्रकाशकः श्रीजिनशासन आराधना ट्रस्ट Page #2 -------------------------------------------------------------------------- ________________ णमोत्थु णं समणस्स भगवओ महावीरस्स श्रीनगर्षिगणिविरचितदीपिकावृत्तिविभूषितं पञ्चमगणधरश्रीसुधर्मस्वामिसन्दृब्धं श्रीस्थानाङ्गसूत्रम् । द्वितीयो विभागः संशोधन-सम्पादनप्रेरकाः प.पू.प्राचीनश्रुतोद्धारक-वैराग्यदेशनादक्ष-आचार्यदेव श्रीमद्विजय-हेमचन्द्रसूरीश्वराः समतासागरपंन्यासश्रीपद्मविजयपुण्यस्मृती तसमुद्धारपद्य याम् । - अष्टसप्ताह तितमं पदान प्रकाशक: श्रीजिनशासन आराधना ट्रस्ट मुम्बई Page #3 -------------------------------------------------------------------------- ________________ वि.सं.२०७० वीर सं.२५४० प्रकाशकः श्री जिनशासन आराधना ट्रस्ट बी.सी.जरीवाला, दु-६, बद्रिकेश्वर सोसायटी, मरीनड्राईव ई रोड, मुम्बई-२ -- अहो सुकृतम् श्री बाबु अमीचंद पन्नालाल आदेश्वरजी . टेम्पल चेरिटेबल ट्रस्ट वालकेश्वर, मुम्बई HOSH EMANTRA श्रुतसहयात्री :- मुनिश्रीहर्षप्रेमविजयजी म.सा. की प्रेरणा से (१) हीराबेन गांगजीभाइ जागाणी हस्ते - नीता मनोज जागाणी वर्षा अशोक जागाणी (२) भाविनीबेन जयंतभाइ जागाणी हस्ते - भक्ति धवल जागाणी ___मापर (कच्छ), हाल - खार, मुम्बई லலல एतद्ग्रन्थस्वामित्वं श्रीजैनश्वेताम्बरमूर्तिपूजकसङ्घस्यैव। Page #4 -------------------------------------------------------------------------- ________________ सिद्धांतमहोदधि प.पू. आचार्यश्रीप्रेमसूरीजीमहाराजा न्यायविशारद प.पू. आचार्यश्री भुवनानुमहाराजा समताखागर प. श्रीगणिवयं ... कृपावर्षा 新 सिद्धान्तमहोदधि-सच्चारित्रचूडामणि- सुविशालगच्छसर्जक- आचार्यदेव श्रीमद्विजय-प्रेमसूरीश्वराः न्यायविशारद-वर्धमानतपोनिधि-गच्छाधिपति आचार्यदेवश्रीमद्विजय-भुवनभानुसूरीश्वराः समतासागर-संयमसमर्पणादिगुणगणार्णव- प.पू.पंन्यासप्रवर श्री पद्मविजयगणिवराः ... 新 आज्ञाप्रसाद: सिद्धान्तदिवाकर-गीतार्थगच्छाधिपति आचार्यदेवश्रीमद्विजय-जयघोषसूरीश्वराः ... प्रेरणापीयूषम् ... वैराग्यदेशनादक्ष-प्राचीनश्रुतोद्धारक आचार्यदेवश्रीमद्विजय- हेमचन्द्रसूरीश्वराः वर्धमानतपोनिधि-आचार्यदेव श्रीमद्विजय-कल्याणबोधिसूरीश्वराः Page #5 -------------------------------------------------------------------------- ________________ 5 से किं ठाणं ? अतिशयिज्ञानवतामभावे दुर्लभदेवदर्शनेऽपि च सम्प्रतकाले सिद्धान्तोऽयमद्यापि ह्यस्तित्वं बिभर्ति, यदध्ययनेन मध्यस्थानां मनीषिणां स्वयमेवाविर्भवति भगवद्वचनश्रद्धानम्। न हि करामलकवद्विश्वविश्वावलोकनमन्तरेणेदृगेकादिदशसङ्ख्यापर्यन्तवस्तूनां स्पष्टतरं वर्णनं कर्तुं शक्यते केनचिदग्दिर्शिणेति प्राज्ञाः स्वयमेव प्रतीतिं करिष्यन्ति। अहोऽस्माकं सौभाग्यं यदीदृग्विधं ग्रन्थरत्नमद्याप्यवाप्यत इत्ययं कोऽपि निरवध्यानन्दहेतुः। __ अतिगभीरस्यास्य ग्रन्थस्यार्थः सुगमो भवत्विति पुण्याभिलाषेण शासनदेवताविज्ञप्त्या च चान्द्रकुलीनाचार्यवर्यश्रीअभयदेवसूरिवरैरेतद्वृत्तिर्विरचिता। तामेवालम्ब्य संङ्क्षिप्तरुचिसत्त्वानुग्रहार्थं पूजनीयगणिप्रवरश्रीनगर्षिणा दीपिकाभिधाना वृत्तिर्ग्रथिता। या मत्प्रेरणया मत्प्रशिष्यस्य प्रशिष्येण तपस्विमुनिप्रवरश्रीधर्मप्रेमविजयाभिधानेन श्रमपुरस्सरं संशोधिता सम्पादिता च। भवत्वेतदध्ययनेन तत्परिश्रमस्य शतधा साफल्यमित्याकाङ्क्षापुरस्सरं विरमत्येष - श्रीप्रेम-भुवनभानु-पद्मविनेयः आ. हेमचन्द्रसूरिः Page #6 -------------------------------------------------------------------------- ________________ કર્મ સાહિત્ય વિશારદ સિદ્ધાંત મહોદધિ પ.પૂ. આચાર્ય ભગવંત શ્રીમદ્ વિજય પ્રેમસૂરીશ્વરજી મહારાજા Page #7 -------------------------------------------------------------------------- ________________ મોક્ષ માર્ગના સાચા સારથી સૂરિપ્રેમના આજ્ઞાંકિત પટ્ટાલંકાર પ.પૂ. આચાર્યદેવ શ્રીમદ્ વિજય ભુવનભાનુસૂરીશ્વરજી મહારાજા Page #8 -------------------------------------------------------------------------- ________________ प्रकाशकीयम् अंधयारे दुरुत्तारे घोरे संसार सागरे । एसो चेव महादीवो लोयालोयावलोयणो ॥ जिनागमो नाम महाद्वीपः, यो व्यसनशतसहस्रपरिपूरितसंसारसागर आश्वासहेतुः। एष एव च महाप्रदीपोऽपि, यो मोहान्धकारगहने भवारण्ये भ्राम्यतां तत्तदुपद्रवसन्दोहविषयीभवतां जन्तूनां रक्षार्थं प्रकाशहेतुः। ऐदंयुगीनेऽपि समये भगवद्वचनविसरात्मकमागमसमूहमवाप्य कृतार्थप्रायाः खलु सिद्धान्ताध्येतारः। अपि चैतद् रूपेण साक्षाद् भगवतैव कृतोऽत्रावतार इत्युक्तौ न कोऽपि दोषः, यद् हारिभद्रं वचः अस्मिन् हृदयस्थे सति हृदयस्थस्तत्त्वतो मुनीन्द्र इति। हृदयस्थिते च तस्मिन् नियमात् सर्वार्थसंसिद्धिः - इति (षोडशके)। ____न ह्यतोऽपि परः कोऽपि सिद्धिहेतुरिति सीमातीत एतत्प्रकाशनेऽस्माकं संलादः। पुण्यावरेऽस्मिन् प्रस्तुतग्रन्थमूलकार-पञ्चमगणधर-श्रुतकेवलि-सर्वलब्धिनिधान-श्रीसुधर्मस्वामिनां मूलटीकाकार-चान्द्रकुलीनाचार्यवर्यश्रीअभयदेवसूरिवराणाम्, प्रस्तुतटीकाकार-परमपूजनीयगणिप्रवरश्रीनगर्षिपादानां, संशोधक-सकलवाचकशिरोमणिमहोपाध्यायश्रीविमलहर्षगणिवराणां, प्रस्तुतप्रकाशनसंशोधक-सम्पादकानां च पूजनीयमुनिप्रवरश्रीधर्मप्रेमवजियानां कृतज्ञतया विदधामः संस्मृतिम्। प्रस्तुतसम्पादने परमपूजनीयमुनिप्रवरश्रीमित्रानन्दविजयपादैः (पाश्चात्यपर्याये सूरिवरैः) सम्पादिता दीपिकावृत्तिः, बहुश्रुतमुनिप्रवरश्रीजम्बूविजयपादैः सम्पादिता श्रीमदभयदेवसूरीयवृत्तिश्चोपयुक्ताः, अतस्तत्तत्पूज्यानामपि भावसारं संस्मृतिं विदधामः। - श्रीजिनशासनआराधनाट्रस्ट Page #9 -------------------------------------------------------------------------- ________________ स्थानाङ्गसूत्रस्य विषयानुक्रमः पृष्ठाङ्काः ४१५-५०२ ४१५-४४४ ४१५-४१८ ४१८-४२२ ४२२-४३१ ४३१-४३३ ४३३-४३६ ४३६-४४० ४४०-४४४ ४४४-४७३ सूत्राङ्काः विषयः ३८९-४७४ पञ्चममध्ययनं ‘पञ्चस्थानकम्' (त्रय उद्देशकाः) ३८९-४११ प्रथम उद्देशकः ३८९-३९१ पञ्च महाव्रतानि, अणुव्रतानि, वर्णादयः, सद्गति-दुर्गतिकारणानि ३९२-३९४ प्रतिमाः, स्थावरकायाः, तदधिपतयः, अवधिदर्शनक्षोभकारणानि ३९५-३९८ शरीराणि, जिनानाश्रित्य वस्तुतत्त्वस्य दुराख्येयत्वादि, प्रशस्ताप्रशस्तानि स्थानानि, महानिर्जराकारणानि, विसंभोगिकादिकारणानि ३९९-४०० गणविग्रहा-ऽविग्रहकारणानि, निषद्याः, आर्जवस्थानानि ४०१-४०५ ज्योतिष्काः, देवाः, परिचारणाः, चमर-बल्योरग्रमहिष्यः, इन्द्राणां सांग्रामिकाण्यनीकानि तदधिपतयश्च, देव-देवीस्थितिः ४०६-४०९ प्रतिघाताः, आजीवाः, राजचिह्नानि, परीषहसहनकारणानि ४१०-४११ हेतवोऽहेतवश्च, केवलिनः पञ्चानुत्तराः, तीर्थकृतां नक्षत्राणि ४१२-४४० द्वितीय उद्देशकः ४१२-४१५ नद्युत्तारे प्रथमप्रावृडादौ विहारकरणे च कारणानि अनुद्घातिकाः, श्रमणस्य राजान्तःपुरप्रवेशे कारणानि ४१६ पुरुषेण सहासंवासेऽपि स्रिया गर्भधारणे कारणानि, एवं पुरुषेण सह संवासेऽपि स्त्रिया गर्भधारणे कारणानि ४१७ निर्ग्रन्थ-निर्ग्रन्थीनामेकत्र स्थानादावपि कारणवशानिर्दोषत्वम् ४१८-४१९ आम्रवस्य संवरस्य च द्वाराणि, दण्डाः, क्रियाः, परिज्ञाः ४२०-४२३ पञ्चविधो व्यवहारः, पञ्च जागराः सुप्ताश्च, कर्मादान-वमनहेतवः ४२४-४२६ दत्तयः, उपघातः, विशोधिः, दुर्लभ-सुलभबोधित्वकारणानि ४२७-४३० प्रतिसंलीनाः, अप्रतिसंलीनाः, संवरासंवरौ, संयमासंयमौ ४३१-४३३ तृणवनस्पतिकायिकाः, आचारः, आचारप्रकल्पः, आरोपणाः ४३४ जम्बूद्वीपादौ विद्यमानाः पञ्च पञ्च पदार्थाः ४३५-४३६ ऋषभस्वाम्यादेः पञ्चधनुःशतोच्चत्वम्, सुप्तविबोधकारणानि ४३७-४३८ निर्ग्रन्थीग्रहणकारणानि, आचार्योपाध्याययोरतिशयाः ४३९-४४० आचार्योपाध्याययोर्गणापक्रमणकारणानि, ऋद्धिमन्तो मनुष्याः ४४१-४७४ तृतीय उद्देशकः ४४१-४४५ अस्तिकायाः, गतयः, इन्द्रियार्थाः, मुण्डाः, बादराः, निर्ग्रन्थाः ४४४-४४८ ४४८-४५० ४५१-४५२ ४५२-४५५ ४५५-४५८ ४५८-४६१ ४६१-४६३ ४६३-४६५ ४६५-४६७ ४६७-४६८ ४६८-४७१ ४७२-४७३ ४७३-५०२ ४७३-४८० Page #10 -------------------------------------------------------------------------- ________________ विषयानुक्रमः पृष्ठाङ्काः ४८१-४८५ ४८५-४८६ ४८६-४८८ ४८८-४८९ ४८९-४९५ ४९५-४९९ ४९९-५०१ ५०१-५०२ सूत्राङ्काः विषयः ४४६-४४९ वस्त्राणि, रजोहरणानि, निश्रास्थानानि, निधयः, शौचानि ४५०-४५१ छद्मस्थाज्ञेयाः केवलिज्ञेयाः पदार्थाः, महातिमहान्तः पदार्थाः ४५२-४५५ पुरुषजाताः, वनीपकाः आचेलक्यस्य पञ्चभिः कारणैः प्रशस्तत्वम् ४५६-४५८ उत्कलाः, समितयः, जीवाः, पञ्चगत्यागतिकाः, सर्वजीवाः ४५९-४६३ योनिस्थितिः-संवत्सर-निर्याणमार्ग-छेदना-ऽऽनन्तर्या-ऽनन्तकानि ४६४-४६६ ज्ञानानि ज्ञानावरणीयकर्माणि स्वाध्यायः प्रत्याख्यानं प्रतिक्रमणम् ४६७-४६९ सूत्रवाचन-शिक्षणकारणानि, विमानानि, शरीराणि, जम्बूद्वीपनद्यः ४७०-४७४ तीर्थकराः, सभाः, पञ्चताराणि नक्षत्राणि, कर्मचयादिकारणानि पञ्चप्रदेशिकस्कन्धादयः ४७५-५४० षष्ठमध्ययनं षट्स्थानकम्' ४७५ -४७७ गणधारणाधुपयोगीनि षट् स्थानानि ४७८-४७९ षट् छद्मस्थो न जानाति, जिनस्तु जानाति, जीवशक्त्यभावः ४८०-४८४ षड् जीवनिकायाः, तारकाकारग्रहाः, जीवानामनेकधा षड्विधत्वम् ४८५-४८९ षण्णामसुलभत्वम्, इन्द्रियार्थ-संवरादयः षट् षट् पदार्थाः ४९०-४९७ षड्विधा मनुष्यादयः ४९८-४९९ षड्विधा लोकस्थित्यादयः ५००-५०१ षड् आहारग्रहणाग्रहणहेतवः, उन्मादहेतवश्च ५०२-५०९ प्रमाद-प्रमादप्रतिलेखना-लेश्याः, इन्द्राग्रमहिष्यादि ५१०-५१३ अवग्रहेहापायधारणाः, बाह्याभ्यन्तरतपः, विवादः, प्राणाः ५१४-५१७ गोचरचर्या, महानिरय-विमानप्रस्तटादि । ५१८-५२१ अभिचन्द्रः, भरतचक्री, पार्थादितीर्थकृतां वक्तव्यता, संयमासंयमौ ५२२-५२४ जम्बूद्वीपादिसम्बद्धाः पदार्थाः, ऋतवः, अवमरात्रातिरात्रौ ५२५-५३० अर्थावग्रहाः, अवधिज्ञानानि, अवचनानि, कल्पप्रस्तारादि ५३१-५३५ भगवतो महावीरस्य वक्तव्यता, विमानादि, विरहमानम् ५३६-५३८ आयुर्बन्धः, भावाः, प्रतिक्रमणानि, षट्ताराणि ५३९-५४० नक्षत्राणि, कर्मचयादि, षट्प्रदेशिकस्कन्धादि ५४१-५९३ सप्तममध्ययनं 'सप्तस्थानकम्' ५४१-५४३ सप्त गणापक्रमणकारणानि, विभङ्गज्ञानानि, योनिसंग्रहाः ५४४-५४६ सप्त गणे संग्रहा-ऽसंग्रहस्थानानि, पिण्डैषणादयः, पृथिव्यादयः ५०३-५४४ ५०३-५०५ ५०५-५०६ ५०६-५०७ ५०७-५१० ५१०-५१३ ५१३-५१५ ५१५-५१६ ५१६-५२० ५२०-५२४ ५२४-५२७ ५२७-५२८ ५२८-५३० ५३०-५३७ ५३७-५४० ५४०-५४४ ५४४ ५४५-५९४ ५४५-५५२ ५५२-५५७ Page #11 -------------------------------------------------------------------------- ________________ विषयानुक्रमः विषयः पृष्ठाङ्काः ५५७-५५८ ५५८-५६० ५६०-५७० ५७०-५७१ सूत्राङ्काः ५४७-५५० बादरवायुकायिक-संस्थान-भयस्थान-छद्मस्थत्वकेवलित्वज्ञानोपायाः ५५१-५५२ सप्त मूलगोत्राणि, नयाश्च ५५३-५५४ विस्तरेण स्वरमण्डलम्, सप्तविधः कायक्लेशः ५५५ जम्बूद्वीपादिसम्बद्धा वर्ष-वर्षधर-नद्यः ५५६ जम्बूद्वीपे भरतक्षेत्रेऽतीतानागतवर्तमानकालीनकुलकरादि ५५७-५५९ दण्डनीति-चक्रवर्तिरत्न-दुःषमा-सुषमाज्ञानोपायाः ५६०-५६४ जीवाः, ब्रह्मदत्तवक्तव्यता, मल्लिजिनेन सह दीक्षाग्राहिणः ५६५-५६७ दर्शनानि, कर्मप्रकृतयः, छद्मस्थेन अज्ञेया जिनेन ज्ञेयाः पदार्थाः ५६८-५७० भगवतो महावीरस्योच्चत्वम्, विकथाः, आचार्योपाध्यायातिशया: ५७१-५७३ संयमासंयमौ, आरम्भादयः, धान्ययोन्यादिस्थितिः, ५७४-५७९ लोकपालाग्रमहिष्यः, देव-देवीस्थिति-लौकान्तिकसंख्यादि ५८०-५८३ नन्दीश्वरं यावद् द्वीप-समुद्राः, श्रेण्यः, इन्द्रानीकादि, कक्षाः ५८४-५८७ सप्त वचनविकल्पाः, विनयभेदाः, समुद्घाताः, निह्नवाः ५८८-५८९ साता-ऽसातानुभावाः, सप्ततारं नक्षत्रम्, पूर्वादिद्वाराणि नक्षत्राणि ५९०-५९३ कूटाः, जातिकुलकोटयः, कर्मचयादि, सप्तप्रदेशिकस्कन्धादि ५९४-६६० अष्टममध्ययनम् ‘अष्टस्थानकम्' ५९४-५९७ एकाकिविहारप्रतिमाधिकारिणः, योनिसंग्रहादयः,अनालोचना -ऽऽलोचनकारण-फलादि, ५९८-५९९ संवरा-ऽसंवर-स्पर्शाः ६००-६०३ लोकस्थितिः, गणिसम्पद्, निधिप्रतिष्ठानादि, समितयः ६०४-६०७ आलोचनाधिकारिणः, प्रायश्चित्तानि, मदस्थानानि, अक्रियावादिनः ६०८-६१० महानिमित्तानि, वचनविभक्तिः, छद्मस्थेनाज्ञेयाः जिनेन ज्ञेया भावाः ६११-६१४ अष्टविध आयुर्वेदः, इन्द्राद्यग्रमहिष्यः, महाग्रहाः, वनस्पतयः ६१५-६१८ संयमासंयमौ, सूक्ष्माः, भरतचक्रिवंशे सिद्धाः, प्रभुपार्श्वगणधराः ६१९-६२१ दर्शनानि, अद्धौपमिकाः, अर्हतोऽरिष्टनेमेर्युगान्तकृद्भुमिः ६२२-६२३ भगवता महावीरेण प्रव्राजिता राजानः, आहार: ६२४-६२५ अष्टौ कृष्णराजयः, तदन्तर्गता अष्टविधा लौकान्तिकदेवाः ५७१-५७४ ५७४-५७६ ५७६-५७७ ५७७-५७९ ५७९-५८० ५८०-५८१ ५८१-५८४ ५८४-५९१ ५९१-५९३ ५९३-५९४ ५९५-६३९ ५९५-६०४ ६०४-६०५ ६०५-६०७ ६०७-६११ ६११-६१४ ६१४-६१६ ६१६-६१७ ६१७-६१८ ६१८-६१९ ६१९-६२२ Page #12 -------------------------------------------------------------------------- ________________ विषयानुक्रमः सूत्राङ्काः पृष्ठाङ्काः ६२१-६२२ ६२२-६२३ ६२३-६२५ ६२५-६२९ ६२९-६३३ ६३३-६३४ ६३४-६३६ ६३६-६३७ ६३७-६३८ विषयः ६२६-६२८ धर्मास्तिकायादिमध्यप्रदेशाः, अर्हता महापद्मन प्रव्राजिष्यमाणा राजानः, कृष्णाग्रमहिष्यः ६२९-६३२ वीर्यप्रवादवस्तूनि, गतयः, द्वीप-समुद्रविष्कम्भः ६३३-६३६ काकणिरत्नम्, मागधयोजनमानम्, जम्बूवृक्षादिमानम् ६३७-६४२ जम्बूद्वीपादिस्थितपर्वतादिनाम-मानादि ६४३-६४५ कूट-दिक्कुमारीनामानि, कल्प-कल्पेन्द्र-विमानानि, प्रतिमाः ६४६-६४८ जीवाः, संयमः, पृथिव्यः, ईषत्प्राग्भारामान-नामानि ६४९-६५१ पराक्रमस्थानानि, विमानमानम्, अर्हदरिष्टनेमिवादिसम्पत् ६५२ केवलिसमुद्घातसमयाः ६५३-६५६ भगवतो महावीरस्य अनुत्तरौपपातिकशिष्याः, वानमन्तरदेवाः, तेषां चैत्यवृक्षाः, सूर्यविमानस्थानम्, प्रमर्दयोगीनि नक्षत्राणि ६५७-६६० द्वीप-समुद्रद्वारमानम्, कर्मबन्धस्थितिः, जातिकुलकोट्यः, कर्मचयादि, अष्टप्रदेशिककर्मबन्धादि ६६१-७०३ नवममध्ययनं 'नवस्थानकम्' ६६१-६६२ विसंभोगिककारणानि, आचाराङ्गप्रथमश्रुतस्कन्धाध्ययनानि ६६३-६६४ ब्रह्मचर्यस्य गुप्तयः, अगुप्तयः, अभिनन्दन-सुमत्योरन्तरम् ६६५-६६८ नव पदार्थाः, जीवाः, जीवावगाहनादि, रोगोत्पत्तिकारणानि, दर्शनावरणीयकर्मभेदाः ६६९-६७२ अभिजिदादिनक्षत्रविचारः, तारास्थानम्, ____ मत्स्याः , बलदेव-वासुदेवपित्रादिवक्तव्यता ६७३-६७५ महानिधिविष्कम्भादि, विकृतयः, शरीरे स्रोतांसि ६७६-६७९ नव पुण्यानि, पापायतनानि, पापश्रुतप्रसङ्गाः , नैपुणिकवस्तूनि ६८०-६८१ भगवतो महावीरस्य नव गणाः, नवकोटिपरिशुद्धा भिक्षा ६८२-६८६ अग्रमहिष्यादि, देवनिकायादि, विमानप्रस्तटादि, आयुष्परिणामः ६८७-६८९ प्रतिमा, प्रायश्चित्तानि, जम्बूद्वीपे कूटानि ६९०-६९१ अर्हतः पार्श्वनाथस्योच्चत्वम्, भगवन्महावीरतीर्थे तीर्थकरनामकर्मार्जका: ६९२ आगामिन्यामुत्सर्पिण्यां मोक्षगामिनो नव जीवाः ६९३-६९४ श्रेणिकनृपस्य आगामितीर्थकरभववर्णनम्, नक्षत्राणि ६९५-६९८ विमान-विमलवाहनोच्चत्वम्, ऋषभदेवकृतं तीर्थप्रवर्तनम्, द्वीपायामविष्कम्भौ ६३८-६३९ ६४०-६८० ६४०-६४१ ६४१-६४३ ६४३-६४६ ६४६-६४८ ६४८-६५२ ६५२-६५४ ६५४ ६५५-६५६ ६५६-६६० ६६०-६६२ ६६२-६६४ ६६४-६७७ ६७७-६७८ Page #13 -------------------------------------------------------------------------- ________________ १० विषयानुक्रमः पृष्ठाङ्काः ६७८-६७९ ६७९-६८० ६८१-७६२ ६८१-६८४ ६८४-६८६ सूत्राङ्काः विषयः ६९९-७०० शुक्रस्य वीथयः, नोकषायकर्म ७०१-७०३ जातिकुलकोट्यः, कर्मचयादि, नवप्रदेशिकस्कन्धादि ७०४-७८३ दशममध्ययनं ‘दशस्थानकम्' ७०४-७०७ लोकस्थितिः, शब्दाः, इन्द्रियार्थाः, पुद्गलचलनकारणानि ७०८-७१० क्रोधोत्पत्तिकारणानि, संयमासंयमौ, अहमन्तित्वकारणानि ७११-७१३ समाधि-असमाधि-प्रव्रज्या-श्रमणधर्म-वैयावृत्यानां दशविधत्वम्, जीवाजीवपरिणामाः ७१४-७१६ अस्वाध्यायिकानि, संयमासंयमौ, सूक्ष्माः । ७१७-७२७ जम्बूद्वीपादिस्थाः पदार्थाः, द्रव्यानुयोगः, उत्पातपर्वताः ७२८-७३० शरीरावगाहना, सम्भवाभिनन्दनार्हतोरन्तरम्, अनन्तकानि ७३१-७३२ उत्पादपूर्ववस्तूनि, प्रतिषेवणा, आलोचनाया दोषा अधिकारिणश्च ७३३-७३५ प्रायश्चित्तानि, मिथ्यात्वानि, चन्द्रप्रभजिनादीनामायुरुच्चत्वं च ७३६-७३९ भवनवासिनः, सुखानि, उपघात-विशुद्धयः, संक्लेशासंक्लेशाः ७४०-७४३ बलम्, सत्यम्, मृषा, सत्यामृषा, दृष्टिवादनामानि, शस्त्राणि ७४४-७४७ दान-विशेष-शुद्धवागनुयोग-दान-गति-मुण्ड-संख्यानानि ७४८-७४९ दशधा प्रत्याख्यानानि, सामाचारी ७५० भगवतो महावीरस्य छद्मस्थान्तिमरात्रौ स्वप्नाः ७५१-७५४ सम्यग्दर्शनानि, संज्ञाः, वेदनाः, छद्मस्थाज्ञेयाः जिनज्ञेयाः पदार्थाः ७५५ कर्मविपाक-उपासकदशादयो दश दशा ७५६-७५८ कालः, नैरयिकावास-स्थित्यादि, आगमिष्यद्भद्रताकारणानि ७५९-७६३ आशंसाप्रयोगाः, ग्रामधर्मादयो धर्माः, स्थविराः, पुत्राः, केवलिनोऽनुत्तराणि ७६४-७६८ कुरावर्णनम्, दुःषमा-सुषमाज्ञानोपायः, दश कल्पवृक्षाः, अतीतानागतोत्सर्पिणीकुलकराः, वक्षस्काराः ७६९-७७१ इन्द्राधिष्ठितकल्पाः, इन्द्राः, पारियानिकानि, प्रतिमादिवसाः, जीवाः ७७२-७७५ बाल्यादयो दशाः, वनस्पतयः, श्रेणिविष्कम्भः, विमानोच्चत्वम् । ७७६-७७८ भस्मसाद्भवने कारणानि, आश्चर्याणि, पृथ्वीकाण्डबाहल्यम् ७७९-७८१ द्वीपसमुद्रायुद्वेधः, मण्डलचारः, ज्ञानवृद्धिकराणि नक्षत्राणि ७८२-७८३ जातिकुलकोट्यः, कर्मचयादि, दशप्रदेशिकस्कन्धादि ६८६-६९० ६९०-६९३ ६९३-७०२ ७०२-७०३ ७०३-७०६ ७०६-७०८ ७०८-७११ ७११-७१५ ७१५-७२३ ७२३-७२६ ७२६-७३० ७३०-७३३ ७३३-७४३ ७४३-७४५ ७४५-७४८ ७४८-७५० ७५०-७५१ ७५२-७५४ ७५४-७५८ ७५८-७६० ७६०-७६२ Page #14 -------------------------------------------------------------------------- ________________ ४१५ अथ पञ्चममध्ययनं पञ्चस्थानकम् । [प्रथम उद्देशकः ।] [सू० ३८९] पंच महव्वता पन्नत्ता, तंजहा-सव्वातो पाणातिवातातो वेरमणं जाव सव्वातो परिग्गहातो वेरमणं । पंचाणुव्वता पन्नत्ता, तंजहाथूलातो पाणातिवातातो वेरमणं, थूलातो मुसावायातो वेरमणं, थूलातो अदिनादाणातो वेरमणं, सदारसंतोसे, इच्छापरिमाणे । [टी०] व्याख्यातं चतुर्थमध्ययनम्, साम्प्रतं सङ्ख्याक्रमसम्बद्धमेव पञ्चस्थानकाख्यं पञ्चममध्ययनं व्याख्यायते, अस्य चायं विशेषाभिसम्बन्ध:-इहानन्तराध्ययने जीवाजीवतद्धख्यिा : पदार्थाश्चतु:स्थानकावतारणेनाभिहिता:, इह तु त एव पञ्चस्थानकावतारणेनाभिधीयन्ते इत्यनेनाभिसम्बन्धेनायातस्यास्योद्देशकत्रयवतश्चतुरनुयोगद्वारवतोऽध्ययनस्य प्रथमोद्देशको व्याख्यायते, अस्य च पूर्वोद्देशकेन सह सम्बन्धोऽधिकृताध्ययनवद् द्रष्टव्यः, तस्य चेदमादिसूत्रम्- पंच महव्वयेत्यादि । ___ अस्य च पूर्वसूत्रेण सहायं सम्बन्ध:- पूर्वसूत्रे अजीवानां परिणामविशेष उक्तः, इह तु स एव जीवानामुच्यत इत्येवंसम्बन्धस्यास्य व्याख्या संहितादिक्रमेण, स च क्षुण्ण एव, नवरं पञ्चेति सङ्ख्यान्तरव्यवच्छेदः, तेन न चत्वारि, प्रथम-पश्चिमतीर्थयो: पञ्चानामेव भावात्, महान्ति बृहन्ति तानि च तानि व्रतानि च नियमा महाव्रतानि, प्रज्ञप्तानि तथाविधशिष्यापेक्षया प्ररूपितानि महावीरेणाऽऽद्यतीर्थकरेण च न शेषैरिति, एतत् किल सुधर्मस्वामी जम्बूस्वामिनं प्रति प्रतिपादयामास । तद्यथा- सर्वस्मात् निरवशेषात् त्रस-स्थावर-सूक्ष्म-बादरभेदभिन्नात् कृत-कारिताऽनुमतिभेदाच्चेत्यर्थः । प्राणानाम् इन्द्रियोच्छ्वासायुरादीनामतिपात: प्राणिनः सकाशाद्विभ्रंश: प्राणातिपात:, प्राणिप्राणवियोजनमित्यर्थः, तस्माद् विरमणं सम्यग्ज्ञान-श्रद्धानपूर्वकं निवर्त्तनमिति । तथा सर्वस्मात् सद्भावप्रतिषेधा १-ऽसद्भावोद्भावन २-अर्थान्तरोक्ति ३-गर्हा४भेदात् कृतादिभेदाच्च, मृषा अलीकं वदनं वादो मृषावादः, तस्माद् विरमणं विरतिरिति। तथा सर्वस्मात् कृतादिभेदात् अथवा द्रव्यत: सचेतना-ऽचेतनद्रव्यविषयात् क्षेत्रतो ग्राम-नगरा-ऽरण्यादिसम्भवात् कालतोऽतीतादे रात्र्यादिप्रभवाद्वा भावतो राग-द्वेष Page #15 -------------------------------------------------------------------------- ________________ ४१६ मोहसमुत्थात् अदत्तं स्वामिना अवितीर्णं तस्याऽऽदानं ग्रहणमदत्तादानम्, तस्माद् विरमणमिति । तथा सर्वस्मात् कृत-कारिता-ऽनुमतिभेदात् अथवा द्रव्यतो दिव्यमानुष-तैरश्चभेदात् रूप-रूपसहगतभेदाद्वा, तत्र रूपाणि निर्जीवानि प्रतिमारूपाण्युच्यन्ते रूपसहगतानि तु सजीवानि, भूषणविकलानि वा रूपाणि भूषणसहितानि रूपसहगतानीति, क्षेत्रतस्त्रिलोकसम्भवात् कालतोऽतीतादे रात्र्यादिसमुत्थाद्वा भावतो राग-द्वेषप्रभवात्, मिथुनं स्त्रीपुंसद्वन्द्वम्, तस्य कर्म मैथुनम्, तस्माद् विरमणमिति । तथा सर्वस्मात् कृतादेरथवा द्रव्यत: सर्वद्रव्यविषयात् क्षेत्रतो लोकसम्भवात् कालतोऽतीतादे रात्र्यादिभवाद्वा भावतो राग-द्वेषविषयात्, परिगृह्यते आदीयते परिग्रहणं वा परिग्रहः, तस्माद् विरमणमिति । व्रतप्रस्तावात् पञ्चाणुव्वएत्ति, सुगमं चेदम्, किन्तु अणूनि लघूनि व्रतानि अणुव्रतानि, लघुत्वं च महाव्रतापेक्षया अल्पविषयत्वादिनेति प्रतीतमेवेति, उक्तं च सव्वगयं सम्मत्तं सुए चरित्ते ण पज्जवा सव्वे । देसविरइं पडुच्चा दोण्ह वि पडिसेहणं कुज्जा ॥ [विशेषाव० २७५१] इति । तान्यनुव्रतानि स्थूला द्वीन्द्रियादयः सत्त्वाः, स्थूलत्वं चैषां सकललौकिकानां जीवत्वप्रसिद्धेः, स्थूलविषयत्वात् स्थूलः, तस्मात् प्राणातिपातात् । तथा स्थूल: परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवः, तस्मात् मृषावादात्, तथा परिस्थूरवस्तुविषयं चौर्यारोपणहेतुत्वेन प्रसिद्धमतिदृष्टाध्यवसायपूर्वकं स्थूलम्, तस्माददत्तादानात्, तथा स्वदारसन्तोष आत्मीयकलत्रादन्यत्रेच्छानिवृत्तिरिति, उपलक्षणात् परदारवर्जनमपि ग्राह्यम्, तथा इच्छायाः धनादिविषयस्याभिलाषस्य परिमाणं नियमनमिच्छापरिमाणं देशतः परिग्रहविरतिरित्यर्थः । __ [सू० ३९०] पंच वण्णा पन्नत्ता, तंजहा-किण्हा, नीला, लोहिता, हालिद्दा, सुक्किला १॥ पंच रसा पन्नत्ता, तंजहा-तित्ता जाव मधुरा २ । पंच कामगुणा पन्नत्ता, तंजहा-सद्दा, रूवा, गंधा, रसा, फासा ३ । पंचहिं ठाणेहिं जीवा सजंति, तंजहा-सद्देहिं जाव फासेहिं ४, एवं रजंति Page #16 -------------------------------------------------------------------------- ________________ ४१७ पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । ५, मुच्छंति ६, गिज्झंति ७, अज्झोववजंति ८ । ___पंचहिं ठाणेहिं जीवा विणिघायमावजंति, तंजहा-सद्देहिं जाव फासेहिं पंच ठाणा अपरिण्णाता जीवाणं अहिताते असुभाते अखमाते अणिस्सेसाते अणाणुगामितत्ताते भवंति, तंजहा-सद्दा जाव फासा १० । पंच ठाणा सुपरिन्नाता जीवाणं हिताते सुभाते जाव आणुगामितत्ताए भवंति, तंजहा-सद्दा जाव फासा ११ । पंच ठाणा अपरिण्णाता जीवाणं दुग्गतिगमणाए भवंति, तंजहा-सद्दा जाव फासा १२ । पंच ठाणा सुपरिन्नाता जीवाणं सुगतिगमणाए भवंति, तंजहा-सदा जाव फासा १३ । [सू० ३९१] पंचहिं ठाणेहिं जीवा दोग्गतिं गच्छंति, तंजहा-पाणातिवातेणं जाव परिग्गहेणं । पंचहिं ठाणेहिं जीवा सोग्गतिं गच्छंति, तंजहा-पाणातिवातवेरमणेणं जाव परिग्गहवेरमणेणं । [टी०] इच्छापरिमाणं चेन्द्रियार्थगोचरं श्रेय इतीन्द्रियार्थवक्तव्यतार्थं पंच वन्नेत्यादित्रयोदशसूत्रीमाह, पंचवन्नेत्यादि प्रकटार्था, नवरं पञ्च वर्णाः १, पञ्चैव रसाः, तदन्येषां सांयोगिकत्वेनाविवक्षितत्वादिति २, कामगुण त्ति कामस्य मदनस्य अभिलाषमात्रस्य वा सम्पादका गुणा धाः पुद्गलानाम्, काम्यन्त इति कामाः ते च ते गुणाश्चेति वा कामगुणा इति ३, पंचहिं ठाणेहिं ति पञ्चसु पञ्चभिर्वा स्थानेषु रागाद्याश्रयेषु तैर्वा सह सज्यन्ते सङ्ग सम्बन्धं कुर्वन्तीति ४, एवमिति पञ्चस्वेव स्थानेषु रज्यन्ते सङ्गकारणं रागं यान्तीति ५, मूर्च्छन्ति तद्दोषानवलोकनेन मोहमचेतनत्वमिव यान्ति संरक्षणानुबन्धवन्तो वा भवन्तीति ६, गृध्यन्ति प्राप्तस्यासन्तोषेणाप्राप्तस्यापरापरस्याकाङ्क्षावन्तो भवन्तीति ७, अध्युपपद्यन्ते तदेकचित्ता भवन्ति तदर्जनाय वाऽऽधिक्येनोपपद्यन्ते उपपन्ना घटमाना भवन्तीति ८, विनिघातं मरणं मृगादिवत् संसारं Page #17 -------------------------------------------------------------------------- ________________ ४१८ वाऽऽपद्यन्ते प्राप्नुवन्तीति, आह च सक्तः शब्दे हरिणः स्पर्श नागो रसे च वारिचरः । कृपणपतङ्गो रूपे भुजगो गन्धे ननु विनष्टः ॥ पञ्चसु रक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः । एकः पञ्चसु सक्तः प्रयाति भस्मान्ततां मूढः ॥ [ ] इति । अपरिन्नाय त्ति ज्ञपरिज्ञया स्वरूपतोऽपरिज्ञातानि अनवगतानि प्रत्याख्यानपरिज्ञया वाऽप्रत्याख्यातानि अहिताय अपायाय, अशुभाय अपुण्यबन्धाय असुखाय वा, अक्षमाय अनुचितत्वाय असमर्थत्वाय वा, अनिःश्रेयसाय अकल्याणायाऽमोक्षाय वा, यदुपकारि सत् कालान्तरमनुयाति तदनुगामिकं तत्प्रतिषेधोऽननुगामिकं तद्भावस्तत्त्वं तस्मै अननुगामिकत्वाय भवन्ति १०, द्वितीयं विपर्ययसूत्रम् ११, उत्तरसूत्रद्वयेन तु एतदेवाऽहित-हितादि व्यञ्जितमिति, दुर्गतिगमनाय नारकादिभवप्राप्तये सुगतिगमनाय सिद्ध्यादिप्राप्तये इति १२-१३ । दुर्गति-सुगत्योः कारणान्तरप्रतिपादनसूत्रे सुगमे इति। [सू० ३९२] पंच पडिमातो पन्नत्ताओ, तंजहा-भद्दा, सुभद्दा, महाभद्दा, सव्वतोभद्दा, भदुत्तरपडिमा ।। [टी०] इह संवर-तपसी मोक्षहेतू, तत्रानन्तरमाश्रवनिरोधलक्षणः संवर उक्तोऽधुना तपोभेदात्मिकाः प्रतिमा आह-पंचेत्यादि व्यक्तम्, नवरं भद्रा १ महाभद्रा २ सर्वतोभद्रा ३ द्वि १ चतु २ दशभि ३ दिनैः क्रमेण भवन्तीत्युक्तं प्राग्, सुभद्रा त्वदृष्टत्वान्न लिखिता, सर्वतोभद्रा तु प्रकारान्तरेणाप्युच्यते, द्विधेयं क्षुद्रिका महती च, तत्राद्या चतुर्थादिना द्वादशावसानेन पञ्चसप्ततिदिनप्रमाणेन तपसा भवति, अस्याश्च स्थापनोपायगाथा एगाई पंचंते ठविउं मज्झं तु आइमणुपंतिं । उचियकमेण य सेसे जाण लहुं सव्वओभदं ॥ [ ] ति पारणकदिनानि तु पञ्चविंशतिरिति, स्थापना | १ २ ३ ४ ५ । ३ ४ ५ १ २ । । ५१ २ ३ ४ । २ ३ ४ ५१ । ४ ५ १२३ । महती तु चतुर्थादिना षोडशावसानेन षण्णवत्यधिकदिनशतमानेन भवति, अस्या अपि स्थापनोपायगाथा Page #18 -------------------------------------------------------------------------- ________________ पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । ४१९ एगाई सत्तंते ठविउं मज्झं च आदिमणुपंतिं । उचियकमेण य सेसे जाण महं सव्वओभदं ॥ [ ] ति, पारणकदिनान्येकोनपञ्चाशदिति १। स्थापना | १ २ ३ ४ ५ ६ ७ । ४ ५ ६ ७ १ २ ३। | ७१ २ ३ ४ ५ ६ । ३ ४ ५ ६ ७ १२। ६७१२ ३ ४ ५ । २ ३ ४ ५ ६ ७१। ५६७१२ ३ ४ । भद्रोत्तरप्रतिमा द्विधा क्षुल्लिका महती च, तत्र आद्या द्वादशादिना विंशान्तेन पञ्चसप्तत्यधिकदिनशतप्रमाणेन तपसा भवति, अस्याः स्थापनोपायगाथापंचाई य नवंते ठविउं ममं तु आदिमणुपंतिं । उचियकमेण य सेसे जाणह भद्दोत्तरं खु९ ॥ [ पारणकदिनानि पञ्चविंशतिरिति २, स्थापना |५ ९५ ६ ७८ ६ ७ ८ ९५ ८९५६७ महती तु द्वादशादिना चतुर्विंशतितमान्तेन द्विनवत्यधिकदिनशतत्रयमानेन तपसा भवति, तत्र च गाथा पंचादिगारसंते ठविउं मज्झं तु आइमणुपंतिं ।। उचियकमेण य सेसे महई भद्दोत्तरं जाण ॥ [ ] इति, पारणकदिनान्येकोनपञ्चाशदिति ३ । स्थापना | ५ ६ ७ ८ ९ १० ११ ८ ९ १० ११ ५ ६ ७ ११ ५ ६ ७ ८ ९ १० ७ ८ ९ १० ११ ५ ६ १० ११ ५ ६ ७ ८ ९ ९ १० ११ ५ ६ ७ ८ [सू० ३९३] पंच थावरकाया पन्नत्ता, तंजहा-इंदे थावरकाए, बंभे थावरकाए, सिप्पे थावरकाए, सम्मुती थावरकाए, पाजावच्चे थावरकाए । Page #19 -------------------------------------------------------------------------- ________________ ४२० पंच थावरकायाधिपती पन्नत्ता, तंजहा-इंदे थावरकाताधिपती जाव पातावच्चे थावरकाताधिपती । [टी०] उक्तः कर्मणां निर्जरणहेतुस्तपोविशेषः, अधुना तेषामेवानुपादानहेतोः संयमस्य विषयभूतानेकेन्द्रियजीवानाह- पंचेत्यादि, स्थावरनामकर्मोदयात् स्थावराः पृथिव्यादयः, तेषां काया राशयः, स्थावरो वा कायः शरीरं येषां ते स्थावरकायाः, इन्द्रसम्बन्धित्वादिन्द्रः स्थावरकायः पृथिवीकायः, एवं ब्रह्म-शिल्प-सम्मतिप्राजापत्या अपि अप्कायादित्वेन वाच्या इति । एतन्नायकानाह- पंचेत्यादि, स्थावरकायानां पृथिव्यादीनामिति सम्भाव्यते अधिपतयो नायका दिशामिवेन्द्राऽग्न्यादयो नक्षत्राणामिवाऽश्वि-यम-दहनादयो दक्षिणेतरलोकार्द्धयोरिव शक्रेशानाविति स्थावरकायाधिपतय इति । - [सू० ३९४] पंचहिं ठाणेहिं ओहिदंसणे समुप्पजिउकामे वि तप्पढमताते खभातेजा, तंजहा-अप्पभूतं वा पुढविं पासित्ता तप्पढमताते खभातेजा, कुंथुरासिभूतं वा पुढविं पासित्ता तप्पढमताते खभातेजा, महतिमहालतं वा महोरगसरीरं पासित्ता तप्पढमताते खभातेजा, देवं वा महिड्डियं जाव महेसक्खं पासित्ता तप्पढमताते खभातेजा, पुरेसु वा पोराणाई महतिमहालयाई महानिहाणाइं पहीणसामिताइं पहीणसेतुकाई पहीणगोत्तागाराई उच्छन्नसामियाई उच्छन्नसेउयाइं उच्छन्नगोत्तागाराइं जाइं इमाइं गामा-ऽऽगर-णगर-खेड-कब्बडमडंब-दोणमुह-पट्टणा-ऽऽसम-संवाह-सन्निवेसेसु सिंघाडग-तिग-चउक्कचच्चर-चउमुह-महापह-पहेसु णगरणिद्धमणेसु सुसाण-सुन्नागार-गिरि-कंदरसंति-सेलोवट्ठाण-भवणगिहेसु संनिक्खित्ताई चिटुंति ताई वा पासित्ता तप्पढमताते खभातेजा । इच्चेतेहिं पंचहिं ठाणेहिं ओहिदंसणे समुप्पजिउकामे तप्पढमताते खभातेजा । पंचहिं ठाणेहिं केवलवरनाणदंसणे समुप्पजिउकामे तप्पढमताते नो खभातेजा, तंजहा-अप्पभूतं वा पुढविं पासित्ता तप्पढमताते णो खभातेजा, सेसं तहेव जाव भवणगिहेसु संनिक्खित्ताई चिटुंति ताई वा पासित्ता Page #20 -------------------------------------------------------------------------- ________________ ४२१ पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । तप्पढमताते णो खभातेजा । इच्चेतेहिं पंचहिं ठाणेहिं जाव नो खभातेजा। [टी०] एते चावधिमन्त इत्यवधिस्वरूपमाह-पंचहीत्यादि व्यक्तम्, नवरम् अवधिना दर्शनम् अवलोकनमर्थानामुत्पत्तुकामं भवितुकामं तत्प्रथमतायाम् अवधिदर्शनोत्पादप्रथमसमये खभाएज्ज त्ति स्कभ्नीयात् क्षुभ्येत्, चलतीत्यर्थः, अवधिदर्शने वा समुत्पत्तुकामे सति, अवधिमानिति गम्यते, क्षुभ्येद् अल्पभूतां स्तोकसत्त्वां पृथिवीं दृष्ट्वा, वाशब्दो विकल्पार्थः, अनेकसत्त्वव्याकुला भूरिति सम्भावनावान् अकस्मादल्पसत्त्वभूदर्शनात् ‘आः ! किमेतदेवम्' इत्येवं क्षुभ्येदेव अक्षीणमोहनीयत्वादिति भावः १, तथाऽत्यन्तप्रचुरत्वात् कुन्थूनां कुन्थुराशिभूतां कुन्थुराशित्वप्राप्तां पृथिवीं दृष्ट्वा अत्यन्तविस्मय-दयाभ्यामिति २, तथा महतिमहालयं ति महातिमहत् महोरगशरीरं महाऽहितनुं बाह्यद्वीपवर्ति योजनसहस्रप्रमाणं दृष्ट्वा विस्मयाद् भयाद्वा ३, तथा देवं महर्द्धिकं महाद्युतिकं महानुभागं महाबलं महासौख्यं दृष्ट्वा विस्मयादिति ४, तथा पुरेषु व त्ति नगरायेकदेशभूतानि, 'प्राकारावृतानि पुराणी'ति प्रसिद्धम्, तेषु पुराणानि चिरन्तनानि, ओरालाई क्वचित् पाठः तत्र मनोहराणीत्यर्थः, महइमहालयाई ति विस्तीर्णत्वेन महानिधानानीति महामूल्यरत्नादिमत्त्वेन, प्रहीणाः स्वामिनो येषां तानि तथा, तथा प्रहीणाः सेक्तारः सेचकास्तेष्वेवोपर्युपरि धनप्रक्षेपकाः पुत्रादयो येषां तानि तथा, अथवा प्रहीणाः सेतवः तदभिज्ञानभूताः पालयस्तन्मार्गा वाऽतिचिरन्तनतया प्रतिजागरकाभावेन च येषां तानि प्रहीणसेतुकानि, किं बहुना ?, निधायकानां यानि गोत्रागाराणि कुलगृहाणि तान्यपि प्रहीणानि येषाम् । अथवा तेषामेव गोत्राणि नामान्याकाराश्च आकृतयस्ते प्रहीणा येषां तानि [प्रहीणगोत्रागाराणि प्रहीणगोत्राकाराणि वा,] एवमुच्छन्नस्वामिकादीन्यपि, नवरमिह प्रहीणाः किञ्चित्सत्तावन्तः उच्छन्ना निर्नष्टसत्ताकाः, यानीमानि अनन्तरोक्तविशेषणानि, तथा ग्रामादिषु यानि, तत्र करादिगम्यो ग्रामः, आगत्य कुर्वन्ति यत्र स आकरो लोहाद्युत्पत्तिभूमिरिति, नास्मिन् करोऽस्तीति नकरम्, धूलीप्राकारोपेतं खेटम्, कुनगरं कर्बटम्, सर्वतोऽर्द्धयोजनात् परेण स्थितग्राम मडम्बम्, यस्य जल-स्थलपथावुभावपि तद् द्रोणमुखम्, यत्र जलपथ-स्थलपथयोरन्यतरेण पर्याहारप्रवेशस्तत् पत्तनम्, Page #21 -------------------------------------------------------------------------- ________________ ४२२ तीर्थस्थानमाश्रमः, यत्र पर्वतनितम्बादिदुर्गे परचक्रभयेन रक्षार्थं धान्यादीनि वहन्ति स संवाहः, यत्र प्रभूतानां भाण्डानां प्रवेशः स संनिवेशः, तथा शृङ्गाटकं त्रिकोणं रथ्यान्तरं स्थापना 7, त्रिकं यत्र रथ्यानां त्रयं मिलति _। , चतुष्कं यत्र रथ्याचतुष्टयम् +, चत्वरं रथ्याष्टकमध्यम् =II, चतुर्मुखं देवकुलादि, महापथो राजमार्गः, पथो रथ्यामात्रम्, एवंभूतेषु वा स्थानेषु, नगरनिर्द्धमनेषु तत्क्षालेषु, तथा अगारशब्दसम्बन्धात् स्मशानागारं पितृवनगृहम्, शून्यागारं प्रतीतम्, तथा गृहशब्दसम्बन्धात् गिरिगृहं पर्वतोपरि गृहम्, कन्दरगृहं गिरिगुहा गिरिकन्दरं वा, शान्तिगृहं यत्र राज्ञां शान्तिकर्म होमादि क्रियते, शैलगृहं पर्वतमुत्कीर्य यत् कृतम्, उपस्थानगृहम् आस्थानमण्डपोऽथवा शैलोपस्थानगृहं पाषाणमण्डपः, भवनगृहं यत्र कुटुम्बिनो वास्तव्या भवन्तीति, तेषु सन्निक्षिप्तानि न्यस्तानि दृष्ट्वा क्षुभ्येद् अदृष्टपूर्वतया विस्मयाल्लोभावति, इच्चेएहीत्यादि निगमनमिति । केवलज्ञानदर्शनं तु न स्कभ्नीयात् केवली वा, याथात्म्येन वस्तुदर्शनात् क्षीणमोहनीयत्वेन भय-विस्मय-लोभाद्यभावेन अतिगम्भीरत्वाच्चेति, अत आहपंचहीत्यादि सुगममिति। सू० ३९५] णेरइयाणं सरीरगा पंचवण्णा पंचरसा पन्नत्ता, तंजहा-किण्हा जाव सुक्किला, तित्ता जाव मधुरा । एवं निरंतरं जाव वेमाणियाणं । पंच सरीरगा पन्नत्ता, तंजहा-ओरालिते, वेउव्विते, आहारते, तेयते, कम्मते। ओरालितसरीरे पंचवन्ने पंचरसे पन्नत्ते, तंजहा-किण्हे जाव सुक्किले, तित्ते जाव महुरे, एवं जाव कम्मगसरीरे । सव्वे वि णं बादरबोंदिधरा कलेवरा पंचवण्णा, पंचरसा, दुगंधा, अट्ठफासा। [टी०] तथा नारकादिशरीराणि बीभत्सान्युदाराणि च दृष्ट्वाऽपि न केवलदर्शनं स्कभ्नातीति शरीरप्ररूपणाय नेरइयाणमित्यादिसूत्रप्रपञ्चः, गतार्थश्चायम्, नवरं पञ्चवर्णत्वं नारकादिवैमानिकान्तानां शरीरिणां शरीराणां निश्चयनयात्, व्यवहारतस्तु एकवर्णप्राचुर्यात् कृष्णादिप्रतिनियतवर्णतैवेति । जाव सुक्किल त्ति किण्हा नीला लोहित हालिद्दा सुकिला य, जाव महुर त्ति तित्ता कडुया कसाया अंबिला महुरा य, जाव वेमाणियाणं Page #22 -------------------------------------------------------------------------- ________________ पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । ४२३ ति चतुर्विंशतिदण्डकसूचा । सरीर त्ति उत्पत्तिसमयादारभ्य प्रतिक्षणमेव शीर्यत इति शरीरम्, ओरालिय त्ति उदारं प्रधानम्, उदारमेवौदारिकम्, प्रधानता चास्य तीर्थकरादिशरीरापेक्षया, न हि ततोऽन्यत् प्रधानतरमस्ति, प्राकृतत्वेन च ओरालियं ति, अथवा उरालं नाम विस्तरालं विशालं सातिरेकयोजनसहस्रप्रमाणत्वादस्य अन्यस्य चावस्थितस्यैवमसम्भवात्, उक्तं च जोयणसहस्समहियं ओहे एगिदिए तरुगणेसु ।। मच्छजुयले सहस्सं उरगेसु य गब्भजाएसु ॥ [बृहत्सं० ३०७] इति वैक्रियस्य लक्षप्रमाणत्वेऽप्यनवस्थितत्वात्, तदेव औदारिकं । वेउब्विय त्ति विविधा विशिष्टा वा क्रिया विक्रिया, तस्यां भवं वैक्रियम् । आहारए त्ति तथाविधकार्योत्पत्तौ चतुर्दशपूर्वविदा योगबलेनाऽऽह्रियत इत्याहारकम्, उक्त चकजम्मि समुप्पन्ने सुयकेवलिणा विसिट्ठलद्धीए । जं एत्थं आहरिजइ भणंति आहारगं तं तु ॥ [ ] कार्याणि चामूनिपाणिदयरिद्धिसंदरिसणत्थमत्थोवगहणहेउं वा । संसयवोच्छेयत्थं गमणं जिणपायमूलम्मि ॥ [ कार्यसमाप्तौ पुनर्मुच्यते याचितोपकरणवदिति । तेयए त्ति तेजसो भावस्तैजसम्, उष्मादिलिङ्गसिद्धम्, उक्तं च सव्वस्स उम्हसिद्धं रसादिआहारपागजणगं च । तेयगलद्धिनिमित्तं च तेयगं होइ नायव्वं ॥ [ ] ति कम्मए त्ति कर्मणो विकार: कार्मणम्, सकलशरीरकारणमिति, उक्तं चकम्मविगारो कम्मणमट्ठविहविचित्तकम्मनिप्फन्नं । सव्वेसिं सरीराणं कारणभूयं मुणेयव्वं ॥ [ ] ति । औदारिकादिक्रमश्च यथोत्तरं सूक्ष्मत्वात् प्रदेशबाहुल्याच्चेति । तथा सर्वाण्यपि बादरबोन्दिधराणि पर्याप्तकत्वेन स्थूराकारधारीणि कलेवराणि शरीराणि मनुष्यादीनां पञ्चादिवर्णादीन्यवयवभेदेनेति, अक्षिगोलकादिषु तथैवोपलब्धेः । दोगंध त्ति सुरभिदुरभिभेदात्, अट्ठफास त्ति कठिन-मृदु-शीतोष्ण-गुरु-लघु-स्निग्ध-रूक्षभेदादिति, Page #23 -------------------------------------------------------------------------- ________________ ४२४ अबादरबोन्दिधराणि तु न नियतवर्णादिव्यपदेश्यानि, अपर्याप्तत्वेनावयवविभागाभावादिति । - [सू० ३९६] पंचहिं ठाणेहिं पुरिम-पच्छिमगाणं जिणाणं दुग्गमं भवति, तंजहा-दुआइक्खं, दुविभजं, दुपस्सं, दुतितिक्खं, दुरणुचरं । पंचहिं ठाणेहिं मज्झिमगाणं जिणाणं सुगमं भवति, तंजहा-सुआतिक्खं, सुविभजं, सुपस्सं, सुतितिक्खं, सुरणुचरं । __पंच ठाणाई समणेणं भगवता महावीरेणं समणाणं णिग्गंथाणं णिच्चं वनिताई, णिच्चं कित्तिताइं, णिच्चं बुतिताइं, णिच्चं पसत्थाई, निच्चमब्भणुन्नाताई भवंति, तंजहा-खंत्ती, मुत्ती, अज्जवे, मद्दवे, लाघवे । __पंच ठाणाई समणेणं भगवता महावीरेणं जाव अब्भणुन्नायाइं भवंति, तंजहा-सच्चे, संजमे, तवे, चिताते, बंभचेरवासे । ___पंच ठाणाई समणेणं भगवता महावीरेणं जाव अब्भणुन्नाताई भवंति, तंजहा-उक्खित्तचरते, निक्खित्तचरते, अंतचरते, पंतचरते, लूहचरते । पंच ठाणाइं जाव अब्भणुण्णाताई भवंति, तंजहा-अन्नातचरते, अन्नइलायचरए, मोणचरते, संसट्ठकप्पिते, तजातसंसट्ठकप्पिते । पंच ठाणाई जाव अब्भणुन्नाताई भवंति, तंजहा-उवनिहिते, सुद्धेसणिते, संखादत्तिते, दिट्ठलाभिते, पुट्ठलाभिते ।। पंच ठाणाइं जाव अब्भणुण्णाताई भवंति, तंजहा-आयंबिलिते, निव्वितिए, पुरिमड्डिते, परिमितपिंडवातिते, भिन्नपिंडवातिते । __पंच ठाणाई जाव अब्भणुन्नायाई भवंति, तंजहा-अरसाहारे, विरसाहारे, अंताहारे, पंताहारे, लूहाहारे । पंच ठाणाई जाव भवंति, तंजहा-अरसजीवी, विरसजीवी, अंतजीवी, पंतजीवी, लूहजीवी । पंच ठाणाइं जाव भवंति, तंजहा-ठाणातिते, उक्कुडुआसणिते, पडिमट्ठाती, वीरासणिए, णेसज्जिते । Page #24 -------------------------------------------------------------------------- ________________ पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । ४२५ पंच ठाणाइं जाव भवंति, तंजहा-दंडायतिते, लगंडसाती, आतावते, अवाउडते, अकंड्यते । [टी०] अनन्तरं शरीराणि प्ररूपितानीति शरीरिविशेषगतान् धर्मविशेषान् पंचहिं ठाणेहीत्यादिनाऽऽर्जवसूत्रान्तेन ग्रन्थेन दर्शयति, सुगमश्चायम्, नवरं पञ्चसु स्थानकेषु आख्यानादिक्रियाविशेषलक्षणेषु पुरिमा भरतैरावतेषु चतुर्विंशतेरादिमास्ते च पश्चिमकाश्च चरमा: पुरिम-पश्चिमकास्तेषां जिनानाम् अर्हतां दुग्गमं ति दुःखेन गम्यत इति दुर्गमम्, भावसाधनोऽयं कृच्छ्रवृत्तिरित्यर्थः, तद् भवति विनेयानामृजुजडत्वेन वक्रजडत्वेन च, तानि चेमानि तद्यथेत्यादि, इह चाख्यानं विभजनं दर्शनं तितिक्षणमनुचरणं चेत्येवं वक्तव्येऽपि येषु स्थानेषु कृच्छ्रवृत्तिर्भवति तानि तद्योगात् कृच्छ्रवृत्तीन्येवोच्यन्ते इति कृच्छ्रवृत्तिद्योतकदुःशब्दविशेषितानि कर्मसाधनशब्दाभिधेयान्याख्यानादीनि विचित्रत्वाच्छब्दप्रवृत्तेराह । दुआइक्खमित्यादि, तत्र दुराख्येयं कृच्छ्राख्येयं वस्तुतत्त्वम्, विनेयानां महावचनाटोपप्रबोध्यत्वेन भगवतामायासोत्पत्तेरित्येवमाख्याने कृच्छ्रवृत्तिरुक्ता, एवं विभजनादिष्वपि भावनीया, तथा आख्यातेऽपि तत्र दुर्विभजं कष्टविभजनीयम्, ऋजुजडत्वादेरेव तद् भवतीति दुःशकं शिष्याणां वस्तुतत्त्वस्य विभागेनावस्थापनमित्यर्थः, दुर्विभवमित्यत्र पाठान्तरे दुर्विभाव्यं दुःशका विभावना कर्तुं तस्येत्यर्थः, तथा दुप्पस्सं ति दुःखेन दर्श्यते इति दुर्दर्शम् उपपत्तिभिर्दुःशकं शिष्याणां प्रतीतावारोपयितुं [तत्त्वमिति भावः, दुतितिक्खं ति दुःखेन तितिक्ष्यते सह्यते इति दुस्तितिक्षं परीषहादि, दु:शकं परीषहादिकमुत्पन्नं तितिक्षयितुम्,] शिष्यं तत् प्रति क्षमां कारयितुमिति भाव इति, दुरणुचरं ति दुःखेनानुचर्यते अनुष्ठीयत इति दुरनुचरमन्तर्भूतकारितार्थत्वेन दु:शकमनुष्ठापयितुमित्यर्थः, अथवा तेषां तीर्थे दुराख्येयं दुविभजमाचार्यादीनां वस्तुतत्त्वं शिष्यान् प्रति, आत्मनापि दुर्दृशं दुस्तितिक्षं दुरनुचरमित्येवं कारितार्थं विमुच्य व्याख्येयम्, तेषामपि ऋजु-जडादित्वादिति । मध्यमानां तु सुगमम् अकृच्छ्रवृत्तिः, तद्विनेयानामृजुप्रज्ञत्वेनाल्पप्रयत्नेनैव बोधनीयत्वाद् विहितानुष्ठाने सुखप्रवर्तनीयत्वाच्चेति, शेषं पूर्ववत्, नवरमकृच्छ्रार्थविशिष्टता आख्यानादीनां वाच्या, तथा सुरनुचरं ति रेफः प्राकृतत्वादिति । Page #25 -------------------------------------------------------------------------- ________________ ४२६ निच्चं त्ति नित्यं सदा वर्णितानि फलत:, कीर्त्तितानि संशब्दितानि नामत:, बुइयाइं ति व्यक्तवाचोक्तानि स्वरूपतः, प्रशस्तानि प्रशंसितानि श्लाषितानि शंसु स्तुतौ [पा० धा० ७२८] इति वचनात्, अभ्यनुज्ञातानि कर्त्तव्यतया अनुमतानि भवन्तीति, अयं च सूत्रोत्क्षेप: प्रतिसूत्रं वैयावृत्यसूत्रं यावद् दृश्य इति, तत्र क्षान्त्यादय: क्रोधलोभ-माया-माननिग्रहा: तथा लाघवमुपकरणतो गौरवत्रयत्यागतश्चेति, तथाऽन्यानि सच्चेत्यादि त्रिसूत्री सद्भयो हितं सत्यम् अनलीकम्, तच्चतुर्विधम्, यतोऽवाचि अविसंवादनयोग: कायमनोवागजिह्मता चैव । सत्यं चतुर्विधं तच्च जिनवरमतेऽस्ति नान्यत्र ॥ [प्रशम० १७४] इति । तथा संयमनं संयमो हिंसादिनिवृत्तिः, स च सप्तदशविध:, तदुक्तम्पुढवि-दग-अगणि-मारुय-वणप्फइ-बितिचउपणिंदि-अजीवे । पेहोपेहपमजणपरिट्ठवणमणोवईकाए ॥ [दशवै० नि० ४६], तथा तप्यतेऽनेनेति तपः, यतोऽभ्यधायिरस-रुधिर-मांस-मेदो-ऽस्थि-मज-शुक्राण्यनेन तप्यन्ते । कर्माणि वाऽशुभानीत्यतस्तपो नाम नैरुक्तम् ॥ [ तच्च द्वादशधा, यथाऽऽहअणसणमूणोयरिया वित्तीसंखेवणं रसच्चाओ। कायकिलेसो संलीणया य बज्झो तवो होइ ॥ पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गो वि य अन्भिंतरओ तवो होइ ॥ [दशवै० नि० ४७-४८] इति । चियाए त्ति त्यजनं त्यागः, संविग्नैकसम्भोगिकानां भक्तादिदानमित्यर्थः, गाथे चात्रतो कयपच्चक्खाणो आयरियगिलाणबालवुड्डाणं । देजाऽसणाइ संते लाभे कयवीरियायारो ॥ संविग्गअन्नसंभोइयाण देसिज सड्ढगकुलाणि । अतरंतो वा संभोइयाण देसे जहसमाही ॥ [पञ्चव० ५३७-५३८, पञ्चा० ५।४०-४१] इति ब्रह्मचर्ये मैथुनविरमणे तेन वा वासो ब्रह्मचर्यवास इत्येष पूर्वोक्तैः सह दशविध: श्रमणधर्म इति, अन्यत्र त्वयमेवमुक्त: Page #26 -------------------------------------------------------------------------- ________________ ४२७ पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । खंती य मद्दवऽज्जव मुत्ती तवसंजमे य बोद्धव्वे । सच्चं सोयं आकिंचणं च बंभं च जइधम्मो ॥ [पञ्चाशक० ११।१९ आव० सं० ] इति। इतश्च साधुधर्मभेदस्य बाह्यतपोविशेषस्य वृत्तिसक्षेपाभिधानस्य भेदा: उक्खित्तचरए इत्यादिना अभिधीयन्ते, तत्र उत्क्षिप्तं स्वप्रयोजनाय पाकभाजनादुद्धृतं तदर्थमभिग्रहविशेषाच्चरति तद्गवेषणाय गच्छतीत्युत्क्षिप्तचरकः, एवं सर्वत्र, नवरं निक्षिप्तम् अनुद्धृतम्, अन्ते भवमान्तं भुक्तावशेष वल्लादि, प्रकृष्टमान्तं प्रान्तं तदेव पर्युषितम्, रूक्षं नि:स्नेहमिति, इह च भावप्रत्ययप्रधानत्वेन उत्क्षिप्तचरकत्वमित्यादि द्रष्टव्यमेवमुत्तरत्रापि भावप्रधानता दृश्या, इह चाद्यौ भावाभिग्रहावितरे द्रव्याभिग्रहाः, यतोऽभाणि उक्खित्तमाइचरगा भावजुया खलु अभिग्गहा होति । गायंतो य रुयंतो जं देइ निसण्णमाई वा ॥ [पञ्चव० ३०३] तथालेवडमलेवडं वा असुगं दव्वं व अज घेच्छामि । असुगेण उ दव्वेणं अह दव्वाभिग्गहो नामं ॥ [पञ्चव० २९८] ति । एवमन्यत्रापि विशेष ऊह्य इति। अज्ञात: अनुपदर्शितस्वाजन्यर्द्धिमत्प्रव्रजितादिभाव: सन् चरति भिक्षार्थमटतीत्यज्ञातचरकः, तथा अन्नइलायचरए त्ति अन्नग्लानको दोषान्नभुगिति भगवतीटीपनके उक्तः, एवंविध: सन्, अथवा अन्नं विना ग्लायकः, समुत्पन्नवेदनादिकारण एवेत्यर्थः, अन्यस्मै वा ग्लायकाय भोजनार्थं चरतीति अन्नग्लानकचरकोऽन्नग्लायकचरकोऽन्यग्लायकचरको वा, क्वचित् पाठः अन्नवेल त्ति, तत्राऽन्यस्यां भोजनकालापेक्षयाऽऽद्यवसानरूपायां वेलायां समये चरतीत्यादि दृश्यम्, अयं च कालाभिग्रह इति । तथा मौनं मौनव्रतं तेन चरति मौनचरकः, तथा संसृष्टेन खरण्टितेनेत्यर्थो हस्त-भाजनादिना दीयमानं कल्पिकं कल्पवत् कल्पनीयमुचितमभिग्रहविशेषाद्भक्तादि यस्य स संसृष्टकल्पिकः, तथा तजातेन देयद्रव्यप्रकारेण यत् संसृष्टं हस्तादि तेन दीयमानं कल्पिकं यस्येति विग्रह इति । तथा सूत्रपञ्चकं [चतुष्कं] कण्ठ्यं, नवरं उवनिहितेत्यादि उपनिधीयत इत्युपनिधिः प्रत्यासन्नं यद्यथाकथञ्चिदानीतम्, तेन चरति, तद्ग्रहणायेत्यर्थः इत्यौपनिधिकः, उपनिहितमेव वा यस्य ग्रहणविषयतयाऽस्ति स प्रज्ञादेराकृतिगणत्वेन मत्वर्थीयाण्प्रत्यये औपनिहित इति, तथा Page #27 -------------------------------------------------------------------------- ________________ ४२८ शुद्धा अनतिचारा एषणा शङ्कितादिदोष-वर्जनरूपा संसट्ठमसंसट्टे[ ]त्यादिसप्तप्रकारा अन्यतरा वा, तया चरतीत्युत्तर-पदवृद्ध्या शुद्धैषणिकः, सङ्ख्याप्रधाना: परिमिता एव दत्तय: सकृद्रक्तादिक्षेपलक्षणा ग्राह्या: यस्य स सङ्ख्यादत्तिकः, दत्तिलक्षणश्लोकोऽत्रदत्ती उ जत्तिए वारे खिवई होंति तत्तिया । अवोच्छिन्नणिवायाओ दत्ती होइ दवेतरा ॥ [ ] इति । तथा दृष्टस्यैव भक्तादेर्लाभस्तेन चरतीति तथैव दृष्टलाभिकः, पृष्टस्यैव ‘साधो ! दीयते ते' ? इत्येवं यो लाभस्तेन चरतीति प्राग्वत् पृष्टलाभिकः, आचाम्लं समयप्रसिद्धम्, तेन चरतीत्याचाम्लिकः, निर्गतो घृतादिविकृतिभ्यो य: स निर्व्विकृतिकः, पुरिमार्द्ध पूर्वाह्नलक्षणं प्रत्याख्यानविशेषोऽस्ति यस्य स तथा, परिमितो द्रव्यादिपरिमाणत: पिण्डपातो भक्तादिलाभो यस्यास्ति स परिमितपिण्डपातिकः, भिन्नस्यैव स्फोटितस्यैव पिण्डस्य सक्तुकादिसम्बन्धिन: पातो लाभो यस्यास्ति स भिन्नपिण्डपातिकः । ग्रहणानन्तरमभ्यवहरणं भवतीत्यत एतदुच्यते- अरसं हिङ्ग्वादिभिरसंस्कृतमाहारयतीत्यरसो वाऽऽहारो यस्यासावरसाहारः, एवं सर्वत्र, नवरं विरसं विगतरसं पुराणधान्यौदनादि, रूक्षं तैलादिवर्जितमिति, तथा अरसेन जीवितुं शीलमाजन्मापि यस्य स तथा, एवमन्यत्रापि । सूत्रद्व्यं सुगमम्, नवरं ठाणाइए त्ति स्थानं कायोत्सर्गः, तमतिददाति प्रकरोति अतिगच्छति वेति स्थानातिदः स्थानातिगो वेति । उत्कुटुकासनं पीठादौ पुतालगनेनोपवेशनरूपमभिग्रहतो यस्यास्ति स उत्कुटुकासनिकः। तथा प्रतिमया एकरात्रिक्यादिकया कायोत्सर्गविशेषेणैव तिष्ठतीत्येवंशीलो यः स प्रतिमास्थायी । वीरासनं भून्यस्तपादस्य सिंहासने उपविष्टस्य तदपनयने या कायावस्था तद्रूपम्, दुष्करं च तदिति, अत एव वीरस्य साहसिकस्यासनमिति वीरासनमुक्तम्, तदस्यास्तीति वीरासनिकः । Page #28 -------------------------------------------------------------------------- ________________ ४२९ पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । तथा निषद्या उपवेशनविशेषः, सा च पञ्चधा, तत्र यस्यां समं पादौ पुतौ च स्पृशतः सा समपादपुता १, यस्यां तु गोरिव उपवेशनं सा गोनिषधिका २, यत्र पुताभ्यामुपविष्टः सन् एकं पादमुत्पाट्याऽऽस्ते सा हस्तिसुण्डिका ३, पर्यङ्काऽर्धपर्यङ्का च प्रसिद्धा ४-५, निषद्यया चरति नैषधिक इति । ___ दण्डस्येवायतिः दीर्घत्वं पादप्रसारणेन यस्य स दण्डायतिकः । तथा लगण्डं किल दुःसंस्थितं काष्ठम्, तद्वद् मस्तक-पार्णिकानां भुवि लगनेन पृष्ठस्य चालगनेनेत्यर्थः, यः शेते तथाविधाभिग्रहात् स लगण्डशायी । तथा आतापयति आतापनां शीता-ऽऽतपादिसहनरूपां करोतीति आतापकः । तथा न विद्यते प्रावृतं प्रावरणमस्येति अप्रावृतकः । तथा न कण्डूयत इति अकण्डूयकः । ___ इह च यद्यपि स्थानातिगत्वादीनामा-तापनायामन्त वस्तथापि प्रधानेतरविवक्षया न पुनरुक्तत्वं मन्तव्यमिति ।। [सू० ३९७] पंचहिं ठाणेहिं समणे निग्गंथे महानिजरे महापज्जवसमाणे भवति, तंजहा-अगिलाते आयरियवेयावच्चं करेमाणे १, एवं उवज्झायवेयावच्चं करेमाणे २, थेरवेयावच्चं [करेमाणे] ३, तवस्सिवेयावच्चं [करेमाणे] ४, गिलाणवेयावच्चं करेमाणे ५ । __पंचहिं ठाणेहिं समणे निग्गंथे महानिजरे महापज्जवसाणे भवति, तंजहाअगिलाते सेहवेयावच्चं करेमाणे १, अगिलाते कुलवेयावच्चं करेमाणे] २, अगिलाते गणवे[यावच्चं करेमाणे] ३, अगिलाते संघवे यावच्चं करेमाणे] ४, अगिलाते साहम्मियवेयावच्चं करेमाणे ५ । [टी०] तथा महानिर्जरो बृहत्कर्मक्षयकारी, महानिर्जरत्वाच्च महद् आत्यन्तिकं पुनरुद्भवाभावात् पर्यवसानम् अन्तो यस्य स तथा । अगिलाए त्ति अग्लान्या अखिन्नतया बहुमानेनेत्यर्थः । आचार्यः पञ्चप्रकारः, तद्यथा-प्रव्राजनाचार्यो दिगाचार्य: सूत्रस्य उद्देशनाचार्य: सूत्रस्य समुद्देशनाचार्यो वाचनाचार्यश्चेति, तस्य वैयावृत्यं व्यावृतस्य शुभव्यापारवतो भाव: Page #29 -------------------------------------------------------------------------- ________________ ४३० कर्म वा वैयावृत्यं भक्तादिभिर्धर्मोपग्रहकारिवस्तुभिरुपग्रहकरणमाचार्यवैयावृत्यम्, तत् कुर्वाणो विदधदिति, एवमुत्तरपदेष्वपि । नवरमुपाध्याय: सूत्रदाता । स्थविरः स्थिरीकरणात् । तपस्वी मासक्षपकादिः । ग्लान: अशक्तो व्याध्यादिभिरिति । तथा सेह त्ति शिक्षकोऽभिनवप्रव्रजितः । साधर्मिकः समानधर्मा लिङ्गत: प्रवचनतश्चेति । कुलं चान्द्रादिकं साधुसमुदायविशेषरूपं प्रतीतम् । गण: कुलसमुदाय: । सङ्घो गणसमुदाय इत्येवं सूत्रद्वयेन दशविधं वैयावृत्यमाभ्यन्तरतपोभेदभूतं प्रतिपादितमिति । उक्तं च आयरिय-उवज्झाए थेर-तवस्सी-गिलाण-सेहाणं । साहम्मिय-कुल-गण-संघसंगयं तमिह कायव्वं ॥ [ ] ति । [सू० ३९८] पंचहिं ठाणेहिं समणे णिग्गंथे साहम्मितं संभोतितं विसंभोतितं करेमाणे णातिक्कमति, तंजहा-सकिरितट्ठाणं पडिसेवेत्ता भवति १. पडिसेवेत्ता णो आलोतेति २, आलोतेत्ता णो पट्ठवेति ३, पट्ठवेत्ता णो णिव्विसति ४, जाइं इमाई थेराणं ठितिपकप्पाइं भवंति ताई अतियंचिय अतियंचिय पडिसेवेति, से हंदऽहं पडिसेवामि किं मं थेरा करिस्संति ५ । ___ पंचहिं ठाणेहिं समणे निग्गंथे साहम्मितं पारंचितं करेमाणे णातिक्कमति, तंजहा-कुले वसति, कुलस्स भेदाते अब्भुढेत्ता भवति १, गणे वसति, गणस्स भेदाते अब्भुटेत्ता भवति २, हिंसप्पेही ३, छिद्दप्पेही ४, अभिक्खणं अभिक्खणं पसिणाततणाइं पउंजित्ता भवति ५ । टी०] संभोइयं त्ति सम्भोगिकम् एकभोजनमण्डलीकादिकं विसम्भोगिकं मण्डलीबाह्यं कुर्वन्नातिक्रामति आज्ञामिति गम्यते, उचितत्वादिति । सक्रियं प्रस्तावादशुभकर्मबन्धयुक्तं स्थानम् अधिकृत्यविशेषलक्षणं प्रतिषेविता भवतीत्येकम्, प्रतिषेव्य गुरवे नालोचयति न निवेदयतीति द्वितीयम्, आलोच्य गुरूपदिष्टप्रायश्चित्तं न प्रस्थापयति कर्तुं नारभत इति तृतीयम्, प्रस्थाप्य न निर्विशति न समस्तं प्रवेशयत्यतीति चतुर्थम्, यानीमानि सुप्रसिद्धतया प्रत्यक्षाणि स्थविराणां स्थविरकल्पिकानां स्थितौ समाचारे प्रकल्प्यानि प्रकल्पनीयानि योग्यानि विशुद्धपिण्ड Page #30 -------------------------------------------------------------------------- ________________ पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । ४३१ शय्यादीनि स्थितिप्रकल्प्यानि, अथवा स्थितिश्च मासकल्पादिका प्रकल्प्यानि च पिण्डादीनि स्थितिप्रकल्प्यानि तानि अइयंचिय अइयंचिय त्ति अत्यच्य अत्यच्य, अतिक्रम्यातिक्रम्येत्यर्थः, प्रतिषेवते तदन्यानीति गम्यते, अथ सङ्घाटकादिः साधुरेवं पर्यालोचयति-यथा नैतत् प्रतिषेवितुमुचितं गुरुनॊ बाह्यौ करिष्यति, तत्रेतर आह– से इति तदकल्प्यजातं हंदेति कोमलामन्त्रणं वचनं हमित्यकारप्रश्लेषादहं प्रतिषेवामि किं मम स्थविरा: गुरव: करिष्यन्ति ?, न किञ्चित्तै रुष्टैरपि मे कर्तुं शक्यते इति बलोपदर्शनं पञ्चममिति । ___ पारंचियं ति दशमप्रायश्चित्तभेदवन्तमपहृतलिङ्गादिकमित्यर्थः, [कुर्वन्नातिक्रामति सामायिकमिति गम्यते । कुले चान्द्रादिके वसति, गच्छवासीत्यर्थः,] तस्यैव कुलस्य भेदायाऽन्योन्यमधिकरणोत्पादनेनाऽभ्युत्थाता भवति यतत इत्यर्थः इत्येकम्, एवं गणस्यापीति द्वितीयम्, तथा हिंसां वधं साध्वादेः प्रेक्षते गवेषयतीति हिंसाप्रेक्षीति तृतीयम्, हिंसार्थमेवापभ्राजनार्थं वा छिद्राणि प्रमत्तताः प्रेक्षत इति छिद्रप्रेक्षीति चतुर्थम्, अभीक्ष्णमभीक्ष्णं पुन: पुनरित्यर्थः प्रश्ना अङ्गुष्ठ-कुड्यप्रश्नादय: सावद्यानुष्ठानपृच्छा वा त एवायतनान्यसंयमस्य प्रश्नायतनानि प्रयोक्ता भवति, प्रयुक्त इत्यर्थः इति पञ्चमम् । [सू० ३९९] आयरियउवज्झायस्स णं गणंसि पंच वुग्गहट्ठाणा पन्नत्ता, तंजहा-आयरियउवज्झाए णं गणंसि आणं वा धारणं वा नो सम्मं पउंजेत्ता भवति १, आयरियउवज्झाए णं गणंसि अधारातिणियाते कितिकम्मं वेणतितं नो सम्मं पउंजेत्ता भवति २, आयरियउवज्झाते गणंसि जे सुतपज्जवजाते धारेति ते काले काले णो सम्ममणुप्पवातेत्ता भवति ३, आयरियउवज्झाए गणंसि गिलाण-सेहवेयावच्चं नो सम्ममन्भुढेत्ता भवति ४, आयरियउवज्झाते गणंसि अणापुच्छितचारी यावि हवइ, नो आपुच्छियचारी ५ । आयरियउवज्झायस्स णं गणंसि पंचावुग्गहट्ठाणा पन्नत्ता, तंजहाआयरियउवज्झाए गणंसि आणं वा धारणं वा सम्मं पउंजित्ता भवति १, एवमधारातिणिताते [कितिकम्मं वेणतितं सम्मं पउंजित्ता भवति २,] Page #31 -------------------------------------------------------------------------- ________________ ४३२ आयरियउवज्झाए गणंसि जे सुतपजवजाते धारेति ते काले काले सम्म अणुपवाइत्ता भवइ ३, एवं गिलाण-सेहवेतावच्चं सम्मं [अब्भुट्टित्ता भवति] ४, आयरियउवज्झाते गणंसि आपुच्छियचारी यावि भवति, णो अणापुच्छियचारी ५ । [टी०] तथा आचार्योपाध्यायस्येति समाहारद्वन्द्वः कर्मधारयो वा, ततश्चाचार्यस्योपाध्यायस्य च आचार्योपाध्यायस्य वा गणंसि त्ति गणे विग्रहस्थानानि कलहाश्रया:, आचार्योपाध्यायो द्वयं वा गणे गणविषये आज्ञां ‘साधो ! भवतेदं विधेयम्' इत्येवंरूपामादिष्टिम्, धारणां 'न विधेयमिदम्' इत्येवंरूपां नो नैव सम्यग् औचित्येन प्रयोक्ता भवतीति साधवः परस्परं कलहायन्ते इत्येवं सर्वत्रेति प्रथमम् । तथा स एव आहाराइणियाए त्ति रत्नानि द्विधा- द्रव्यतो भावतश्च, तत्र द्रव्यतः कर्केतनादीनि भावतो ज्ञानादीनि, तत्र रत्नैः ज्ञानादिभिर्व्यवहरतीति रात्निक: बृहत्पर्यायः, यो यो रात्निको यथारात्निकम्, तद्भावस्तत्ता, तया यथारानिकतया यथाज्येष्ठं कृतिकर्म वन्दनकं विनय एव वैनयिकं तच्च न सम्यक् प्रयोक्ता, अन्तर्भूतकारितार्थत्वाद्वा प्रयोजयिता भवतीति द्वितीयम् । तथा स एव यानि श्रुतस्य पर्यवजातानि सूत्रार्थप्रकारान् धारयति धारणाविषयीकरोति तानि काले काले यथावसरं न सम्यगनुप्रवाचयिता भवति न पाठयतीत्यर्थः इति तृतीयम्, काले अनुप्रवाचयितेत्युक्तं तत्र गाथा: कालक्कमेण पत्तं संवच्छरमाइणा उ जं जम्मि । तं तम्मि चेव धीरो वाएज्जा सो य कालोऽयं ॥ तिवरिसपरियागस्स उ आयारपकप्पनाममज्झयणं । चउवरिसस्स य सम्मं सूयगडं नाम अंगं ति ॥ दस-कप्प-व्ववहारा संवच्छरपणगदिक्खियस्सेव । ठाणं समवाओ वि य अंगे ते अट्ठवासस्स ॥ दसवासस्स विवाहो एक्कारसवासयस्स य इमे उ । खुड्डियविमाणमाई अज्झयणा पंच नायव्वा ॥ बारसवासस्स तहा अरुणुववायाइ पंच अज्झयणा । तेरसवासस्स तहा उट्ठाणसुयाइया चउरो ॥ Page #32 -------------------------------------------------------------------------- ________________ पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । ४३३ चोद्दसवासस्स तहा आसीविसभावणं जिणा बिंति । पन्नरसवासगस्स य दिट्ठीविसभावणं तह य ॥ सोलसवासाईसु य एकुत्तरवडिएसु जहसंखं । चारणभावण महसुमिणभावणा तेयगनिसग्गा ॥ एगूणवीसगस्स उ दिट्ठीवाओ दुवालसममंगं । संपुण्णवीसवरिसो अणुवाई सव्वसुत्तस्स ॥ [पञ्चव० ५८१-५८८] त्ति । तथा स एव ग्लान-शैक्षवैयावृत्यं प्रति न सम्यक् स्वयमभ्युत्थाता अभ्युपगन्ता भवतीति चतुर्थम् । तथा स एव गणम् अनापृच्छय चरति क्षेत्रान्तरसङ्क्रमादि करोतीत्येवंशीलोऽनापृच्छ्यचारी, किमुक्तं भवति ? नो आपृच्छ्यचारीति पञ्चमं विग्रहस्थानम् । एतदेव व्यतिरेकेणाह-अविग्रहसूत्रं गतार्थम् । [सू० ४००] पंच निसिजाओ पन्नत्ताओ, तंजहा- उक्कुडुती, गोदोहिता, समपायपुता, पलितंका, अद्धपलितंका । पंच अजवट्ठाणा पन्नत्ता, तंजहा- साधुअजवं, साधुमद्दवं, साधुलाघवं, साधुखंती, साधुमोत्ती । [टी०] निषद्यासूत्रे निषदनानि निषद्याः उपवेशनप्रकाराः, तत्रासनालग्नपुत: पादाभ्यामवस्थित उत्कुटुकः, तस्य या सा उत्कुटुका, तथा गोर्दोहनं गोदोहिका, तद्वद्याऽसौ गोदोहिका, तथा समौ समतया भूलग्नौ पादौ च पुतौ च यस्यां सा समपादपुता, तथा पर्यङ्का जिनप्रतिमानामिव या पद्मासनमिति रूढा, तथा अर्द्धपर्यङ्का ऊरावेकपादनिवेशनलक्षणेति। ___ ऋजो: राग-द्वेषवक्रत्ववर्जितस्य सामायिकवत: कर्म भावो वा आर्जवं संवर इत्यर्थः, तस्य स्थानानि भेदा आर्जवस्थानानि, साधु सम्यग्दर्शनपूर्वकत्वेन शोभनमार्जवं मायानिग्रहः, तत: कर्मधारयः, साधोर्वा यतेरार्जवं साध्वार्जवम्, एवं शेषाण्यपि । [सू० ४०१] पंचविहा जोतिसिया पन्नत्ता, तंजहा-चंदा, सूरा, गहा, नक्खत्ता, ताराओ । पंचविहा देवा पन्नत्ता, तंजहा-भवितदव्वदेवा, णरदेवा, धम्मदेवा, Page #33 -------------------------------------------------------------------------- ________________ ४३४ देवातिदेवा, भावदेवा । [सू० ४०२] पंचविहा परितारणा पन्नत्ता, तंजहा-कायपरितारणा, फासपरितारणा, रूवपरितारणा, सद्दपरितारणा, मणपरितारणा । [सू० ४०३] चमरस्स असुरिंदस्स असुरकुमाररन्नो पंच अग्गमहिसीओ पन्नत्ताओ, तंजहा-काली, राती, रतणी, विजू, मेहा । बलिस्स णं वतिरोतणिंदस्स वतिरोतणरन्नो पंच अग्गमहिसीओ पन्नत्ताओ, तंजहा-सुंभा, णिसुंभा, रंभा, णिरंभा, मदणा । [सू० ४०४] चमरस्स णमसुरिंदस्स असुरकुमाररण्णो पंच संगामिता अणिता पंच संगामिता अणिताधिवती पन्नत्ता, तंजहा-पायत्ताणिते, पीढाणिते, कुंजराणिते, महिसाणिते, रहाणीते । दुमे पायत्ताणिताधिवती, सोदामे आसराया पीढाणियाधिवती, वेकुंथू हत्थिराया कुंजराणिताधिपती, लोहितक्खे महिसाणिताधिपती, किन्नरे रधाणिताधिपती । बलिस्स णं वतिरोतणिंदस्स वतिरोतणरन्नो पंच संगामिताणिता पंच संगामिताणिताधिपती पन्नत्ता, तंजहा-पायत्ताणिते जाव रधाणिते । महद्दुमे पायत्ताणिताधिवती, महासोतामे आसराता पीढाणिताधिपती, मालंकारे हत्थिराया कुंजराणिताधिपती, महालोहियक्खे महिसाणिताधिपती, किंपुरिसे रधाणिताधिपती । धरणस्स णं णागकुमारिंदस्स णागकुमाररन्नो पंच संगामिता अणिता पंच संगामिताणियाधिपती पन्नत्ता, तंजहा-पायत्ताणिते जाव रधाणिते । भद्दसेणे पायत्ताणिताधिपती, जसोधरे आसराया पीढाणिताधिपती, सुदंसणे हत्थिराया कुंजराणिताधिपती, नीलकंठे महिसाणियाधिपती, आणंदे रहाणिताहिवई । ___ भूयाणंदस्स णं नागकुमारिंदस्स नागकुमाररन्नो पंच संगामिया अणीया पंच संगामियाणियाहिवई पन्नत्ता, तंजहा-पायत्ताणीए जाव रहाणीए, दक्खे पायत्ताणियाहिवई, सुग्गीवे आसराया पीढाणियाहिवई, सुविक्कमे हत्थिराया कुंजराणिताहिवई, सेयकंठे महिसाणियाहिवई, नंदुत्तरे रहाणियाहिवई । Page #34 -------------------------------------------------------------------------- ________________ पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । ४३५ वेणुदेवस्स णं सुवन्निंदस्स सुवन्नकुमाररन्नो पंच संगामिता अणिता पंच संगामिताणिताधिपती पन्नत्ता, तंजहा-पायत्ताणिते, एवं जधा धरणस्स तधा वेणुदेवस्स वि । वेणुदालिस्स जधा भूताणंदस्स । जधा धरणस्स तहा सव्वेसिं दाहिणिल्लाणं जाव घोसस्स । जधा भूताणंदस्स तधा सव्वेसिं उत्तरिल्लाणं जाव महाघोसस्स । ___ सक्कस्स णं देविंदस्स देवरन्नो पंच संगामिता अणिता पंच संगामिताणिताधिपती पन्नत्ता, तंजहा-पायत्ताणिए, पीढाणिए, कुंजराणिए, उसभाणिए, रहाणिए । हरिणेगमेसी पायत्ताणिताधिपती, वाऊ आसराता पीढाणिताधिवई, एरावणे हत्थिराता कुंजराणिताधिपती, दामड्डी उसभाणिताधिपती, माढरे रधाणिताधिपती । ईसाणस्स णं देविंदस्स देवरण्णो पंच संगामिता अणिता जाव पायत्ताणिते, पीढाणिते, कुंजराणिते, उसभाणिते, रधाणिते । लहुपरक्कमे पायत्ताणिताधिपती, महावाऊ आसराता पीढाणिताधिपती, पुप्फदंते हत्थिराया कुंजराणिताधिपती, महादामड्डी उसभाणिताधिपती, महामाढरे रधाणिताधिपती । जधा सक्कस्स तधा सव्वेसिं दाहिणिल्लाणं जाव आरणस्स । जधा ईसाणस्स तधा सव्वेसिं उत्तरिल्लाणं जाव अच्चुतस्स । [सू० ४०५] सक्कस्स णं देविंदस्स देवरन्नो अब्भंतरपरिसाते देवाणं पंच पलिओवमाइं ठिती पन्नत्ता । ईसाणस्स णं देविंदस्स देवरन्नो अन्भंतरपरिसाते देवीणं पंच पलिओवमाई ठिती पन्नत्ता । [टी०] आर्जवयुक्ताश्च मृत्वा प्रायो देवा भवन्तीति पंचविहा जोइसियेत्यादिना ईसाणस्स णमेतदन्तेन ग्रन्थेन देवाधिकारमाह, सुगमश्चायम्, नवरं ज्योतींषि विमानविशेषाः, तेषु भवा ज्योतिष्का इति, तथा दीव्यन्ति क्रीडादिधर्मभाजो भवन्ति दीव्यन्ते वा स्तूयन्ते ये ते देवाः, भव्या भाविदेवपर्याययोग्या अत एव द्रव्यभूता: ते च ते देवाश्चेति भव्यद्रव्यदेवा: वैमानिकादिदेवत्वेनानन्तरभवे ये उत्पत्स्यन्त इत्यर्थः, Page #35 -------------------------------------------------------------------------- ________________ ४३६ नराणां देवा नरदेवाश्चक्रवर्त्तिन इत्यर्थः, धर्मप्रधाना देवा धर्मदेवा: चारित्रवन्तः, देवानां मध्ये अतिशयवन्तो देवा: देवातिदेवा: अर्हन्त:, भावदेवा देवायुष्काद्यनुभवन्तो वैमानिकादय: ४ इत्यर्थः । __परितारण त्ति वेदोदयप्रतीकारः, तत्र स्त्रीपुंसयो: कायेन परिचारणा मैथुनप्रवृत्ति: कायपरिचारणा ईशानकल्पं यावद्, एवमन्यत्रापि समास:, नवरं स्पर्शेन तदुपरि द्वयोः, रूपेण द्वयोः, शब्देन द्वयोः, मनसा चतुर्पु, ग्रैवेयकादिषु परिचारणैव नास्तीति । साङ्ग्रामिकाणि सङ्ग्रामप्रयोजनानि, एतच्च गन्धर्व-नाट्यानीकयोर्व्यवच्छेदार्थं विशेषणमिति, अनीकाधिपतयः सैन्यमध्ये प्रधाना: पदात्यादय:, एवं पदातीनां पत्तीनां समूहः पादातम्, तदेवानीकं पादातानीकम्, पीठानीकम् अश्वसैन्यम्, पादातानीकाधिपति: पदातिरेवोत्तमः, अश्वराज: प्रधानोऽश्वः, एवमन्येऽपि, दाहिणिल्लाणं ति सनत्कुमार-ब्रह्म-शुक्रा-ऽऽनता-ऽऽरणानाम्, उत्तरिल्लाणं ति माहेन्द्रलान्तक-सहस्रार-प्राणता-ऽच्युतानामिति, इह च दाक्षिणात्या: सौधर्मादयो विषमसङ्ख्या इति विषमसङ्ख्यत्वं शब्दस्य प्रवृत्तिनिमित्तीकृत्य ब्रह्मलोक-शुक्रौ दाक्षिणात्यावुक्तौ, समसङ्ख्यत्वं तु प्रवृत्तिनिमित्तीकृत्य लान्तक-सहस्रारावौत्तराविति, तथा देवेन्द्रस्तवाभिधानप्रकीर्णकश्रुत इव द्वादशानामिन्द्राणां विवक्षणादारणस्येत्याधुक्तमिति सम्भाव्यते, अन्यथा चतुर्पु द्वावेवेन्द्रावत आरणस्येत्याद्यनुपपन्नं स्यादिति । [सू० ४०६] पंचविहा पडिहा पन्नत्ता, तंजहा-गतिपडिहा, ठितिपडिहा, बंधणपडिहा, भोगपडिहा, बल-वीरित-पुरिसयार-परक्कमपडिहा । इहानन्तरं देवानां वक्तव्यतोक्ता, दुष्टाध्यवसायस्य च प्राणिनस्तद्गति-स्थित्यादिप्रतिघातो भवतीति तन्निरूपणायाह- पंचविहा पडिहेत्यादि सुगमम्, नवरं पडिह त्ति प्राकृतत्वात् उप्पा इत्यादिवत्, प्रतिघात: प्रतिहननमित्यर्थः, तत्र गते: देवगत्यादेः प्रकरणाच्छुभायाः प्रतिघातः, तत्प्राप्तियोग्यत्वे सति विकर्मकरणादप्राप्तिर्गतिप्रतिघात:, प्रव्रज्यादिपरिपालनत: प्राप्तव्यशुभदेवगते रकप्राप्तौ कण्डरीकस्येवेति, तथा स्थिते: शुभदेवगतिप्रायोग्यकर्मणां तथैव प्रतिघात: स्थितिप्रतिघात:, भवति चाध्यवसाय-विशेषात् स्थिते: प्रतिघातः, यदाह-दीहकालठियाओ ह्रस्सकालठियाओ पकरेइ [भगवती० १।१।११] Page #36 -------------------------------------------------------------------------- ________________ ४३७ पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । इति । तथा बन्धनं नामकर्मण उत्तरप्रकृतिरूपमौदारिकादिभेदतः पञ्चविधम्, तस्य प्रक्रमात् प्रशस्तस्य प्राग्वत् प्रतिघातो बन्धनप्रतिघातः, बन्धनग्रहणस्योपलक्षणत्वात् तत्सहचरप्रशस्तशरीर-तदङ्गोपाङ्ग-संहनन-संस्थानानामपि प्रतिघातो व्याख्येय:, तथा प्रशस्तगति-स्थिति-बन्धनादिप्रतिघाताद् भोगानां प्रशस्तगत्याद्यविनाभूतानां प्रतिघातो भोगप्रतिघातः, भवति हि कारणाभावे कार्याभाव इति, तथा प्रशस्तगत्यादेरभावादेव बल-वीर्य-पुरुषकार-पराक्रमप्रतिघातो भवतीति प्रतीतम्, तत्र बलं शारीरम्, वीर्यं जीवप्रभवम्, पुरुषकारः अभिमानविशेषः, पराक्रमः स एव निष्पादितस्वविषयः, अथवा पुरुषकारः पुरुषकर्त्तव्यम्, पराक्रमो बल-वीर्ययोर्व्यापारणमिति । [सू० ४०७] पंचविधे आजीवे पन्नत्ते, तंजहा-जातिआजीवे, कुलाजीवे, कम्माजीवे, सिप्पाजीवे, लिंगाजीवे ।। [टी०] देवगत्यादिप्रतिघातश्च चारित्रातिचारकारिणो भवतीत्युत्तरगुणानाश्रित्य तद्विशेषमाह- पंचविहेत्यादि, जातिं ब्राह्मणादिकामाजीवति उपजीवति तज्जातीयमात्मानं सूचादिनोपदर्श्य ततो भक्तादिकं गृह्णातीति जात्याजीवकः, एवं सर्वत्र, नवरं कुलम् उग्रादिकं गुरुकुलं वा, कर्म कृष्याद्यनाचार्यकं वा, शिल्पं तूर्णनादि साचार्यकं वा, लिङ्गं साधुलिङ्गं तदाजीवति, ज्ञानादिशून्यस्तेन जीविकां कल्पयतीत्यर्थः, लिङ्गस्थानेऽन्यत्र गणोऽधीयते । [सू० ४०८] पंच रातककुधा पन्नत्ता, तंजहा-खग्गं, छत्तं, उप्फेसिं, पाहणाओ, वालवीयणिं । [टी०] अनन्तरं साधूनां रजोहरणादिकं लिङ्गमुक्तम्, अधुना खड्गादिरूपं राज्ञां तदेवाह- पंच रायककुहेत्यादि व्यक्तम्, नवरं राज्ञां नृपतीनां ककुदानि चिह्नानि राजककुदानि, उप्फेसि त्ति शिरोवेष्टनम्, शेखरक इत्यर्थः, पाहणाउ त्ति उपानहौ, वालव्यजनी चामरमित्यर्थः, श्रूयते च अवणेइ पंच ककुहाणि जाणि रायाण चिंधभूयाणि । छत्तं खग्गोवाहण मउडं तह चामराओ य ॥ [ ] इति । [सू० ४०९] पंचहिं ठाणेहिं छउमत्थे उदिने परिस्सहोवसग्गे सम्मं सहेजा Page #37 -------------------------------------------------------------------------- ________________ ४३८ खमेजा तितिक्खेजा अधियासेज्जा, तंजहा-उदिन्नकम्मे खलु अयं पुरिसे उम्मत्तगभूते, तेण मे एस पुरिसे अक्कोसति वा, अवहसति वा, णिच्छोडेति वा, णिब्भच्छेति वा, बंधति वा, रंभति वा, छविच्छेतं वा करेति, पमारं वा नेति, उद्दवेइ वा, वत्थं पडिग्गहं कंबलं पायपुंछणमच्छिंदति वा, विच्छिंदति वा, भिंदति वा, अवहरति वा १, जक्खातिढे खलु अयं पुरिसे, तेण मे एस पुरिसे अक्कोसति वा तहेव जाव अवहरति वा २, ममं च णं तब्भववेयणिजे कम्मे उतिन्ने भवति, तेण मे एस पुरिसे अक्कोसति वा जाव अवहरति वा ३, ममं च णं सम्ममसहमाणस्स अखममाणस्स अतितिक्खमाणस्स अणधितासेमाणस्स किं मन्ने कजति ?, एगंतसो मे पावे कम्मे कजति ४, ममं च णं सम्मं सहमाणस्स जाव अहियासेमाणस्स किं मन्ने कजति? एगंतसो मे णिजरा कजति ५ । इच्चेतेहिं पंचहिं ठाणेहिं छउमत्थे उदिन्ने परिस्सहोवसग्गे सम्मं सहेजा जाव अहियासेज्जा । पंचहिं ठाणेहिं केवली उदिन्ने परिस्सहोवसग्गे सम्मं सहेजा जाव अधियासेजा, तंजहा-खित्तचित्ते खलु अयं पुरिसे, तेण मे एस पुरिसे अक्कोसति वा तहेव जाव अवहरति वा १, दित्तचित्ते खलु अयं पुरिसे, तेण मे एस पुरिसे जाव अवहरति वा २, जक्खातिट्टे खलु अयं पुरिसे, तेण मे एस पुरिसे जाव अवहरति वा ३, ममं च णं तब्भववेयणिज्जे कम्मे उदिन्ने भवति, तेण मे एस पुरिसे जाव अवहरति वा ४, ममं च णं सम्म सहमाणं खममाणं तितिक्खेमाणं अधियासेमाणं पासेत्ता बहवे अन्ने छउमत्था समणा णिग्गंथा उदिन्ने उदिन्ने परिस्सहोवसग्गे एवं सम्मं सहिस्संति जाव अहियासिस्संति ५ । इच्चेतेहिं पंचहिं ठाणेहिं केवली उदिन्ने परिस्सहोवसग्गे सम्मं सहेजा जाव अहियासेजा । [टी०] अनन्तरोदितककुदयोग्यश्चेक्ष्वाक्वादिप्रव्रजित: सरागोऽपि सन् सत्त्वाधिकत्वाद्यानि वस्तून्यालम्ब्य परीषहादीनपगणयति तान्याह- पंचहीत्यादि स्फुटम्, किन्तु छाद्यते येन तच्छद्म ज्ञानावरणादि घातिकर्मचतुष्टयम्, तत्र तिष्ठतीति छद्मस्थः, Page #38 -------------------------------------------------------------------------- ________________ ४३९ पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । सकषाय इत्यर्थः, उदीर्णान् उदितान् परीषहोपसर्गान् अभिहितस्वरूपान् सम्यक् कषायोदयनिरोधादिना सहेत भयाभावेनाविचलनाद् भटं भटवत्, क्षमेत क्षान्त्या, तितिक्षेत अदीनतया, अध्यासीत परीषहादावेवाधिक्येनासीत न चलेदिति । उदीर्णम् उदितं प्रबलं वा कर्म मिथ्यात्वमोहनीयादि यस्य स उदीर्णका खलुक्यालङ्कारे अयं प्रत्यक्षः पुरुषः, उन्मत्तको मदिरादिना विप्लुतचित्त:, स इव उन्मत्तकभूतः, भूतशब्दस्योपमानार्थत्वात्, उन्मत्तक एव वा उन्मत्तकभूतः, [भूतशब्दस्य प्रकृत्यर्थत्वात्,] तेण त्ति उदीर्णका यतोऽयमुन्मत्तकभूत: पुरुष: तेन कारणेन मे इति माम् एष: अयमाक्रोशति शपति अपहसति उपहासं करोति अपघर्षति वा अपघर्षणं करोति, निश्छोटयति सम्बन्ध्यन्तरसम्बद्धं हस्तादौ गृहीत्वा बलात् क्षिपति, निर्भर्त्सयति दुर्वचनैः, बध्नाति रज्ज्वादिना, रुणद्धि कारागारप्रवेशादिना, छवे: शरीरावयवस्य हस्तादेः छेदं करोति, मरणप्रारम्भ: प्रमारो मूर्छाविशेषो मारणस्थानं वा तं नयति प्रापयतीति, अपद्रावयति मारयति, उद्दवेइ त्ति उपद्रवयति उपद्रवं करोतीति, पतद्ग्रहं पात्रं कम्बलं प्रतीतं पादप्रोञ्छनं रजोहरणम् आच्छिनत्ति बलादुद्दालयति, विच्छिनत्ति विच्छिन्नं करोति, दरे व्यवस्थापयतीत्यर्थः, भिनत्ति पात्रं स्फोटयति, अपहरति चोरयति, वाशब्दा: सर्वे विकल्पार्था इत्येकं परीषहादिसहनालम्बनस्थानम्, इदं चाक्रोशादिकम् इह प्राय आक्रोश-वधाभिधानपरीषहद्वयरूपं मन्तव्यम्, उपसर्गविवक्षायां तु मानुष्यकप्राद्वेषिकाद्युपसर्गरूपमिति १, तथा यक्षाविष्टो देवाधिष्ठितोऽयं तेनाक्रोशतीत्यादि द्वितीयम् २, तथा अयं हि परीषहोपसर्गकारी मिथ्यात्वादिकर्मवशवर्ती ममं च णं ति मम पुनस्तेनैव मानुष्यकेण भवेन जन्मना वेद्यते अनुभूयते यत्तत्तद्भववेदनीयं कर्म उदीर्णं भवति अस्ति तेनैष मामाक्रोशतीत्यादि तृतीयम् ३, तथा एष बालिश: पापाभीतत्वात् करोतु नामाक्रोशनादि, मम पुनरसहमानस्य किं मन्ने त्ति मन्ये इति निपातो वितर्कार्थ: कज्जइ त्ति सम्पद्यते, इह विनिश्चयमाह- एगंतसो त्ति एकान्तेन सर्वथा पापं कर्म असातादि क्रियते संपद्यत इति चतुर्थम् ४, तथा अयं तावत् पापं बध्नाति मम चेदं सहतो निर्जरा क्रियत इति पञ्चमम् ५। इच्चेयेहीत्यादि निगमनमिति । शेष सुगमम्। Page #39 -------------------------------------------------------------------------- ________________ ४४० छद्मस्थविपर्यय: केवलीति तत्सूत्रम् सुगमं किन्तु, तत्र च क्षिप्तचित्तः पुत्रशोकादिना नष्टचित्त:, दृप्तचित्त: पुत्रजन्मादिना दर्पवच्चित्त उन्मत्त एवेति । मां च सहमानं दृष्ट्वा अन्येऽपि सक्ष्यन्ति, उत्तमानुसारित्वात् प्राय इतरेषाम्, यदाह जो उत्तमेहिं मग्गो पहओ सो दुक्करो न सेसाणं । ... आयरियम्मि जयंते तयणुयरा केण सीएजा ? ॥ [ ] इति । इच्चेयेहीत्याद्यत्रापि निगमनम्, शेषं सुगममिति । [सू० ४१०] पंच हेऊ पन्नत्ता, तंजहा-हेउं न जाणति, हेउं ण पासति, हेउं ण बुज्झति, हेउं णाभिगच्छति, हेडं अन्नाणमरणं मरति १ । पंच हेऊ पन्नत्ता, तंजहा-हेउणा ण जाणति जाव हेउणा अन्नाणमरणं मरति २ । पंच हेऊ पन्नत्ता, तंजहा-हेउं जाणति जाव हेउं छउमत्थमरणं मरति ३॥ पंच हेऊ पन्नत्ता, तंजहा-हेउणा जाणति जाव हेउणा छउमत्थमरणं मरति ४। पंच अहेऊ पन्नत्ता, तंजहा-अहेउं ण याणति जाव अहेउं छउमत्थमरणं मरति ५ । ___पंच अहेऊ पन्नत्ता, तंजहा-अहेउणा न जाणति जाव अहेउणा छउमत्थमरणं मरति ६ । पंच अहेऊ पन्नत्ता, तंजहा-अहेउं जाणति जाव अहेउं केवलिमरणं मरति ___पंच अहेऊ पन्नत्ता, तंजहा- अहेउणा जाणति जाव अहेउणा केवलिमरणं मरति ८ । केवलिस्स णं पंच अणुत्तरा पन्नत्ता, तंजहा- अणुत्तरे नाणे, अणुत्तरे दंसणे, अणुत्तरे चरित्ते, अणुत्तरे तवे, अणुत्तरे वीरिते ९॥ [टी०] छद्मस्थ-केवलिनोरनन्तरं स्वरूपमुक्तमिदानीमपि तयोरेव तदाह- पंच हेऊ इत्यादि सूत्रनवकम्, तत्र भगवतीपञ्चमशतसप्तमोद्देशकचूर्ण्यनुसारेण किमपि लिख्यते, पञ्च हेतवः, इह य: छद्मस्थतयाऽनुमानव्यवहारी अनुमानाङ्गतया हेतुं लिङ्गं धूमादिकं Page #40 -------------------------------------------------------------------------- ________________ पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । ४४१ जानाति स हेतुरेवोच्यते १, एवं य: पश्यति २ श्रद्धत्ते ३ प्राप्नोति चेति ४, तदेवं हेतुचतुष्टयं मिथ्यादृष्टिमाश्रित्य कुत्साद्वारेणाह– हेतुं न जानाति न सम्यग् विशेषतो गृह्णाति, नञः कुत्सार्थत्वादसम्यगवैतीत्यर्थः, एवं न पश्यति सामान्यत:, न बुध्यते न श्रद्धत्ते, बोधे: श्रद्धानपर्यायत्वात्, तथा न समभिगच्छति भवनिस्तरणकारणतया न प्राप्नोति, एवं चायं चतुर्विधो हेतुर्भवतीति, तथा हेतुम् अध्यवसानादिमरणहेतुजन्यत्वेनोपचाराद् अज्ञानमरणं मिथ्यादृष्टित्वेनाऽज्ञातहेतुतद्गम्यभावस्य मरणं तम्रियते करोति, यश्चैवंविध: सोऽपि हेतुरेवेति पञ्चमो हेतुरिति १। __तथा पंच हेतवः, तत्र यो हेतुना धूमादिनाऽनुमेयमर्थं जानाति स हेतुरेव, एवं यः पश्यतीत्यादि । तदेवं कुत्साद्वारेण मिथ्यादृष्टिमाश्रित्य हेतुचतुष्टयमाह- हेतुना न जानात्यनुमेयम्, नञः कुत्सार्थत्वादेवासम्यगवगच्छतीत्यर्थः, एवं न पश्यतीत्यादि, तथा हेतुना मरणकारणेन योऽज्ञानमरणं म्रियते स हेतुरेवेति पञ्चमो हेतुरिति २। तथा पञ्च हेतवो यो हि सम्यग्दृष्टितया हेतुं सम्यग् जानाति स हेतुरेवेत्येवमन्येऽपि, नवरं हेतुं हेतुमत् छद्मस्थमरणं सम्यग्दृष्टित्वान्नाज्ञानमरणमनुमातृत्वाच्च न केवलिमरणमिति, एवं तृतीयान्तसूत्रमपि । इह सूत्रद्वयेऽपि हेतव: स्वरूपत उक्ता: ३-४ । __तथा पञ्चाहेतवः, य: प्रत्यक्षज्ञानादितया अनुमानानपेक्ष: स धूमादिकं हेतुं नायं हेतुर्ममानुमानोत्थापक इत्येवं जानातीत्यतोऽहेतुभूतं तं जाननहेतुरेवासावुच्यते, एवं दर्शनबोधा-ऽभिसमागमापेक्षयाऽपि । तदेवमहेतुचतुष्टयं छद्मस्थमाश्रित्य देशनिषेधत आहअहेतुमिति, धूमादिकं हेतुमहेतुभावेन न जानाति न सर्वथाऽवगच्छति, कथञ्चिदेवावगच्छतीत्यर्थः, नबो देशनिषेधार्थत्वात्, ज्ञातुश्चावध्यादिकेवलित्वेनानु-मानाव्यवहर्तृत्वादित्येकोऽयमहेतुर्देशप्रतिषेधत उक्तः, एवमहेतुं कृत्वा धूमादिकं न पश्यतीति द्वितीयः, न बुध्यते न श्रद्धत्ते इति तृतीयः, नाभिसमागच्छतीति चतुर्थः, तथा अहेतुम् अध्यवसानादिहेतुनिरपेक्षं निरुपक्रमतया छद्मस्थमरणम् अननुमानव्यवहर्तृत्वेऽप्यकेवलित्वात् तस्य, अयं च स्वरूपत एव पञ्चमोऽहेतुरुक्त: ५ ।। ___ तथा पञ्च अहेतवः, योऽहेतुना हेत्वभावेन अवध्यादिकेवलित्वात् जानात्यसावहेतुरेवेत्येवं पश्यतीत्यादयोऽपि, एवं च छद्मस्थमाश्रित्य पदचतुष्टयेनाहेतुचतुष्टयं Page #41 -------------------------------------------------------------------------- ________________ ४४२ देशप्रतिषेधत आह, तथा अहेतुना उपक्रमाभावेन छद्मस्थमरणं म्रियत इति पञ्चमोऽहेतुः स्वरूपत एवोक्त:६। ___ तथा पञ्च अहेतवः, अहेतुं न हेतुभावेन विकल्पितं धूमादिकं जानाति केवलितया योऽनुमानाव्यवहारित्वात् सोऽहेतुरेव, एवं य: पश्यतीत्यादि, तथा अहेतुं निर्हेतुकमनुपक्रमत्वात् केवलिमरणमनुमानाव्यवहारित्वान्मियते यात्यसावहेतु: पञ्चमः, एते पञ्चापीह स्वरूपत उक्ता: ७ । एवं तृतीयान्तसूत्रमप्यनुसतव्यमिति ८ । गमनिकामात्रमेतत्, तत्त्वं तु बहुश्रुता विदन्तीति । तथा न सन्त्युत्तराणि प्रधानानि येभ्यस्तान्यनुत्तराणि, यथास्वं सर्वथाऽऽवरणक्षयात्, तत्राऽऽद्ये ज्ञान-दर्शनावरणक्षयाद्, अनन्तरे मोहक्षयात्, तपसश्चारित्रभेदत्वात्, तपश्च केवलिनामनुत्तरं शैलेश्यवस्थायां शुक्लध्यानभेदस्वरूपम्, ध्यानस्याभ्यन्तरतपोभेदत्वात्, वीर्यं तु वीर्यान्तरायक्षयादिति ९। [सू० ४११] पउमप्पभे णमरहा पंचचित्ते होत्था, तंजहा- चित्ताहिं चुते चइत्ता गब्भं वक्तंते, चित्ताहिं जाते, चित्ताहिं मुंडे भवित्ता अगाराओ अणगारितं पव्वइए, चित्ताहिं अणंते अणुत्तरे णिव्वाघाते णिरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पन्ने, चित्ताहिं परिणिव्वुते । पुप्फदंते णं अरहा पंचमूले होत्था, मूलेणं चुते चइत्ता गम्भं वक्वंते, एवं चेव । एवमेतेणं अभिलावेणं इमातो गाहातो अणुगंतव्वातोपउमप्पभस्स चित्ता १, मूलो पुण होइ पुप्फदंतस्स २॥ पुव्वा य आसाढा सीतलस्स ३, उत्तर विमलस्स भद्दवता ४॥३४॥ रेवतित अणंतजिणो ५, पूसो धम्मस्स ६, संतिणो भरणी ७। कुंथुस्स कत्तियाओ ८, अरस्स तह रेवतीतो य ९॥३५॥ मुणिसुव्वतस्स सवणो १०, आसिणि णमिणो य ११, नेमिणो चित्ता १२॥ पासस्स विसाहाओ १३, पंच य हत्थुत्तरे वीरो १४॥३६॥ समणे भगवं महावीरे पंचहत्थुत्तरे होत्था, तंजहा- हत्थुत्तराहिं चुते चइत्ता Page #42 -------------------------------------------------------------------------- ________________ ४४३ पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । गन्भं वक्तंते, हत्थुत्तराहिं गब्भातो गन्भं साहरिते, हत्थुत्तराहिं जाते, हत्थुत्तराहिं मुंडे भवित्ता जाव पव्वइए, हत्थुत्तराहिं अणंते अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने । [टी०] केवल्यधिकारात् तीर्थकरसूत्राणि चतुर्दश, सर्वाणि कण्ठ्यानि, नवरं पद्मप्रभः ऋषभादिषु षष्ठः, पञ्चसु च्यवनादिदिनेषु चित्रा नक्षत्रविशेषो यस्य स पञ्चचित्रः, चित्राभिरिति रूढ्या बहुवचनम्, च्युत: अवतीर्णः उपरिमोपरिम-ग्रैवेयकादेकत्रिंशत्सागरोपमस्थितिकात्, च्युत्वा च गब्भं ति ग| कुक्षौ व्युत्क्रान्त: उत्पन्न: कौशाम्ब्यां धराभिधानमहाराजभार्याया: सुसीमानामिकाया: माघमासबहुलषष्ठ्याम्, जातो गर्भनिर्गमेन कार्तिकबहुलद्वादश्याम्, तथा मुण्डो भूत्वा केश-कषायाद्यपेक्षया अगारान्निष्क्रम्याऽनगारितां श्रमणतां प्रव्रजितो गतः, अनगारतया वा प्रव्रजितः कार्त्तिकशुद्धत्रयोदश्याम्, तथाऽनन्तं पर्यायानन्तत्वात् अनुत्तरं सर्वज्ञानोत्तमत्वात् निर्व्याघातमप्रतिपातित्वात् निरावरणं सर्वथा स्वावरणक्षयात् कट-कुड्याद्यावरणाभावाद्वा कृत्स्नं सकलपदार्थविषयत्वात् परिपूर्ण स्वावयवापेक्षया अखण्डं पौर्णमासीचन्द्रबिम्बवत्, किमित्याह केवलं ज्ञानान्तरासहायत्वात् संशुद्धत्वाद्वा अत एव वरं प्रधानं केवलवरं ज्ञानं च विशेषावभासं दर्शनं च सामान्यावभासं ज्ञानदर्शनं तच्च तत्तच्चेति केवलवरज्ञानदर्शनं समुत्पन्नं जातं चैत्रशुद्धपञ्चदश्याम्, तथा परिनिर्वृतो निर्वाणं गतः मार्गशीर्षबहुलैकादश्यामादेशान्तरेण फाल्गुनबहुलचतुर्थ्यामिति । एवं चेव त्ति पद्मप्रभसूत्रमिव पुष्पदन्तसूत्रमप्यध्येतव्यम्, एवम् अनन्तरोक्तस्वरूपेण एतेन अनन्तरत्वात् प्रत्यक्षेणाभिलापेन सूत्रपाठेनेमास्तिस्रः सूत्रसङ्ग्रहणिगाथा अनुगन्तव्याः अनुसतव्या: शेषसूत्राभिलापनिष्पादनार्थम् । पउमप्पभस्सेत्यादि, तत्र पद्मप्रभस्य चित्रानक्षत्रं च्यवनादिषु पञ्चसु स्थानकेषु भवतीत्यादि गाथाक्षरार्थो वक्तव्य:, सूत्राभिलापस्त्वाद्यसूत्रद्वयस्य साक्षाद्दर्शित एव, इतरेषां त्वेवम्- ‘सीयले णं अरहा पंचपुव्वासाढे होत्था, तंजहा– पुव्वासाढाहिं चुए चइत्ता गम्भं वक्कंते, पुव्वासाढाहिं जाए' इत्यादि, एवं सर्वाण्यपि इति, व्याख्या त्वेवम्- पुष्पदन्तो नवमतीर्थकर: आनतकल्पादेकोनविंशतिसागरोपमस्थितिकात् इत्यादि वृत्तौ। एवं गाथात्रयोक्तानां Page #43 -------------------------------------------------------------------------- ________________ ४४४ शेषाणामपि सूत्राणां प्रथमानुयोगपदानुसारेणोपयुज्य व्याख्या कार्या, नवरं चतुर्दशसूत्रे अभिलापविशेषोऽस्तीति तदर्शनार्थमाह- समणे इत्यादि, सुगमम्। ॥ इति पञ्चस्थानकस्य प्रथमोद्देशकः समाप्त: ॥ [अथ द्वितीय उद्देशकः] [सू० ४१२] नो कप्पइ निग्गंथाण वा निगंथीण वा इमातो उद्दिट्ठाओ गणिताओ वितंजितातो पंच महण्णवातो महाणदीओ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरित्तए वा, तंजहा- गंगा, जउणा, सरऊ, एरावती, मही । पंचहिं ठाणेहिं कप्पति, तंजहा- भयंसि वा १, दुब्भिक्खंसि वा २, पव्वहेज व णं कोति ३, दओघंसि वा एजमाणंसि महता वा ४, अणारितेहिं ५ । [सू० ४१३] णो कप्पति णिग्गंथाण वा णिग्गंथीण वा पढमपाउसंसि गामाणुगामं दूइज्जित्तए । पंचहिं ठाणेहिं कप्पति, तंजहा- भयंसि वा, दुब्भिक्खंसि वा, जाव महता वा अणारितेहिं ५।। ___ वासावासं पज्जोसविताणं णो कप्पति णिग्गंथाण वा णिग्गंथीण वा गामाणुगामं दूतिजित्तते । पंचहिं ठाणेहिं कप्पति, तंजहा- णाणट्ठताते, दंसणट्टताते, चरित्तट्टताते, आयरियउवज्झाए वा से वीसुंभेजा, आयरियउवज्झायाण वा बहिता वेयावच्चं करणताते । [सू० ४१४] पंच अणुग्घातिता पन्नत्ता, तंजहा- हत्थाकम्मं करेमाणे, मेहुणं पडिसेवमाणे, रातीभोयणं भुंजमाणे, सागारितपिंडं भुंजमाणे, रायपिंडं भुंजमाणे। [सू० ४१५] पंचहिं ठाणेहिं समणे निग्गंथे रायंतेउरमणुपविसमाणे नाइक्कमति, तंजहा- नगरे सिता सव्वतो समंता गुत्ते गुत्तदुवारे, बहवे समणमाहणा णो संचाएंति भत्ताते वा पाणाते वा निक्खमित्तते वा पविसित्तते वा, तेसिं विनवणट्टताते रातंतेउरमणुपविसेज्जा १, पाडिहारितं वा पीढ Page #44 -------------------------------------------------------------------------- ________________ ४४५ पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः । फलग-सेजा-संथारगं पच्चप्पिणमाणे रायंतेउरमणुपविसेज्जा २, हतस्स वा गयस्स वा दुट्ठस्स आगच्छमाणस्स भीते रायंतेउरमणुपविसेज्जा ३, परो व णं सहसा वा बलसा वा बाहाते गहाय रायंतेउरमणुपविसेज्जा ४, बहिता व णं आरामगतं वा उजाणगतं वा रायंतेउरजणो सव्वतो समंता संपरिक्खिवित्ता णं निवेसेज्जा। इच्चेतेहिं पंचहिं ठाणेहिं समणे निग्गंथे जाव णातिक्कमति । ___ [टी०] उक्त: प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्ध:अनन्तरोद्देशके विविधा जीववक्तव्यतोक्ता, इहापि सैवोच्यत इत्येवमभिसम्बन्धस्यास्येदमादिसूत्रम्- नो कप्पईत्यादि । अस्य च पूर्वसूत्रेण सहायमभिसम्बन्ध:- पूर्वसूत्रे केवलिनिर्ग्रन्थगतं वस्तूक्तमिह तु छद्मस्थनिर्ग्रन्थगतं तदुच्यत इत्येवमस्याराद्गर्भसूत्राद् अन्येषां च सम्बद्धानां नो कप्पईत्यादीनां व्याख्या सुकरैव, नवरं नो कप्पइ त्ति न कल्पन्ते न युज्यन्ते, एकवचनस्य बहुवचनार्थत्वात् वत्थगन्धमलङ्कार [दशवै० २।२]मित्यादाविवेति, निर्गता ग्रन्थादिति निर्ग्रन्थाः साधवस्तेषाम्, तथा निर्ग्रन्थीनां साध्वीनाम्, इह प्रायस्तुल्यानुष्ठानत्वमुभयेषामपीतिदर्शनार्थी वाशब्दौ, इमा इति वक्ष्यमाणनामत: प्रत्यक्षासन्नाः, उद्दिष्टाः सामान्यतोऽभिहिता यथा महानद्य इति, गणिता: यथा पञ्चेति, व्यञ्जिता व्यक्तीकृता: यथा गंगेत्यादि, विशेषणोपादानाद्वा यथा महार्णवा इति, तत्र महार्णव इव या बहूदकत्वात् महार्णवगामिन्यो वा यास्ता वा महार्णवा महानद्यो गुरुनिम्नगा: अन्त: मध्ये मासस्य द्विकृत्वो वा द्वौ वारौ त्रिकृत्वो वा त्रीन् वारान् उत्तरीतुं लङ्घयितुं बाहु-जङ्घादिना सन्तरीतुं साङ्गत्येन नावादिनेत्यर्थः लवयितुमेव, सकृद्वोत्तरीतुम्, अनेकश: सन्तरीतुमिति, अकल्प्यता चात्म-संयमोपघात-सम्भवेन शबलचारित्रभावाद् । अपवादमाह-पंचेत्यादि, भये राज-प्रत्यनीकादेः सकाशादुपध्याद्यपहारविषये सति १, दुर्भिक्षे वा भिक्षाऽभावे सति २, पव्वहेज त्ति प्रव्यथते बाधते अन्तर्भूतकारितार्थत्वाद् वा प्रवाहयेत् कश्चित् प्रत्यनीक: तत्रैव गङ्गादौ प्रक्षिपेदित्यर्थ: ३, दओघंसि त्ति उदकौघे वा गङ्गादीनामुन्मार्गगामित्वेनाऽऽगच्छति सति तेन प्लाव्यमानानामित्यर्थः, महता वा Page #45 -------------------------------------------------------------------------- ________________ ४४६ आटोपेनेति शेष: ४, अणारिएसु त्ति विभक्तिव्यत्ययादनायै: म्लेच्छादिभिर्जीवितचारित्रापहारिभिरभिभूतानामिति शेष:, एतानि पुष्टालम्बनानीति तत्तरणेऽपि न दोष इति, उक्तं च सालंबणो पडतो वि अप्पयं दग्गमे वि धारेइ । इय सालंबणसेवी धारेइ जई असढभावं ॥ [आलंबणहीणो पुण निवडइ खलिओ अहे दुरुत्तारे । इय निक्कारणसेवी पडइ भवोहे अगाहम्मि ॥ [आव० नि० ११८६-८७] इति । ] तथा पढमपाउसंसि त्ति इह आषाढ-श्रावणौ प्रावृट्, आषाढस्तु प्रथमप्रावृट्, ऋतूनां वा प्रथमेति प्रथमप्रावृट्, अथवा चतुर्मासप्रमाणो वर्षाकाल: प्रावृडिति विवक्षितः। ततस्तत्र प्रावृषि किमत आह– एकस्माद् ग्रामादवधिभूतादुत्तरग्रामाणामनतिक्रमो ग्रामानुग्रामं तेन, ग्रामपरम्परयेत्यर्थः, तत्र दूइजित्तए त्ति द्रोतुं विहर्तुमित्युत्सर्गः, अपवादमाह- पंचेत्यादि तथैव, नवरमिह प्रव्यथेत ग्रामाच्चालयेन्निष्काशयेत् कश्चित्, उदकौघे वा आगच्छति ततो नश्येदिति। पज्जोसवियाणं ति परीति सामस्त्येनोषितानां पर्युषणाकल्पेन नियमवद्वस्तुमारब्धानामित्यर्थः, पर्युषणाकल्पश्च न्यूनोदरताकरणं विकृतिनवकपरित्याग: पीठ-फलकादिसंस्तारकादानमुच्चारादिमात्रकसंग्रहणं लोचकरणं शैक्षाप्रव्राजनं प्राग्गृहीतानां भस्मडगलकादीनां परित्यजनमितरेषां ग्रहणं द्विगुणवर्षापग्रहोपकरणधरणमभिनवोपकरणाग्रहणमित्यादि, शेषं तथैव। पंचहिमित्यादि ज्ञानमेवार्थो यस्य स ज्ञानार्थः, तद्भावस्तत्ता, तया ज्ञानार्थतया ज्ञानार्थित्वेन, तत्रापूर्वः श्रुतस्कन्धोऽन्यस्याचार्यादेरस्ति स च भक्तं प्रत्याख्यातुकामस्ततो यद्यसौ तत्सकाशान्न गृह्यते ततोऽसौ व्यवच्छिद्यते अतस्तद्ग्रहणार्थं ग्रामानुग्रामं द्रोतुं कल्पते, एवं दर्शनार्थतया दर्शनप्रभावकशास्त्रार्थित्वेन, चारित्रार्थतया तु तस्य क्षेत्रस्यानेषणा-स्त्र्यादिदोषदुष्टतया तद्रक्षणार्थम्, तथा आयरियउवज्झाये व त्ति समाहारद्वन्द्वत्वादाचार्योपाध्यायं वा से तस्य भिक्षो: वीसुंभेज त्ति विष्वक शरीरात् पृथग् भवेत् जायेत, नियेतेत्यर्थः, ततस्तत्र गच्छे अन्यस्याचार्यादेरभावाद् गणान्तराश्रयणार्थम्, तथा आचार्योपाध्यायानां वा बहिस्ताद् वर्षाक्षेत्रस्य वर्तमानानां Page #46 -------------------------------------------------------------------------- ________________ ४४७ पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः । वैयावृत्यकरणतायै प्रेषितस्याचार्यादिना द्रोतुं कल्पत इति, उक्तं चअसिवे ओमोयरिए रायदुढे भए व गेलन्ने । नाणाइतिगस्सट्ठा ३ वीसुंभण ४ पेसणेणं ५ च ॥ [निशीथभा० ३१२९, बृहत्कल्प० २७४१] इति। अणुघाइय त्ति न विद्यते उद्घातो लघूकरणलक्षणो यस्य तपोविशेषस्य तदनुद्घातं यथाश्रुतदानमित्यर्थः, तद्येषां प्रतिषेवाविशेषतोऽस्ति तेऽनुद्घातिका: । हस्तकर्म समयप्रसिद्धम्, तत् कुर्वाणः । मैथुनम् अब्रह्म अतिक्रमादिना सेवमानः । तथा भुज्यत इति भोजनम्, रात्रौ भोजनं रात्रिभोजनम्, तच्च द्रव्यतोऽशनादि, क्षेत्रत: समयक्षेत्रे, कालतो दिवा गृहीतं दिवा भुक्तं दिवा गृहीतं रात्रौ भुक्तं रात्रौ गृहीतं दिवा भुक्तं रात्रौ गृहीतं रात्रौ भुक्तमित्येवं चतुर्भङ्गरूपम्, भावतो राग-द्वेषाभ्याम्, तद् भुञ्जानोऽश्नन्नित्यर्थः, अत्र दोषा:- संतिमे सुहुमा पाणा [दशवै० ६।२४-२६] इत्यादि । तथा अगारं गृहम्, सह तेन वर्त्तत इति सागार:, स एव सागारिकः शय्यातरः, तस्य पिण्डः आहारोपधिरूपः, अन्यस्त्वसौ न भवति, उक्तं च___ तण-छार-डगल- इत्यादि । इति सागारिकपिण्डः, तं भुञ्जानः । तथा राज्ञ: पिण्डो राजपिण्डः, तं भुञ्जानः, राजा चेह चक्रवर्त्यादिर्यत आहजो मुद्धा अभिसित्तो पंचहिं सहिओ य भुंजए रजं । तस्स उ पिंडो वज्जो तब्विवरीयम्मि भयणा उ ॥ [निशीथभा० २४९७] । पंचहिमित्यादि नाइक्कमइ त्ति आज्ञामाचारं वेति । नगरं स्यात् भवेत् सर्वतः सर्वासु दिक्षु समन्ताद् विदिक्षु, गुप्तं प्राकारवेष्टितत्वात् गुप्तद्वारं द्वाराणां स्थगितत्वात्, श्राम्यन्ति तपस्यन्तीति श्रमणा: मा वधीरिति प्रवृत्तिर्येषां ते माहना: उत्तरगुणमूलगुणवन्त: संयता इत्यर्थः, अथवा श्रमणा: शाक्यादय: माहना ब्राह्मणा नो संचाएंति न शक्नुवन्ति, भक्ताय पानाय वा निष्क्रमितुं वा निर्गन्तुं नगरात् तबहिर्भिक्षाकुलेषु भिक्षित्वा तथैव प्रवेष्टुं वेति, ततस्तेषां श्रमणादीनां प्रयोजने विज्ञापनाय राज्ञोऽन्तःपुरस्थस्य प्रमाणभूतराज्या वा राजान्त:पुरमनुप्रविशेत्, इह च शाक्यादीनां प्रयोजने यद् राज्ञो विज्ञापनं तदपवादापवादरूपम्, असंयताविरतत्वात्तेषाम्, Page #47 -------------------------------------------------------------------------- ________________ ४४८ एतच्च किञ्चिदात्यन्तिकं सङ्घादिप्रयोजनमवलम्बमानानां भवतीति समवसेयमित्येकम् । तथा कृतप्रयोजनैः प्रतिह्रियते प्रतिनीयते यत्तत् प्रतिहारप्रयोजनत्वात् प्रातिहारिकम्, पीठं पट्टादिकं फलकम् अवष्टम्भफलकं शय्या सर्वाङ्गीणा फलकादिरूपा संस्तारको लघुतरो पीठ-फलक-शय्यासंस्तारकं पच्चप्पिणमाणे त्ति आर्षत्वात् प्रत्यर्पयितुं तत् प्रविशेत् यस्माद् यदानीतं तत्तत्रैव निक्षेप्तव्यमिति कृत्वेति द्वितीयम्। हयादेर्दुष्टादागच्छतो भीत इति तृतीयम् । पर: आत्मव्यतिरिक्त: सहस त्ति अकस्मात् बलस त्ति बलेन हठात् सकारस्त्वागमिको बाहौ गृहीत्वेति चतुर्थम् । बहिया व त्ति नगरादेर्बहिरारामगतं वा उद्यानगतं वा निर्ग्रन्थम्, तत्र आरामो विविधपुष्पजात्युपशोभित उद्यानं तु चम्पकवनाद्युपशोभितमिति, संपरिक्खिवित्त त्ति संपरिक्षिप्य परिवार्य सन्निविशेत क्रीडाद्यर्थं गत आवासं कुर्यादिति पञ्चममिति । इच्चेएहीत्यादिना निगमनम्, इह च पीठादीनामर्पणस्य ग्रहणव्यतिरेकेणासम्भवात् तद्ग्रहणमप्यनेनैव सगृहीतं द्रष्टव्यमिति । । [सू० ४१६] पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं असंवसमाणी वि गन्भं धरेजा, तंजहा- इत्थी दुव्वियडा दुन्निसण्णा सुक्कपोग्गले अधिट्ठिज्जा, सुक्कपोग्गलसंसिट्टे व से वत्थे अंतो जोणीते अणुपविसेज्जा, सई व से सुक्कपोग्गले अणुपवेसेज्जा, परो व से सुक्कपोग्गले अणुपवेसेज्जा, सीओदगवियडेण वा से आयममाणीते सुक्कपोग्गला अणुपविसेजा। इच्चेतेहिं पंचहिं ठाणेहिं जाव धरेज्जा १। पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणी वि गभं नो धरेजा, तंजहा- अप्पत्तजोव्वणा १, अतिक्कंतजोव्वणा २, जातिवंझा ३, गेलन्नपुट्ठा ४, दोमणंसिता ५ । इच्चेतेहिं पंचहिं ठाणेहिं जाव नो धरेजा २ । ___ पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणी वि गन्भं नो धरेज्जा, तंजहा- निच्चोउया, अणोउया, वावन्नसोया, वाविद्धसोया, अणंगपडिसेविणी। इच्चेतेहिं पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणी वि गन्भं णो धरेजा पंचहिं ठाणेहिं इत्थी पुरिसेहिं सद्धिं संवसमाणी वि गन्भं नो धरेजा, Page #48 -------------------------------------------------------------------------- ________________ पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः ।। ४४९ तंजहा- उउम्मि णो णिगामपडिसेविणी तावि भवति, समागता वा से सुक्कपोग्गला पडिविद्धंसंति, उदिन्ने वा से पित्तसोणिते, पुरा वा देवकम्मुणा, पुत्तफले वा नो निम्विट्ठे भवति । इच्चेतेहिं जाव नो धरेज्जा ४ । __ [टी०] अनन्तरमन्त:पुरसूत्रत्वात् स्त्रीगतमुक्तमधुनाऽपि तद्गतमेव क्रियाविशेषमाहपंचहीत्यादि सूत्रचतुष्टयं कण्ठ्यम्, नवरं दुव्वियड त्ति विवृता अनावृता सा चोत्तरीयापेक्षयाऽपि स्यादतो दु:शब्देन विशेष्यते- दुष्ठ विवृता दुर्विवृता, परिधानवर्जितेत्यर्थः, अथवा विवृतोरुका दुर्व्विवृता, या दुर्विवृता सती दुनिषण्णा दुष्ठ विरूपतयोपविष्टा गुह्यप्रदेशेन कथञ्चित् पुरुषनिसृष्टशुक्रपुद्गलवद्भूमिपट्टादिक-मासनमाक्रम्य निविष्टा स्यात्, सा दुर्विवृतदुनिषण्णेति शुक्रपुद्गलान् कथञ्चित् पुरुष-निसृष्टानासनस्थानधितिष्ठेत् योन्याकर्षणेन संगृह्णीयात् तथा शुक्रपुद्गलसंसृष्टं से तस्याः स्त्रिया वस्त्रमन्त: मध्ये योनावनुप्रविशेत्, इह च वस्त्रमित्युपलक्षणम्, तथाविधमन्यदपि केशिमातु: केशवत् कण्डूयनार्थं रक्तनिरोधार्थं वा तया प्रयुक्तं सदनुप्रविशेद् अनाभोगेन वा तथाविधं वस्त्रं परिहितं सद् योनिमनुप्रविशेत्, तथा स्वयमिति पुत्रार्थिनीत्वाच्छीलरक्षकत्वाच्च से ति सा शुक्रपुद्गलान् योनावनुप्रवेशयेत्, तथा परो वेत्ति श्वश्रूप्रभृतिक: पुत्रार्थमेव से तस्या योनाविति गम्यते, तथा वियडं ति समयभाषया जलं तच्चानेकधेत्यत उच्यते शीतोदकलक्षणं यद्विकटं पल्वलादिगतमित्यर्थः तेन वा से तस्या आचमत्या: पूर्वपतिता उदकमध्यवर्तिनः शुक्रपुद्गला: अनुप्रविशेयुरिति। इच्चे एहीत्यादि निगमनमिति । अप्राप्तयौवना प्राय आ वर्षद्वादशकादार्त्तवाभावात्, तथाऽतिक्रान्तयौवना वर्षाणां पञ्चपञ्चाशत: पञ्चाशतो वा परत आर्त्तवाभावादेव, यतोऽवाचि मासि मासि रज: स्त्रीणामजस्रं स्रवति त्र्यहम् । वत्सराद् द्वादशादूर्ध्वं याति पञ्चाशत: क्षयम् ॥ पूर्णषोडशवर्षा स्त्री, पूर्णविंशेन संगता । शुद्धे गर्भाशये १ मार्गे २, रक्ते ३ शुक्रे ४ ऽनिले ५ हृदि ६॥ वीर्यवन्तं सुतं सूते, ततो न्यूनाब्दयोः पुनः । रोग्यल्पायुरधन्यो वा, गर्भो भवति नैव वा ॥ [ ] इति । शुद्धे निर्दोषे गर्भाशयादिषट्क इत्यर्थः । तथा जाते: जन्मत आरभ्य वन्ध्या निर्बीजा Page #49 -------------------------------------------------------------------------- ________________ ४५० जातिवन्ध्या, तथा ग्लान्येन ग्लानत्वेन स्पृष्टा ग्लान्यस्पृष्टा रोगार्दिता, तथा दौर्मनस्यं शोकाद्यस्ति यस्या सा दौर्मनस्यिका तद्वा सञ्जातमस्या इति दौर्मनस्यितेति। इच्चेएहीत्यादि निगमनम् । नित्यं सदा न त्र्यहमेव ऋतू रक्तप्रवृत्तिलक्षणो यस्या: सा नित्यर्तुका, तथा न विद्यते ऋतुरुक्तरूप: शास्त्रप्रसिद्धो वा यस्याः सा अनृतुका, तथाहिऋतुस्तु द्वादश निशाः, पूर्वास्तिस्रोऽत्र निन्दिताः । एकादशी च युग्मासु स्यात् पुत्रोऽन्यासु कन्यका ॥ पद्मं सङ्कोचमायाति, दिनेऽतीते यथा तथा । ऋतावतीते योनि: सा, शुक्रं नैव प्रतीच्छति ॥ मासेनोपचितं रक्तं धमनीभ्यामृतौ पुन: । ईषत्कृष्णं विगन्धं च, वायुर्योनिमुखान्नुदेद् ॥ [ ] इति । तथा व्यापन्नं विनष्टं रोगत: श्रोतो गर्भाशयच्छिद्रलक्षणं यस्या: सा व्यापन्नश्रोता:, तथा व्यादिग्धं व्याविद्धं वा वातादिव्याप्तं विद्यमानमप्युपहतशक्तिकं श्रोतः उक्तरूपं यस्या: सा व्यादिग्धश्रोता व्याविद्धश्रोता वा, तथा मैथुने प्रधानमङ्गं मेहनं भगश्च, तत्प्रतिषेधोऽनङ्गम्, तेनानङ्गेनाहार्यलिङ्गादिना अनङ्गे वा मुखादौ प्रतिषेवाऽस्ति यस्या अनङ्ग वा काममपरापरपुरुषसम्पर्कतोऽतिशयेन प्रतिषेवत इत्येवंशीलाऽनङ्गप्रतिषेविणी, तथाविधवेश्यावदिति, ऋतौ ऋतुकाले नो नैव निकामम् अत्यर्थं बीजपातं यावत् पुरुषं प्रतिषेवत इत्येवंशीला निकामप्रतिषेविणी, वाऽपीति उत्तरविकल्पापेक्षया समुच्चये, समागता वा से तस्यास्ते प्रतिविध्वंसन्ते योनिदोषादुपहतशक्तयो भवन्ति, मेहनविश्रोतसा वा योनेर्बहि: पतन्तो विध्वंसन्ते इति, उदीर्णं च उत्कटं तस्याः पित्तप्रधानं शोणितं स्यात् तच्चाबीजमिति, पुरा वा पूर्व वा गर्भावसरात् देवकर्मणा देवक्रियया देवतानुभावेन शक्त्युपघात: स्यादिति शेष:, अथवा देवश्च कार्मणं च तथाविधद्रव्यसंयोगो देवकार्मणं तस्मादिति, पुत्रलक्षणं फलं पुत्रफलं पुत्रो वा फलं यस्य कर्मणस्तत् पुत्रफलं तद्वा नो निर्विष्टं भवति, अलब्धम् अनुपात्तं स्यादित्यर्थः, थेवं बहुनिव्वेसं [ओघनि० ५३०] इत्यादौ निर्वेशशब्दस्य लाभार्थस्य दर्शनात्, अथवा पुत्र: फलं यस्य तत् पुत्रफलं दानं तज्जन्मान्तरेऽनिर्विष्टम् अदत्तं भवति, निर्विष्टस्य Page #50 -------------------------------------------------------------------------- ________________ पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः । ४५१ दत्तार्थत्वात्, यथा नानिन्विट्ठ लब्भइ [पिण्डनि० ३७०, निशीथभा० ४५०४] त्ति ।। [सू० ४१७] पंचहिं ठाणेहिं निग्गंथा य निग्गंथीओ य एगतओ ठाणं वा सेजं वा निसीहियं वा चेतेमाणा णातिकमंति, तंजहा- अत्थेगइया निग्गंथा य निग्गंथीओ य एगं महं अगामितं छिन्नावायं दीहमद्धमडविमणुपविठ्ठा, तत्थेगयतो ठाणं वा सेजं वा निसीहियं वा चेतेमाणा णातिक्कमंति १, अत्थेगतिया णिग्गंथा य णिग्गंथीओ य गामंसि वा णगरंसि वा जाव रायहाणिंसि वा वासं उवगता, एगतिता यत्थ उवस्सयं लभंति, एगतिता णो लभंति, तत्थेगततो ठाणं वा जाव नातिक्कमंति २, अत्थेगतिता निग्गंथा य निग्गंथीओ य नागकुमारावासंसि वा सुवण्णकुमारावासंसि वा वासं उवगता तत्थेगायओ] जाव णातिक्कमति ३, आमोसगा दीसंति, ते इच्छंति निग्गंथीओ चीवरपडिताते पडिगाहेत्तते, तत्थेगतओ ठाणं वा जाव णातिक्कमंति ४, जुवाणा दीसंति, ते इच्छंति निग्गंथीओ मेहुणपडिताते पडिगाहित्तते, तत्थेगततो ठाणं वा जाव णातिक्कमंति ५ । इच्चेतेहिं पंचहिं ठाणेहिं जाव नातिक्कमंति। ___ पंचहिं ठाणेहिं समणे निग्गंथे अचेलए सचेलियाहिं निगंथीहिं सद्धिं संवसमाणे नाइक्कमति, तंजहा- खित्तचित्ते समणे णिग्गंथे निग्गंथेहिमविजमाणेहिं अचेलए सचेलियाहिं निग्गंथीहिं सद्धिं संवसमाणे णातिक्कमति १, एवमेतेणं गमएणं दित्तचित्ते जक्खातिढे उम्मायपत्ते निग्गंथीपव्वावियते समणे णिग्गंथे णिग्गंथेहिं अविजमाणेहिं अचेलए सचेलियाहिं णिग्गंथीहिं सद्धिं संवसमाणे णातिक्कमति । [टी०] स्त्र्यधिकारादेव साध्वीवक्तव्यताप्रतिबद्धं सूत्रद्वयमिदमाह- पंचहीत्यादि, सुगमम्, नवरम् एगयओ त्ति एकत्र ठाणं ति कायोत्सर्गाम्] उपवेशनं वा सेजं ति शयनं निसीहियं ति स्वाध्यायस्थानं चेतयन्त: कुर्वन्तो नातिक्रामन्ति न लङ्घयन्ति, आज्ञामिति गम्यते । अत्थि त्ति सन्ति भवन्ति एगइय त्ति एके केचन एकाम् अद्वितीयां महतीं विपुलामग्रामिकामकामिकां वा अनभिलषणीयां छिन्ना आपाता: सार्थगोकुलादीनां यस्यां सा तथा ताम्, दीर्घोऽध्वा मार्गो यस्यां सा तथा तामटवीं Page #51 -------------------------------------------------------------------------- ________________ ४५२ कान्तारमनुप्रविष्टा दुर्भिक्षादिकारणवशात् तत्र अटव्याम् एगयउ त्ति एकत: एकत्रेत्यर्थः स्थानादि कुर्वन्त: आगमोक्तसामाचार्या नातिक्रामन्ति १ । तथा राजधानी यत्र राजा अभिषिच्यते, वासमुपगता: निवासं प्राप्ता इत्यर्थः, एगइया यत्थ त्ति एकका एकतरा निर्ग्रन्था निर्ग्रन्थिका वा, च: पुनरर्थः, अत्र ग्रामादौ, उपाश्रयं गृहपतिगृहादिकमिति २, तथा अत्थे त्ति अथ गृहपतिगृहादिकमुपाश्रयमलब्ध्वा एगइया एके नागकुमारावासादौ वासमुपगता: अथवा अत्थे त्ति इह सम्बध्यते अस्ति सन्ति भवन्ति निवासमुपगता इति, तस्य च नागकुमारावासादेरतिशून्यत्वादथवा बहुजनाश्रयत्वादनायकत्वाच्च निर्ग्रन्थिकारक्षार्थमेकत एव स्थानादि कुर्वाणा नातिक्रामन्तीति ३, तथा आमुष्णन्तीत्यामोषका: चौरा दृश्यन्ते, ते च इच्छन्ति निर्ग्रन्थिका: चीवरवडियाए त्ति चीवरप्रतिज्ञया 'वस्त्राणि ग्रहीष्यामः' इत्यभिप्रायेण प्रतिग्रहीतुं यत्रेति गम्यते, तत्र निर्ग्रन्थास्तद्रक्षणार्थमेकत: स्थानादिकमिति ४, तथा मैथुनप्रतिज्ञया मैथुनार्थमिति ५। इदमपवादसूत्रम्, उत्सर्गश्चापवादसहितो भाष्यगाथाभिरवसेयस्ताश्च वृत्तौ। अचेल: क्षिप्तचित्तत्वादिना, क्षिप्तचित्त: शोकेन, तत्प्रतिजागरका: साधवो न विद्यन्ते ततो निर्ग्रन्थिका: पुत्रादिकमिव तं सङ्गोपायन्तीति न ततोऽप्यसावाज्ञामतिक्रामति १, दृप्तचित्तो हर्षातिरेकात् २, यक्षाविष्टो देवाधिष्ठित: ३, उन्मादप्राप्तो वातादिक्षोभात् ४, निर्ग्रन्थिकया कारणवशात् पुत्रादिः प्रताजित:, स च बालत्वादचेलो महानपि वा तथाविधवृद्धत्वादिनेति ५ । प्रथमपश्चिमतीर्थवर्तित्वादचेल एव। मध्यमतीर्थसाधूनामेव[वं]घोषणादन्यत्र सचेलत्वाभ्युपगम्य[मा]दिति। साध्व्यस्तु सदैव वस्त्रापहाराभावे सचेला एव। अत्र चोत्सर्गापवादौ भाष्याभिहितावेव । [सू० ४१८] पंच आसवदारा पन्नत्ता, तंजहा- मिच्छत्तं, अविरती, पमादो, कसाया, जोगा । पंच संवरदारा पन्नत्ता, तंजहा- सम्मत्तं, विरती, अपमादो, अकसातित्तमजोगित्तं। पंच दंडा पन्नत्ता, तंजहा- अट्ठादंडे, अणट्ठादंडे, हिंसादंडे, अकस्मादंडे, दिट्ठीविप्परियासितादंडे । [टी०] धर्मं नातिक्रामतीत्युक्तं तदतिक्रमश्चाश्रवरूप इति तद्वाराणि तस्यैव च Page #52 -------------------------------------------------------------------------- ________________ ४५३ पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः । प्रतिपक्षत्वात् संवरद्वाराणि पुनराश्रवविशेषांश्च दण्ड-क्रियालक्षणाना परिज्ञासूत्रादाहपंच आसवदार त्ति सुगमम्, नवरम् आश्रवणं जीवतडागे कर्मजलस्य सङ्गलनमाश्रवः, कर्मबन्धनमित्यर्थः, तस्य द्वाराणीव द्वाराणि उपाया आश्रवद्वाराणीति । तथा संवरणं जीवतडागे कर्मजलस्य निरोधः संवरस्तस्य द्वाराणि उपायाः संवरद्वाराणि मिथ्यात्वादीनामाश्रवाणां क्रमेण विपर्यया: सम्यक्त्व-विरत्यप्रमादा-ऽकषायित्वाऽयोगित्वलक्षणा: प्रथमाध्ययनवद्वाच्या इति । दण्ड्यते आत्माऽन्यो वा प्राणी येन स दण्डः, तत्र त्रसानां स्थावराणां वा आत्मनः परस्य वोपकाराय हिंसाऽर्थदण्डः, विपर्ययादनर्थदण्डः, हिंसितवान् हिनस्ति हिसिष्यत्ययमित्यभिसन्धेर्य: सर्प-वैरिकादिवध: स हिंसादण्ड इति, अकस्माइंड त्ति मगधदेशे गोपालबालाबलादिप्रसिद्धोऽकस्मादिति शब्द: स इह प्राकृतेऽपि तथैव प्रयुक्त इति तत्रान्यवधार्थं प्रहारे मुक्तेऽन्यस्य वधोऽकस्माद्दण्ड इति, यो मित्रस्याप्यमित्रोऽयमिति बुद्ध्या वधः स दृष्टिविपर्यासदण्ड इति । [सू० ४१९] मिच्छदिट्ठियाणं णेरइयाणं पंच किरिताओ पन्नत्ताओ, तंजहाआरंभिता १, पारिग्गहिता २, मातावत्तिता ३, अपच्चक्खाणकिरिया ४, मिच्छादसणवत्तिता ५ । एवं सव्वेसिं निरंतरं जाव मिच्छदिट्ठिताणं वेमाणिताणं, नवरं विगलिंदिता मिच्छदिट्टि ण भण्णंति, सेसं तहेव । पंच किरियातो पन्नत्ताओ, तंजहा- कातिता, अधिकरणिता, पातोसिता, पारितावणिता, पाणातिवातकिरिया । रइयाणं पंच एवं चेव निरंतरं जाव वेमाणियाणं १ । पंच किरिताओ पन्नत्ताओ, तंजहा- आरंभिता जाव मिच्छादसणवत्तिता। णेरइयाणं पंच किरिता[ओ एवं चेव] निरंतरं जाव वेमाणियाणं २। पंच किरियातो पन्नत्ताओ, तंजहा- दिट्टिता, पुट्ठिता, पाडोच्चिता, सामंतोवणिवाइया, साहत्थिता । एवं णेरइयाणं जाव वेमाणियाणं ३ । पंच किरियातो पन्नत्ताओ, तंजहा- णेसत्थिया, आणवणिया, वेयारणिया, अणाभोगवत्तिया, अणवकंखवत्तिया । एवं जाव वेमाणियाणं ४ ।। Page #53 -------------------------------------------------------------------------- ________________ ४५४ पंच किरियाओ पन्नत्ताओ, तंजहा- पेजवत्तिया, दोसवत्तिया, पओगकिरिया, समुदाणकिरिया, इरियावहिया । एवं मणुस्साण वि, सेसाणं नत्थि ५ । [टी०] एते हि दण्डास्त्रयोदशानां क्रियास्थानानां मध्येऽधीता इति प्रसङ्गत: शेषाण्यष्टौ क्रियास्थानान्यभिधीयन्ते, मिच्छादिट्ठि त्ति सुगमानि, नवरं अष्टौक्रियास्थानान्येतानि वक्ष्यमाणानि, तथाहि- तत्र मृषाक्रिया जन्म[आत्म]-ज्ञात्याद्यर्थं यदलीकभाषणम् १, तथा अदत्तादानक्रिया आत्माद्यर्थमदत्तग्रहणम् २, तथा अध्यात्मक्रिया यत् केनापि कथञ्चनाप्यपरिभूतस्य दौर्मनस्यकरणम् ३, तथा मानक्रिया यज्जात्यादिमदमत्तस्य परेषां हीलनादिकरणम् ४, तथा अमित्रक्रिया यत् माता-पितृ-स्वजनादीनामल्पेऽप्यपराधे तीव्रदण्डस्य दहना-ऽङ्कन-ताडनादिकस्य करणम् ५, तथा मायाक्रिया यच्छठतया मनोवाक्कायप्रवर्तनम् ६, तथा लोभक्रिया यल्लोभाभिभूतस्य सावद्यारम्भ-परिग्रहेषु महत्सु प्रवर्तनम् ७, तथैर्यापथिकक्रिया यदुपशान्तमोहादेरेकविधकर्मबन्धनमिति ८, अत्र गाथाअट्ठा १ णट्ठा २ हिंसा ३ ऽकम्हा ४ दिट्ठी य ५ मोस ६ ऽदिन्ने य ७ । अज्झत्थ ८ माण ९ मित्ते १० माया ११ लोभे १२ रियावहिया १३ ॥ [आव० सं० ] इति, विगलिंदियेत्यादि एक-द्वि-त्रि-चतुरिन्द्रियेषु मिथ्यादृष्टिविशेषणं न वाच्यम्, तेषां सदैव सम्यक्त्वाभावेन व्यवच्छेद्याभावात्, सासादनस्य चाल्पत्वेनाविवक्षितत्वादिति। कायिकी कायचेष्टा १, आधिकरणिकी खड्गादिनिर्वर्तनी २, प्राद्वेषिकी मत्सरजन्या ३, पारितापनिकी दु:खोत्पादनरूपा ४, प्राणातिपात: प्रतीत: ५ । दिट्ठिया अश्वादिचित्रकर्मादिदर्शनार्थं गमनरूपा १, पुट्टिया जीवादीन् रागादिना पृच्छत: स्पृशतो वा २, पाडुच्चिया जीवादीन् प्रतीत्य या ३, सामंतोवणिवाइया अश्वादि-रथादिकं लोके श्लाघयति हृष्यतो अश्वादिपतेरिति ४, साहत्थिया स्वहस्तगृहीतजीवादिना जीवं मारयत: ५ ।। नेसत्थिया यन्त्रादिना जीवाजीवान् निसृजत: १, आणवणिया जीवाजीवानानाययत: २, वियारणिया तानेव विदारयत: ३, अणाभोगवत्तिया अनाभोगेन पात्राद्याददतो Page #54 -------------------------------------------------------------------------- ________________ ४५५ पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः । निक्षिपतो वा ४, अणवकंखवत्तिया इह-परलोकापायानपेक्षस्येति ५। पेजवत्तिया रागप्रत्यया १, दोसवत्तिया द्वेषप्रत्यया २, प्रयोगक्रिया कायादिव्यापारा: ३, समुदानक्रिया कम्र्मोपादानम् ४, ईरियावहिया योगप्रत्ययो बन्ध: ५। एवं मणुस्साण वि, सेसाणं नत्थि ५ । इदं च प्रेमादिक्रियापञ्चकं सामान्यपदे, चतुर्विंशतिदण्डके तु मनुष्यपद एव सम्भवति, ईर्यापथक्रियाया उपशान्तमोहादित्रयस्यैव भावादित्याह एवमित्यादि । इहैकेन्द्रियादीनामविशेषेण क्रियोक्ता, सा च पूर्वभवापेक्षया सर्वापि सम्भवतीति भावनीयम्, द्विस्थानके द्वित्वेन क्रियाप्रकरणमुक्तमिह तु पञ्चकत्वेन नारकादिचतुर्विंशतिदण्डकाश्रयेण चेति विशेष:, क्रियाणां च विस्तरव्याख्यानं द्विस्थानकप्रथमोद्देशकाद् वाच्यमिति । [सू० ४२०] पंचविधा परिन्ना पन्नत्ता, तंजहा- उवहिपरिन्ना, उवस्सयपरिन्ना, कसायपरिन्ना, जोगपरिन्ना, भत्तपाणपरिन्ना । [टी०] अनन्तरं कर्मणो बन्धनिबन्धनभूताः क्रिया उक्ताः, अधुना तस्यैव निर्जरोपायभूतां परिज्ञामाह-पंचविहेत्यादि सुगमम्, नवरं परिज्ञानं परिज्ञा वस्तुस्वरूपस्य ज्ञानं तत्पूर्वकं प्रत्याख्यानं च, इयं च द्रव्यतो भावतश्च, तत्र द्रव्यतोऽनुपयुक्तस्य भावतस्तूपयुक्तस्येति, आह च- भावपरिन्ना जाणण पच्चक्खाणं च भावेणं [आचाराङ्गनि० ३७] ति, तत्रोपधी रजोहरणादिः, तस्यातिरिक्तस्याशुद्धस्य सर्वस्य वा परिज्ञा उपधिपरिज्ञा, एवं शेषपदान्यपि, नवरमुपाश्रीयते सेव्यते संयमात्मपालनायेत्युपाश्रयः । [सू० ४२१] पंचविधे ववहारे पन्नत्ते, तंजहा- आगमे, सुते, आणा, धारणा, जीते। जहा से तत्थ आगमे सिता आगमेणं ववहारं पट्ठवेज्जा १, णो से तत्थ आगमे सिया, जहा से तत्थ सुते सिता सुतेणं ववहारं पट्ठवेजा २, णो से तत्थ सुते सिता एवं जाव जधा से तत्थ जीते सिता जीतेणं ववहारं पट्टवेजा ५, इच्चेतेहिं पंचहिं ववहारं पट्ठवेजा, तंजहा- आगमेणं जाव जीतेणं। जधा जधा से तत्थ आगमे जाव जीते तहा तहा ववहारं पट्टवेजा। से किमाहु भंते ? आगमबलिया समणा निग्गंथा । इच्चेतं पंचविधं ववहारं जता जता जहिं जहिं तता तता तहिं तहिं अणिस्सितोवस्सितं सम्म Page #55 -------------------------------------------------------------------------- ________________ ४५६ ववहरमाणे समणे णिग्गंथे आणाते आराधते भवति । [टी०] परिज्ञा च व्यवहारवतां भवतीति व्यवहारं प्ररूपयन्नाह– पंचेत्यादि, व्यवहरणं व्यवहारः, व्यवहारो मुमुक्षुप्रवृत्ति-निवृत्तिरूपः, इह तु तन्निबन्धनत्वात् ज्ञानविशेषोऽपि व्यवहारः, तत्र आगम्यन्ते परिच्छिद्यन्ते अर्था अनेनेत्यागम: केवल-मन:पर्यायाऽवधि-पूर्वचतुर्दशक-दशक-नवकरूप: १, तथा शेषं श्रुतम् आचारप्रकल्पादि श्रुतम्, नवादिपूर्वाणां श्रुतत्वेऽप्यतीन्द्रियार्थज्ञानहेतुत्वेन सातिशयत्वादागमव्यपदेश: केवलवदिति २, यदगीतार्थस्य पुरतो गूढार्थपदैर्देशान्तरस्थगीतार्थनिवेदनायातिचारालोचनमितरस्यापि तथैव शुद्धिदानं साऽऽज्ञा ३, गीतार्थसंविग्नेन द्रव्याद्यपेक्षया यत्रापराधे यथा या विशुद्धिः कृता तामवधार्य यदन्यस्तत्रैव तथैव तामेव प्रयुङ्क्ते सा धारणा, वैयावृत्यकरादेर्वा गच्छोपग्रहकारिणोऽशेषानुचितस्योचितप्रायश्चित्तपदानां प्रदर्शितानां धरणं धारणेति ४, तथा द्रव्य-क्षेत्र-काल-भाव-पुरुषप्रतिषेवानुवृत्त्या संहनन-धृत्यादिपरिहाणिमपेक्ष्य यत् प्रायश्चित्तदानं यो वा यत्र गच्छे सूत्रातिरिक्त: कारणत: प्रायश्चित्तव्यवहारः प्रवर्तितो बहुभिरन्यैश्चानुवर्त्तितस्तजीतमिति, अत्र गाथा:- इत्यादि वृत्तौ। [जीतम् आचरितम्, इदं चास्य लक्षणम्असढेण समाइन्नं जं कत्थइ केणई असावजं । न निवारियमन्नेहिं बहुमणुमयमेयमायरियं ॥ [बृहत्कल्प० ४४९९] इति ।] आगमादीनां व्यापारणे उत्सर्गा-ऽपवादावाह- यथेति यत्प्रकार: केवलादीनामन्यतमः से तस्य व्यवहर्तुः स वा उक्तलक्षणः, तत्र तेषु पञ्चसु व्यवहारेषु मध्ये तस्मिन् वा प्रायश्चित्तदानादिव्यवहारकाले व्यवहर्त्तव्ये वा वस्तुनि विषये आगम: केवलादिः स्याद् भवेत्, तादृशेनेति शेष:, आगमेन व्यवहारं प्रायश्चित्तदानादिकं प्रस्थापयेत् प्रवर्त्तयेत्, न शेषैः, आगमेऽपि षड्विधे केवलेनावन्ध्यबोधत्वात् तस्य, एतदभावे च मन:पर्यायेण, एवं प्रधानतराभावे इतरेणेति, अथ नो नैव से तस्य स वा तत्र व्यवहर्त्तव्यादावागमः स्यात् यथा यत्प्रकारं तत्र श्रुतं स्यात् तादृशेन श्रुतेन व्यवहारं प्रस्थापयेदिति । इच्चेएहिं इत्यादि निगमनं सामान्येनेति, यथा यथाऽसौ तत्रागमादि स्यात्तथा तथा व्यवहारं प्रस्थापयेदिति तु विशेषनिगमनम् इति । एतैर्व्यवहर्तुः प्रश्नद्वारेण फलमाह Page #56 -------------------------------------------------------------------------- ________________ पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः । ४५७ से किमित्यादि, अथ किं हे भदन्त ! भट्टारक ! आहुः प्रतिपादयन्ति, के ? आगमबलिका उक्तज्ञानविशेषबलवन्त: श्रमणा निर्ग्रन्थाः केवलिप्रभृतयः, इच्चेयं ति इत्येतद्वक्ष्यमाणम्, अथवा किं तदित्याह- इत्येतम्, इति उक्तरूपम् एतं प्रत्यक्षम्, कम्, पञ्चविधं व्यवहारं प्रायश्चित्तदानादिरूपं सम्मं ववहरमाणे त्ति सम्बध्यते व्यवहरन् प्रवर्त्तयन्नित्यर्थः कथम्? सम्मं ति सम्यक्, तदेव कथमित्याह- यदा यदा यस्मिन् यस्मिन्नवसरे यत्र यत्र प्रयोजने क्षेत्रे वा, यो य: उचितस्तमिति शेष: तदा तदा काले तस्मिंस्तस्मिन् प्रयोजनादौ, कथंभूतमित्याह- अनिश्रितैः सर्वाशंसारहितैरुपाश्रित: अङ्गीकृतोऽनिश्रितोपाश्रितस्तम्, अथवा निश्रितश्च शिष्यत्वादि प्रतिपन्न: उपाश्रितश्च स एव वैयावृत्यकरत्वादिना प्रत्यासन्नतरस्तौ, उपाश्रितं च शिष्य-प्रतीच्छककुलाद्यपेक्षा, ते न स्तो यत्र तत्तथेति क्रियाविशेषणम्, सर्वथा पक्षपातवर्जितत्वेन यथावदित्यर्थः, इह पूज्यव्याख्या रागो उ होइ निस्सा उवस्सिओ दोससंजुत्तो ॥ [अहवण आहाराई दाही मज्झं तु एस निस्सा उ । सीसो पडिच्छओ वा होइ उवस्सा कुलाईया ॥ [ ] इति,] आज्ञाया जिनोपदेशस्याराधको भवतीति हन्त आहुरेवेति गुरुवचनं गम्यमिति । [सू० ४२२] संजतमणुस्साणं सुत्ताणं पंच जागरा पन्नत्ता, तंजहा- सद्दा जाव फासा १॥ संजतमणुस्साणं जागराणं पंच सुत्ता पन्नत्ता, तंजहा- सद्दा जाव फासा। असंजयमणुस्साणं सुत्ताणं वा जागराणं वा पंच जागरा पन्नत्ता, तंजहासद्दा जाव फासा । [टी०] श्रमणप्रस्तावात् तद्व्यतिकरमेव सूत्रद्वयेनाह- संजयेत्यादि व्यक्तम्, नवरं संयतमनुष्याणां साधूनां सुप्तानां निद्रावतां जाग्रतीति जागरा: असुप्ता जागरा इव जागरा:, इयमत्र भावना- शब्दादयो हि सुप्तानां संयतानां जाग्रद्वह्निवदप्रतिहतशक्तयो भवन्ति, कर्मबन्धाभावकारणस्याप्रमादस्य तदानीं तेषामभावात्, कर्मबन्धकारणं भवन्तीत्यर्थः । द्वितीयसूत्रभावना तु जागराणां शब्दादय: सुप्ता इव सुप्ता: भस्मच्छन्नाग्निवत् Page #57 -------------------------------------------------------------------------- ________________ ४५८ प्रतिहतशक्तयो भवन्ति, कर्मबन्धकारणस्य प्रमादस्य तदानीं तेषामभावात्, कर्मबन्धकारणं न भवन्तीत्यर्थः । संयतविपरीता ह्यसंयता इति तानधिकृत्याहअसंजयेत्यादि व्यक्तम्, नवरमसंयतानां प्रमादितया अवस्थाद्वयेऽपि कर्मबन्धकारणतया अप्रतिहतशक्तित्वाच्छब्दादयो जागरा इव जागरा भवन्तीति भावना । [सू० ४२३] पंचहिं ठाणेहिं जीवा रतं आदियंति, तंजहा- पाणातिवातेणं जाव परिग्गहेणं १॥ ___ पंचहिं ठाणेहिं जीवा रतं वमंति, तंजहा- पाणातिवातवेरमणेणं जाव परिग्गहवेरमणेणं । ___ [टी०] संयतासंयताधिकारात् तद्व्यतिकराभिधायि सूत्रद्वयं सुगमम्, नवरं जीव त्ति असंयतजीवा: रयं ति जीवस्वरूपोपरञ्जनाद्रज इव रज: कर्म आइयंति त्ति आददति गृह्णन्ति बध्नन्तीत्यर्थः, जीव त्ति संयतजीवा: वमंति त्ति त्यजन्ति क्षपयन्तीत्यर्थः । [सू० ४२४] पंचमासियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स कप्पंति पंच दत्तीओ भोयणस्स पडिगाहेत्तते, पंच पाणगस्स । [सू० ४२५] पंचविधे उवघाते पन्नत्ते, तंजहा- उग्गमोवघाते, उप्पायणोवघाते, एसणोवघाते, परिकम्मोवघाते, परिहरणोवघाते । पंचविधा विसोधी पन्नत्ता, तंजहा- उग्गमविसोधी, उप्पायणविसोधी, एसणाविसोधी, परिकम्मणविसोधी, परिहरणाविसोधी । [टी०] संयताधिकारादेवापरं सूत्रद्वयं पंचमासिएत्यादि व्यक्तम्, नवरम् उपघात: अशुद्धता, उद्गमोपघात: उद्गमदोषैराधाकर्मादिभिः षोडशप्रकारैर्भक्त-पानो-पकरणाऽऽलयानामशुद्धता, एवं सर्वत्र, नवरम् उत्पादनया उत्पादनादोषैः षोडशभि: धात्र्यादिभिः, एषणया तद्दोषैर्दशभिः शङ्कितादिभिरिति, परिकर्म वस्त्रपात्रादे: छेदन-सीवनादि, तेन तस्योपघात: अकल्प्यता, तत्र वस्त्रस्य परिकर्मोपघाता यथातिण्ह परि फालियाणं वत्थं जो फालियं तु संसीवे । पंचण्हं एगतरं ऊर्णिकाद्यन्यतरत् सो पावइ आणमाईणि॥ [निशीथभा० ७८७] । तथा पात्रस्य Page #58 -------------------------------------------------------------------------- ________________ पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः । ४५९ अवलक्खणेगबंधे दुगतिगअइरेगबंधणं वा वि । जो पायं परियदृइ परिभुङ्क्ते परं दिवड्डाओ मासाओ ॥ [निशीथभा० ७५०] स आज्ञादीनाप्नोतीति । तथा वसते:दूमिय धूमिय वासिय उज्जोइय बलिकडा अवत्ता य । सित्ता संमट्ठा वि य विसोहिकोडिं गया वसही ॥ [निशीथभा० २०४८] इति दूमिता धवलिता, बलिकृता कूरादिना, अव्यक्ता छगणादिना लिप्ता, संमृष्टा सम्मार्जितेत्यर्थः। तथा परिहरणा आसेवा तयोपध्यादेरकल्प्यता, तत्रोपधेर्यथा एकाकिना हिण्डकसाधुना यदासेवितमुपकरणं तदुपहतं भवतीति समयव्यवस्था, जग्गण अप्पडिबज्झण जइ वि चिरेणं न उवहम्मे [ ] इति वचनाद्, अस्य चायमर्थ:- एकाकी गच्छभ्रष्टो यदि जागर्ति दुग्धादिषु च न प्रतिबध्यते तदा यद्यप्यसौ गच्छे चिरेणागच्छति तथाप्युपधिर्नोपहन्यते अन्यथा तूपहन्यत इति । वसतेरपि मास-चतुर्मासयोरुपरि कालातिक्रान्तेति तथा मासद्वयं चतुर्मासद्वयं चावर्जयित्वा पुनस्तत्रैव वसतामुपस्थानेति च तदोषाभिधानात् । तथा भक्तस्यापि पारिष्ठापनिकाकारं प्रत्यकल्प्यता, तदुक्तम्विहिगहियं विहिभुत्तं अइरेगं भत्तपाण भोत्तव्वं । विहिगहिए विहिभुत्ते एत्थ य चउरो भवे भंगा ॥ [ओघनि० ५९२] अहवा वि य विहिगहियं विहिभुत्तं तं गुरूहऽणुन्नायं । सेसा नाणुन्नाया गहणे दिने व निजुहणा ॥ [ ] इति । उद्गमादिभिरेव भक्तादीनां कल्प्यता: विशुद्धय इति । [सू० ४२६] पंचहिं ठाणेहिं जीवा दुल्लभबोधियत्ताए कम्मं पगरेंति, तंजहाअरहंताणं अवन्नं वदमाणे, अरहंतपन्नत्तस्स धम्मस्स अवन्नं वदमाणे, आयरियउवज्झायाणं अवन्नं वदमाणे, चाउवण्णस्स संघस्स अवन्नं वयमाणे, विवक्कतवबंभचेराणं देवाणं अवन्नं वदमाणे १॥ पंचहिं ठाणेहिं जीवा सुलभबोधियत्ताए कम्मं पगरेंति, तंजहा- अरहंताणं वन्नं वदमाणे जाव विवक्कतवबंभचेराणं देवाणं वन्नं वदमाणे २॥ [टी०] उपघात-विशुद्धिवृत्तयश्च जीवा निर्द्धर्म-धार्मिकत्वाभ्यां बोधेरलाभ Page #59 -------------------------------------------------------------------------- ________________ ४६० लाभस्थानेषु वर्त्तन्त इति तत्प्रतिपादनाय सूत्रद्वयम्- पंचहीत्यादि सुगमम्, नवरं दुर्लभा बोधि: जिनधर्मो यस्य स तथा, तद्भावस्तत्ता, तया दुर्लभबोधिकतया तस्यै वा कर्म मोहनीयादि प्रकुर्वन्ति बध्नन्ति, अर्हतामवर्णम् अश्लाघां वदन्, यथा नत्थी अरहंतत्ती जाणं वा कीस भुंजए भोए ?। ... पाहड़ियं तुवजीवइ समवसरणादिरूपाम् एमाइ जिणाण उ अवन्नो ॥ इत्यादि। तथा अर्हत्प्रज्ञप्तस्य धर्मस्य श्रुत-चारित्ररूपस्य प्राकृतभाषानिबद्धमेतत्, तथा किं चारित्रेण ? दानमेव श्रेय इत्यादिकमवर्णं वदन्, उत्तरं चात्र प्राकृतभाषात्वं श्रुतस्य न दुष्टं बालादीनां सुखाध्येयत्वेनोपकारित्वात्, तथा चारित्रमेव श्रेयो निर्वाणस्यानन्तरहेतुत्वादिति । आचार्योपाध्यायानामवर्णं वदन् यथा बालोऽयमित्यादि, [न च बालत्वादिर्दोषो बुद्ध्यादिभिर्वृद्धत्वादिति । तथा चत्वारो वर्णाः प्रकाराः श्रमणादयो यस्मिन् स तथा, स एव स्वार्थिकाण्विधानाच्चातुर्वर्णस्तस्य सङ्घस्यावर्णं वदन्, यथा कोऽयं सङ्घो य: समवायबलेन पशुसङ्घ इवामार्गमपि मार्गीकरोतीति, न चैतत् साधु, ज्ञानादिगुणसमुदायात्मकत्वात् तस्य, तेन च मार्गस्यैव मार्गीकरणादिति, तथा विपक्वं सुपरिनिष्ठितं प्रकर्षपर्यन्तमुपगतमित्यर्थः, तपश्च ब्रह्मचर्यं च भवान्तरे येषां विपक्वं वा उदयागतं तपोब्रह्मचर्यं तद्धेतुकं देवायुष्कादि कर्म येषां ते तथा, तेषामवर्णं वदन् न सन्त्येव देवा: कदाचनाप्यनुपलभ्यमानत्वात् किं वा तैर्विटैरिव कामासक्तमनोभिरविरतैश्चेत्यादिकम् ?, इहोत्तरम्- सन्ति देवा: तत्कृतानुग्रहोपघातादिदर्शनात्, इत्यादि। तथा अर्हतां वर्णवादो यथाजियरागदोसमोहा सव्वन्नू तियसनाहकयपूया । अच्चंतसच्चवयणा सिवगइगमणा जयंति जिणा ॥ [ ] इति । अर्हत्प्रणीतधर्मावर्णो यथावत्थुपयासणसूरो अइसयरयणाण सायरो जयइ । सव्वजयजीवबंधुरबंधू दुविहो वि जिणधम्मो ॥ [ ] आचार्यवर्णवादो यथातेसि नमो तेसि नमो भावेण पुणो वि तेसि चेव नमो । अणुवकयपरहियरया जे नाणं देंति भव्वाणं ॥ [पञ्चव० १६००] Page #60 -------------------------------------------------------------------------- ________________ पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः । ४६१ चतुर्वर्णश्रमणसङ्घवर्णो यथाएयम्मि पूइयम्मी नत्थि तयं जं न पूइयं होइ । भुवणे वि पूयणिज्जो न गुणी संघाओ जं अन्नो ॥ [ देववर्णवादो यथादेवाण अहो सीलं विसयविसमोहिया वि जिणभवणे । अच्छरसाहिं पि समं हासाई जेण न करेंति ॥ [ ] इति । [सू० ४२७] पंच पडिसंलीणा पन्नत्ता, तंजहा- सोतिंदियपडिसंलीणे जाव फासिंदियपडिसंलीणे । पंच अप्पडिसंलीणा पन्नत्ता, तंजहा- सोतिंदियअप्पडिसंलीणे जाव फासिंदियअप्पडिसंलीणे ।। पंचविधे संवरे पन्नत्ते, तंजहा- सोतिंदियसंवरे जाव फासिंदियसंवरे । पंचविधे असंवरे पन्नत्ते, तंजहा- सोतिंदियअसंवरे जाव फासिंदियअसंवरे। [टी०] संयतासंयतव्यतिकरमेव पंच पडिसंलीणेत्यादिना आरोपणासूत्रपर्यन्तेन ग्रन्थेनाह, गतार्थश्चायम्, नवरं श्रोत्रेन्द्रियादिक्रमो यथाप्राधान्यात्, प्राधान्यं च क्षयोपशमबहुत्वकृतम् । तथा प्रतिसंलीनेतरसूत्रयोः पुरुषो धर्मी उक्तः, संवरेतरसूत्रयोस्तु धर्म एवेति । [सू० ४२८] पंचविधे संजमे पन्नत्ते, तंजहा- सामातितसंजमे, छेदोवट्ठावणियसंजमे, परिहारविसुद्धितसंजमे, सुहुमसंपरायसंजमे, अहक्खायसंजमे । [टी०] तथा संयमनं संयम: पापोपरम इत्यर्थः । तत्र समो रागादिरहितः, तस्य अयो गमनं प्रवृत्तिरित्यर्थ: समायः, समाय एव समाये भवं समायेन निर्वृत्तं समायस्य विकारोंऽशो वा समायो वा प्रयोजनमस्येति सामायिकम् ।। तच्च द्विधा- इत्वरकालिकं यावज्जीविकं च, तत्रेत्वरकालिकं सर्वेषु प्रथमपश्चिमतीर्थकरतीर्थेष्वनारोपितव्रतस्य, यावज्जीविकं तु मध्यम-विदेहतीर्थकरतीर्थेषु भवति, तेषूपस्थापनाऽभावादिति, सामायिकं च तत् संयमश्चेत्येवं सर्वत्र वाक्यं कार्यमिति । तथा छेदश्च पूर्वपर्यायस्योपस्थापनं च व्रतेषु यत्र तच्छेदोपस्थापनम्, तदेव Page #61 -------------------------------------------------------------------------- ________________ ४६२ छेदोपस्थापनिकम्, अथवा पूर्वपर्यायच्छेदेनोपस्थाप्यते आरोप्यते यन्महाव्रतलक्षणं चारित्रं तच्छेदोपस्थापनीयम्, तदपि द्विधा- अनतिचारं सातिचारं च, तत्रानतिचारं यदित्वरसामायिकस्य शिक्षकस्यारोप्यते पार्श्वनाथसाधोर्वा पञ्चयामधर्मप्रतिपत्तौ, सातिचारं तु यन्मूलप्रायश्चित्तप्राप्तस्येति ।। __तथा परिहरणं परिहार: तपोविशेष:, तेन विशुद्धं परिहारो वा विशेषेण शुद्धो यस्मिंस्तत् परिहारविशुद्धम्, तदेव परिहारविशुद्धिकम्, तच्च द्विधा- निर्विशमानकं निर्विष्टकायिकं च, तत्र निर्विशमानकानां तदासेवकानां यत्तन्निर्विशमानकम्, यत्तु निर्विष्टकायिकानामासेवितविवक्षितचारित्रकायानां तनिर्विष्टकायिकमिति । इह च नवको गणो भवति, तत्र चत्वारः परिहारिका अपरे तु तद्वैयावृत्यकराश्चत्वार एवानुपरिहारिका:, एकस्तु कल्पस्थितो वाचनाचार्यो गुरुभूत इत्यर्थः, एतेषां च निर्विशमानकानामयं परिहार:- ग्रीष्मे जघन्यादीनि चतुर्थ-षष्ठा-ऽष्टमादीनि, शिशिरे षष्ठा-ऽष्टम-दशमानि, वर्षास्वष्टम-दशम-द्वादशानि, पारणके चायामम्, इतरेषां सर्वेषामायाममेव, एवमेते चत्वारः षण्मासान्, पुनरन्ये चत्वारः षडेव, पुनर्वाचनाचार्य: षडिति सर्व एवायमष्टादशमासिक: कल्प इति । तथा सूक्ष्मा: लोभकिट्टिकारूपाः सम्परायाः कषाया यत्र तत् सूक्ष्मसम्परायम्, तदपि द्विधा- विशुद्ध्यमानकं सक्लिश्यमानकं च, तत्राद्यं क्षपकोपशमश्रेणिद्वयं समारोहत:, सक्लिश्यमानकं तूपशमश्रेणित: प्रच्यवमानस्येति । ___ अथशब्दो यथार्थः, यथैवाऽकषायतयेत्यर्थः, आख्यातम् अभिहितम् अथाख्यातम्, तदेव संयमोऽथाख्यातसंयमः, अयं च छद्मस्थस्योपशान्तमोहस्य क्षीणमोहस्य च स्यात् केवलिन: सयोगस्यायोगस्य च स्यादिति । - [सू० ४२९] एगिदिया णं जीवा असमारभमाणस्स पंचविधे संजमे कजति, तंजहा- पुढविकातितसंजमे जाव वणस्सतिकातितसंजमे । एगिंदिया णं जीवा समारभमाणस्स पंचविहे असंजमे कजति, तंजहा- पुढविकातितअसंजमे जाव वणस्सतिकातितअसंजमे । टी०] एगिदिया णं जीव त्ति एकेन्द्रियान् णमित्यलङ्कारे जीवान् असमारभाणस्य Page #62 -------------------------------------------------------------------------- ________________ ४६३ पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः । संघट्टादीनामविषयीकुर्वत: सप्तदशप्रकारस्य संयमस्य मध्ये पञ्चविध: संयमो व्युपरमोऽनाश्रवः क्रियते भवति, तद्यथा-पृथिवीकायिकेषु विषये संयमः सङ्घट्टाधुपरम: पृथिवीकायिकसंयमः, एवमन्यान्यपि पदानि, असंयमसूत्रं संयमसूत्रवद् विपर्ययेण व्याख्येयमिति । [सू० ४३०] पंचिंदिया णं जीवा असमारभमाणस्स पंचविधे संजमे कजति, तंजहा- सोतिंदितसंजमे जाव फासिंदितसंजमे । ___पंचिंदिया णं जीवा समारभमाणस्स पंचविधे असंजमे कजति, तंजहासोतिंदियअसंजमे जाव फासिंदियअसंजमे । सव्वपाण-भूय-जीव-सत्ता णं असमारभमाणस्स पंचविधे संजमे कजति, तंजहा- एगेंदितसंजमे जाव पंचेंदितसंजमे । सव्वपाण-भूत-जीव-सत्ता णं समारभमाणस्स पंचविधे असंजमे कजति, तंजहा- एगेंदितअसंजमे जाव पंचेदितअसंजमे । [टी०] पंचेंदिया णमित्यादि, इह सप्तदशप्रकारसंयमभेदस्य पञ्चेन्द्रियसंयमलक्षणस्येन्द्रियभेदेन भेदविवक्षणात् पञ्चविधत्वम्, तत्र पञ्चेन्द्रियानारम्भे श्रोत्रेन्द्रियस्य व्याघातपरिवर्जनं श्रोत्रेन्द्रियसंयमः, एवं चक्षुरिन्द्रियसंयमादयोऽपि वाच्याः । असंयमसूत्रमेतद्विपर्यासेन बोद्धव्यमिति । सव्वपाणेत्यादि, पूर्वमेकेन्द्रिय-पञ्चेन्द्रियजीवाश्रयेण संयमा-ऽसंयमावुक्ताविह तु सर्वजीवाश्रयेणात एव सर्वग्रहणं कृतमिति, प्राणादीनां चायं विशेष: प्राणा द्वित्रिचतुः प्रोक्ता भूतास्तु तरव: स्मृताः । जीवा: पञ्चेन्द्रिया ज्ञेया: शेषा: सत्त्वा इतीरिता: ॥ [ ] इति । इह सप्तदशप्रकारसंयमस्याद्या नव भेदा: सगृहीता:, एकेन्द्रियसंयमग्रहणेन पृथिव्यादिसंयमपञ्चकस्य गृहीतत्वादिति, एतद्व्यत्ययेनासंयमसूत्रम् ।। [सू० ४३१] पंचविधा तणवणस्सतिकातिता पन्नत्ता, तंजहा- अग्गबीया, मूलबीया, पोरबीया, खंधबीया, बीयरुहा । [टी०] तणवणस्सइ त्ति तृणवनस्पतयो बादरा वनस्पतयोऽग्रबीजादय: क्रमेण Page #63 -------------------------------------------------------------------------- ________________ ४६४ कोरण्टका उत्पलकन्दा वंशाः शल्लक्यो वटा एवमादयः, व्याख्यातं चैतत् प्रागिति । [सू० ४३२] पंचविधे आयारे पन्नत्ते, तंजहा - णाणायारे, दंसणायारे, चरित्तायारे, तवायारे, वीरियायारे । [टी०] आचरणमाचारो ज्ञानादिविषयाऽऽसेवेत्यर्थः, ज्ञानाचार: कालादिरष्टधा, दर्शनं सम्यक्त्वम्, तदाचारो नि:शङ्कितादिरष्टधैव, चारित्राचार: समिति-गुप्तिभेदोऽष्टधा, तपआचारोऽनशनादिभेदो द्वादशधा, वीर्याचारो वीर्यागोपनमेतेष्वेवेति । [सू० ४३३] पंचविधे आयारपकप्पे पन्नत्ते, तंजहा - मासिते उग्घातिते, मासिए अणुग्घातिए, चाउम्मासिए उग्घाइए, चाउम्मासिए अणुग्घातिते, आरोवणा । आरोवणा पंचविहा पन्नत्ता, तंजहा- पट्ठविया, ठविया, कसिणा, अकसिणा, हाडहडा । [टी०] आचारस्य प्रथमाङ्गस्य पदविभागसामाचारीलक्षणप्रकृष्टकल्पाभिधायकत्वात् प्रकल्प आचारप्रकल्प: निशीथाध्ययनम्, स च पञ्चविधः पञ्चविधप्रायश्चित्ताभिधायकत्वात्, तथाहि– तत्र केषुचिदुद्देशकेषु लघुमासप्रायश्चित्तापत्तिरुच्यते १, केषुचिच्च गुरुमासापत्तिः २, एवं लघुचतुर्मास ३ गुरुचतुर्मासा ४ssरोपणाश्चेति ५ । तत्र मासेन निष्पन्नं मासिकं तपः, तच्च उद्घातो भागपातो यत्रास्ति तदुद्घातिकं लध्वित्यर्थः, यत उक्तम् अद्वेण छिन्नसे पुव्वद्धेणं तु संजुयं काउं । देज्जाहि लहुयाणं गुरुदाणं तत्तियं चेव ॥ [ ] त्ति । एतद्भावना मासिकतपोऽधिकृत्योपदर्श्यते - मासस्यार्द्धछिन्नस्य शेषं दिनानां पञ्चदशकं तत् मासापेक्षया च पूर्वस्य पञ्चविंशकस्यार्द्धेन सार्धद्वादशकेन संयुतं कृतं सार्द्धा सप्तविंशतिर्भवतीति । आरोपणा तु चडावण त्ति भणियं होइ, यो हि यथाप्रतिषेवितमालोचयति तस्य प्रतिषेवानिष्पन्नमेव मासलघु-मासगुरुप्रभृतिकं दीयते, यस्तु न तथा तस्य तत्तावद्दीयते एव मायानिष्पन्नं चान्यदारोप्यते इत्यारोपणेति । आरोवण त्ति आरोपणोक्तस्वरूपा, Page #64 -------------------------------------------------------------------------- ________________ पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः । ४६५ तत्र पट्टविय त्ति बहुष्वारोपितेषु यन्मासगुर्वादिप्रायश्चित्तं प्रस्थापयति वोढुमारभते तदपेक्षयाऽसौ प्रस्थापितेत्युक्ता १, ठविय त्ति यत् प्रायश्चित्तमापन्नस्तत्तस्य स्थापितं कृतम्, न वाहयितुमारब्धमित्यर्थः, आचार्यादिवैयावृत्यकरणार्थम्, तद्धि वहन्न शक्नोति वैयावृत्यं कर्तुम्, वैयावृत्यसमाप्तौ तु तत् करिष्यतीति स्थापितोच्यत इति २, कृत्स्ना पुनर्यत्र झोषो न क्रियते, झोषस्त्वयम्- इह तीर्थे षण्मासान्तमेव तपस्तत: षण्णां मासानामुपरि यान् मासानापन्नोऽपराधी तेषां क्षपणम् अनारोपणं प्रस्थे चतु:सेतिकाऽतिरिक्तधान्यस्येव झाटनमित्यर्थः, झोषाभावेन सा परिपूर्णेति कृत्स्नेत्युच्यत इति भाव: ३, अकृत्स्ना तु यस्यां षण्मासाधिकं झोष्यते, तस्या हि तदतिरिक्तझाटनेनापरिपूर्णत्वादिति ४, हाडहड त्ति यत् लघु-गुरुमासादिकमापन्नस्तत् सद्य एव यस्यां दीयते सा हाडहडोक्तेति ५ । एतत्स्वरूपं च विशेषतो निशीथविंशतितमोद्देशकादवगन्तव्यमिति । [सू० ४३४] जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं सीयाते महानदीते उत्तरेणं पंच वक्खारपव्वता पन्नत्ता, तंजहा- मालवंते, चित्तकूडे, पम्हकूडे, णलिणकूडे, एगसेले १॥ जंबुमंदरपुरस्थिमेणं सीताते महाणदीते दाहिणेणं पंच वक्खारपव्वता पन्नत्ता, तंजहा- तिकूडे, वेसमणकूडे, अंजणे, मातंजणे, सोमणसे २ । ___ जंबुमंदरपच्चत्थिमेणं सीओताते महाणदीते दाहिणेणं पंच वक्खारपव्वता पन्नत्ता, तंजहा- विजुप्पभे, अंकावती, पम्हावती, आसीविसे, सुहावहे ३। जंबुमंदरपच्चत्थिमेणं सीतोताते महानदीते उत्तरेणं पंच वक्खारपव्वता पन्नत्ता, तंजहा- चंदपव्वते, सूरपव्वते, णागपव्वते, देवपव्वते, गंधमादणे ४ । ___ जंबुमंदरदाहिणेणं देवकुराए कुराए पंच महदहा पन्नत्ता, तंजहा- निसहदहे, देवकुरुदहे, सूरदहे, सुलसदहे, विजुप्पभदहे ५। जंबुमंदरउत्तरेणं उत्तरकुराते कुराए पंच महद्दहा पन्नत्ता, तंजहा- नीलवंतदहे उत्तरकुरुदहे, चंददहे, एरावणदहे, मालवंतदहे ६ ।। सव्वे वि णं वक्खारपव्वया सीया-सीओयाओ महाणदीओ मंदरं वा पव्वतं तेणं पंच जोयणसताई उटुंउच्चत्तेणं पंच गाउयसताइं उव्वेहेणं ७ । Page #65 -------------------------------------------------------------------------- ________________ ४६६ धायइसंडदीवपुरथिमद्धे णं मंदरस्स पव्वतस्स पुरत्थिमेणं सीताते महाणतीते उत्तरेणं पंच वक्खारपव्वता पन्नत्ता, तंजहा- मालवंते एवं जधा जंबुद्दीवे तधा जाव पुक्खरवरदीवड्डपच्चत्थिमद्धे वक्खारा दहा य वक्खारपव्वयाणं उच्चत्तं भाणितव्वं । समयखेत्ते णं पंच भरहाई पंच एरवताइं, एवं जधा चउट्ठाणे बितीयउद्देसे तथा एत्थ वि भाणियव्वं जाव पंच मंदरा पंच मंदरचूलिताओ, णवरं उसुयारा णत्थि । [टी०] अयं च संयतासंयतगतवस्तुविशेषाणां व्यतिकरो मनुष्यक्षेत्र एव भवतीति मनुष्यक्षेत्रवर्त्तिनो वस्तुविशेषान् जंबुद्दीवेत्यादिना उसुयारा नत्थि त्ति पर्यवसानेन ग्रन्थेनाह, कण्ठ्यश्चायम्, नवरं मालवतो गजदन्तकात् प्रदक्षिणया सूत्रचतुष्टयोक्ता विंशति-वक्षस्कारगिरयोऽवगन्तव्या इति, इह च देवकुरुषु निषधवर्षधरपर्वतादुत्तरेणाष्टौ योजनानां शतानि चतुस्त्रिंशदधिकानि योजनस्य चतुरश्च सप्तभागानतिक्रम्य शीतोदाया महानद्या: पूर्वापरकूलयोर्विचित्रकूट-चित्रकूटाभिधानौ योजनसहस्रोच्छितौ मूले सहस्रायामविष्कम्भावुपरि पञ्चयोजनशतायाम-विष्कम्भौ प्रासादमण्डितौ स्वसमाननामदेवनिवासभूतौ पर्वतौ स्तः, ततस्ताभ्यामुत्तरतोऽनन्तरोदितान्तरः शीतोदामहानदीमध्यभागवर्ती दक्षिणोत्तरतो योजनसहनमायत: पूर्वापरत: पञ्च योजनशतानि विस्तीर्ण: वेदिकावनखण्डद्वयपरिक्षिप्तो दशयोजनावगाहो नानामणिमयेन दशयोजननालेनाद्धयोजनबाहल्येन योजनविष्कम्भेनार्द्धयोजनविस्तीर्णया क्रोशोच्छ्रितया कर्णिकया युक्तेन निषधाभिधानदेवनिवासभूतभवनभासितमध्येन तदर्द्धप्रमाणाष्टोत्तरशतसङ्ख्यपद्यैस्तदन्येषां च सामानिकादिदेवनिवासभूतानां पद्मानामनेकलक्षैः समन्तात् परिवृतेन महापद्मन विराजमानमध्यभागो निषधो महाहूदः, एवमन्येऽपि निषधसमानवक्तव्यता: स्वसमानाभिधानदेवनिवासा उक्तान्तरा: समवसेयाः, नवरं नीलवन्महाह्रदो विचित्रकूटचित्रकूटपर्वतसमवक्तव्यताभ्यां यमकाभिधानाभ्यां स्वसमाननामदेवावासाभ्यां पर्वताभ्यामनन्तरं द्रष्टव्यस्ततो दक्षिणत: शेषाश्चत्वार इति, एते च सर्वेऽपि प्रत्येक दशभिर्दशभिः काञ्चनकाभिधानैः योजनशतोच्छ्रि तैयोजनशतमूलविष्कम्भैः Page #66 -------------------------------------------------------------------------- ________________ पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः । ४६७ पञ्चाशद्योजनमानमस्तकविस्तारैः स्वसमाननामदेवाधिवासैः प्रत्येकं दशयोजनान्तरैः पूर्वापरव्यवस्थितैः गिरिभिरुपेता:, एतेषां च विचित्रकूटादिपर्वतह्रदनिवासिदेवानामसङ्ख्येयतमजम्बूद्वीपे द्वादशयोजनसहस्रप्रमाणास्तन्नामिका नगर्यो भवन्तीति, सव्वे वि णमित्यादि, सर्वेऽपि जम्बूद्वीपादिसम्बन्धिन:, तेणं ति शीताशीतोदे महानद्यौ प्रति ते लक्षणीकृत्य, नदीदिशीत्यर्थः, मन्दरं वा मेरुं वा पर्वतं प्रति, तद्दिशीत्यर्थः, तत्र मालवत्-सौमनस-विद्युत्प्रभ-गन्धमादना गजदन्ताकारपर्वता मेरुं प्रति यथोक्तस्वरूपाः, शेषास्तु वक्षारपर्वता महानद्यौ प्रतीति, इयं चानन्तरोदिता सप्तसूत्री धातकीखण्डस्य पुष्करार्द्धस्य च पूर्वापरार्द्धयोद्देश्येत्यत एवोक्तम्- एवं जहा जंबू इत्यादि । समय: कालस्तद्विशिष्टं क्षेत्रं समयक्षेत्रं मनुष्यक्षेत्रं तस्यैवादित्यगतिसमभिव्यङ्ग्यऋत्वयनादिकालयुक्तत्वात्, जाव पंच मंदर त्ति इह यावत्करणात् पञ्च हैमवतानि पञ्च हैरण्यवतानीत्यादि पञ्च शब्दापातिन इत्यादि चोपयुज्य सर्वं चतु:स्थानकद्वितीयोद्देशकानुसारेण वाच्यम्, नवरम् उसुयार त्ति चतु:स्थानके चत्वार इषुकारपर्वता उक्ता:, इह तु ते न वाच्या:, पञ्चस्थानकत्वादस्येति । [सू० ४३५] उसभे णं अरहा कोसलिए पंच धणुसताइं उटुंउच्चत्तेणं होत्था १ । भरहे णं राया चाउरंतचक्कवट्टी पंच धणुसयाई उटुंउच्चत्तेणं होत्था २॥ बाहुबली णमणगारे एवं चेव ३, बंभी णमजा एवं चेव ४, एवं सुंदरी वि ५ । [टी०] अनन्तरं मनुष्यक्षेत्रे वस्तून्युक्तानीति तदधिकाराद् भरतक्षेत्रवर्त्तमानावसर्पिणीभूषणभूतमृषभजिनवस्तु तत्सम्बन्धादन्यानि च पञ्चस्थानकेऽवतारयन् सूत्रपञ्चकमाह- उसभे णमित्यादि कण्ठ्यम्, नवरं कोसलिए त्ति कोशलदेशोत्पन्नत्वात् कौशलिकः, भरतादयश्च ऋषभापत्यानि । [सू० ४३६] पंचहिं ठाणेहिं सुत्ते विबुज्झेजा, तंजहा- सद्देणं, फासेणं, भोयणपरिणामेणं, णिहक्खएणं, सुविणदंसणेणं । [टी०] बुद्धाश्चैते, बुद्धश्च भावतो मोहक्षयाद् द्रव्यतो निद्राक्षयादिति द्रव्यबोधं कारणत उपदर्शयन्नाह- पंचहीत्यादि कण्ठ्यम्, नवरमिह निद्राक्षयोऽनन्तरकारणं Page #67 -------------------------------------------------------------------------- ________________ ४६८ शब्दादयस्तु तत्कारणत्वेन कारणतयोक्ता:, भोजनपरिणामो बुभुक्षा । [सू० ४३७] पंचहिं ठाणेहिं समणे णिग्गंथे गिण्हमाणे वा अवलंबमाणे वा णातिक्कमति, तंजहा- निग्गंथिं च णं अन्नयरे पसुजातिए वा पक्खिजातिए वा ओहातेज्जा, तत्थ णिग्गंथे णिग्गंथिं गेण्हमाणे वा अवलंबमाणे वा नातिक्कमति १, णिग्गंथे णिग्गंथिं दुगंसि वा विसमंसि वा पक्खलमाणिं वा पवडमाणिं वा गिण्हमाणे वा अवलंबमाणे वा णातिक्कमति २, णिग्गंथे णिग्गंथिं सेतंसि वा पणगंसि वा पंकसि वा उदगंसि वा उक्कसमाणिं वा उवुज्झमाणिं वा गेण्हमाणे वा अवलंबमाणे वा णातिक्कमति ३, निग्गंथे निग्गंथिं नावं आरुहमाणे वा ओरुहमाणे वा णातिक्कमति ४, खेत्तइत्तं दित्तइत्तं जक्खाइट्ठ उम्मायपत्तं उवसग्गपत्तं साहिगरणं सपायच्छित्तं भत्तपाणपडियातिक्खियं अट्ठजायं वा निग्गंथे निग्गंथिं गेण्हमाणे वा अवलंबमाणे वा णातिक्कमति ५ । [टी०] अनन्तरं द्रव्यप्रबुद्ध: कारणत उक्तः, अथ भावप्रबुद्धमनुष्ठानत आज्ञानतिक्रमिणं दर्शयितुमाह- पंचहीत्यादि सुगमम्, नवरं गिण्हमाणे त्ति बाह्वादावङ्गे गृह्णन्, अवलम्बमानः पतन्तीं बाह्वादौ गृहीत्वा धारयन्, अथवा सव्वंगियं तु गहणं करेण अवलंबणं तु देसम्मि [बृहत्कल्प० ६१९२] त्ति नातिक्रामति स्वाचारमाज्ञां वा गीतार्थस्थविरो निर्ग्रन्थिकाऽभावे न यथाकथञ्चित्, पशुजातीयो दृप्तगवादिः, पक्षिजातीयो गृध्रादिः, ओहाएज त्ति उपहन्यात्, तत्रेति उपहनने गृह्णन्नातिक्रामति कारणिकत्वात्, निष्कारणत्वे तु दोषा:, यदाह मिच्छत्तं उड्डाहो विराहणा फासभावसंबंधो । पडिगमणाई दोसा भुत्ताभुत्ते य नायव्वा ॥ [बृहत्कल्प० ६१७०] इत्येकम् । तथा दुःखेन गम्यत इति दुर्ग:, स च त्रिधा– वृक्षदुर्ग: श्वापददुग्र्गो म्लेच्छादिमनुष्यदुर्गः, तत्र वा मार्गे । तथा विषमे वा गर्तपाषाणाद्याकुले पर्वते वा प्रस्खलन्ती वा गत्या प्रपतन्ती वा भुवि, गृह्णन्नातिक्रामतीति द्वितीयम् । तथा पङ्क: पनको वा सजलो यत्र निमज्ज्यते स सेकस्तत्र वा, पङ्कः कर्दमस्तत्र वा, पनके वा Page #68 -------------------------------------------------------------------------- ________________ पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः । ४६९ आगन्तुकप्रतनुद्रवरूपे कम एव ओल्यां वा, अपकसन्तीं पङ्क-पनकयो: परिह्रसन्तीम् अपोह्यमानां वा सेके उदके वा नीयमानां गृह्णन्नातिक्रामतीति, तृतीयम्। ___ तथा नावम् आरुहमाणे त्ति आरोहयन् ओरुहमाणे त्ति अवरोहयन्नुत्तारयन्नित्यर्थो नातिक्रामतीति चतुर्थम् । तथा क्षिप्तं नष्टं राग-भया-ऽपमानैश्चित्तं यस्याः सा क्षिप्तचित्ता, तां वा, तथा दृप्तं सन्मानात् दर्पवच्चित्तं यस्याः सा दृप्तचित्ता, तां वा, यक्षेण देवेन आविष्टा अधिष्ठिता यक्षाविष्टा, तां वा, अत्रोक्तम्पुव्वभववेरिएणं अहवा रागेण रागिया संती । एएहिं जक्खइट्टा बृहत्कल्प० ६२५८] त्ति। उन्मादम् उन्मत्ततां प्राप्ता उन्मादप्राप्ता, तां वा, अत्राप्युक्तम्उम्माओ खलु दुविहो जक्खाएसो य मोहणिजो य । जक्खाएसो वुत्तो मोहेण इमं तु वोच्छामि ॥ रूवंगं द₹णं उम्माओ अहव पित्तमुच्छाए । [बृहत्कल्प० ६२६३-६४] त्ति । उपसर्गम् उपद्रवं प्राप्ता उपसर्गप्राप्ता, तां वा, [सहाधिकरणेन साधिकरणा युद्धार्थमुपस्थिता, तां वा, सह प्रायश्चित्तेन सप्रायश्चित्ता, तां वा,] तथा भक्तपाने आभवं प्रत्याख्याते यया सा भक्तपानप्रत्याख्याता, तां वा, गाथा अटुं वा हेडं वा समणीणं विरहिए कहिंतस्स । मुच्छाए विवडियाए कप्पइ गहणं परिन्नाए ॥ [बृहत्कल्प० ६२८२] इति । [तथा अर्थ: कार्यमुत्प्रव्राजनत: स्वकीयपरिणेत्रादेर्जातो यया साऽर्थजाता पतिचौरादिना संयमाच्चाल्यमानेत्यर्थस्तां वा,] त्ति पञ्चममिति ॥ [सू० ४३८] आयरियउवज्झायस्स णं गणंसि पंच अतिसेसा पन्नत्ता, तंजहा- आयरियउवज्झाए अंतो उवस्सगस्स पाए निगिज्झिय निगिज्झिय पप्फोडेमाणे वा पमज्जेमाणे वा णातिक्कमति १, आयरियउवज्झाए अंतो उवस्सगस्स उच्चारपासवणं विगिंचमाणे वा विसोहमाणे वा णातिक्कमति २, आयरियउवज्झाए पभू इच्छा वेयावडियं करेजा इच्छा णो करेजा ३, आयरियउवज्झाए अंतो उवस्सगस्स एगरायं वा दुरातं वा वसमाणे णाइक्कमइ ४, आयरियउवज्झाए बाहिं उवस्सगस्स एगरातं वा दुरातं वा वसमाणे Page #69 -------------------------------------------------------------------------- ________________ ४७० णातिक्कमति ५। [टी०] अनन्तरं येषु स्थानेषु वर्त्तमानो निर्ग्रन्थो धर्मं नातिक्रामति तान्युक्तानि, अधुना तद्विशेष आचार्यो येष्वतिशयेषु वर्त्तमानस्तं नातिक्रामति तानाह - आयरिएत्यादि, आचार्यश्चासावुपाध्यायश्चेत्याचार्योपाध्यायः, स हि केषाञ्चिदर्थदायकत्वादाचार्योऽन्येषां सूत्रदायकत्वादुपाध्याय इति तस्य, आचार्योपाध्याययोर्वा, न शेषसाधूनाम्, गणे साधुसमुदाये वर्त्तमानस्य वर्त्तमानयोर्वा गणविषये वा शेषसाधुसमुदायापेक्षयेत्यर्थः पञ्चातिशेषाः अतिशयाः प्रज्ञप्ताः, तद्यथा - आचार्योपाध्यायोऽन्तः मध्ये उपाश्रयस्य वसते: पादौ निगृह्य निगृह्य पादधूलेरुद्धूयमानाया निग्रहं वचनेन कारयित्वा यथाऽन्ये धूल्या न भ्रियन्ते तथेत्यर्थः, प्रस्फोटयन् वा आभिग्रहिकेनान्येन वा साधुना स्वकीयरजोहरणेन ऊर्णिकपादप्रोञ्छनेन वा प्रस्फोटनं कारयन्, झाटयन्नित्यर्थः, प्रमार्जयन् वा शनैर्लूषयन् नातिक्रामतीति, इह च भावार्थ इत्थमास्थितः - आचार्य: कुलादिकार्येण निर्गतः प्रत्यागत उत्सर्गेण तावद्वसतेर्बहिरेव पादौ प्रस्फोटयति, अथ तत्र सागारिक भवेत्तदा वसतेरन्तः प्रस्फोटयेत्, प्रस्फोटनं च प्रमार्जनविशेषस्तच्च चक्षुर्व्यापारलक्षणप्रत्युपेक्षणपूर्वकमितीह सप्त भङ्गाः, तत्र न प्रत्युपेक्षते न प्रमार्ष्टि चेत्येकः, न प्रत्युपेक्षते प्रमार्ष्टति द्वितीय:, प्रत्युपेक्षते न प्रमाति तृतीय:, प्रत्युपेक्षते प्रमार्ष्टि चेति चतुर्थः, यत्तत्प्रत्युपेक्ष्यते प्रमार्ण्यते च तद्दुष्प्रत्युपेक्षितं दुष्प्रमार्जितं वा दुष्प्रत्युपेक्षितं सुप्रमार्जितं वा ५ सुप्रत्युपेक्षितं दुष्प्रमार्जितं वा ६ सुप्रत्युपेक्षितं सुप्रमार्जितं वा ७ करोति, इह च सप्तमः शुद्धः शेषेष्वसमाचारीति, यदि तु सागारिकश्चलस्ततः सप्ततालमात्रं सप्तपदावक्रमणमात्रं वा कालं बहिरेव स्थित्वा तस्मिन् गते पादौ प्रस्फोटयेत्, शेषं वृत्तौ । शेषसाधवस्तु चिरमपि बहिस्तिष्ठन्ति, न च दोषाः स्युः, जितश्रमत्वाद्, आह चदसविहवेयावच्चे सग्गाम बहिं च निच्चवायामो ॥ सीउण्हसहा भिक्खू ण य हाणी वायणाईया । [ व्यवहारभा० २५३९-४०] इत्येकोऽतिशयः । तथाऽन्तः मध्ये उपाश्रयस्य उच्चारं पुरीषं प्रश्रवणं मूत्रं विञ्चन् सर्वं परिष्ठापयन् विशोधयन् पादादिलग्नस्य निरवयवत्वं कुर्वन् शौचभावेन वेति, अथवा सकृद्विवेचनं बहुशो विशोधनम्, नातिक्रामति । Page #70 -------------------------------------------------------------------------- ________________ ४७१ पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः । इह च भावार्थ एवम्- आचार्यो नोत्सर्गतो विचारभूमिं गच्छति दोषसम्भवात्, तथाहि- श्रुतवानयमित्यादिगुणत: पूर्वं वीथिषु वणिजो बहुमानादभ्युत्थानादि कृतवन्तस्ततो विचारभूमौ सकृद् द्विर्वाऽऽचार्यस्य गमने आलस्यात्तन्न कुर्वन्ति पराङ्मुखाश्च भवन्ति, एतच्चेतरे दृष्ट्वा शङ्कन्ते यदुतायमिदानीं पतितो वणिजानामभ्युत्थानाधकरणादित्येवं मिथ्यात्वगमनादयो दोषाः । तथा मत्सरिभ्य: सकाशान्मरण-बन्धना-ऽपभ्राजनादयोऽन्येऽपि व्यवहारभाष्यादवगन्तव्या इति द्वितीयोऽतिशयः ।। तथा प्रभुः समर्थः, इच्छा अभिलाषो वैयावृत्यकरणे यदि भवेत्तदा वैयावृत्यं भक्तपानगवेषण-ग्रहणत: साधुभ्यो दानलक्षणं कुर्यात्, अथेच्छा अभिलाषस्तदकरणे तन्न कुर्यादिति, भावार्थस्त्वयम्- आचार्यस्य भिक्षाभ्रमणं न कल्पते, यतोऽवाचि उप्पन्ननाणा जह नो अडंति, चोत्तीसबुद्धाइसया जिणिंदा । एवं गणी अट्टगुणोववेओ, सत्था व नो हिंडइ इडिमं तु ॥ [व्यवहारभा० २५७१] दोषास्त्वमीभारेण वेदणा वा हिंडते उच्चनीयसासो वा । [बृहत्कल्प० २५७४] आइयणछड्डणाई प्रचुरपानकादेरापानादौ छादयो गेलने पोरिसीभंगो ॥ [व्यवहारभा० २५७६] इति, एवमादयोऽनेके दोषा व्यवहारभाष्योक्ता: समवसेया: । एते च सामान्यसाधोरपि प्राय: समानास्तथापि गच्छस्य तीर्थस्य वा महोपकारित्वेन रक्षणीयत्वेनाचार्यस्यायमतिशय उक्तः, उक्तं च जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खिज्जा । न हु तुंबम्मि विणढे अरया साहारया होंति ॥ [ ] त्ति तृतीयः । तथा अन्तरुपाश्रयस्य एका चासौ रात्रिश्चेत्येकरात्रं तद्वा द्वयो रात्र्यो: समाहारो द्विरात्रं तद्वा, विद्यादिसाधनार्थमेकाकी एकान्ते वसन्नातिक्रामति, तत्र तस्य वक्ष्यमाणदोषासम्भवाद्, अन्यस्य तु तद्भावादिति चतुर्थः एवं पञ्चमोऽपि भावार्थश्चायमनयो:अन्तरुपाश्रयस्य वक्षारके विष्वग्वसति बहिर्वोपाश्रयस्य शून्यगृहादिषु वसति यदि तदा असामाचारी, दोषाश्चैते पुंवेदोपयोगेन, जनरहिते हस्तकर्मादिकरणेन संयमे भेदो भवति, मर्यादा मया लङ्घितेति निर्वेदेन वैहायसादिमरणं च प्रतिपद्यत इति, अत्र वृत्तौ ज्ञेया। Page #71 -------------------------------------------------------------------------- ________________ ४७२ [सू० ४३९] पंचहिं ठाणेहिं आयरियउवज्झायस्स गणावक्कमणे पन्नत्ते, तंजहा- आयरियउवज्झाए गणंसि आणं वा धारणं वा नो सम्मं पउंजित्ता भवति १, आयरियउवज्झाए गणंसि अधारायणियाते कितिकम्मं वेणइयं णो सम्मं पउंजित्ता भवति २, आयरियउवज्झाए गणंसि जे सुयपज्जवजाते धारेति ते काले काले नो सम्ममणुपवादेत्ता भवति ३, आयरियउवज्झाए गणंसि सगणिताते वा परगणियाते वा निग्गंथीते बहिल्लेसे भवति ४, मित्ते णातिगणे वा से गणातो अवक्कमेजा तेसिं संगहोवग्गहट्ठयाते गणावक्कमणे पन्नत्ते ५। [टी०] आचार्यस्य गणे अतिशया उक्ताः, अधुना तस्यैवातिशयविपर्ययभूतानि गणान्निर्गमनकारणान्याह- पंचहीत्यादि सुगमम्, नवरम् आचार्योपाध्यायस्य आचार्योपाध्याययोर्वा गणाद् गच्छात् अपक्रमणं निर्गमो गणापक्रमणम् । आचार्योपाध्यायोगणे गच्छविषये आज्ञां वा योगेषु प्रवर्तनलक्षणां धारणां वाऽविधेयेषु निवर्तनलक्षणाम्, नोनैव सम्यग् यथौचित्यं प्रयोक्ता तयोः प्रवर्तनशीलोभवति, इदमुक्तं भवति- दुर्विनीतत्वाद् गणस्य ते प्रयोक्तुमशक्नुवन् गणादपक्रामति कालकाचार्यवदित्येकम् । तथा गणविषये यथारत्नाधिकतया यथाज्येष्ठं कृतिकर्म तथा वैनयिकं विनयं नो नैव सम्यक् प्रयोक्ता भवति, आचार्यसम्पदा साभिमानत्वात्, यतः आचार्येणापि प्रतिक्रमण-क्षामणादिषूचितानामुचितविनयः कर्त्तव्य एवेति द्वितीयम् । तथा असौ यानि श्रुतपर्यवजातानि यान् श्रुतपर्यायप्रकारानुद्देशका-ऽध्ययनादीन् धारयति हृद्यविस्मरणतस्तानि काले काले यथावसरं नो सम्यगनुप्रवाचयिता तेषां पाठयिता भवति, गणे त्ति इह सम्बध्यते, तेन गणे गणविषये गणमित्यर्थः, तस्याविनीतत्वात् तस्य वा सुखलम्पटत्वान्मन्दप्रज्ञत्वाद्वेति गणादपक्रामतीति तृतीयम्। तथा असौ गणे वर्तमानः सगणियाए त्ति स्वगणसम्बन्धिन्यां परगणियाए त्ति परगणसत्कायां निर्ग्रन्थ्यां तथाविधाशुभकर्मवशवर्तितया सकलकल्याणाश्रयसंयमसौधमध्याद् बहिर्लेश्या अन्तःकरणं यस्यासौ बहिर्लेश्यः आसक्तो भवतीत्यर्थः, एवं गणादपक्रामतीति, न चेदमधिकगुणत्वेन अस्यासम्भाव्यम्, यतः पठ्यते Page #72 -------------------------------------------------------------------------- ________________ ४७३ पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः । कम्माई नूण घणचिक्कणाइं गरुयाई वजसाराइं । नाणड्डयं पि पुरिसं पंथाओ उप्पहं नेति ॥ [ ] इति चतुर्थम् । तथा मित्र-ज्ञातिगणो वा सुहृत्-स्वजनवर्गो वा से तस्याचार्यादेः कुतोऽपि कारणाद् गणादपक्रामेदतस्तेषां सुहृत्-स्वजनानां सङ्ग्रहाद्यर्थं गणादपक्रमणं प्रज्ञप्तम्, तत्र सङ्ग्रहस्तेषां स्वीकारः, उपग्रहो वस्त्रादिभिरुपष्टम्भ इति पञ्चमम् । [सू० ४४०] पंचविहा इड्डीमंता मणुस्सा पन्नत्ता, तंजहा- अरहंता, चक्कवट्टी, बलदेवा, वासुदेवा, भावियप्पाणो अणगारा । ॥ पंचट्ठाणस्स बिइओ ॥ [टी०] अनन्तरमाचार्यस्य गणापक्रमणमुक्तम्, स च ऋद्धिमन्मनुष्यविशेष इत्यधिकाराद् ऋद्धिमन्मनुष्यविशेष इत्यधिकाराद् ऋद्धिमन्मनुष्यविशेषानाह-पंचविहेत्यादि कण्ठ्यम्, नवरम् ऋद्धिः आमर्पोषध्यादिका सम्पत्, तद्यथा- आमर्षोंषधिर्वि डोषधिः खेलौषधिर्जल्लौषधिल्लो मलः सर्वौषधिः आसीविषत्वं शापा-ऽनुग्रहसामर्थ्यमित्यर्थः, आकाशगामित्वमक्षीणमहानसिकत्वं वैक्रियकरणमाहारकत्वं तेजोनिसर्जनं पुलाकत्वं क्षीराश्रवत्वं मध्वाश्रवत्वं सर्पिराश्रवत्वं कोष्ठबुद्धिता बीजबुद्धिता पदानुसारिता सम्भिन्नश्रोतृत्वं युगपत्सर्वशब्दश्रावितेत्यर्थः, पूर्वधरता अवधिज्ञानं मनःपर्यायज्ञानं केवलज्ञानम् अर्हत्ता गणधरता चक्रवर्त्तिता बलदेवता वासुदेवता चेत्येवमादिका । __तदेवंरूपा प्रचुरा प्रशस्ता अतिशायिनी वा ऋद्धिर्विद्यते येषां ते ऋद्धिमन्तः, भावितः सद्वासनया वासितः आत्मा यैस्ते भावितात्मानोऽनगारा इति, एतेषां च ऋद्धिमत्त्वमामर्षोषध्यादिभिरर्हदादीनां तु चतुर्णां यथासम्भवमामर्षोषध्यादिनाऽर्हत्त्वादिना चेति । ॥ इति पञ्चस्थानकस्य द्वितीयोद्देशकः समाप्तः ।। [अथ तृतीय उद्देशकः] [सू० ४४१] पंच अत्थिकाया पन्नत्ता, तंजहा- धम्मत्थिकाए, अधम्मत्थिकाए, आगासत्थिकाए, जीवत्थिकाए, पोग्गलत्थिकाए । धम्मत्थिकाए अवन्ने अगंधे अरसे अफासे अरूवी अजीवे सासते अवट्ठिते Page #73 -------------------------------------------------------------------------- ________________ ४७४ लोगदव्वे । से समासओ पंचविधे पन्नत्ते, तंजहा- दव्वओ, खेत्तओ, कालओ, भावओ, गुणओ। दव्वओ णं धम्मत्थिकाए एगं दव्वं । खेत्ततो लोगपमाणमेत्ते। कालओ ण कयाति णासी, न कयाइ न भवति, ण कयाइ ण भविस्सइ, भुविं च भवति य भविस्सति य, धुवे णितिते सासते अक्खए अव्वते अवट्ठिते णिच्चे। भावतो अवन्ने अगंधे अरसे अफासे । गुणतो गमणगुणे । अधम्मत्थिकाए अवन्ने एवं चेव, णवरं गुणतो ठाणगुणे । आगासत्थिकाए अवन्ने एवं चेव, णवरं खेत्तओ लोगालोगपमाणमेत्ते, गुणतो अवगाहणागुणे, सेसं तं चेव । जीवत्थिकाए णं अवन्ने एवं चेव, णवरं दव्वओ णं जीवत्थिकाए अणंताई दव्वाइं, अरूवी जीवे सासते, गुणतो उवओगगुणे, सेसं तं चेव । पोग्गलत्थिकाए पंचवन्ने पंचरसे दुग्गंधे अट्ठफासे रूवी अजीवे सासते अवट्ठिते जाव दव्वओ णं पोग्गलत्थिकाए अणंताई दव्वाइं, खेत्तओ लोगपमाणमेत्ते, कालतो ण कयाइ णासि जाव णिच्चे, भावतो वन्नमंते गंधमंते रसमंते फासमंते, गुणतो गहणगुणे । [टी०] उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः अनन्तरोद्देशके जीवधर्माः प्रायः प्ररूपिताः, इह त्वजीव-जीवधर्मा उच्यन्ते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्- पंचेत्यादि, अस्य चायमभिसम्बन्धः-अनन्तरसूत्रे जीवास्तिकायविशेषा ऋद्धिमन्त उक्ताः इह त्वसङ्ख्येयानन्तप्रदेशलक्षणऋद्धिमन्तः समस्तास्तिकाया उच्यन्त इत्येवंसम्बन्धस्यास्य व्याख्या प्रथमाध्ययनवदनुसतव्या, नवरं धर्मास्तिकायादयः किमर्थमित्थमेवोपन्यस्यन्त इति, उच्यते, धर्मास्तिकायादिपदस्य माङ्गलिकत्वात् प्रथमं धर्मास्तिकायोपन्यासः पुनर्धर्मास्तिकायप्रतिपक्षत्वादधर्मास्तिकायस्य पुनस्तदाधारत्वादाकाशास्तिकायस्य पुनस्तदाधेयत्वाज्जीवास्तिकायस्य पुनस्तदुपग्राहकत्वात् पुद्गलास्तिकायस्येति, धर्मास्तिकायादीनां क्रमेण स्वरूपमाह- धम्मत्थिकाएत्यादि वर्ण-गन्ध-रस-स्पर्शप्रतिषेधाद् अरूवि त्ति रूपं मूर्तिर्वर्णादिमत्त्वम्, तदस्यास्तीति रूपी, न रूपी अरूपी अमूर्त इत्यर्थः, तथा अजीव: अचेतनः, शाश्वतः Page #74 -------------------------------------------------------------------------- ________________ पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः । ४७५ प्रतिक्षणं सत्ताऽऽलिङ्गितत्वादवस्थितः अनेन रूपेण नित्यत्वादिति, लोकस्यांशभूतं द्रव्यं लोकद्रव्यम्, यत उक्तम्पंचत्थिकायमइयं लोगमणाइनिहणं । [ध्यानश० ५३] इति । अथैतत्स्वरूपस्योक्तस्य प्रपञ्चनायानुक्तस्य चाभिधानायाह–स समासतः सङ्कपतः पञ्चविधः, विस्तरस्त्वन्यथापि स्यात्, कथमित्याह- द्रव्यतो द्रव्यतामधिकृत्य, क्षेत्रतः क्षेत्रमाश्रित्य, एवं कालतो भावतश्च, गुणत: कार्यतः कार्यमाश्रित्येत्यर्थः । तत्र द्रव्यतोऽसावेकं द्रव्यं तथाविधैकपरिणामादेकसङ्ख्याया एवेह भावात्, क्षेत्रतो लोकस्य प्रमाणं लोकप्रमाणम् असङ्ख्येयाः प्रदेशाः, तत् परिमाणमस्येति लोकप्रमाणमात्रः, कालतो न कदाचिन्नासीदित्यादि कालत्रयनिर्देशः, एतदेव सुखार्थं व्यतिरेकेणाहअभूच्च भवति च भविष्यति चेति, एवं त्रिकालभावित्वाद् ध्रुवः, मा भूदेकसर्गापेक्षयैव ध्रुवत्वमिति सर्वदैवं भावानियतः, मा भूदनेकसर्गापेक्षयैव नियतत्वमिति प्रलयाभावात् शाश्वतः, एवं सदा भावेनाऽक्षयः, पर्यायापगमेऽप्यनन्तपर्यायतयाऽव्ययः, एवमुभयरूपतया अवस्थितः, अनेन प्रकारेणौघतो नित्य इति पूज्यव्याख्या। तथा गुणतः गमनं गतिस्तद् गुणो गतिपरिणामपरिणतानां जीवपुद्गलानां सहकारिकारणभावतः कार्यं मत्स्यानां जलस्येव यस्यासौ गमनगुणो गमने वा गुणः उपकारो जीवादीनां यस्मादसौ गमनगुण इति । एवं चेव त्ति यथा धर्मास्तिकायोऽधीत एवमधर्मास्तिकायोऽपीति, नवरं केवलमेतावान् विशेषो यदुत- ठाणगुणे त्ति स्थान स्थितिर्गुण: कार्यं यस्य स स्थानगुणः, स हि स्थितिपरिणतानां जीवादीनामपेक्षाकारणतया स्थानं कार्यं करोति, स्थाने वा स्थितौ गुणः उपकारो यस्मात् स तथा। लोगालोगेत्यादि लोकालोकयोस्तद्व्यक्त्योर्यत् प्रमाणम् अनन्ताः प्रदेशास्तदेव परिमाणमस्येति लोकालोकप्रमाणमात्रः, अवगाहना जीवादीनामाश्रयो गुणः कार्यं यस्य तस्यां वा गुणः उपकारो यस्मात् सोऽवगाहनागुणः । अणंताई दव्वाइं ति अनन्ता जीवास्तेषां च प्रत्येकं द्रव्यत्वादिति । अरूवी जीवे त्ति जीवास्तिकायोऽमूर्तस्तथा चेतनावानिति । उपयोगः साकारानाकारभेदं चैतन्यं गुणो धर्मो यस्य स तथा। शेषं तदेव यदधास्तिकायादीनामिति, लोकप्रमाणो जीवास्तिकायः पुद्गलास्तिकायश्च, तयोस्तत्रैव भावादिति । गहणगुणे त्ति ग्रहणम् Page #75 -------------------------------------------------------------------------- ________________ ४७६ औदारिकशरीरादितया ग्राह्यता इन्द्रियग्राह्यता वा वर्णादिमत्त्वात् परस्परसम्बन्धलक्षणं वा तद् गुणो धर्मो यस्य स तथा । [सू० ४४२] पंच गतीतो पन्नत्ताओ, तंजहा- निरयगती, तिरियगती, मणुयगती, देवगती, सिद्धिगती । [टी०] अनन्तरमस्तिकाया उक्ता इति तद्विशेषस्य जीवास्तिकायस्य सम्बन्धिवस्तून्याह अध्ययनपरिसमाप्तिं यावदिति महासम्बन्धः । तत्र पंचेत्यादि गतिसूत्रं कण्ठ्यम्, नवरं गमनं गतिः १ गम्यत इति वा गतिः क्षेत्रविशेषः २ गम्यते वा अनया कर्मपुद्गलसंहत्येति गतिः नामकर्मोत्तरप्रकृतिरूपा ३ तत्कृता वा जीवावस्थेति ४, तत्र निरये नरके गतिः ४-१ निरयश्चासौ गतिश्चेति वा २ निरयप्रापिका वा गतिः ३ निरयगतिः, एवं तिर्यक्षु ४-१ तिरश्चां २ तिर्यक्त्वप्रसाधिका वा गतिः ३ तिर्यग्गतिः, एवं मनुष्य-देवगती, सिद्धौ गतिः सिद्धिश्चासौ गतिश्चेति वा सिद्धिगतिः, गतिरिह नामप्रकृतिर्नास्तीति । [सू०४४३] पंच इंदियत्था पन्नत्ता, तंजहा- सोतिंदियत्थे जाव फासिंदियत्थे। पंच मुंडा पन्नत्ता, तंजहा- सोतिंदियमुंडे जाव फासिंदियमुंडे २॥ अहवा पंच मुंडा पन्नत्ता, तंजहा- कोहमुंडे, माणमुंडे, मायामुंडे, लोभमुंडे, सिरमुंडे ३॥ [टी०] अनन्तरं सिद्धिगतिरुक्ता, सा चेन्द्रियार्थान् कषायादींश्चाश्रित्य मुण्डितत्वे सति भवतीतीन्द्रियार्थानिन्द्रिय-कषायादिमुण्डांश्चाभिधित्सुः सूत्रत्रयमाह- पंचेत्यादि सुगमम्, नवरम् इन्दनादिन्द्रो जीव: सर्वविषयोपलब्धिभोगलक्षणपरमैश्वर्ययोगात्, तस्य लिङ्गं तेन दृष्टं सृष्टं जुष्टं दत्तमिति वा इन्द्रियं श्रोत्रादि, तच्चतुर्विधं नामादिभेदात्, तत्र नाम-स्थापने सुज्ञाने, निर्वृत्त्युपकरणे द्रव्येन्द्रियम्, लब्ध्युपयोगौ भावेन्द्रियम्, तत्र निर्वृत्तिराकार:, सा च बाह्याऽभ्यन्तरा च, तत्र बाह्या अनेकप्रकारा, अभ्यन्तरा पुन: क्रमेण श्रोत्रादीनां कदम्बपुष्प १ धान्यमसूरा २ ऽतिमुक्तकपुष्पचन्द्रिका ३ क्षुरप ४ नानाप्रकार ५ संस्थाना, उपकरणेन्द्रियं विषयग्रहणे समर्थम्, छेद्यच्छेदने खड्गस्येव धारा, यस्मिन्नुपहते निर्वृत्तिसद्भावेऽपि विषयं न गृह्णातीति, लब्धीन्द्रियं यस्तदावरणक्षयोपशमः, उपयोगेन्द्रियं Page #76 -------------------------------------------------------------------------- ________________ पञ्चममध्ययनं पञ्चस्थानकम । तृतीय उद्देशकः । ४७७ य: स्वविषये व्यापार इत्यादि । ___ अर्थ्यन्ते अभिलष्यन्ते क्रियार्थिभिरर्यन्ते वा अधिगम्यन्त इत्यर्थाः, इन्द्रियाणामा इन्द्रियार्थाः तद्विषया: शब्दादयः, श्रूयतेऽनेनेति श्रोत्रम्, तच्च तदिन्द्रियं च श्रोत्रेन्द्रियम्, तस्यार्थो ग्राह्यः श्रोत्रेन्द्रियार्थः शब्दः, एवं क्रमेण रूप-गन्ध-रस-स्पर्शाश्चक्षुराद्या इति । मुण्डनं मुण्ड: अपनयनम्, स च द्वेधा- द्रव्यतो भावतश्च, तत्र द्रव्यत: शिरस: केशापनयनम्, भावतस्तु चेतस इन्द्रियार्थगतप्रेमा-ऽप्रेम्णो: कषायाणां वाऽपनयनमिति मुण्डलक्षणधर्मयोगात् पुरुषो मुण्ड उच्यते, तत्र श्रोत्रेन्द्रिये मुण्डः श्रोत्रेन्द्रियेण वा मुण्ड:, पादेन खञ्ज इत्यादिवत् श्रोत्रेन्द्रियमुण्डः, शब्दे रागादिमुण्डनाच्छ्रोत्रेन्द्रियार्थमुण्ड इति भाव इत्येवं सर्वत्र, तथा क्रोधे मुण्ड: क्रोधमुण्डस्तच्छेदनादेवमन्यत्रापि, तथा शिरसि शिरसा वा मुण्ड: शिरोमुण्ड इति । । [सू० ४४४] [१] अहेलोगे णं पंच बादरा पन्नत्ता, तंजहा- पुढविकाइया, आउ[काइया], वा[काइया], वणस्सतिकाइया, ओराला तसा पाणा १। उड्डलोगे णं पंच बादरा एते चेव । तिरियलोगे णं पंच बादरा पन्नत्ता, तंजहा- एगिदिया जाव पंचिंदिया। [२] पंचविधा बादरतेउकाइया पन्नत्ता, तंजहा- इंगाले, जाला, मुम्मुरे, अच्ची, अलाते १॥ पंचविधा बादरवाउकाइया पन्नत्ता, तंजहा- पाईणवाते, पडीणवाते, दाहिणवाते, उदीणवाते, विदिसंवाते २। पंचविधा अचित्ता वाउकाइया पन्नत्ता, तंजहा- अंकते, धंते, पीलिते, सरीराणुगते, सम्मुच्छिमे ३॥ [टी०] इदं च मुण्डितत्वं बादरजीवविशेषाणां भवतीति लोकत्रयापेक्षया बादरजीवकायान् प्ररूपयन् सूत्रत्रयमाह- अहेत्यादि सुगमम्, नवरमधऊर्ध्वलोकयोस्तैजसा बादरा न सन्तीति पञ्चैते उक्ता:, अन्यथा षट् स्युरिति, अधोलोकग्रामेषु ये बादरास्तैजसास्ते अल्पतया न विवक्षिता:, ये चोर्ध्वकपाटद्वये ते उत्पत्तुकामत्वेनोत्पत्तिस्थानास्थितत्वादिति। Page #77 -------------------------------------------------------------------------- ________________ ४७८ ___ओरालतस त्ति त्रसत्वं तेजोवायुष्वपि प्रसिद्धम्, अतस्तद्व्यवच्छेदेन द्वीन्द्रियादिप्रतिपत्त्यर्थमोरालग्रहणम्, ओराला: स्थूला एकेन्द्रियापेक्षयेति, एकमिन्द्रियं करणं स्पर्शनलक्षणमेकेन्द्रियजातिनामकर्मोदयात्तदावरणक्षयोपशमाच्च येषां ते एकेन्द्रिया: पृथिव्यादय:, एवं द्वीन्द्रियादयोऽपि, नवरमिन्द्रियविशेषो जातिविशेषश्च वाच्य इति । __एकेन्द्रिया इत्युक्तमिति तान् पञ्चस्थानकानुपातिनो विशेषत: सूत्रत्रयेणाहपंचेविहेत्यादि, अङ्गारः प्रतीत:, ज्वाला अग्निशिखा छिन्नमूला, सैवाच्छिन्नमूलाऽर्चिः, मुर्मुरो भस्ममिश्राग्निकणरूप:, अलातम् उल्मुकमिति । प्राचीनवात: पूर्ववात:, प्रतीचीन: पश्चिम:, दक्षिण: प्रतीतः, उदीचीन: उत्तरः, तदन्यस्तु विदिग्वात इति। आक्रान्ते पादादिना भूतलादौ यो भवति स आक्रान्तः, यस्तु ध्माते दृत्यादौ स ध्मातः, जलार्द्रवस्त्रे निष्पीड्यमाने पीडितः, उद्गारोच्छ्वासादिः शरीरानुगतः, व्यजनादिजन्य: सम्मूर्छिमः । एते च पूर्वमचेतनास्ततः सचेतना अपि भवन्तीति । [सू० ४४५] पंच नियंठा पन्नत्ता, तंजहा- पुलाते, बउसे, कुसीले, णियंठे, सिणाते । ___ पुलाते पंचविहे पन्नत्ते, तंजहा- णाणपुलाते, दंसणपुलाते, चरित्तपुलाते, लिंगपुलाते, अहासुहुमपुलाते नामं पंचमे २। बउसे पंचविधे पन्नत्ते, तंजहा- आभोगबउसे, अणाभोगबउसे, संवुडबउसे, असंवुडबउसे, अहासुहमबउसे नामं पंचमे ३। कुसीले पंचविधे पन्नत्ते, तंजहा- णाणकुसीले, दंसणकुसीले, चरित्तकुसीले, लिंगकुसीले, अहासुहुमकुसीले नामं पंचमे ४। नियंठे पंचविहे पन्नत्ते, तंजहा- पढमसमयनियंठे, अपढमसमयनियंठे, चरिमसमयनियंठे, अचरिमसमयनियंठे, अहासुहुमनियंठे नामं पंचमे ५। सिणाते पंचविधे पन्नत्ते, तंजहा- अच्छवी, असबले, अकम्मंसे, संसुद्धणाणदंसणधरे अरहा जिणे केवली, अपरिस्सावी ६॥ [टी०] पूर्वं पञ्चेन्द्रिया उक्ताः इति पञ्चेन्द्रियविशेषानाह, अथवा अनन्तरं सचेतनाचेतना वायव उक्ता:, तांश्च रक्षन्ति निर्ग्रन्था एवेति तानाह- पंच नियंठेत्यादि सूत्रषट्कं Page #78 -------------------------------------------------------------------------- ________________ पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः । ४७९ सुगमम्, नवरं ग्रन्थादान्तरान्मिथ्यात्वादेर्बाह्याच्च धर्मोपकरणवर्जाद्धनादेर्निर्गता निर्ग्रन्था:, पुलाकः तन्दुलकणशून्या पलञ्जिः, तद्वद् य: तप:श्रुतहेतुकाया: सङ्घादिप्रयोजने चक्रवर्त्यादेरपि चूर्णनसमर्थाया: लब्धेरुपजीवनेन ज्ञानाद्यतिचारासेवनेन वा संयमसाररहित: स पुलाकः, अत्रोक्तम्- जिनप्रणीतादागमात् सदैवाप्रतिपातिनो ज्ञानानुसारेण क्रियानुष्ठायिनो लब्धिमुपजीवन्तो निर्ग्रन्थपुलाका भवन्ती [तत्त्वार्थभा० सिद्ध० ९।४८]ति, बकुश: शबल:, कर्बुर इत्यर्थः, शरीरोपकरणविभूषानुवर्तितया शुद्ध्यशुद्धिव्यतिकीर्णचरण इति, अयमपि द्विविधः, यदाह- मोहनीयक्षयं प्रति प्रस्थिता: शरीरोपकरणविभूषानुवर्तिन: [तत्त्वार्थभा० सिद्ध० ९।४८] तत्र शरीरे अनागुप्तव्यतिकरण कर-चरण-वदनप्रक्षालनमक्षि-कर्णनासिकाद्यवयवेभ्योऽपि दूषिकामलाद्यपनयनं दन्तपवनलक्षणं केशसंस्कारं च देहविभूषार्थमाचरन्त: शरीरबकुशा:, उपकरणबकुशास्तु अकाल एव प्रक्षालितचोलपट्टकान्तरकल्पादिचोक्षवास:प्रिया: पात्र-दण्डकाद्यपि तैलमात्रयोज्ज्वलीकृत्य विभूषार्थमनुवर्तमाना बिभ्रति, उभयेऽपि च ऋद्धियशस्कामा:- तत्र ऋद्धिं प्रभूतवस्त्र-पात्रादिकां ख्यातिं च गुणवन्तो विशिष्टा: साधव इत्यादिप्रवादरूपां कामयन्ते, सातगौरवमाश्रिता: नातीवाहोरात्राभ्यन्तरानुष्ठेयासु क्रियास्वभ्युद्यता:, अविविक्तपरिवारा:- नासंयमात् पृथग्भूत: घृष्टजङ्घः तैलादिकृतशरीरमृज: कतरिकाकल्पितकेशश्च परिवारो येषामिति भाव:, बहुच्छेदशबलयुक्ता: सर्व-देशच्छेदाहा॑तिचारजनितशबलत्वेन युक्ता निर्ग्रन्थबकुशा इति । तथा कुत्सितं उत्तरगुणप्रतिषेवया सज्वलनकषायोदयेन वा दूषितत्वात् शीलम् अष्टादशशीलाङ्गसहस्रभेदं यस्य स कुशील इति, एषोऽपि द्विविध एव, अत्राप्युक्तम्द्विविधा: कुशीला: प्रतिसेवनकुशीला: कषायकुशीलाश्च [तत्त्वार्थभा० सिद्ध० ९।४८], तत्र ये नैर्ग्रन्थ्यं प्रति प्रस्थिता: अनियतेन्द्रिया: कथञ्चित् किञ्चिदेवोत्तरगुणेषु पिण्डविशुद्धिसमिति-भावना-तप:-प्रतिमा-ऽभिग्रहादिषु विराधयन्त: सर्वज्ञाज्ञोल्लङ्घनमाचरन्ति ते प्रतिसेवनाकुशीला:, येषां तु संयतानामपि सतां कथञ्चित्सवलनकषाया उदीर्यन्ते ते कषायकुशीला:, निर्गतो ग्रन्थान्मोहनीयाख्यात् निर्ग्रन्थः क्षीणकषाय उपशान्तमोहो वा, क्षालितसकलघातिकर्ममलपटलत्वात् स्नात इव स्नात:, स एव स्नातकः, सयोगोऽयोगो वा केवलीति । Page #79 -------------------------------------------------------------------------- ________________ ४८० __ अधुनैत एव भेदत उच्यन्ते, तत्र पुलाक इत्यासेवापुलाकः पञ्चविधः, लब्धिपुलाकस्यैकविधत्वात्, तत्र स्खलित-मिलितादिभिरतिचारैर्ज्ञानमाश्रित्यात्मानम् असारं कुर्वन् ज्ञानपुलाकः, एवं कुदृष्टिसंस्तवादिभिर्दर्शनपुलाकः, मूलोत्तरगुणप्रतिसेवनातश्चरणपुलाकः, यथोक्तलिङ्गाधिकग्रहणात् निष्कारणेऽन्यलिङ्गकरणाद्वा लिङ्गपुलाकः, किञ्चित्प्रमादान्मनसाऽकल्प्यग्रहणाद्वा यथासूक्ष्मपुलाको नाम पञ्चम इति । बकुशो द्विविधोऽपि पञ्चविधः, तत्र शरीरोपकरणभूषयो: सञ्चिन्त्यकारी आभोगबकुशः, सहसाकारी अनाभोगबकुश:, प्रच्छन्नकारी संवृतबकुशः, प्रकटकारी असंवृतबकुशः, मूलोत्तरगुणाश्रितं वा संवृतासंवृतत्वम्, किञ्चित्प्रमादी अक्षिमलाद्यपनयन् वा यथासूक्ष्मबकुशो नाम पञ्चम इति । कुशीलो द्विविधोऽपि पञ्चविधः, तत्र ज्ञान-दर्शन-चारित्र-लिङ्गान्युपजीवन् प्रतिषेवणतो ज्ञानादिकुशीलः, लिङ्गस्थाने क्वचित्तपो दृश्यते, तथा अयं तपश्चरतीत्येवमनुमोद्यमानो हर्ष गच्छन् यथासूक्ष्मकुशील: प्रतिषेवणयैवेति, कषायकुशीलोऽप्येवम्, नवरं क्रोधादिना विद्यादिज्ञानं प्रयुञ्जानो ज्ञानकुशील:, दर्शनग्रन्थं प्रयुञ्जानो दर्शनत:, शापं ददत् चारित्रतः, कषायैर्लिङ्गान्तरं कुर्वन् लिङ्गतः, मनसा कषायान् कुर्वन् यथासूक्ष्म: । चूर्णिकारव्याख्या त्वेवम्- सम्यगाराधनविपरीता प्रतिगता वा सेवना प्रतिसेवना, सा पञ्चसु ज्ञानादिषु येषां ते प्रतिसेवनाकुशीला:, कषायकुशीलास्तु पञ्चसु ज्ञानादिषु येषां कषायैर्विराधना क्रियत इति । __ अन्तर्मुहर्त्तप्रमाणाया निर्ग्रन्थाद्धाया: प्रथमे समये वर्तमान एकः, शेषेषु द्वितीय:, अन्तिमे तृतीयः, शेषेषु चतुर्थः, सर्वेषु पञ्चम इति विवक्षया भेद एषामिति । छवि: शरीरम्, तदभावात् काययोगनिरोधे सति अच्छविर्भवति अव्यथको वा १, निरतिचारत्वादशबल: २, क्षपितकर्मत्वादकम्र्मांश इति तृतीय: ३, ज्ञानान्तरेणासम्पृक्तत्वात् संशुद्धज्ञानदर्शनधरः, पूजार्हत्वादर्हन्, नास्य रहो रहस्यमस्तीत्यरहा वा, जितकषायत्वाजिनः, केवलं परिपूर्ण ज्ञानादित्रयमस्यास्तीति केवलीति चतुर्थ: ४, निष्क्रियत्वात् सकलयोगनिरोधे अपरिश्रावीति पञ्चम: ५, क्वचित् पुनरर्हन् जिन इति पञ्चमः । अत्र भाष्यगाथा: Page #80 -------------------------------------------------------------------------- ________________ ४८१ पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः । होइ पुलाओ दुविहो इत्यादि वृत्तौ। [सू० ४४६] कप्पति णिग्गंथाण वा णिग्गंथीण वा पंच वत्थाई धारित्तते वा परिहरित्तते वा, तंजहा- जंगिते, भंगिते, साणते, पोत्तिते, तिरीडपट्टते णामं पंचमए । कप्पति निग्गंथाण वा निग्गंथीण वा पंच रयहरणाई धारित्तते वा परिहरित्तते वा, तंजहा- उण्णिए, उट्टिते, साणते, पच्चापिच्चियए, मुंजापिच्चियए नामं पंचमे । [टी०] निर्ग्रन्थानामेवोपधिविशेषप्रतिपादनाय सूत्रद्वयमाह- कप्पंतीत्यादि कण्ठ्यम्, नवरं कल्पन्ते युज्यन्ते, धारयितुं परिग्रहे, परिहर्तुमासेवितुमिति, अथवा धारणया उवभोगो परिहरणा होइ परिभोगोबृहत्कल्प० २३६७, २३७२]त्ति । जंगिए त्ति जङ्गमा: त्रसास्तदवयवनिष्पन्नं जाङ्गमिकं कम्बलादि, भंगिए त्ति भंगा अतसी, तन्मयं भाङ्गिकम्, साणए त्ति सनसूत्रमयं सानकम्, पोत्तिए त्ति पोतमेव पोतकं कार्पासिकम्, तिरिडवहे त्ति वृक्षत्वङ्मयमिति, इह गाथा: जंगमजायं जंगिय तं पुण विगलिंदियं च पंचिंदी । एक्कक्कं पि य इत्तो होइ विभागेण णेगविहं ॥ पट्ट सुवन्ने मलये अंसुय चीणंसुए य विगलिंदी । उन्नोट्टिय मियलोमे कुतवे किट्टीय पंचेंदी ॥ [बृहत्कल्प० ३६६१-६२] पट्टः प्रतीत:, सुवर्णं सुवर्णवर्णसूत्रं कृमिकाणाम्, मलयं मलयविषय एव, अंशुकं श्लक्ष्णपट्टः, चीनांशुकं कोशिकार: चीनविषये वा यद्भवति श्लक्ष्णात् पट्टादिति, मृगरोमजं शशलोमजं मूषकलोमजं वा, कुतप: छागलम्, किट्टिजमेतेषामेवावयवनिष्पन्नमिति। अयसी वंसीमाई य भंगियं साणयं तु सणवक्के । पोत्तं कप्पासमयं तिरीडरुक्खा तिरिडपट्टो ॥ [बृहत्कल्प० ३६६३] इह पञ्चविधे वस्त्रे प्ररूपितेऽप्युत्सर्गत: कार्पासिकौ% एव ग्राह्ये, यतोऽवाचिकप्पासिया उ दोन्नी इत्यादि [बृहत्कल्प० ३६६४] इति, रयहरणे त्ति रजो ह्रियते अपनीयते येन तद्रजोहरणम्, उक्तं च Page #81 -------------------------------------------------------------------------- ________________ ४८२ हरइ रयं जीवाणं बझं अब्भंतरं च जं तेणं । रयहरणं ति पवुच्चइ कारणकजोवयाराओ ॥ [ ] इति, तत्र उन्नियं ति अविलोममयम्, उट्टियं ति उष्ट्रलोममयम्, सानकं सनसूत्रमयम्, पच्चापिच्चियए त्ति बल्वज: तृणविशेष: तस्य पिच्चियं ति कुट्टितत्वक् तन्मयम्, मुञ्ज: शरपणीति, इह गाथा: पाउंछणयं दुविहं ओसग्गियमाववाइयं चेव । एक्कक्कं पि य दुविहं निव्वाघायं च वाघायं ॥ [निशीथभा० ८१९ ] औत्सर्गिकं रजोहरणं पट्टनिषद्याद्वययुक्तमापवादिकमनावृतदण्डम्, निर्व्याघातमौर्णिकदशिकम्, व्याघातवत् त्वितरदितिजं तं निव्वाघायं तं एगं उन्नियं ति नायव्वं । औत्सर्गिकं च, उस्सग्गियवाघायं उट्टियसणपच्चमुंजं च ॥ निव्वाघायववाई दारुगदंडुण्णियाहिं दसियाहिं । अववाइय वाघायं उट्टीसणवच्चमुंजमयं ॥ [निशीथभा० ८२३-२४ ] ति । [सू० ४४७] धम्मं णं चरमाणस्स पंच णिस्साठाणा पन्नत्ता, तंजहाछक्काया, गणो, राया, गाहावती, सरीरं । [टी०] श्रमणानां यथा वस्त्र-रजोहरणे धर्मोपग्राहके, तथाऽपराण्यपि कायादीनीति तान्येवाह- धम्ममित्यादि, धर्मं श्रुत-चारित्ररूपम्, णमित्यलङ्कारे, चरत: सेवमानस्य, पञ्च निश्रास्थानानि आलम्बनस्थानानि, उपग्रहहेतव इत्यर्थः, षट् कायाः पृथिव्यादय:, तेषां च संयमोपकारिताऽऽगमप्रसिद्धा, तथाहि- पृथिवीकायमाश्रित्योक्तम् ठाण-निसीय-तुयट्टण-उच्चाराईण गहण निक्खेवे ।। घट्टग-डगलग-लेवो एमाइ पओयणं बहुहा ॥ [ओघनि० ३४२] अप्कायमाश्रित्यपरिसेय-पियण-हत्थाइधोयणे चीरधोयणे चेव । आयमण-भाणधुवणे एमाइ पओयणं बहुहा ॥ [ओघनि० ३४७ ] तेजस्कायं प्रतिओयण वंजण पाणग आयामुसिणोदगं च कुम्मासा ।। डगलग-सरक्ख-सूई-पिप्पलमाई य उवओगो ॥ [ओघनि० ३५९] वायुकायमभिदइएण वत्थिणा वा पओयणं होज वाउणा मुणिणो । गेलन्नम्मि वि होज्जा सचित्तमीसे परिहरेजा ॥ [ओघनि० ३६२] वनस्पतिं प्रति Page #82 -------------------------------------------------------------------------- ________________ ४८३ पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः । संथार-पाय-दंडग-खोमियकप्पा य पीठ-फलगाई । ओसह-भेसजाणि य एमाइ पओयणं तरुसु ॥ [ओघनि० ३६४] त्रसकाये पञ्चेन्द्रियतिरश्च आश्रित्योक्तम्चम्मट्ठि-दंत-नह-रोम-सिंग-अमिलाइछगण-गोमुत्ते । खीर-दहिमाइयाणं पंचेंदियतिरियपरिभोगो ॥ [ओघनि० ३६८] एवं विकलेन्द्रिय-मनुष्य-देवानामप्युपग्रहकारिता वाच्या । तथा गणो गच्छ:, तस्य चोपग्राहिता- एक्कस्स कओ धम्मो [उप०माला० १५६-१६१] इत्यादिगाथापूगादवसेया, तथा गुरुपरिवारो गच्छो तत्थ वसंताण निजरा विउला । विणयाउ तहा सारणमाईहिं न दोसपडिवत्ती ॥ [पञ्चवस्तु० ६९६] इत्यादि। तथा राजा नरपतिः, तस्य धर्मसहायकत्वं दुष्टेभ्य: साधुरक्षणाद्, उक्तं च लौकिकै:क्षुद्रलोकाकुले लोके, धर्मं कुर्युः कथं हि ते । क्षान्ता दान्ता अहन्तारश्चेद्राजा तान्न रक्षति ॥ [ ] तथा गृहपतिः शय्यादाता, सोऽपि निश्रास्थानम्, स्थानदानेन संयमोपकारित्वात्, तदुक्तम् धृतिस्तेन दत्ता मतिस्तेन दत्ता गतिस्तेन दत्ता सुखं तेन दत्तम् । गुणश्रीसमालिङ्गितेभ्यो वरेभ्यो मुनिभ्यो मुदा येन दत्तो निवासः ॥ [ ] तथाजो देइ उवस्सयं जइवराण तवनियमजोगजुत्ताणं । तेणं दिन्ना वत्थन्नपाणसयणासणविगप्पा ॥ [ ] इति, तथा शरीरं काय:, अस्य च धर्मोपग्राहिता स्फुटैव, यतोऽवाचिशरीरं धर्मसंयुक्तं रक्षणीयं प्रयत्नतः । शरीराच्छ्रवते धर्म: पर्वतात् सलिलं यथा ॥ [ ] इति । [सू० ४४८] पंच णिही पन्नत्ता, तंजहा- पुत्तणिही, मित्तणिही, सिप्पणिही, धणणिही, धन्नणिही । [टी०] श्रमणस्य निश्रास्थानान्युक्तानि, अथ लौकिकं निधिलक्षणं निश्रास्थानं पञ्चधा प्रतिपायदन्नाह- पंच निहीत्यादि सुगमम्, नवरं नितरां धीयते स्थाप्यते यस्मिन् स निधि:विशिष्टरत्न-सुवर्णादिद्रव्यभाजनम्, तत्र निधिरिव निधि: पुत्रश्चासौ निधिश्च Page #83 -------------------------------------------------------------------------- ________________ ४८४ पुत्रनिधिः, द्रव्योपार्जकत्वेन पित्रोर्निर्वाहहेतुत्वादत एव स्वभावेन च तयोरानन्दसुखकरत्वाच्च, अत्रोक्तं परै: जन्मान्तरफलं पुण्यं तपोदानसमुद्भवम् । सन्ततिः शुद्धवंश्या हि परत्रेह च शर्म्मणे ॥ [ ] इति । तथा मित्रं सुहृत्, तच्च तन्निधिश्चेति मित्रनिधिरर्थ- कामसाधकत्वेनानन्दहेतुत्वात्, तदुक्तम् कुतस्तस्यास्तु राज्यश्रीः कुतस्तस्य मृगेक्षणाः । यस्य शूरं विनीतं च नास्ति मित्रं विचक्षणम् ? ॥ [ शिल्पं चित्रादिविज्ञानम्, तदेव निधिः शिल्पनिधिः, एतच्च विद्योपलक्षणम्, तेन विद्या निधिरिव पुरुषार्थसाधनत्वाद्, अत्रोक्तम्– विद्यया राजपूज्यः स्याद्विद्यया कामिनीप्रियः । ] इति, विद्या हि सर्वलोकस्य वशीकरणकार्म्मणम् ॥ [ तथा धननिधिः कोशः, धान्यनिधिः कोष्ठागारमिति । [सू० ४४९] पंचविधे सोते पन्नत्ते, तंजहा - पुढविसोते, आउसोते, तेउसोते, मंतसोते, बंभसोते । [टी०] अनन्तरं निधिरुक्तः, स च द्रव्यतः पुत्रादिर्भावतस्तु कुशलानुष्ठानरूपं ब्रह्म, तत् पुनः शौचतया बिभणिषुः प्रसङ्गेन शेषाण्यपि शौचान्याह -- पंचविहेत्यादि व्यक्तम्, नवरं शुचेर्भावः शौचम्, शुद्धिरित्यर्थः, तच्च द्विधा - द्रव्यतो भावतश्च, तत्राद्यं चतुष्टयं द्रव्यशौचम्, पञ्चमं तु भावशौचम्, तत्र पृथिव्या मृत्तिकया शौचं जुगुप्सितमलगन्धयोरपनयनं शरीरादिभ्यो घर्षणोपलेपनादिनेति पृथिवीशौचम्, इह च पृथिवीशौचाभिधानेऽपि यत् परैस्तल्लक्षणमभिधीयते, यदु एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश । उभयोः सप्त विज्ञेया मृदः शुद्धौ मनीषिभिः ॥ एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । त्रिगुणं वानप्रस्थानां यतीनां च चतुर्गुणम् ॥ [ ] इति, तदिह नाभिमतम्, गन्धाद्युपघातमात्रस्य शौचत्वेन विवक्षितत्वात्, तस्यैव च Page #84 -------------------------------------------------------------------------- ________________ पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः । ४८५ युक्तियुक्तत्वात् इति १, तथा अद्भिः शौचमप्शौचं प्रक्षालनमित्यर्थः २, तेजसाऽग्निना तद्विकारेण वा भस्मना शौचं तेजःशौचम् ३, एवं मन्त्रशौचं शुचिविद्यया ४, ब्रह्म ब्रह्मचर्यादि कुशलानुष्ठानम्, तदेव शौचं ब्रह्मशौचम् ५, अनेन च सत्यादिशौचं चतुर्विधमपि सङ्ग्रहीतम्, तच्चेदम् सत्यं शौचं तपः शौचं शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं जलशौचं च पञ्चमम् ॥ [ ] इति ।। [सू० ४५०] पंच ठाणाई छउमत्थे सव्वभावेणं ण जाणति ण पासति, तंजहा- धम्मत्थिकातं, अधम्मत्थिकातं, आगासत्थिकायं, जीवं असरीरपडिबद्धं, परमाणुपोग्गलं । एताणि चेव उप्पन्ननाणदंसणधरे अरहा जिणे केवली सव्वभावेणं जाणति पासति धम्मत्थिकातं जाव परमाणुपोग्गलं । [टी०] अनन्तरं ब्रह्मशौचमुक्तम्, तच्च जीवशुद्धिरूपम्, जीवं च छद्मस्थो न जानाति केवली तु जानातीति सम्बन्धाच्छद्मस्थ-केवलिनोरज्ञेय-ज्ञेयवस्तुप्रतिपादनाय सूत्रद्वयमाहछउमत्थेत्यादि सुगमम्, नवरं छद्मस्थ इहावध्याद्यतिशयविकलो गृह्यते, अन्यथा अमूर्त्तत्वेन धर्मास्तिकायादीन् अजानन्नपि परमाणुं जानात्येवासौ मूर्तत्वात्तस्य । अथ सर्वभावेनेत्युक्तं ततश्च तं कथञ्चिजानन्नप्यनन्तपर्यायतया न जानातीति, एवं तर्हि सङ्ख्यानियमो व्यर्थ: स्यात्, घटादीनां सुबहूनामर्थानामकेवलिना सर्वपर्यायतया ज्ञातुमशक्यत्वादिति, सव्वभावेणं ति च साक्षात्कारेण, श्रुतज्ञानेन त्वसाक्षात्कारेण जानात्येव, जीवमशरीरप्रतिबद्धं देहमुक्तम्, परमाणुश्चासौ पुद्गलश्चेति विग्रहः, व्यणुकादीनामुपलक्षणमिदम् । [सू० ४५१] अधेलोगे णं पंच अणुत्तरा महतिमालता महाणिरया पन्नत्ता, तंजहा- काले, महाकाले, रोरुते, महारोरुते, अप्पतिट्ठाणे । उड्ढलोगे णं पंच अणुत्तरा महतिमहालता महाविमाणा पन्नत्ता, तंजहाविजये, वेजयंते, जयंते, अपराजिते, सव्वट्ठसिद्धे । [टी०] यथैतान्यतीन्द्रियाणि जिन: पञ्च जानाति तथाऽन्यदप्यतीन्द्रियं जानातीत्य Page #85 -------------------------------------------------------------------------- ________________ ४८६ धोलोकोर्ध्वलोकवर्त्यतीन्द्रियं पञ्चस्थानकावतारि दर्शयन् सूत्रद्वयमाह- अहो इत्यादि व्यक्तम्, नवरम् अहोलोए त्ति सप्तमपृथिव्याम्, अनुत्तरा: सर्वोत्कृष्ट-वेदनादित्वात्तत: परं नरकाद्यभावाद्वा, महत्त्वं च चतुर्णां क्षेत्रतोऽप्यसङ्ख्यातयोजनत्वाद-प्रतिष्ठानस्य तु योजनलक्षप्रमाणत्वेऽप्यायुषोऽतिमहत्त्वान्महत्त्वमिति, एवमूर्ध्वलोकेऽपि। [सू० ४५२] पंच पुरिसजाता पन्नत्ता, तंजहा- हिरिसत्ते, हिरिमणसत्ते, चलसत्ते, थिरसत्ते, उदतणसत्ते ।। [टी०] कालादिषु विजयादिषु च सत्त्वाधिकपुरुषा एव गच्छन्तीति तत्प्रतिपादनायाहपंच पुरिसेत्यादि, हिरिसत्ति त्ति ह्रिया लज्जया सत्त्वं परीषहेषु साधो: सङ्ग्रामादावितरस्य वा अवष्टम्भोऽविचलत्वं यस्यासौ ह्रीसत्त्वः, तथा ह्रियाऽपि मनस्येव सत्त्वं यस्य न देहे शीतादिषु कम्पादिविकारभावात् स ह्रीमनःसत्त्वः, चलं भङ्गरं सत्त्वं यस्य स तथा, एतद्विपर्ययात् स्थिरसत्त्व:, उदयनम् उदयगामि प्रवर्द्धमानं सत्त्वं यस्य स तथा। __[सू० ४५३] पंच मच्छा पन्नत्ता तंजहा- अणुसोतचारी, पडिसोतचारी, अंतचारी, मज्झचारी, सव्वचारी । एवामेव पंच भिक्खागा पन्नत्ता, तंजहाअणुसोतचारी जाव सव्वचारी । [टी०] अनन्तरं सत्त्वपुरुष उक्तः, स च भिक्षुरेवेति तत्स्वरूपप्रतिपादनाय दृष्टान्तदानॊन्तिकसूत्रे पंच मच्छेत्यादिके आह, तत्र मत्स्य: प्राग्वत्, भिक्षाकस्तु अनुश्रोतश्चारिवदनुश्रोतश्चारी प्रतिश्रयादारभ्य भिक्षाचारी, स च प्रथम:, प्रतिश्रोतश्चारीव प्रतिश्रोतश्चारी दूरादारभ्य प्रतिश्रयाभिमुखचारीत्यर्थः, स च द्वितीयः, अन्तचारी पार्श्वचारीति तृतीयः, शेषौ प्रतीतौ। [सू० ४५४] पंच वणीमगा पन्नत्ता, तंजहा- अतिधिवणीमते, किविणवणीमते, माहणवणीमते, साणवणीमते समणवणीमते । [टी०] भिक्षाकाधिकारात्तद्विशेषं पञ्चधाऽऽह- पंचेत्यादि व्यक्तम्, किन्तु परेषामात्मदुःस्थत्वदर्शनेनानुकूलभाषणतो यल्लभ्यते द्रव्यं सा वनी प्रतीता, तां पिबति आस्वादयति पातीति वेति वनीप:, स एव वनीपको याचकः, इह तु यो यस्यातिथ्यादेर्भक्तो भवति तं तत्प्रशंसनेन यो दानाभिमुखं करोति स वनीपक इति, Page #86 -------------------------------------------------------------------------- ________________ पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः । ४८७ तत्र भोजनकालोपस्थायी प्राघूर्णकोऽतिथिः, तद्दानप्रशंसनेन तद्भक्तात् यो लिप्सते सोऽतिथिमाश्रित्य वनीपकोऽतिथिवनीपकः, तस्य दानं महाफलमिति शेष:, एवमन्येऽपि, नवरं कृपणा: रङ्कादयो दुःस्था:, उदाहरणम्किविणेसु दुम्मणेसु य अबन्धवायंकिजुंगियंगेसु। पूयाहिजे लोए दाणपडागं हरइ देंतो ॥ [निशीथभा० ४४२४] [आयंकि त्ति रोगी, जुंगियंगो व्यङ्गितः, पूजाहार्ये पूजितपूजके] । माहना ब्राह्मणाः, तत्रोदाहरणम् लोयाणुग्गहकारिसु भूमीदेवेसु बहुफलं दाणं । अवि नाम बंभबंधुसु किं पुण छक्कम्मनिरयाणं ॥ [निशीथभा० ४४२३] बंभबंधुसु त्ति जन्ममात्रेण ब्रह्मबान्धवेषु, निर्गुणेष्वपीत्यर्थः, यजनादीनि षट् कर्माणीति। श्ववनीपको यथा अवि नाम होज सुलभो गोणाईणं तणाइ आहारो । छिच्छिक्कारहयाणं नहु सुलभो होज सुणताणं ॥ [निशीथभा० ४४२६] श्रमणा: पञ्चधा- निर्ग्रन्था: शाक्यास्तापसा गैरिका आजीविकाश्चेति, तत्र शाक्यवनीपको यथाभुंजंति चित्तकम्मट्ठिया व कारुणियदाणरुइणो य । अवि कामगद्दभेसु वि न नस्सए किं पुण जतीसु ? ॥ [निशीथभा० ४४२१] इति, एवमन्येऽपि तापसवनीपकादयो द्रष्टव्या इति । [सू० ४५५] पंचहिं ठाणेहिं अचेलए पसत्थे भवति, तंजहा- अप्पा पडिलेहा, लाघविते पसत्थे, रूवे वेसासिते, तवे अणुनाते, विउले इंदियनिग्गहे । [टी०] योऽयं वनीपकः उक्तः स साधुविशेषः, साधुश्चाचेलो भवतीत्यचेलत्वस्य प्रशंसास्थानान्याह- पंचहीत्यादि प्रतीतम्, नवरं न विद्यन्ते चेलानि वासांसि यस्यासावचेलकः, स च जिनकल्पिकविशेषस्तदभावादेव, तथा जिनकल्पिकविशेष: स्थविरकल्पिकश्चाल्पा-ऽल्पमूल्य-सप्रमाण-जीर्ण-मलिनवसनत्वादिति, प्रशस्त: प्रशंसितः, तीर्थकरादिभिरिति गम्यते, अल्पा प्रत्युपेक्षाऽचेलकस्य स्यादिति गम्यम्, प्रत्युपेक्षणीयतथाविधोपधेरभावाद्, एवं च न स्वाध्यायादिपरिमन्थ इति, तथा लघो वो Page #87 -------------------------------------------------------------------------- ________________ ४८८ लाघवम्, तदेव लाघविकं द्रव्यतः, भावतोऽपि रागविषयाभावात्, प्रशस्तम् अनिन्द्यं स्यात्, तथा रूपं नेपथ्यं वैश्वासिकं विश्वासप्रयोजनमलिप्सुतासूचकत्वात् स्यादिति, तथा तप: उपकरणसंलीनतारूपमनुज्ञातं जिनानुमतं स्यात्, तथा विपुलो महानिन्द्रियनिग्रहः स्याद्, उपकरणं विना स्पर्शनप्रतिकूलशीत-वाता-ऽऽतपादिसहनादिति। [सू० ४५६] पंच उक्कला पन्नत्ता, तंजहा- दंडुक्कले, रज्जुक्कले, तेणुक्कले देसुक्कले, सव्वुक्कले । [टी०] इन्द्रियनिग्रहश्च सत्त्वेनोत्कटैरेव कर्तुं शक्य इत्युत्कटभेदानाह– पंचेत्यादि सुगमम्, नवरम् उक्कल त्ति उत्कटा उत्कला वा, तत्र दण्डः आज्ञा अपराधिदण्डनं वा सैन्यं वा उत्कटः प्रकृष्टो यस्य तेन वोत्कटो य: स दण्डोत्कटः, दण्डेन वोत्कलति वृद्धिं याति य स दण्डोत्कल:, इत्येवं सर्वत्र, नवरं राज्यं प्रभुता, स्तेना: चौरा:, देशो मण्डलम्, सर्वम् एतत्समुदय इति । [सू० ४५७] पंच समितीतो पन्नत्ताओ, तंजहा- इरियासमिती, भासासमिती, जाव पारिट्ठावणियासमिती । [टी०] असंयतो दण्डादिभिरुत्कटो भवति, संयतस्तु समितिभिरिति समिती: प्राहपंचेत्यादि सुगमम्, नवरं सम् एकीभावेनेति: प्रवृत्ति: समिति: शोभनैकाग्रपरिणामस्य चेष्टेत्यर्थः, ईरणमीर्या गमनमित्यर्थः, तत्र समितिरीर्यासमिति:, उक्तं च- ईर्यासमितिर्नाम रथ-शकट-यान-वाहनाक्रान्तेषु मार्गेषु सूर्यरश्मिप्रतापितेषु प्रासुकविविक्तेषु युगमात्रदृष्टिना भूत्वा गमनागमनं कत्तय॑म् [आव० हारि० इति । तथा भाषणं भाषा, तस्यां समितिर्भाषासमिति:, तथा एषणमेषणा गवेषण-ग्रहण-ग्रासैषणाभेदा शङ्कादिलक्षणा वा तस्यां समितिरेषणासमितिः, उक्तं च- एषणासमिति म गोचरगतेन मुनिना सम्यगुपयुक्तेन नवकोटीपरिशुद्धं ग्राह्यम् [ ] इति, तथा आदानभाण्डमात्रनिक्षेपणासमिति: भाण्डमात्रे आदाननिक्षेपविषया सुन्दरचेष्टेत्यर्थः, इह चाप्रत्युपेक्षिताप्रमार्जिताद्या: सप्त भङ्गाः पूर्वोक्ता भवन्तीति, तथा उच्चार-प्रश्रवण-खेल-सिंघान-जल्लानां पारिष्ठापनिका त्यागस्तत्र समितिर्या सा तथेति, तत्रोच्चारः पुरीषम्, प्रश्रवणं मूत्रम्, खेल: श्लेष्मा, जल्लो मल:, सिंघानो नासिकोद्भव: श्लेष्मा, अत्रापि त एव सप्त भङ्गा इति । Page #88 -------------------------------------------------------------------------- ________________ पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः । ४८९ [सू० ४५८] पंचविधा संसारसमावनगा जीवा पन्नत्ता, तंजहा- एगिदिता जाव पंचेंदिता १ । एगिंदिया पंचगइया पंचागतिता पन्नत्ता, तंजहा- एगिदिए एगिदितेसु उववजमाणे एगिदितेहिंतो वा जाव पंचेंदिएहिंतो वा उववज्जेज्जा, से चेव णं से एगिदिते एगिदितत्तं विप्पजहमाणे एगिदितत्ताते वा जाव पंचेंदितत्ताते वा गच्छेज्जा २। बेइंदिया पंचगतिता पंचागइया एवं चेव ३॥ एवं जाव पंचेंदिया । पंचेंदिया पंचगतिता पंचागतिता पन्नत्ता, तंजहा- पंचेंदिया जाव गच्छेज्जा ४-५-६। पंचविधा सव्वजीवा पन्नत्ता, तंजहा- कोधकसायी जाव लोभकसायी अकसायी ७ । अहवा पंचविधा सव्वजीवा पन्नत्ता, तंजहा- नेरइया जाव देवा, सिद्धा ८॥ [टी०] समितिप्ररूपणं च जीवरक्षार्थमिति जीवस्वरूपप्रतिपादनाय सूत्राष्टकमाहपंचेविहेत्यादि स्फुटार्थम्, नवरं संसारसमापन्ना भववर्तिन: । विप्रजहत् परित्यजन्। सर्वजीवा: संसारि-सिद्धा: । अकषायिण: उपशान्तमोहादयः ।। [सू० ४५९] अह भंते ! कल-मसूर-तिल-मुग्ग-मास-णिप्फाव-कुलत्थआलिसंदग-सतीण-पलिमंथगाणं एतेसि णं धन्नाणं कोट्ठाउत्ताणं जधा सालीणं जाव केवतितं कालं जोणी संचिट्ठति ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं पंच संवच्छराई, तेण परं जोणी पमिलायति जाव तेण परं जोणीवोच्छेदे पण्णत्ते । -- [टी०] जीवाधिकाराद्वनस्पतिजीवानाश्रित्य पञ्चस्थानकमाह- अहेत्यादि, त्रिस्थानकवद् व्याख्येयम्, नवरं कला वट्टचणगा, मसूरा चणइयाओ, तिल-मुग्ग-मासा प्रतीता:, निप्फावा वल्ला:, कुलत्था चवलगसरिसा चिप्पिडया भवन्ति, आलिसंदया चवलया, सतीणा तुवरी, पलिमंथा कालचणगा इति । Page #89 -------------------------------------------------------------------------- ________________ ४९० [सू० ४६०] पंच संवच्छरा पन्नत्ता, तंजहा- णक्खत्तसंवच्छरे, जुगसंवच्छरे, पमाणसंवच्छरे, लक्खणसंवच्छरे, सणिंचरसंवच्छरे । जुगसंवच्छरे पंचविहे पन्नत्ते, तंजहा- चंदे, चंदे, अभिवहिते, चंदे, अभिवड्डिते चेव । पमाणसंवच्छरे पंचविधे पन्नत्ते, तंजहा- नक्खत्ते, चंदे, उऊ, आदिच्चे, अभिवड्डिते । लक्खणसंवच्छरे पंचविहे पन्नत्ते, तंजहासमगं नक्खत्ता जोगं जोयंति समगं उद परिणमंति । णच्चुण्ह णातिसीतो बहूदतो होति नक्खत्ते ॥३७॥ ससि सगलपुण्णमासी जोतेती विसमचारिणक्खत्ते । कडुतो बहूदतो वा तमाहु संवच्छरं चंदं ॥३८॥ विसमं पवालिणो परिणमंति अणुदूसु देति पुप्फफलं । वासं ण सम्म वासति तमाहु संवच्छरं कम्मं ॥३९॥ पुढविदगाणं तु रसं पुप्फफलाणं तु देति आदिच्चो । अप्पेण वि वासेणं सम्मं निप्फज्जए सासं ॥४०॥ आदिच्चतेयतविता खण-लव-दिवसा उऊ परिणमंति । पूरेति य थलताई तमाहु अभिवहितं जाणे ॥४१॥ [टी०] अनन्तरं संवत्सरप्रमाणेन योनिव्यतिक्रम उक्त:, अधुना स एव संवत्सरश्चिन्त्यते इति, पंच संवच्छरेत्यादिसूत्रचतुष्टयम्, तत्र नक्खत्तसंवच्छरे त्ति, इह चन्द्रस्य नक्षत्रमण्डलभोगकालो नक्षत्रमास:, स च सप्तविंशति: दिनानि एकविंशतिः सप्तषष्टिभागा दिवसस्येति २७ २१ । एवंविधद्वादशमासो नक्षत्रसंवत्सर: १, स चायम्- त्रीणि शतान्यह्नां सप्तविंशत्युत्तराणि एकपञ्चाशच्च सप्तषष्टिभागा इति ३२७ ७ । पञ्चसंवत्सरात्मकं युगं तदेकदेशभूतो वक्ष्यमाणलक्षणश्चन्द्रादिर्युगसंवत्सर: २, प्रमाणं परिमाणं दिवसादीनां तेनोपलक्षितो वक्ष्यमाण एव नक्षत्रसंवत्सरादिः प्रमाणसंवत्सरः ३, स एव लक्षणानां वक्ष्यमाणस्वरूपाणां प्रधानतया लक्षणसंवत्सर: ४, यावता कालेन Page #90 -------------------------------------------------------------------------- ________________ ४९१ पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः । शनैश्चरो नक्षत्रमेकमथवा द्वादशापि राशीन भुङ्क्ते स शनैश्चरसंवत्सर इति, यतश्चन्द्रप्रज्ञप्तिसूत्रम्- सनिच्छरसंवच्छरे अट्ठावीसविहे पन्नत्ते अभीई सवणे जाव उत्तरासाढा, जं वा सनिच्छरे महग्गहे तीसाए संवच्छरेहिं सव्वं नक्खत्तमंडलं समाणेइ [चन्द्र० १०।२०।५८] त्ति । युगसंवत्सरः पञ्चविधः, तद्यथा- चंदे त्ति एकोनत्रिंशद्दिनानि द्वात्रिंशच्च द्विषष्टिभागा दिवसस्येत्येवंप्रमाण: २९ १३ , कृष्णप्रतिपदारब्ध: पौर्णमासीनिष्ठितश्चन्द्रमासः, तेन मासेन द्वादशमासपरिमाणश्चन्द्रसंवत्सर:,तस्य च प्रमाणमिदम्- त्रीणि शतान्यह्नां चतुःपञ्चाशदुत्तराणि द्वादश च द्विषष्टिभागा: ३५४ ६२, एवं द्वितीय-चतुर्थावपि चन्द्रसंवत्सरौ, अभिवड्डिए त्ति एकत्रिंशद्दिनानि एकविंशत्युत्तरशतं चतुर्विंशत्युत्तरशतभागानामभिवर्द्धितमास: ३११२१, एवंविधेन मासेन द्वादशमासप्रमाणोऽभिवर्द्धितसंवत्सरः, स च प्रमाणेन त्रीणि शतान्यह्रां त्र्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्विषष्टिभागा: ३८३३३। इत्येवं पञ्चमोऽपि, एभिश्चान्द्रादिभिः पञ्चभिः संवत्सरैरेकं युगं भवति, तेषां च पञ्चानां संवत्सराणां मध्ये अभिवर्द्धिताख्ये संवत्सरे अधिकमासक: पततीति । __ प्रमाणसंवत्सरः पञ्चविधः, तत्र नक्षत्र इति नक्षत्रसंवत्सरः, स च उक्तलक्षण:, केवलं तत्र नक्षत्रमण्डलस्य चन्द्रभोगमात्र विवक्षितमिह तु दिन-दिनभागादिप्रमाणमिति, तथा चन्द्राभिवर्द्धितावप्युक्तलक्षणावेव किन्तु तत्र युगावयवतामात्रमिह तु प्रमाणमिति विशेष:, उऊ इति ऋतुसंवत्सरः, त्रिंशदहोरात्रप्रमाणैर्द्वादशभिः ऋतुमासै: सावनमासकर्म-मासपर्यायैर्निष्पन्न: षष्ट्यधिकाहोरात्रशतत्रयमान इति ३६०, आइच्चे त्ति आदित्यसंवत्सरः, स च त्रिंशद्दिनान्यर्द्धं चेति, एवंविधमासद्वादशकनिष्पन्न: षट्षष्ट्यधिकाहोरात्रशतत्रयमान इति ३६६ । अयमेवानन्तरोक्तो नक्षत्रादिसंवत्सरो लक्षणप्रधानतया लक्षणसंवत्सर इति । तत्र नक्षत्रमाह- समगं गाहा, समकं समतया नक्षत्राणि कृत्तिकादीनि योगं कार्त्तिकपौर्णमास्यादितिथ्या सह सम्बन्धं योजयन्ति कुर्वन्ति, इदमुक्तं भवति– यानि नक्षत्राणि यासु तिथिषूत्सर्गतो भवन्ति, यथा कार्तिक्यां कृत्तिका:, तानि तास्वेव यत्र भवन्ति, यथोक्तम् Page #91 -------------------------------------------------------------------------- ________________ ४९२ जेठो वच्चइ मूलेण सावणो धणिवाहिं । अद्दासु य मग्गसिरो सेसा नक्खत्तनामिया मासा ॥ [ ] इति तथा यत्र समतयैव ऋतव: परिणमन्ति, न विषमतया, कार्त्तिक्या अनन्तरं हेमन्तर्तुः पौष्या अनन्तरं शिशिरर्द्धरित्येवमवतरन्तीति भावः, यश्च न नैव अतीव उष्णं धर्मो यत्र सोऽत्युष्णः, न नैवाऽतिशीत: अतिहिम:, बहूदकं यत्र स बहूदकः, स च भवति लक्षणतो नक्षत्र इति, नक्षत्रचारलक्षणलक्षितत्वान्नक्षत्रसंवत्सर इति, अस्यां च गाथायां पञ्चमाष्टमावंशकौ पञ्चकलावितीयं विचित्रेति छंदोविद्भिपदिश्यते, पबहुला विचित्तत्ति गाथालक्षणात् पत्ति पंचकलो गण इति । ससि गाहा ससि त्ति विभक्तिलोपात् शशिना चन्द्रेण सकलपौर्णमासी समस्तराकां यः संवत्सर इति गम्यते अथवा यत्र शशी सकलां पौर्णमासी योजयति आत्मना सम्बन्धयति । तथा विषमचारीणि यथास्वतिथिष्ववर्तीनि नक्षत्राणि यत्र स विषमचारिनक्षत्रः, तथा कटुकोऽतिशीतोष्णसद्भावात् बहूदकश्च, दीर्घत्वं प्राकृतत्वात्, तमेवंविधमाहुर्लक्षणतो ब्रुवते तद्विदः संवत्सरं चन्द्रं चन्द्रचारलक्षणलक्षितत्वादिति । विसमं गाहा, विषमं वैषम्येण प्रवालं पल्लवाङ्कुरः, तद्विद्यते येषां ते प्रवालिनो वृक्षा इति गम्यते, परिणमन्ति प्रवालवत्तालक्षणया अवस्थया जायन्ते, अथवा प्रवालिनो वृक्षा: परिणमन्ति अङ्कुरोद्रेदाद्यवस्था यान्ति, तथा अनृतुषु अस्वकालं ददति प्रयच्छन्ति पुष्पफलम्, यथा चैत्रादिषु कुसुमादिदायिनोऽपि स्वरूपेण चूता: माघादिषु पुष्पादि यच्छन्तीति, तथा वर्षं वृष्टिं मेघो न सम्यग् वर्षति यत्रेति गम्यते, तमाहुर्लक्षणत: संवत्सरं कार्मणम्, यस्य ऋतुसंवत्सर: सावनसंवत्सरश्चेति पर्यायौ । पुढवि गाहा, यत्र त्विति गम्यते, तथा च यत्र तु संवत्सरे पृथिव्युदकयो रसं माधुर्य-स्निग्धतालक्षणं पुष्पफलानां च ददात्यादित्य: तथास्वभावत्वात्, तथाविधोदकाभावेऽपीति भावः, अत एवाल्पेनापि वर्षेण सम्यक यथाभिमतं निष्पद्यते सस्यं शाल्यादिधान्यं स लक्षणत आदित्यसंवत्सर उच्यत इति शेष इति । आइच्च गाहा, आदित्यतेजसा तप्ता: पृथिव्यादितापेऽप्युपचारात् क्षणादयस्तप्ता इति मन्तव्यम्, तत्र क्षणो मुहूर्त:, लव: एकोनपञ्चाशदुच्छ्वासप्रमाणः, दिवस: अहोरात्र:, Page #92 -------------------------------------------------------------------------- ________________ पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः । ४९३ ऋतुः मासद्वयप्रमाणः, परिणमन्ति अतिक्रामन्ति यत्रेति गम्यते, यश्च पूरयति वायूत्खातरेणुभि: स्थलानि भूमिप्रदेशविशेषान् तमाहुराचार्या लक्षणत: संवत्सरमभिवर्द्धितं जाणे त्ति त्वमपि शिष्य ! तं तथैव जानीहीति । संवत्सरव्याख्यानमिदं तत्त्वार्थटीकाद्यनुसारेण प्रायो लिखितमिति। [सू० ४६१] पंचविधे जीवस्स णिज्जाणमग्गे पन्नत्ते, तंजहा-पातेहिं, ऊरूहिं, उरेणं, सिरेणं, सव्वंगेहिं । पाएहिं णिज्जायमाणे निरयंगामी भवति, ऊरूहिं णिजायमाणे तिरियगामी भवति, उरेणं निजायमाणे मणुयगामी भवति, सिरेणं णिजायमाणे देवगामी भवति, सव्वंगेहिं निजायमाणे सिद्धिगतिपज्जवसाणे पण्णत्ते । [टी०] अनन्तरं संवत्सर उक्तः, स च काल:, कालात्यये च शरीरिणां शरीरान्निर्गमो भवतीत्यतस्तन्मार्ग निरूपयन्नाह– पंचविहेत्यादि व्यक्तम्, किन्तु निर्याणं मरणकाले शरीरिण: शरीरान्निर्गमः, तस्य मार्गो निर्याणमार्गः पादादिकः, तत्र पाएहिं ति पादाभ्यां मार्गभूताभ्यां करणताऽऽपन्नाभ्यां जीव: शरीरान्निर्यातीति शेष:, एवम् ऊरुभ्यामित्यादावपि। ___ अथ क्रमेणास्य निर्याणमार्गस्य फलमाह-पादाभ्यां शरीरान्निर्यान् जीवो निरयंगामि त्ति प्राकृतत्वादनुस्वार इति, निरयगामी भवति, एवमन्यत्रापि, नवरं सर्वाणि च तान्यङ्गानि च सर्वाङ्गानि तैर्निर्यान्, सिद्धिगति: पर्यवसानं संसरणपर्यन्तो यस्य स सिद्धिगतिपर्यवसान: प्रज्ञप्त इति । [सू० ४६२] पंचविधे छेदणे पन्नत्ते, तंजहा- उप्पाछेदणे, वियच्छेयणे, बंधणच्छेयणे, पएसच्छेदणे, दोधारच्छेदणे । पंचविधे आणंतरिते पन्नत्ते, तंजहा- उप्पायणंतरिते, वियाणंतरिते, पतेसाणंतरिते, समयाणंतरिते, सामण्णाणंतरिते । [टी०] निर्याणं चायुष्कच्छेदने भवतीति छेदनं प्ररूपयन्नाह-पंचविहेत्यादि कण्ठ्यम्, केवलम् उप्प त्ति उत्पादो देवत्वादिपर्यायान्तरस्य, तेन छेदो जीवादिद्रव्यस्य विभाग उत्पादच्छेदनम्, तथा विय त्ति व्ययो विगमो मानुषत्वादिपर्यायस्य, तेन छेदनं जीवादेरेवेति व्ययच्छेदनम्, तथा बन्धनस्य जीवापेक्षया कर्मण: स्कन्धापेक्षया तु Page #93 -------------------------------------------------------------------------- ________________ ४९४ सम्बन्धस्य छेदनं विनशनं बन्धनच्छेदनमिति, तथा तस्यैव प्रदेशतो निर्विभागावयवतो बुद्ध्या छेदनं विभजनं प्रदेशच्छेदनम्, तथा जीवादेरेव द्रव्यस्य द्विधा करणं द्विधाकार:, स एव छेदनं द्विधाकारच्छेदनम्, उपलक्षणं चैतत् त्रिधाकारादीनाम्, अनेन च देशत: छेदनमुक्तम्, अथवोत्पादस्य उत्पत्तेः छेदनं विरहो यथा नरकगतौ द्वादश मुहूर्ता:, व्ययच्छेदनम् उद्वर्त्तनाविरह:, सोऽप्येवम्, बन्धनविरहो यथोपशान्तमोहस्य सप्तविधकर्मबन्धनापेक्षया, प्रदेशच्छेदनं प्रदेशविरहो यथा विसंयोजितानामनन्तानुबन्ध्यादिकर्मप्रदेशानाम्, तथा द्वे धारे यस्य तद् द्विधारं तच्च तच्छेदनं च द्विधारच्छेदनमुपलक्षणत्वादस्यैकधाराद्यपि दृश्यम्, तच्च क्षुर-खड्ग-चक्रादि, एतच्च छेदनशब्दसामान्यादिहोपात्तमिति, प्रदेशच्छेदनस्थाने क्वचित् पंथच्छेयणे त्ति पठ्यते, तत्र पथिच्छेदनं मार्गच्छेदनं मार्गातिक्रमणमित्यर्थः । छेदनस्य च विपर्यय आनन्तर्यमिति तदाह- पंचविहेत्यादि, आनन्तर्यं सातत्यमच्छेदनमविरह इत्यर्थः, तत्रोत्पादस्य यथा निरयगतौ जीवानामुत्कर्षत: असङ्ख्येया: समया:, एवं व्ययस्यापि, प्रदेशानां समयानां च तत् प्रतीतमेव, अविवक्षितोत्पाद-व्ययादिविशेषणमानन्तर्यमानं सामान्यानन्तर्यम्, श्रामण्यस्य वा आकर्षविरहेणानन्तर्यं श्रामण्यानन्तर्यमिति बहुजीवापेक्षया वा श्रामण्यप्रतिपत्त्यानन्तर्यम्, तच्चाष्टौ समया इति । [सू० ४६३] पंचविधे अणंतते पन्नत्ते, तंजहा- णामाणंतते, ठवणाणंतते, दव्वाणंतते, गणणाणंतते, पदेसाणंतते १। अहवा पंचविहे अणंतते पन्नत्ते, तंजहा- एगतोणंतते, दुहतोणंतते, देसवित्थाराणंतते, सव्ववित्थाराणंतते, सासयाणंतते २॥ [टी०] अनन्तरसूत्रे समयप्रदेशानामानन्तर्यमुक्तम्, ते चानन्ता इत्यनन्तकमेव प्ररूपयन्नाह– पंचविहेत्यादि सूत्रद्वयं प्रतीतार्थम्, नवरं नाम्ना अनन्तकं नामानन्तकम् अनन्तकमिति यस्य नाम, यथा समयभाषया वस्त्रमिति, स्थापनैव स्थापनया वा अनन्तकं स्थापनानन्तकम् अनन्तकमिति कल्पनयाऽक्षादिन्यासः, ज्ञशरीरादिव्यतिरिक्तं द्रव्याणामण्वादीनां गणनीयानामनन्तकं द्रव्यानन्तकम्, गणना सङ्ख्यानम्, Page #94 -------------------------------------------------------------------------- ________________ पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः । तल्लक्षणमनन्तकमविवक्षिताण्वादिसङ्ख्येयविषयसङ्ख्याविशेषो गणनानन्तकम्, प्रदेशानां सङ्ख्येयानामनन्तकं प्रदेशानन्तकमिति । अथवेति एकत: एकेनांशेनायामलक्षणेनाऽनन्तकमेकतोऽनन्तकम् एकश्रेणीकं क्षेत्रम्, द्विधा आयाम-विस्ताराभ्यामनन्तकं द्विधानन्तकं प्रतरक्षेत्रम्, क्षेत्रस्य यो रुचकापेक्षया पूर्वाद्यन्यतरदिग्लक्षणो देशस्तस्य विस्तारो विष्कम्भस्तस्य प्रदेशापेक्षया अनन्तकं देशविस्तारानन्तकम्, सर्वाकाशस्य तु चतुर्थम्, शाश्वतं च तदनन्तकं च शाश्वतानन्तकम् अनाद्यपर्यवसितं यज्जीवादिद्रव्यमनन्तसमयस्थितिकत्वादिति । ४९५ [सू० ४६४] पंचविहे णाणे पन्नत्ते, तंजहा- आभिणिबोहियणाणे सुयनाणे ओहिणाणे, मणपज्जवणाणे, केवलणाणे । पंचविहे णाणावरणिजे कम्मे पन्नत्ते, तंजहा - आभिणिबोहियणाणावरणिजे जाव केवलनाणावरणिज्जे । [टी०] एवंभूतार्थपरिच्छेदो ज्ञानाद्भवतीति ज्ञानस्वरूपनिरूपणायाह -- पंचविहेत्यादि, पञ्चेति पञ्चसङ्ख्या विधा : भेदा यस्य तत् पञ्चविधम्, ज्ञातिर्ज्ञानमिति भावसाधनः, संविदित्यर्थः, ज्ञायते वाऽनेनास्माद्वेति ज्ञानं तदावरणस्य क्षयः क्षयोपशमो वा, ज्ञायते वाऽस्मिन्निति ज्ञानम् आत्मा तदावरणक्षय-क्षयोपशमपरिणामयुक्तः, जानातीति वा ज्ञानं तदेव, स्वविषयग्रहणरूपत्वादिति, प्रज्ञप्तं प्ररूपितमर्थतस्तीर्थकरैः सूत्रतो गणधरैः, उक्तं च– अत्थं भासइ अरूहा [आव०नि०९२] इति । तद्यथा— अर्थाभिमुखोऽविपर्ययरूपत्वान्नियतोऽसंशयरूपत्वाद् बोध: संवेदनमभिनिबोधः, स एव स्वार्थिकप्रत्ययोपादानादाभिनिबोधिकम्, अभिनिबोधे वा भवं तेन वा निर्वृत्तं तन्मयं तत्प्रयोजनं वेत्याभिनिबोधिकम्, अवग्रहादिरूपं मतिज्ञानमेव, तस्य स्वसंविदितरूपत्वात्, भेदोपचारादित्यर्थः, आभिनिबोधिकम् च तज्ज्ञानं चेत्याभिनिबोधिकज्ञानमिति । तथा श्रूयत इति श्रुतं शब्द एव, भावश्रुतकारणत्वात् कारणे कार्योपचारादिति भावार्थ:, श्रूयते वा अनेनास्मादस्मिन् वेति श्रुतम्, तदावरणकर्म्मक्षयोपशम इत्यर्थः, आत्मैव वा श्रुतोपयोगपरिणामानन्यत्वाच्छृणोतीति श्रुतम्, श्रुतं च तज्ज्ञानं च श्रुतज्ञानम् । तथा अवधीयतेऽनेनास्मादस्मिन् वेत्यवधिः, अवधीयत इत्यधोऽधो विस्तृतं Page #95 -------------------------------------------------------------------------- ________________ ४९६ परिच्छिद्यते मर्यादया वेत्यर्थः, स चावधिज्ञानावरणक्षयोपशम एव, तदुपयोगहेतुत्वादिति, अवधिश्चासौ ज्ञानं चेत्यवधिज्ञानम् । तथा परि: सर्वतोभावे, अवनम् अवः, अयनम् वा अय:, आयो वा गमनं वेदनमिति पर्यायाः, परि अवः अयः आयो वा पर्यवः पर्ययः पर्यायो वा, मनसि मनसो वा पर्यवः पर्ययः पर्यायो वा मन:पर्यवो मन:पर्ययो मनः पर्यायो वा, सर्वतस्तत्परिच्छेद इत्यर्थः, स एव ज्ञानं मनः पर्यवज्ञानं मन:पर्ययज्ञानं मनः पर्यायज्ञानं वा । केवलम् असहायं मत्यादिज्ञाननिरपेक्षत्वात् शुद्धं वा आवरणमलकलङ्करहितत्वात् सकलं वा तत्प्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेः असाधारणं वा अनन्यसदृशत्वात् अनन्तं वा ज्ञेयानन्तत्वात् यथावस्थिताशेषभूतभवद्भाविभावस्वभावावभासीति भावना, तच्च तत् ज्ञानं चेति केवलज्ञानम्, उक्तं च– केवलमेगं सुद्धं सगलमसाहारणं अनंतं च । पायं च नाणसद्दो नाणसमाणाहिगरणोऽयं ॥ [विशेषाव० ८४] । प्राय इति मन:पर्यायज्ञाने तत्पुरुषस्यापि दर्शितत्वात् । इह च स्वामि-काल-कारणविषय-परोक्षत्वसाधर्म्यात् तद्भावे च शेषज्ञानसद्भावादादावेव मतिज्ञान - श्रुतज्ञानयोरुपन्यास इति, तथाहि— य एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्य, जत्थमति तत्थ सुयनाणं [नन्दीसू० १५] इति वचनात् तथा यावान् मतिज्ञानस्य स्थितिकाल - स्तावानेवेतरस्य, प्रवाहापेक्षया अतीतादिः सर्व एव, अप्रतिपतितैकजीवापेक्षया तु षट्षष्टिसागरोपमाण्यधिकानीति, तथा यथा मतिज्ञानं क्षयोपशमहेतुकं तथा श्रुतज्ञानमपि, यथा च मतिज्ञानमोघतः सर्वद्रव्यादिविषयमेवं श्रुतज्ञानमपि, यथा च मतिज्ञानं परोक्षं एवं श्रुतज्ञानमपि, तथा मतिज्ञानश्रुतज्ञानभावे चावध्यादिभावादिति, मतिपूर्वकत्वात् श्रुतस्य विशिष्टमत्यंशरूपत्वाद्वा श्रुतस्यादौ मतेरुपन्यास इति, उक्तं च मइव्वं जेण सुयं तेणाईए मई विसिट्ठो वा । मइभेओ चेव सुयं तो मइसमणंतरं भणियं ॥ [विशेषाव० ८६ ] ति । तथा काल-विपर्यय-स्वामि-लाभसाधर्म्याद् मतिज्ञानश्रुतज्ञानानन्तरमवधिज्ञानस्योपन्यास:, तथाहि— यावानेव मतिज्ञान - श्रुतज्ञानयोः स्थितिकालः प्रवाहापेक्षा Page #96 -------------------------------------------------------------------------- ________________ पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः ।। ४९७ अप्रतिपतितैकसत्त्वाधारापेक्षया च तावानेवावधिज्ञानस्यापि, तथा यथैव मतिज्ञानश्रुतज्ञानयोर्विपर्ययज्ञाने भवत: एवमिदमपि मिथ्यादृष्टेर्विभङ्गज्ञानं भवतीति, तथा य एव तयोः स्वामी स एवास्यापि भवतीति, तथा विभङ्गज्ञानिनस्त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपदेव ज्ञानत्रयलाभसम्भव इति । ___ तथा छद्मस्थ-विषय-भावा-ऽध्यक्षत्वसाधादवधिज्ञानानन्तरं मन:पर्यवज्ञानस्योपन्यासः, तथाहि- यथाऽवधिज्ञानं छद्मस्थस्य भवति एवं मन:पर्यायज्ञानमपि, तथा यथाऽवधिज्ञानं रूपिद्रव्यविषयमेवमेतदपि, तथा यथाऽवधिज्ञानं क्षायोपशमिके भावे तथेदमपि, तथा यथाऽवधिज्ञानं प्रत्यक्षं तथेदमपीति । तथा मन:पर्यायज्ञानानन्तरं केवलज्ञानोपन्यास: तस्य सकलज्ञानोत्तमत्वात्, तथा अप्रमत्तयतिस्वामिसाधर्म्यात्, तथाहि- यथा मन:पर्यायज्ञानमुत्तमयतेरेव भवति एवमिदमपि, तथा अवसानलाभात्, यो हि सर्वज्ञानानि समासादयति स खल्वन्त एवेदमाप्नोतीति, तथा विपर्ययाभावसाधर्म्यात्, तथाहि- यथा मन:पर्यायज्ञानं सविपर्ययं न भवत्येवं केवलमपीति । उक्तस्वरूपस्य ज्ञानस्य यदावारकं कर्म तत्स्वरूपाभिधानाय सूत्रं पंचेत्यादि सुगमम् । [सू० ४६५] पंचविधे सज्झाए पन्नत्ते, तंजहा-वायणा, पुच्छणा, परियट्टणा, अणुप्पेहा, धम्मकहा । ___ [टी०] उक्तं ज्ञानावरणमिति तत्क्षपणोपायविशेषस्य स्वाध्यायस्य भेदानाहपंचविहेत्यादि सुगमम्, नवरं शोभनम् आ मर्यादया अध्ययनं श्रुतस्याधिकमनुसरणं स्वाध्यायः, तत्र वक्ति शिष्यस्तं प्रति गुरोः प्रयोजकभावो वाचना पाठनमित्यर्थः, गृहीतवाचनेनापि संशयाद्युत्पत्तौ पुन: प्रष्टव्यमिति पूर्वाधीतस्य सूत्रादेः शङ्कितादौ प्रश्न: प्रच्छनेति, प्रच्छनाविशोधितस्य सूत्रस्य मा भूद्विस्मरणमिति परिवर्तना, सूत्रस्य गुणनमित्यर्थः, सूत्रवदर्थेऽपि सम्भवति विस्मरणमत: सोऽपि परिभावनीय इत्यनुप्रेक्षणमनुप्रेक्षा, चिन्तनिकेत्यर्थः, एवमभ्यस्तश्रुतेन धर्मकथा विधेयेति धर्मस्य श्रुतरूपस्य कथा व्याख्या धर्मकथेति । Page #97 -------------------------------------------------------------------------- ________________ ४९८ [सू० ४६६] पंचविधे पच्चक्खाणे पन्नत्ते, तंजहा-सद्दहणसुद्धे, विणयसुद्धे, अणुभासणासुद्धे, अणुपालणासुद्धे, भावसुद्धे । पंचविधे पडिक्कमणे पन्नत्ते, तंजहा-आसवदारपडिक्कमणे, मिच्छत्तपडिक्कमणे, कसायपडिक्कमणे, जोगपडिक्कमणे, भावपडिक्कमणे । [टी०] धर्मकथामन्थनिर्मथितमिथ्याभावाश्च भव्या: शुद्धं प्रत्याख्यानं प्रपद्यन्त इति तदाह- पंचविहेत्यादि, प्रति प्रतिषेधत आख्यानं मर्यादया कथनं [प्रतिज्ञानं] प्रत्याख्यानम्, तत्र श्रद्धानेन तथेतिप्रत्ययलक्षणेन शुद्धं निरवद्यं श्रद्धानशुद्धम्, श्रद्धानाभावे हि तदशुद्धं भवति, एवं सर्वत्र, इह नियुक्तिगाथा पच्चक्खाणं सव्वण्णुदेसियं जं जहिं जया काले । तं जो सद्दहइ नरो तं जाणसु सद्दहणसुद्धं ॥ [आव० भा० २४६] विनयशुद्धं यथाकिइकम्मस्स विसोहिं पउंजए जो अहीणमइरित्तं । मणवयणकायगुत्तो तं जाणसु विणयओ सुद्धं ॥ [आव० भा० २४८] अनुभाषणाशुद्धं यथाअणुभासइ गुरुवयणं अक्खरपयवंजणेहिं परिसुद्धं । पंजलिउडो अभिमुहो तं जाणऽणुभासणासुद्धं ॥ [आव० भा० २४९] नवरं गुरुर्भणति- वोसिरइ त्ति, शिष्यस्तु वोसिरामि त्ति । अनुपालनाशुद्धं यथाकंतारे दुब्भिक्खे आयंके वा महया महतीत्यर्थः समुप्पण्णे । जं पालियं न भग्गं तं जाणऽणुपालणासुद्धं ॥ [आव० भा० २५०], भावशुद्धं यथारागेण व दोसेण व परिणामेण व इहलोकाद्याशंसालक्षणेन न दूसियं जं तु । तं खलु पच्चक्खाणं भावविशुद्धं मुणेयव्वं ॥ [आव० भा० २५१] ति । अन्यदपि षष्ठं ज्ञानशुद्धमिति निर्युक्तावुक्तम्, यदाहपच्चक्खाणं जाणइ कप्पे जं जम्मि होइ कायव्वं । मूलगुणउत्तरगुणे तं जाणसु जाणणासुद्धं ॥ [आव० भा० २४७] ति । इह तु पञ्चस्थानकानुरोधान्नेदमुक्तम्, श्रद्धानशुद्धेन वा सगृहीतत्वात्, ज्ञानविशेषत्वात् श्रद्धानस्येति । प्रत्याख्याने च कृते कदाचिदतिचार: सम्भवति, तत्र च प्रतिक्रमणं कर्त्तव्यमिति Page #98 -------------------------------------------------------------------------- ________________ पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः । ४९९ प्रतिक्रमणं निरूपयन्नाह– पंचविहेत्यादि, प्रतीपं क्रमणं प्रतिक्रमणम्, एतदुक्तं भवतिशुभयोगेभ्योऽशुभयोगान् क्रान्तस्य शुभेष्वेव गमनमिति, उक्तं च स्वस्थानाद्यत् परं स्थानम् प्रमादस्य वशागत: । तत्रैव क्रमणं भूय: प्रतिक्रमणमुच्यते ॥ इदं च विषयभेदात् पञ्चधेति, तत्र आश्रवद्वाराणि प्राणातिपातादीनि, तेभ्य: प्रतिक्रमणं निवर्त्तनं पुनरकरणमित्यर्थः आश्रवद्वारप्रतिक्रमणम्, असंयमप्रतिक्रमणमिति हृदयम्, मिथ्यात्वप्रतिक्रमणं यदाभोगा-ऽनाभोग-सहसाकारैर्मिथ्यात्वगमनं तन्निवृत्ति:, एवं कषायप्रतिक्रमणम्, योगप्रतिक्रमणं तु यत् मनो-वचन-कायव्यापाराणामशोभनानां व्यावर्त्तनमिति, आश्रवद्वारादिप्रतिक्रमणमेवाविवक्षितविशेषं भावप्रतिक्रमणमिति, आह चमिच्छत्ताइ न गच्छइ न य गच्छावेइ नाणुजाणाइ। जं मणवइकाएहिं तं भणियं भावपडिकमणं ॥ [ ] ति । [सू० ४६७] पंचहिं ठाणेहिं सुत्तं वाएजा, तंजहा-संगहट्ठयाते, उवग्गहट्ठताते, णिजरट्ठयाते, सुते वा मे पज्जवजाते भविस्सति, सुतस्स वा अव्वोच्छित्तिणयट्ठयाते । पंचहिं ठाणेहिं सुत्तं सिक्खेजा, तंजहा-णाणट्ठताते, दंसणट्ठताते, चरित्तट्ठताते, वुग्गहविमोतणट्ठयाते, अहत्थे वा भावे जाणिस्सामीति कट्ट। [टी०] भावप्रतिक्रमणं च श्रुतभावितमतेरेव भवतीति श्रुतं वाचनीयं शिक्षणीयं चेत्येतद्धेतूपदर्शनार्थं द्वे सूत्रे पंचहीत्यादि सुगमे, नवरं सुत्तं श्रुतं सूत्रमात्रं वा वाचयेत् पाठयेत्, तत्र सङ्ग्रहः शिष्याणां श्रुतोपादानम्, स एवार्थः प्रयोजनम्, तस्मै सङ्ग्रहार्थाय, सङ्ग्रह एवार्थो यस्य स सङ्ग्रहार्थः, तद्भावस्तत्ता, तया सङ्ग्रहार्थतया, श्रुतसङ्ग्रहो भवत्वेषामिति प्रयोजनेनेति भावः, अथवैत एव मया एवं सगृहीता भवन्ति शिष्यीकृता भवन्तीति सङ्ग्रहार्थतया, तत्सङ्ग्रहायेति भावः, एवमुपग्रहार्थायोपग्रहार्थतया वा, एवं ह्येते भक्त-पान-वस्त्राद्युत्पादनसमर्थतयोपष्टम्भिता भवन्त्विति भावः, निर्जरार्थाय निर्जरणमेवं मे कर्मणां भवत्विति, श्रुतं वा ग्रन्थो मे मम वाचयत इति गम्यते Page #99 -------------------------------------------------------------------------- ________________ ५०० पर्यवजातं जातविशेषं स्फुटतया भविष्यतीति, अव्यवच्छित्त्या नयनं श्रुतस्य कालान्तरप्रापणम् अव्यवच्छित्तिनयः, स एवार्थस्तस्मै इति । ज्ञानं तत्त्वानां परिच्छेदो दर्शनं तेषामेव श्रद्धानं चारित्रं सदनुष्ठानं व्युद्ग्रहो मिथ्याभिनिवेशस्तस्य तस्माद्वा परेषां विमोचनं व्युद्ग्रहविमोचनं तदर्थाय तदर्थतया वा, अहत्थे त्ति यथास्थान् यथावस्थितान् यथार्थान् वा यथाप्रयोजनान् भावान् जीवादीन् यथार्थान् वा यथाद्रव्यान् भावान् पर्यायान् ज्ञास्यामीति कृत्वा इति हेतो: शिक्षत इति । [सू० ४६८] सोहम्मीसाणेसु णं कप्पेसु विमाणा पंचवण्णा पन्नत्ता, तंजहा-किण्हा जाव सुक्किला १। सोहम्मीसाणेसु णं कप्पेसु विमाणा पंच जोयणसयाई उर्दउच्चत्तेणं पन्नत्तार। बंभलोग-लंततेसु णं कप्पेसु देवाणं भवधारणिजसरीरगा उक्कोसेणं पंच रयणीओ उडुंउच्चत्तेणं पन्नत्ता ३॥ नेरइया णं पंचवन्ने पंचरसे पोग्गले बंधेसु वा बंधंति वा बंधिस्संति वा, तंजहा-किण्हे जाव सुक्किले, तित्ते जाव मधुरे । एवं जाव वेमाणिता १-२४। [सू० ४६९] जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं गंगं महानदिं पंच महानदीओ समप्पेंति, तंजहा-जउणा, सरऊ, आदी, कोसी, मही १। ___ जंबूमंदरस्स दाहिणेणं सिंधुं महाणदिं पंच महानदीओ समप्पेंति, तंजहासतद्, वितत्था, विभासा, एरावती, चंदभागा । जंबूमंदरस्स उत्तरेणं रत्तं महानइं पंच महानदीओ समप्पेंति, तंजहाकिण्हा, महाकिण्हा, नीला, महानीला, महातीरा ३। जंबूमंदरस्स उत्तरेणं रत्तावतिं महानदिं पंच महानईओ समप्पेंति, तंजहाइंदा, इंदसेणा, सुसेणा, वारिसेणा, महाभोगा ४ ।। [टी०] यथावस्थिताश्च भावा ऊर्ध्वलोके सौधर्मादय इति तद्विषयं सूत्रत्रयम्, तथाऽधोलोकादौ लोके नारकादयश्चतुर्विंशतिरिति तद्गतां चतुर्विंशतिसूत्री तथा तिर्यग्लोके जम्बूद्वीपादय इति तद्गतवस्तुविषयं च सूत्रचतुष्टयमाह । सर्वाण्येतानि सुगमानि, नवरं Page #100 -------------------------------------------------------------------------- ________________ पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः । बंधिंसु त्ति शरीरादितयेति । दक्षिणेनेति भरते समप्पेंति त्ति समाप्नुवन्ति, उत्तरेणेति ऐरवत इति । ५०१ [सू० ४७०] पंच तित्थगरा कुमारवासमज्झावसित्ता मुंडे जाव पव्वतिता, तंजहा- वासुपुज्जे, मल्ली, अरिट्ठनेमी, पासे, वीरे । [सू० ४७१] चमरचंचाते णं राजधाणीते पंच सभातो पन्नत्ताओ, तंजहासभा सुधम्मा, उववातसभा, अभिसेयसभा, अलंकारितसभा, ववसातसभा१। एगमेगे णं इंदट्ठाणे पंच सभाओ पन्नत्ताओ, तंजहा - सभा सुहम्मा जाव ववसातसभा २। [सू० ४७२] पंच णक्खत्ता पंचतारा पन्नत्ता, तंजहा धणिट्ठा, रोहिणी, पुणव्वसू, हत्थो, विसाहा । [सू० ४७३] जीवा णं पंचट्ठाणणिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा, तंजहा - एगिंदितनिव्वत्तिते जाव पंचेंदितनिव्वत्तिते, एवं चिण उवचिण बंध उदीर वेद तध णिज्जरा चेव ॥ [सू० ४७४] पंचपतेसिता खंधा अणंता पण्णत्ता । पंचपतेसोगाढा पोग्गला अणंता पण्णत्ता जाव पंचगुणलुक्खा पोग्गला अणंता पण्णत्ता । ॥ पंचट्ठाणं समत्तं ॥ [टी०] पूर्वतरसूत्रे भरतवक्तव्यतोक्तेति तत्प्रस्तावात्तदुत्पन्नतीर्थकरसूत्रं सुगमम्, नवरं कुमाराणामराजभावेन वासः कुमारवास:, तम् अज्झावसित्त त्ति अध्युष्येति । तथा भरतादिक्षेत्रप्रस्तावात् क्षेत्रभूतचमरचञ्चादिवक्तव्यताभिधायि सूत्रद्वयम् । चमरचञ्चा रत्नप्रभापृथिव्यां चमरस्यासुरकुमारराजस्येति । सुधर्म्मा सभा यस्यां शय्या, उपपातसभा यस्यामुत्पद्यते, अभिषेकसभा यस्यां राज्याभिषेकेणाभिषिच्यते, अलङ्कारिका यस्यामलङ्क्रियते, व्यवसायसभा यत्र पुस्तकवाचनतो व्यवसायं तत्त्वनिश्चयं करोति, Page #101 -------------------------------------------------------------------------- ________________ ५०२ एताश्च यथाक्रममुत्तरपूर्वस्यां द्रष्टव्या इति । देवनिवासाधिकारान्नक्षत्रसूत्रम् । नक्षत्रादिदेवरूपता च सत्त्वानां कर्म्मपुद्गलचयादेरिति चयादिसूत्रषट्कम् । पुद्गलाश्च विविधपरिणामा इति पुद्गलसूत्राणीति, व्याख्या च प्राग्वदध्ययनसमाप्तिं यावत् सुकरा चेति । ॥ इति पञ्चस्थानकस्य तृतीय उद्देशकः ॥ इति श्रीमत्तपागच्छाधिराजभट्टारकपुरन्दरसूरीश्वर श्रीविजयसेनसूरिराज्ये श्रीमत्तपागच्छश्रृंगारहारसूरीश्वर श्रीविजयदेवसूरियौवराज्ये पण्डित श्रीकुशलवर्धनगणिशिष्यनगर्षिगणिना स्ववाचनपरोपकारकृते कृतोद्धाररूपयां श्रीसकलवाचकशिरोमणिमहोपाध्यायश्रीविमलहर्षगणिभिः संशोधितायां सुखावबोधायां श्रीस्थानाङ्गदीपिकायां पञ्चस्थानकाख्यं पञ्चमममध्ययनं समाप्तम्। Page #102 -------------------------------------------------------------------------- ________________ ५०३ अथ षष्ठमध्ययनं षट्स्थानकम् । [सू० ४७५] छहिं ठाणेहिं संपन्ने अणगारे अरिहति गणं धारेत्तए, तंजहासड्ढि पुरिसजाते १, सच्चे पुरिसज्जाते २, मेहावी पुरिसजाते ३, बहुस्सुते पुरिसज्जाते ४, सत्तिमं ५, अप्पाधिकरणे ६ । [टी०] ॐ नमः व्याख्यातं पञ्चममध्ययनमधुना सङ्ख्याक्रमसम्बद्धमेव षट्स्थानकाख्यं षष्ठमारभ्यते, अस्य चायं विशेषसम्बन्ध:- इहानन्तराध्ययने जीवादिपर्यायप्ररूपणा कृता इहापि सैव क्रियते इत्येवंसम्बन्धस्यास्य चतुरनुयोगद्वारस्येदमादिसूत्रम्- छहिं ठाणेहीत्यादि । अस्य चायमभिसम्बन्ध:, पूर्वसूत्रे ‘पञ्चगुणरूक्षाः पुद्गला अनन्ता: प्रज्ञप्ताः' [सू० ४७४] इत्युक्तम्, प्रज्ञापकाश्चैतेषामर्थतोऽर्हन्त: सूत्रतो गणधरा:, गणधराश्च यैर्गुणैर्युक्तस्यानगारस्य गणधरणार्हत्वं भवति तद्युक्ता एवेति तेषां गुणानामुपदर्शनायेदमुक्तमित्येवंसम्बन्धस्यास्य व्याख्या । संहितादिचर्चस्तु प्रतीत एव, नवरं षड्भिः स्थान: गुणविशेषैः सम्पन्नो युक्तोऽनगारो भिक्षुः अर्हति योग्यो भवति गणं गच्छं धारयितुं मर्यादायामिति गम्यते, पालयितुं वेत्यर्थः, सढि त्ति श्रद्धावत्, अश्रद्धावतो हि स्वयमेवामर्यादावर्तितया परेषां मर्यादास्थापनायामसमर्थत्वाद् गणधरणानहत्वम्, एवं सर्वत्र भावना कार्या, पुरुषजातं पुरुषप्रकार:, इह च षड्भि: स्थानैरित्युक्त्वापि यदुक्तं श्राद्धं पुरुषजातमिति तद्धर्म-धर्मवतोरभेदाद, अन्यथा श्राद्धत्वं सत्यत्वमित्यादि वक्तव्यं स्यादिति १, तथा सत्यं सद्भ्यो जीवेभ्यो हिततया प्रतिज्ञातशूरतया वा, एवंभूतो हि पुरुषो गणपालक आदेयश्च स्यादिति २, तथा मेधावि मर्यादया धावतीत्येवंशीलमिति निरुक्तिवशात्, एवंभूतो हि गणस्य मर्यादाप्रवर्तको भवति, अथवा मेधा श्रुतग्रहणशक्तिस्तद्वत्, एवंभूतो हि श्रुतमन्यतो झगिति गृहीत्वा शिष्याध्यापने समर्थो भवतीति ३, तथा बहु प्रभूतं श्रुतं सूत्रार्थरूपं यस्य तत्तथा, अन्यथा हि गणानुपकारी स्यात्, उक्तं च सीसाण कुणइ कह सो तहाविहो हंदि नाणमाईणं । Page #103 -------------------------------------------------------------------------- ________________ ५०४ अहियाहियसंपत्तिं संसारुच्छेयणिं परमं ? ॥ [ ] तथा कह सो जयउ अगीओ कह वा कुणउ अगीयनिस्साए । कह वा करेउ गच्छं सबालवुड्डाउलं सो उ ॥ [ उपदेशमाला ४०८ ] इति ४ । तथा शक्तिमत् शरीर-मन्त्र-तन्त्र - परिवारादिसामर्थ्ययुक्तम्, तद्धि विविधास्वापत्सु गणस्यात्मनश्च निस्तारकं भवतीति ५, तथा अप्पाहिगरणे त्ति अल्पम् अविद्यमानमधिकरणं स्वपक्ष- परपक्षविषयो विग्रहो यस्य तत्तथा, तद्ध्यनुवर्त्तकतया गणस्याहानिकारकं भवतीति ६ । ग्रन्थान्तरे त्वेवं गणिनः स्वरूपमुक्तम् सुत्तत्थे निम्माओ [पञ्चव० १३१५] इत्यादि । [सू० ४७६] छहिं ठाणेहिं निग्गंथे निग्गंथिं गिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ, तंजहा - खित्तचित्तं दित्तचित्तं, जक्खातिट्ठ, उम्मातपत्तं, उवसग्गपत्तं, साहिकरणं । [टी०] अनन्तरं गणधरगुणा उक्ताः, गणधरकृतमर्यादया च वर्त्तमानो निर्ग्रन्थो नाज्ञामतिक्रामतीत्येतत् सूत्रद्वयेनाह - तत्र प्रथमं पञ्चस्थानके व्याख्यातमेव तथापि किञ्चिदुच्यते, गृह्णन् ग्रीवादाववलम्बयन् हस्त-वस्त्राञ्चलादौ गृहीत्वा नातिक्रामत्याज्ञामिति गम्यते, क्षिप्तचित्तां शोकेन, दृप्तचित्तां हर्षेण, यक्षाविष्टां देवताधिष्ठिताम्, उन्मादप्राप्तां वातादिना, उपसर्गप्राप्तां तिर्यङ्मनुष्यादिना नीयमानाम्, साधिकरणां कलहयन्तीम् । [सू० ४७७] छहिं ठाणेहिं निग्गंथा निग्गंथीओ य साहम्मितं कालगतं समायरमाणा णाइक्कमंति, तंजहा - अंतोहिंतो वा बाहिं णीणेमाणा १, बाहिंहिंतो वा निब्बाहिं णीणेमाणा २, उवेहमाणा वा ३, उवासमाणा वा ४, अणुन्नवेमाणा वा ५, तुसिणीते वा संपव्वयमाणा ६ । [ टी० ] षड्भिः स्थानैः वक्ष्यमाणैर्निर्ग्रन्थाः साधवो निर्ग्रन्थ्यश्च साध्व्यस्तथाविधनिर्ग्रन्थाभावे मिश्राः सन्तः साधर्मिकं समानधर्म्मयुक्तं साधुमित्यर्थः समायरमाणेति समाद्रियमाणाः साधर्मिकं प्रत्यादरं कुर्वाणाः समाचरन्तो वा उत्पाटनादिव्यवहारविषयीकुर्वन्तो नातिक्रामन्त्याज्ञां स्त्रीभिः सह विहार - स्वाध्याया Page #104 -------------------------------------------------------------------------- ________________ षष्ठमध्ययनं षट्स्थानकम् । saस्थानादि न कार्यमित्यादिरूपाम्, पुष्टालम्बनत्वादिति । अंतोहिंतो व त्ति गृहादेर्मध्याद् बहिर्नयन्तो वाशब्दा विकल्पार्थाः १, बाहिंहिंतो व त्ति गृहादेर्बहिस्तात् निर्बहिः अत्यन्तबहिर्बहिस्तात्तरां नयन्तः २, उपेक्षमाणा इति, उपेक्षा द्विविधा - व्यापारोपेक्षा अव्यापारोपेक्षा च, तत्र व्यापारोपेक्षया तमुपेक्षमाणाः, तद्विषयायां छेदन - बन्धनादिकायां समयप्रसिद्धक्रियायां व्याप्रियमाणा इत्यर्थः, अव्यापारोपेक्षया च मृतकस्वजनादिभिस्तं सत्क्रियमाणमुपेक्षमाणाः तत्रोदासीना इत्यर्थः ३, तथा उवासमाण त्ति पाठान्तरेण भयमाण त्ति वा रात्रिजागरणे तदुपासनां विदधानाः, उवसामेमाण त्ति पाठान्तरे तं क्षुद्रव्यन्तराधिष्ठितं समयप्रसिद्धविधिनोपशमयन्त इति ४, तथा अणुन्नवेमा ि तत्स्वजनादींस्तत्परिष्ठापनायानुज्ञापयन्तः ५, तुसिणीए त्ति तूष्णींभावेन संप्रव्रजन्तस्तत्परिष्ठापनार्थमागमानुज्ञातत्वात् सर्वमिदमाज्ञातिक्रमाय न भवतीति ६। [सू० ४७८ ] छट्ठाणाइं छउमत्थे सव्वभावेणं ण जाणति ण पासति, तंजहा-धम्मत्थिकायमधम्मत्थिकायं, आयासं, जीवमसरीरपडिबद्धं, परमाणुपोग्गलं, सदं । ताणि चेव उप्पन्ननाणदंसणधरे अरहा जिणे जाव सव्वभावेणं जाणति पासति धम्मत्थिकायं जाव सद्दं । [टी०] छाद्मस्थिकश्चायं व्यवहारः प्राय उक्त इति छद्मस्थप्रस्तावादिदमाह - छहीत्यादि । इह छद्मस्थो विशिष्टावध्यादिविकलो न त्वकेवली, यतो यद्यपि धर्माधर्माकाशान्यशरीरं जीवं च परमावधिर्न जानाति तथापि परमाणु - शब्दौ जानात्येव, रूपित्वात् तयो:, रूपिविषयत्वाच्चावधेरिति एतच्च सूत्रं सविपर्ययं प्राग्व्याख्यातप्रायमेवेति । [सू० ४७९] छहिं ठाणेहिं सव्वजीवाणं णत्थि इड्डी ति वा जुती ति वा जाव परक्कमे ति वा, तंजहा- जीवं वा अजीवं करणयाए १, अजीवं वा जीवं करणयाए २, एगसमएणं वा दो भासातो भासित्तए ३, सयं कडं वा कम्मं वेदेमि वा मा वा वेएमि ४, परमाणुपोग्गलं वा छिंदित्तए वा भिंदित्तए वा अगणिकाएण वा समोदहित्तए ५, बहिता वा लोगंता गमणताए ६ । ५०५ Page #105 -------------------------------------------------------------------------- ________________ ५०६ [टी०] छद्मस्थस्य धर्मास्तिकायादिषु ज्ञानशक्तिर्नास्तीत्युक्तमधुना सर्वजीवानां येषु यथा शक्तिर्नास्ति तानि तथाऽऽह- छहीत्यादि, षट्सु स्थानेषु सर्वजीवानां संसारिमुक्तरूपाणां नास्ति, ऋद्धिः विभूति:, इतीति एवंप्रकारा यया जीवादिरजीवादिः क्रियते, वा विकल्पे, एवं द्युति: प्रभा माहात्म्यमित्यर्थः, यावत्करणात् ‘जसे इ वा बले इ वा वीरिए इ वा पुरिसक्कारपरक्कमे इव' त्ति, इदं च व्याख्यातमनेकश इति न व्याख्यायते । तद्यथा-जीवं वेत्यादि, जीवस्याजीवस्य करणतायाम्, जीवमजीवं कर्तुमित्यर्थः १, अजीवस्य वा जीवस्य करणतायाम् २, एगसमयेण व त्ति युगपद्वा द्वे भाषे सत्यासत्यादिके भाषितुमिति ३, स्वयंकृतं वा कर्म वेदयामि वा मा वा वेदयामीत्यत्रेच्छावशे वेदनेऽवेदने वा नास्ति बलमिति प्रक्रम:, अयमभिप्रायःन हीच्छावशत: प्राणिनां कर्मणः क्षपणा-ऽक्षपणे स्तो बाहुबलिन इव, अपि त्वनाभोगनिवर्त्तिते ते भवत: अन्यत्र केवलिसमुद्घातादिति ४, परमाणुपुद्गलं वा छेत्तुं वा खड्गादिना द्विधाकृत्य, भेत्तुं वा सूच्यादिना विद्ध्वा, छेदादौ परमाणुत्वहाने:, अग्निकायेन वा समवदग्धुमिति, सूक्ष्मत्वेनादाह्यत्वात्तस्येति ५, बहिस्ताद्वा लोकान्ताद्गमनतायाम् ६, अलोकस्यापि लोकताऽऽपत्तेरिति । [सू० ४८०] छज्जीवनिकाया पन्नत्ता, तंजहा-पुढविकाइया जाव तसकाइया । [टी०] जीवमजीवं कर्तुमित्युक्तमतो जीवपदार्थस्यैव बहुधा प्ररूपणाय छज्जीवनिकायेत्यादि सूत्रप्रपञ्चमाह, सुगमश्चायम्, नवरं जीवानां निकाया राशयो जीवनिकाया:, इह च जीवनिकायानभिधाय यत् पृथिवीकायिकादिशब्दैनिकायवन्त उक्ता: तत्तेषामभेदोपदर्शनार्थम्, न ह्येकान्तेन समुदायात् समुदायिनो व्यतिरिच्यन्ते, व्यतिरेकेणाप्रतीयमानत्वादिति । [सू० ४८१] छ तारग्गहा पन्नत्ता, तंजहा-सुक्के, बुहे, बहस्सति, अंगारए सणिच्छरे, केतू । [टी०] तारकाकारा ग्रहास्तारकग्रहाः, लोके हि नव ग्रहा: प्रसिद्धाः, तत्र च चन्द्राऽऽदित्य-राहूणामतारकाकारत्वादन्ये षट् तथोक्ता इति, सुंके त्ति शुक्रः, बहस्सइ त्ति Page #106 -------------------------------------------------------------------------- ________________ षष्ठमध्ययनं षट्स्थानकम् । बृहस्पतिः, अंगारको मङ्गलः, सनिच्छरे त्ति शनैश्चर इति । [सू० ४८२] छव्विहा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा-पुढविकाइया जाव तसकाइया । पुढविकाइया छगइया छआगतिया पन्नत्ता, तंजहा - पुढविकायिए पुढविकाइएस उववज्जमाणे पुढविकाइएहिंतो वा आउ० जाव तसकाइएहिंतो वा उववज्जेज्जा, से चेव णं से पुढविकाइए पुढविकाइयत्तं विप्पजहमाणे पुढविकाइयत्ताए वा जाव तसकाइयत्ताए वा गच्छेज्जा । आउकाइया छगतिया छआगतिया एवं चेव जाव तसकायिया । ५०७ [टी०] संसारसमापन्नकजीवसूत्रे पृथ्वीकायिकादयो जीवतयोक्ताः, पूर्वसूत्रे तु निकायत्वेनेति विशेषान्न पुनरुक्ततेति । [सू० ४८३] छव्विहा सव्वजीवा पन्नत्ता, तंजहा - आभिणिबोधियणाणी जाव केवलणाणी, अन्नाणी । अहवा छव्विधा सव्वजीवा पन्नत्ता, तंजहा - एगिंदिया जाव पंचिंदिया, अणिदिया । अहवा छव्विहा सव्वजीवा पन्नत्ता, तंजहा - ओरालियसरीरी, वेउव्वियसरीरी, आहारगसरीरी, तेअगसरीरी, कम्मगसरीरी, असरीरी । [टी०] ज्ञानिसूत्रे अज्ञानिनस्त्रिविधा मिथ्यात्वोपहतज्ञानाः । इन्द्रियसूत्रेऽनिन्द्रियाः अपर्याप्ताः केवलिनः सिद्धाश्चेति । शरीरिसूत्रे यद्यप्यन्तरगतौ कार्मणशरीरिसम्भवस्तद्व्यतिरिक्तस्य तैजसशरीरिणोऽसम्भवस्तथाप्येकतराविवक्षया भेदो व्याख्यातव्यः, तथा अशरीरी सिद्ध इति । [सू० ४८४] छव्विहा तणवणस्सतिकाइया पन्नत्ता, तंजहा - अग्गबीया, मूलबीया, पोरबीया, खंधबीया, बीयरुहा, संमुच्छिमा । [टी०] तृणवनस्पतिकायिका बादरा इत्यर्थः, मूलबीजा उत्पलकन्दादयः इत्यादि व्याख्यातमेव, नवरं सम्मूर्च्छिमा : दग्धभूमौ बीजासत्त्वेऽपि तृणादय उत्पद्यन्ते । [सू० ४८५] छ ट्ठाणारं सव्वजीवाणं णो सुलभाई भवंति, तंजहा Page #107 -------------------------------------------------------------------------- ________________ ५०८ माणुस्सए भवे १, आरिए खेते जम्मं २, सुकुले पच्चायाती ३, केवलिपन्नत्तस्स धम्मस्स सवणता ४, सुतस्स वा सद्दहणता ५, सद्दहितस्स वा पत्तितस्स वा रोइतस्स वा सम्मं काएणं फासणता ६ । [टी०] यथा अधिकृताध्ययनावतारं प्ररूपिता जीवा:, अथ तेषामेव ये पर्यायविशेषा दुर्लभास्तांस्तथैवाह- छट्ठाणाई इत्यादि, षट् स्थानानि षट् वस्तूनि सर्वजीवानां नो नैव सुलभानि सुप्रापाणि भवन्ति, कृच्छ्रलभ्यानीत्यर्थः, न पुनरलभ्यानि, केषाञ्चिज्जीवानां तल्लाभोपलम्भादिति, तद्यथा- मानुष्यको मनुष्यसम्बन्धी भवो जन्म, स नो सुलभ इति प्रक्रम: [आह च ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥ [ ] इति ।] एवमार्ये क्षेत्रे अर्द्धषड्विंशतिजनपदरूपे जन्म उत्पत्ति:, इहाप्युक्तम्सत्यपि च मानुषत्वे दुर्लभतरमार्यभूमिसम्भवनम् । यस्मिन् धर्माचरणप्रवणत्वं प्राप्नुयात् प्राणी ॥ [ ] इति । तथा सुकुले इक्ष्वाक्वादिके प्रत्यायाति: जन्म नो सुलभमिति, अत्राभिहितम्आर्यक्षेत्रोत्पत्तौ सत्यामपि सत्कुलं न सुलभं स्यात् ।। सच्चरणगुणमणीनां पात्रं प्राणी भवति यत्र ॥ [ ] इति । तथा केवलिप्रज्ञप्तस्य धर्मस्य श्रवणता दुर्लभा, यतोऽवाचिसुलभा सुरलोयसिरी रयणायरमेहला मही सुलहा । निव्वुइसुहजणियरुई जिणवयणसुई जए दुलहा ॥ [ ] इति । [श्रुतस्य वा श्रद्धानता दुर्लभा, उक्तं चआहच्च सवणं लद्धं सद्धा परमदुल्लहा ।। सोच्चा नेआउयं मग्गं बहवे परिभस्सइ ॥ [उत्तरा० ३।९] त्ति ।] तथा श्रद्धितस्य वा सामान्येन, प्रतीतस्य वोपपत्तिभिरथवा प्रीतिकस्य स्वविषये उत्पादितप्रीते:, रोचितस्य वा चिकीर्षितस्य, सम्यग् यथावत् कायेन शरीरेण न मनोरथमात्रेणाविरतवत् स्पर्शनता स्पर्शनमिति, यदाह धम्मं पि हु सद्दहंतया दुल्लहया काएण फासया । Page #108 -------------------------------------------------------------------------- ________________ षष्ठमध्ययनं षट्स्थानकम् । ५०९ इह कामगुणेसु मुच्छिया समयं गोयम ! मा पमायए ॥ [उत्तरा० १०।२०] इति ।। मनुष्यभवादीनां च दुर्लभत्वं प्रमादादिप्रसक्तप्राणिनामेव न सर्वेषामिति, यतो मनुष्यभवमाश्रित्याभिहितम् एयं पुण एवं खलु अन्नाण-पमायदोसओ नेयं । जं दीहा कायठिई भणिया एगिंदियाईणं ॥ एसा य असइदोसासेवणओ धम्मवजचित्ताणं । ता धम्मे जइयव्वं सम्मं सइ वीरपुरिसेहिं ॥ [उप० पद० १६,१८] ति । [सू० ४८६] छ इंदियत्था पन्नत्ता, तंजहा-सोतिंदियत्थे जाव फासिंदियत्थे, नोइंदियत्थे । [सू० ४८७] छव्विधे संवरे पन्नत्ते, तंजहा-सोतिंदियसंवरे जाव फासिंदियसंवरे, णोइंदियसंवरे । ___ छव्विहे असंवरे पन्नत्ते, तंजहा-सोतिंदियअसंवरे जाव फासिंदियअसंवरे, णोइंदियअसंवरे । [सू० ४८८] छव्विहे साते पन्नत्ते, तंजहा-सोतिंदियसाते जाव नोइंदियसाते। छव्विहे असाते पन्नत्ते, तंजहा-सोतिंदियअसाते जाव नोइंदियअसाते । [सू० ४८९] छविहे पायच्छित्ते पन्नत्ते, तंजहा-आलोयणारिहे, पडिक्कमणारिहे, तदुभयारिहे, विवेगारिहे, विउसग्गारिहे, तवारिहे । [टी०] मानुषत्वादीनि च सुलभानि दुर्लभानि च भवन्तीन्द्रियार्थानां संवरे असंवरे च सति, तयोश्च सतो: सातासाते स्तस्तत्क्षयश्च प्रायश्चित्ताद् भवतीतीन्द्रियार्थानिन्द्रियसंवरासंवरौ सातासाते प्रायश्चित्तं च प्ररूपयन् सूत्रषट्कमाह, सुगमं चेदम्, नवरं छ इंदियत्थ त्ति मनस आन्तरकरणत्वेन करणत्वात् करणस्य चेन्द्रियत्वात् तन्त्रान्तररूढ्या वा मनस इन्द्रियत्वात् तद्विषयस्येन्द्रियार्थत्वेन षडिन्द्रियार्था इत्युक्तम्, तत्र श्रोत्रेन्द्रियादीनामा विषया: शब्दादय:, नोइंदियत्थ त्ति औदारिकादित्वार्थपरिच्छेदकत्वलक्षणधर्मद्वयोपेतमिन्द्रियं तस्यौदारिकादित्वधर्मलक्षणदेशनिषेधात् नोइन्द्रियं मन: सादृश्यार्थत्वाद्वा नोशब्दस्यार्थपरिच्छेदकत्वेनेन्द्रियाणां सदृशमिति Page #109 -------------------------------------------------------------------------- ________________ ५१० तत्सहचरमिति वा नोइन्द्रियं मनस्तस्यार्थो विषयो जीवादि: नोइन्द्रियार्थ इति । श्रोत्रेन्द्रियद्वारेण मनोज्ञशब्दश्रवणतो यत् सातं सुखं तच्छोडेन्द्रियसातमेवं शेषाण्यपि, तथा यदिष्टचिन्तनतस्तन्नोइन्द्रियसातमिति । __ आलोचनाहँ यद् गुरुनिवेदनया शुद्ध्यति, प्रतिक्रमणार्हं यद् मिथ्यादुष्कृतेन, तदुभयाहँ यदालोचना-मिथ्यादुष्कृताभ्याम्, विवेकाहँ यत् परिष्ठापिते आधाकर्मादौ शुद्ध्यति, व्युत्सर्गार्ह यत् कायचेष्टानिरोधत:, तपोऽहं यन्निर्विकृतिकादिना तपसेति। [सू० ४९०] छव्विहा मणुस्सा पन्नत्ता, तंजहा-जंबूदीवगा, धायइसंडदीवपुरथिमद्धगा, धायइसंडदीवपच्चत्थिमद्धगा, पुक्खरवरदीवट्ठ- पुरत्थिमद्धगा, पुक्खरवरदीवडपच्चत्थिमद्धगा, अंतरदीवगा । अहवा छव्विहा मणुस्सा पन्नत्ता, तंजहा-समुच्छिममणुस्सा ३-कम्मभूमगा १, अकम्मभूमगा २, अंतरदीवगा ३ । गन्भवक्वंतियमणुस्सा ३-कम्मभूमगा १, अकम्मभूमगा २, अंतरदीवगा ३ । [सू० ४९१] छव्विहा इड्डीमंता मणुस्सा पन्नत्ता, तंजहा-अरहंता चक्कवट्टी बलदेवा वासुदेवा चारणा विज्जाधरा । छव्विहा अणिड्डीमंता मणुस्सा पन्नत्ता, तंजहा-हेमवतगा हेरन्नवतगा हरिवस्सगा रम्मगवस्सगा कुरुवासिणो अंतरदीवगा । [सू० ४९२] छव्विधा ओसप्पिणी पन्नत्ता, तंजहा-सुसमसुसमा जाव दुस्समदुस्समा । छव्विहा उसप्पिणी पन्नत्ता, तंजहा-दुस्समदुस्समा जाव सुसमसुसमा । [सू० ४९३] जंबुद्दीवे दीवे भरहेरवतेसु वासेसु तीताते उस्सप्पिणीते सुसमसुसमाते समाते मणुया छ धणुसहस्साइं उडमुच्चत्तेणं होत्था, छच्च अद्धपलिओवमाइं परमाउं पालयित्था १, जंबूदीवे दीवे भरहेरवतेसु वासेसु इमीसे ओसप्पिणीए सुसमसुसमाए समाए एवं चेव २, जंबूदीवे दीवे] भरहेरवते[सु वासेसु] आगमेस्साए उस्सप्पिणीए सुसमसुसमाए समाए एवं चेव जाव छच्च अद्धपलिओवमाइं परमाउं पालयिस्संति ३, जंबुद्दीवे दीवे Page #110 -------------------------------------------------------------------------- ________________ षष्ठमध्ययनं षट्स्थानकम् । ५११ देवकुरुउत्तरकुरासु मणुया छद्धणुसहस्साइं उहुंउच्चत्तेणं पन्नत्ता, छच्च अद्धपलिओवमाइं परमाउं पालयंति ४ । एवं धायइसंडदीवपुरत्थिमद्धे वि चत्तारि आलावगा जाव पुक्खरवरदीवड्ढपच्चत्थिमद्धे चत्तारि आलावगा । [सू० ४९४] छव्विहे संघयणे पन्नत्ते, तंजहा - वयिरोसभणारायसंघयणे उसभणारायसंघयणे नारायसंघयणे अद्धणारायसंघयणे खीलियासंघयणे सेवट्टसंघयणे । [सू० ४९५] छव्विहे संठाणे पन्नत्ते, तंजहा - समचउरंसे णग्गोहपरिमंडले साती खुज्जे वामणे हुंडे । [सू० ४९६] छट्ठाणा अणत्तवओ अहिताते असुभाते अखमाते अनीसेसाए अणाणुगामितत्ताते भवंति, तंजहा- परिताए, परियाले, सुते, तवे, लाभे, पूयासक्कारे । छट्ठाणा अत्तवतो हिताते जाव आणुगामितत्ताते भवंति, तंजहा - परियाए परियाले जाव पूतासक्कारे । [सू० ४९७] छव्विहा जातिआरिया मणुस्सा पन्नत्ता, तंजहाअंबट्ठा य कलंदा वेदेहा वेंदिगा दिया । हारिता चुंचुणा चेव छप्पेता इब्भजातिओ ॥४२॥ छव्विधा कुलारिता मणुस्सा पन्नत्ता, तंजहा - उग्गा, भोगा, राइन्ना, इक्खागा, णाता, कोरव्वा । [टी०] प्रायश्चित्तस्य च मनुष्या एव वोढार इति मनुष्याधिकारवत् छव्विहा मणुस्सा इत्यादिसूत्रादारभ्य आ लोकस्थितिसूत्रात् प्रकरणमाह, गतार्थं चैतत् प्रकरणम्, नवरम् अहवा छव्विहेत्यत्र सम्मूर्च्छ नजमनुष्यास्त्रिविधाः कर्म्मभूमिजादिभेदेन, तथा गर्भव्युत्क्रान्तिकास्त्रिधा तथैवेति षोढा । चारण ति जङ्घाचारणा विद्याचारणाश्च, विद्याधरा वैताढ्यादिवासिनः । छद्धणुसहस्साइं ति त्रीन् क्रोशानित्यर्थः छच्च अद्धपलिओवमानं ति पल्योपमानीत्यर्थः । " Page #111 -------------------------------------------------------------------------- ________________ ५१२ ___ संहननम् अस्थिसञ्चयः, वक्ष्यमाणोपमानोपमेय: शक्तिविशेष इत्यन्ये, तत्र वज्रं कीलिका, ऋषभः परिवेष्टनपट्टः, नाराच: उभयतो मर्कटबन्धः, यत्र द्वयोरस्थ्नोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्थ्ना परिवेष्टितयोरुपरि तदस्थित्रयभेदि कीलिकाकारं वज्रनामकमस्थि भवति तद्वऋषभनाराचं प्रथमम्, यत्र तु कीलिका नास्ति तद् ऋषभनाराचं द्वितीयम्, यत्र तूभयोमर्कटबन्ध एव तन्नाराचं तृतीयम्, यत्र त्वेकतो मर्कटबन्धो द्वितीयपार्श्वे कीलिका तदर्द्धनाराचं चतुर्थम्, कीलिकाविद्धास्थिद्वयसञ्चितं कीलिकाख्यं पञ्चमम्, अस्थिद्वयपर्यन्तस्पर्शनलक्षणां सेवामार्तं सेवामागतमिति सेवार्तं षष्ठम्, शक्तिविशेषपक्षे त्वेवंविधदार्वादेरिव दृढत्वं संहननमिति । संस्थानं शरीराकृतिरवयवरचनात्मिका, तत्र समा: शरीरलक्षणोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽश्रयो यस्य तत् समचतुरश्रम्, अश्रिस्त्विह चतुर्दिग्विभागोपलक्षिता: शरीरावयवास्ततश्च सर्वेऽप्यवयवाः शरीरलक्षणोक्तप्रमाणाव्यभिचारिणो यस्य न तु न्यूनाधिकप्रमाणास्तत्तुल्यं समचतुरश्रम्, तथा न्यग्रोधवत् परिमण्डलं न्यग्रोधपरिमण्डलम्, यथा न्यग्रोध उपरि सम्पूर्णावयव: अधस्तनभागे पुनर्न तथा तथेदमपि नाभेरुपरि विस्तरबहुलं शरीरलक्षणोक्तप्रमाणभाग् अधस्तु हीनाधिकप्रमाणमिति, तथा सादीति आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते, तेनाऽऽदिना शरीरलक्षणोक्तप्रमाणभाजा सह वर्त्तते यत्तत सादि, सर्वमेव हि शरीरमविशिष्टेनाऽऽदिना सह वर्त्तत इति विशेषणान्यथानुपपत्तेरिह विशिष्टता लभ्यते, अत: सादि उत्सेधबहुलं परिपूर्णोत्सेधमित्यर्थः, खुजे त्ति अधस्तनकायमडहम्, इहाधस्तनकायशब्देन पादपाणिशिरोग्रीवमुच्यते, तद् यत्र शरीरलक्षणोक्तप्रमाणव्यभिचारि यत् पुनः शेषं तद्यथोक्तप्रमाणं तत् कुब्जमिति, वामणे त्ति मडहकोष्ठम्, यत्र हि पाणिपादशिरोग्रीवं यथोक्तप्रमाणोपेतं यत् पुन: शेष कोष्ठं तन्मडहं न्यूनाधिकप्रमाणं तद्वामनम्, हुंडे त्ति सर्वत्रासंस्थितम्, यस्य हि प्रायेणैकोऽप्यवयव: शरीरलक्षणोक्तप्रमाणेन न संवदति तत् सर्वत्रासंस्थितं हुंडमिति । ___ अणत्तवओ त्ति अकषायो ह्यात्मा आत्मा भवति स्वस्वरूपावस्थितत्वात्, तद्वान्न भवति य: सोऽनात्मवान् सकषाय इत्यर्थः, तस्य अहिताय अपथ्याय अशुभाय पापाय असुखाय वा दुःखाय अक्षमाय असङ्गतत्वाय अक्षान्त्यै वा अनिःश्रेयसाय Page #112 -------------------------------------------------------------------------- ________________ षष्ठमध्ययनं षट्स्थानकम् । अकल्याणाय अननुगामिकत्वाय अशुभानुबन्धाय भवन्ति, मानकारणतयैहिकामुष्मिकापायजनकत्वादिति, पर्यायो जन्मकाल: प्रव्रज्याकालो वा, स च महानेव मानकारणं भवतीति महानिति विशेषणं द्रष्टव्यम्, अथवा गृहस्थापेक्षया अल्पोऽपि प्रव्रज्यापर्यायो मानहेतुरेवेति, तत्र जन्मपर्यायो महानहिताय, यथा बाहबलिन:, एवमन्येऽपि यथासम्भवं वाच्या:, नवरं परियाले त्ति परिवार: शिष्यादिः, श्रुतं पूर्वगतादि, उक्तं चजह जह बहुस्सुओ संमओ य सीसगणसंपरिवुडो य । अविणिच्छिओ य समए तह तह सिद्धतपडिणीओ ॥ [सम्मति० ३।६६] इति । तप: अनशनादि, लाभोऽन्नादीनाम्, पूजा स्तवादिरूपा, तत्पूर्वक: सत्कारो वस्त्राभ्यर्चनम्, पूजायां वा आदर: पूजासत्कार इति । जाति: मातृक: पक्षः, तया आर्याः अपापा निर्दोषा जात्यार्या: विशुद्धमातृका इत्यर्थः, अंबढेत्याद्यनुष्टुप्प्रतिकृतिः, षडप्येता इभ्यजातय इति, इभमर्हन्तीतीभ्या:, यद्रव्यस्तूपान्तरित उच्छ्रितकदलिकादण्डो हस्ती न दृश्यते ते इभ्या इति श्रुति:, तेषां जातय इभ्यजातयस्ता एता इति । कुलं पैतृक: पक्ष:, उग्रा आदिराजेनारक्षकत्वेन ये व्यवस्थापितास्तद्वंश्याश्च, ये तु गुरुत्वेन ते भोगास्तद्वंश्याश्च, ये तु वयस्यतयाऽऽचरितास्ते राजन्यास्तद्वंश्याश्च, इक्ष्वाकव: प्रथमप्रजापतिवंशजा:, ज्ञाता: कुरवश्च महावीर-शान्तिजिनपूर्वजाः, अथवैते लोकरूढितो ज्ञेयाः । [सू० ४९८] छव्विधा लोगट्ठिती पन्नत्ता, तंजहा-आगासपतिट्टिते वाते, वातपतिट्ठिए उदधी, उदधिपतिट्टिता पुढवी, पुढविपइट्ठिया तसा थावरा पाणा, अजीवा जीवपइट्ठिया, जीवा कम्मपतिट्ठिया । [टी०] इयं च जातिकुलार्यादिका लोकस्थितिरिति लोकस्थितिप्रत्यासत्या तामेवाहछव्विहेत्यादि, इदं पूर्वमेव व्याख्यातम्, नवरमजीवा औदारिकादिपुद्गलास्ते जीवेषु प्रतिष्ठिताः आश्रिता:, इदं चानवधारणं बोद्धव्यम्, जीवविरहेणापि बहुतराणामजीवानामवस्थानात्, पृथिवीविरहतोऽपि त्रस-स्थावरवदिति, तथा जीवा: कर्मसु Page #113 -------------------------------------------------------------------------- ________________ ५१४ ज्ञानावरणादिषु प्रतिष्ठिताः, प्रायस्तद्विरहितानां तेषामभावादिति । [सू० ४९९] छद्दिसाओ पन्नत्ताओ, तंजहा-पातीणा पडीणा दाहिणा उदीणा उड्डा अधा । छहिं दिसाहिं जीवाणं गती पवत्तति, तंजहा-पायीणाए जाव अधाए १। एवमागती २, वक्कंती ३, आहारे ४, वुड्डी ५, निवुड्डी ६, विगुव्वणा ७, गतिपरिताते ८, समुग्धाते ९, कालसंजोगे १०, दंसणाभिगमे ११, णाणाभिगमे १२, जीवाभिगमे १३, अजीवाभिगमे १४ । एवं पंचेंदियतिरिक्खजोणियाण वि मणुस्साण वि । [टी०] अनन्तरं कर्मप्रतिष्ठिता जीवा उक्ताः, तेषां च दिक्ष्वेव गत्यादयो भवन्तीति दिशस्तासु गत्यादींश्च प्ररूपयन्नाह– छहिसाओ इत्यादि सूत्रकदम्बकम्, इदं च त्रिस्थानक एव व्याख्यातम्, तथापि किञ्चिदुच्यते- प्राचीना पूर्वा, प्रतीचीना पश्चिमा, दक्षिणा प्रतीता, उदीचीना उत्तरा, ऊर्ध्वमधश्चेति प्रतीते, विदिशो न दिशो विदिक्त्वादेवेति षडेवोक्ताः, अथवा आभिरेव जीवानां वक्ष्यमाणा गतिप्रभृतय: पदार्था: प्राय: प्रवर्त्तन्ते, षट्स्थानकानुरोधेन वा विदिशो न विवक्षिता इति षडेव दिश उक्ता इति । ___ षड्भिर्दिग्भिर्जीवानां गति: उत्पत्तिस्थानगमनं प्रवर्त्तते, अनुश्रेणिगमनात्तेषामित्येवमेतानि चतुर्दश सूत्राणि नेयानि, नवरं गतिरागतिश्च प्रज्ञापकस्थानापेक्षिण्यौ प्रसिद्ध एव, व्युत्क्रान्ति: उत्पत्तिस्थानप्राप्तस्योत्पादः, साऽपि ऋजुगतौ षट्स्वेव दिक्षु, तथा आहारः प्रतीत:, सोऽपि षट्स्वेव दिक्षु, एतद्व्यवस्थितप्रदेशावगाढपुद्गलानामेव जीवेन स्पर्शनात् स्पृष्टानामेव चाहरणादिति, एवं षट्दिक्ता यथासम्भवं वृद्ध्यादिष्वप्यूह्येति, तथा वृद्धिः शरीरस्य, निवृद्धिः हानिस्तस्यैव, विकुर्वणा वैक्रियकरणम्, गतिपर्यायो गमनमानं न परलोकगमनरूप: तस्य गत्यागतिग्रहणेन गृहीतत्वादिति, समुद्घातो वेदनादिक: सप्तविध:, कालसंयोग: समयक्षेत्रमध्ये आदित्यादिप्रकाशसम्बन्धलक्षण:, दर्शनं सामान्यग्राही बोध:, तच्चेह गुणप्रत्ययावध्यादिप्रत्यक्षरूपम्, तेनाभिगमो वस्तुनः परिच्छेदस्तत्प्राप्तिर्वा दर्शनाभिगमः, एवं ज्ञानाभिगमोऽपि, जीवाभिगमः सत्त्वाधिगमो गुणप्रत्ययावध्यादिप्रत्यक्षतः, अजीवाभिगम: पुद्गलास्तिकायाद्यधिगम:, सोऽपि तथैवेति, Page #114 -------------------------------------------------------------------------- ________________ षष्ठमध्ययनं षट्स्थानकम् । ५१५ एवमिति यथा ‘छहिं दिसाहिं जीवाणं गई पवत्तई' त्यादिसूत्राण्युक्तानि एवं चतुर्विंशतिदण्डकचिन्तायां ‘पंचेंदियतिरिक्खजोणियाणं छहिं दिसाहिं गई'त्यादीन्यपि वाच्यानि, तथा मनुष्यसूत्राण्यपि, शेषेषु नारकादिपदेषु षट्सु दिक्षु गत्यादीनां सामस्त्येनासम्भवात्, तथाहि-नारकादीनां द्वाविंशतेर्जीवविशेषाणां नारक-देवेषुत्पादाभावादूर्ध्वाधोदिशोर्विवक्षया गत्यागत्योरभावः, तथा दर्शन-ज्ञान-जीवा-ऽजीवाभिगमा गुणप्रत्ययावधिलक्षणप्रत्यक्षरूपा न सन्त्येव तेषाम्, भवप्रत्ययावधिपक्षे तु नारकज्योतिष्कास्तिर्यगवधयो भवनपतिव्यन्तरा ऊर्ध्वावधयो वैमानिकास्त्वधोऽवधय: शेषा निरवधय एवेति भावना, 'विवक्षाप्रधानानि च प्रायोऽन्यत्रापि सूत्राणी'ति । [सू० ५००] छहिं ठाणेहिं समणे निग्गंथे आहारमाहारेमाणे णातिक्कमति, तंजहा वेयण-वेयावच्चे इरियट्ठाए य संजमट्ठाए । तह पाणवत्तियाए छटुं पुण धम्मचिंताए ॥४३॥ छहिं ठाणेहिं समणे निग्गंथे आहारं वोच्छिंदमाणे णातिक्कमति, तंजहाआतंके उवसग्गे तितिक्खणे बंभचेरगुत्तीए । पाणिदयातवहेउं सरीरवोच्छेयणट्ठाए ॥४४॥ [टी०] अनन्तरसूत्रे मनुष्याणामजीवाधिगम उक्त इति मनुष्यप्रत्यासत्त्या संयतमनुष्याणामाहारग्रहणा-ऽग्रहणकारणानि सूत्रद्वयेनाह– छहीत्यादि कण्ठ्यम्, नवरमाहारम् अशनादिकमाहारयन् अभ्यवहरन्नातिक्रामत्याज्ञाम्, पुष्टकारणत्वाद्, अन्यथा त्वतिक्रामत्येव, रागादिभावात्, तद्यथा- वेयणेत्यादिगाथा, वेदना च क्षुद्वेदना वैयावृत्यं च आचार्यादिकृत्यकरणं वेदनावैयावृत्यं तत्र विषये भुञ्जीत, वेदनोपशमार्थं वैयावृत्यकरणार्थं चेति भावः, ईर्या गमनं तस्या विशुद्धिर्युगमात्रनिहितदृष्टित्वमीर्याविशुद्धिस्तस्यै इदमीर्याविशुद्ध्यर्थम्, इह च विशुद्धिशब्दलोपादीर्यार्थमित्युक्तम्, बुभुक्षितो हीर्याशुद्धावशक्त: स्यादिति तदर्थमिति, च: समुच्चये, संयम: प्रेक्षोत्प्रेक्षाप्रमार्जनादिलक्षण:, तदर्थम्, तथेति कारणान्तरसमुच्चये, प्राणा: उच्छ्वासादयो बलं वा प्राणस्तेषां तस्य वा वृत्ति: पालनं तदर्थं प्राणसंधारणार्थमित्यर्थः, षष्ठं पुन: कारणं Page #115 -------------------------------------------------------------------------- ________________ धर्मचिन्तायै गुणनानुप्रेक्षार्थमित्यर्थः । इत्येतानि षट् कारणानीति । वोच्छिंदमाणे त्ति परित्यजन्, आतङ्के ज्वरादावुपसर्गे राज-स्वजनादिजनिते प्रतिकूला-ऽनुकूलस्वभावे तितिक्षणे अधिसहने, कस्याः ? ब्रह्मचर्यगुप्तेः मैथुनव्रतसंरक्षणस्य, आहारत्यागिनो हि ब्रह्मचर्यं सुरक्षितं स्यादिति, प्राणिदया च संपातिमत्रसादिसंरक्षणं तपः चतुर्थादि षण्मासान्तं प्राणिदयातपस्तच्च तद्धेतुश्च प्राणिदयातपोहेतुस्तस्मात् प्राणिदयातपोहेतोर्दयादिनिमित्तमित्यर्थः, तथा शरीरव्यवच्छेदार्थं देहत्यागाय आहारं व्यवच्छिन्दन्नातिक्रामत्याज्ञामिति प्रक्रम: । [सू० ५०१] छहिं ठाणेहिं आता उम्मायं पाउणेजा, तंजहाअरहंताणमवण्णं वदमाणे १, अरहंतपन्नत्तस्स धम्मस्स अवन्नं वदमाणे २, आयरियउवज्झायाणमवन्नं वदमाणे ३, चाउवण्णस्स संघस्स अवनं वदमाणे ४, जक्खावेसेण चेव ५, मोहणिजस्स चेव कम्मस्स उदएणं ६ । [टी०] अनन्तरं श्रमणस्याहाराग्रहणकारणान्यभिहितानीति श्रमणादेर्जीवस्यानुचितकारिण उन्मादस्थानान्याह- छहीत्यादि, इदं च सूत्रं पञ्चस्थानक एव व्याख्यातप्रायम्, नवरं षड्भि: स्थानैरात्मा जीव: उन्मादम् उन्मत्ततां प्राप्नुयात्, उन्मादश्च महामिथ्यात्वलक्षणस्तीर्थकरादीनामवर्णं अवर्णवादतो भवत्येव तीर्थकराद्यवर्णवदनकुपितप्रवचनदेवतातो वा असौ ग्रहरूपो भवेदिति, [पाठान्तरेण उम्मायपमायं ति उन्मादः सग्रहत्वं स एव प्रमादः प्रमत्तत्वम् आभोगशून्यतोन्मादप्रमादः,] अथवोन्मादश्च प्रमादश्च अहितप्रवृत्ति-हिताप्रवृत्ती, उन्मादप्रमादं प्राप्नुयादिति, अवन्नं ति अवर्णम् अश्लाघामवज्ञां वा वदन् व्रजन् वा कुर्वन्नित्यर्थः, धम्मस्स त्ति श्रुतस्य चारित्रस्य वा, आचार्योपाध्यायानां च, चतुर्वर्णस्य श्रमणादिभेदेन चतुष्प्रकारस्य, यक्षावेशेन चैव निमित्तान्तरकुपितदेवाधिष्ठितत्वेन, मोहनीयस्य मिथ्यात्व-वेदशोकादेरुदयेनेति । [सू० ५०२] छव्विधे पमाते पन्नत्ते, तंजहा-मज्जपमाते णिद्दपमाते विसयपमाते कसायपमाते जूतपमाते पडिलेहणापमाए । [टी०] उन्मादसहचर: प्रमाद इति तमाह- छव्विहेत्यादि, षड्विधः षट्प्रकार: Page #116 -------------------------------------------------------------------------- ________________ षष्ठमध्ययनं षट्स्थानकम् । ५१७ प्रमदनं प्रमादः प्रमत्तता सदुपयोगाभाव इत्यर्थः, प्रज्ञप्तः, तद्यथा- मद्यं सुरादि, तदेव प्रमादकारणत्वात् प्रमादो मद्यप्रमादः, यत आहचित्तभ्रान्तिर्जायते मद्यपानाच्चित्ते भ्रान्ते पापचर्यामुपैति । पापं कृत्वा दुर्गतिं यान्ति मूढास्तस्मान्मद्यं नैव देयं न पेयम् ॥ [ ] इति । एवं सर्वत्र, नवरं निद्रा प्रतीता । विषयाः शब्दादयः, तेषां चैवं प्रमादताविषयव्याकुलचित्तो हितमहितं वा न वेत्ति जन्तुरयम् । तस्मादनुचितचारी चरति चिरं दुःखकान्तारे ॥ [ ] कषाया: क्रोधादयः, तेषामप्येवं प्रमादताचित्तरत्नमसक्लिष्टमान्तरं धनमुच्यते । यस्य तन्मुषितं दोषैस्तस्य शिष्टा विपत्तयः ॥ [हारि० अष्टक० २४।७] इति । द्यूतं प्रतीतम्, तदपि प्रमाद एव, यत:द्यूतासक्तस्य सच्चित्तं धनं कामाः सुचेष्टितम् । नश्यन्त्येव परं शीर्ष नामापि च विनश्यति ॥ [ ] इति । तथा प्रत्युपेक्षणं प्रत्युपेक्षणा, सा च द्रव्य-क्षेत्र-काल-भावभेदाच्चतुर्धा, तत्र द्रव्यप्रत्युपेक्षणा वस्त्र-पात्राद्युपकरणानामशन-पानाद्याहाराणां च चक्षुर्निरीक्षणरूपा, क्षेत्रप्रत्युपेक्षणा कायोत्सर्ग-निषदन-शयनस्थानस्य स्थण्डिलानां मार्गस्य विहारक्षेत्रस्य च निरूपणा, कालप्रत्युपेक्षणा उचितानुष्ठानकरणार्थं कालविशेषस्य पर्यालोचना, भावप्रत्युपेक्षणा धर्मजागरिकादिरूपा । तत्र प्रत्युपेक्षणायां प्रमादः शैथिल्यमाज्ञातिक्रमो वा प्रत्युपेक्षणाप्रमादः, अनेन च प्रमार्जना-भिक्षाचर्यादिषु इच्छाकार-मिथ्याकारादिषु च दशविधसामाचारीरूपव्यापारेषु यः प्रमादोऽसावुपलक्षित:, तस्यापि सामाचारीगतत्वेन षष्ठप्रमादलक्षणाव्यभिचारित्वादिति। [सू० ५०३] छव्विधा पमायपडिलेहा पन्नत्ता, तंजहा आरभडा, संमद्दा, वजेतव्वा य मोसली ततिता । पप्फोडणा चउत्थी, वक्खित्ता, वेतिया छट्ठा ॥४५॥ Page #117 -------------------------------------------------------------------------- ________________ ५१८ छव्विधा अप्पमायपडिलेहा पन्नत्ता, तंजहाअणच्चावितं, अवलितं, अणाणुबंधिं, अमोसलिं चेव । छप्पुरिमा नव खोडा, पाणीपाणविसोहणी ॥४६॥ [टी०] अनन्तरं प्रत्युपेक्षाप्रमाद उक्तः, अथ तामेव तद्विशिष्टामाह- छव्विहेत्यादि, षड्विधा षड्भेदा प्रमादेन उक्तलक्षणेन प्रत्युपेक्षा प्रमादप्रत्युपेक्षा प्रज्ञप्ता, तद्यथाआरभडा गाहा, आरभटा वितथकरणरूपा, अथवा त्वरितं सर्वमारभमाणस्य, अथवा अर्द्धप्रत्युपेक्षित एवैकत्र यदन्यान्यवस्त्रग्रहणं सा आरभटा, सा च वर्जनीया दोषत्वादिति सर्वत्र सम्बन्धनीयमिति, सम्मर्दा यत्र वस्त्रस्य मध्यप्रदेशे संवलिता: कोणा भवन्ति, यत्र वा प्रत्युपेक्षणीयोपधिवेण्टिकायामेवोपविश्य प्रत्युपेक्षते सा सम्म ति, मोसली प्रत्युपेक्ष्यमाणवस्त्रभागेन तिर्यगूर्ध्वमधो वा घट्टनारूपा, तइय त्ति तृतीया प्रमादप्रत्युपेक्षणेति, क्वचिद् अट्ठाणट्ठवणा य त्ति दृश्यते, तत्र गुर्ववग्रहादिके अस्थाने प्रत्युपेक्षितोपधे: स्थापनं निक्षेपोऽस्थानस्थापना, प्रस्फोटना प्रकर्षेण धूननं रेणुगुण्डितस्येव वस्त्रस्येति, इयं च चतुर्थी, विक्खित्त त्ति वस्त्रं प्रत्युपेक्ष्य ततोऽन्यत्र यमनिकादौ प्रक्षिपति यद् अथवा वस्त्राञ्चलादीनां यदूर्ध्वक्षेपणं सा विक्षिप्तोच्यते ५, वेइय त्ति वेदिका पञ्चप्रकारा, तत्र ऊर्ध्ववेदिका, यत्र जानुनोरुपरि हस्तौ कृत्वा प्रत्युपेक्षते १, अधोवेदिका जानुनोरधो हस्तौ निवेश्य २, एवं तिर्यग्वेदिका जानुनो: पार्श्वतो हस्तौ नीत्वा ३, द्विधावेदिका बाह्वोरन्तरे द्वे अपि जानुनी कृत्वा ४, एकतोवेदिका एकं जानु बाह्वोरन्तरे कृत्वेति ५, षष्ठी प्रमादप्रत्युपेक्षणेति प्रक्रमः । उक्तविपरीतां प्रत्युपेक्षणामेवाह- छव्विहेत्यादि, षड्विधा अप्रमादेन प्रमादविपर्ययेण प्रत्युपेक्षणा, अप्रमादप्रत्युपेक्षणा प्रज्ञप्ता, तद्यथा- अणच्चा० गाहा, वस्त्रमात्मा वा न नर्तितं न नृत्यदिव कृतं यत्र तदनर्तितं प्रत्युपेक्षणम्, वस्त्रं नर्त्तयत्यात्मानं वेत्येवमिह चत्वारो भङ्गा: १, तथा वस्त्रं शरीरं वा न वलितं कृतं यत्र तदवलितमिहापि तथैव चतुर्भङ्गी २, तथा न विद्यतेऽनुबन्ध: सातत्यं प्रस्फोटकादीनां यत्र तदननुबन्धि, इन् समासान्तोऽत्र दृश्य:, नानुबन्धि अननुबन्धीति वा ३, तथा न विद्यते मोसली उक्तलक्षणा तत्र तदमोसलि ४, छप्पुरिमा नव खोड त्ति तत्र वस्त्रे प्रसारिते सति Page #118 -------------------------------------------------------------------------- ________________ षष्ठमध्ययनं षट्स्थानकम् । ५१९ चक्षुषा निरूप्य तदर्वाग्भागं परावर्त्य निरूप्य च त्रयः पुरिमाः कर्तव्याः प्रस्फोटका इत्यर्थः, तथा तत् परावर्त्य चक्षुषा निरूप्य च पुनरपरे त्रय: पुरिमा एवमेते षट्, तथा नव खोटका ते च त्रयस्त्रय: प्रमार्जनानां त्रयेण त्रयेणान्तरिता: कार्या इति, पदद्वयेनापि पञ्चमी अप्रमादप्रत्युपेक्षणोक्ता, पुरिमखोटकानां सदृशत्वादिति । तथा पाणेर्हस्तस्योपरि प्राणानां प्राणिनां कुन्थ्वादीनामित्यर्थः, विसोहणि त्ति विशोधना प्रमार्जना प्रत्युपेक्ष्यमाणवस्त्रेणैव कार्या नवैव वारा:, उक्तन्यायेन खोटकान्तरितेति षष्ठी अप्रमादप्रत्युपेक्षणेति । [सू० ५०४] छ लेसाओ पन्नत्ताओ तंजहा-कण्हलेसा जाव सुक्कलेसा। पंचेंदियतिरिक्खजोणियाणं छ लेसाओ पन्नत्ताओ, तंजहा-कण्हलेसा जाव सुक्कलेसा, एवं मणुस्स-देवाण वि । [सू० ५०५] सक्कस्स णं देविंदस्स देवरणो सोमस्स महारण्णो छ अग्गमहिसीतो पन्नत्ताओ । सक्कस्स णं देविंदस्स देवरण्णो जमस्स महारन्नो छ अग्गमहिसीओ पन्नत्ताओ । [सू० ५०६] ईसाणस्स णं देविंदस्स मज्झिमपरिसाए देवाणं छ पलिओवमाइं ठिती पन्नत्ता । [सू० ५०७] छ दिसाकुमारिमहत्तरितातो पन्नत्ताओ, तंजहा-रूता, रूतंसा, सुरूवा, रूयावती, रूयकंता, रूतप्पभा । छ विजुकुमारिमहत्तरितातो पन्नत्ताओ, तंजहा-अला, मक्का, सतेरा, सोतामणी, इंदा, घणविजुया । [सू० ५०८] धरणस्स णं नागकुमारिंदस्स नागकुमाररण्णो छ अग्गमहिसीओ पन्नत्ताओ, तंजहा-अला, मक्का, सतेरा, सोतामणी, इंदा, घणविजुया । भूताणंदस्स णं नागकुमारिंदस्स नागकुमाररण्णो छ अग्गमहिसीओ पन्नत्ताओ, तंजहा-रूता, रूतंसा, सुरूता, रूतावती, रूतकंता, रूतप्पभा। जधा धरणस्स तधा सव्वेसिं दाहिणिल्लाणं जाव घोसस्स । जधा भूताणंदस्स तधा सव्वेसिं उत्तरिल्लाणं जाव महाघोसस्स । [सू० ५०९] धरणस्स णं नागकुमारिंदस्स नागकुमाररन्नो छ सामाणिय Page #119 -------------------------------------------------------------------------- ________________ ५२० साहस्सीओ पण्णत्तातो, एवं भूताणंदस्स वि जाव महाघोसस्स । [टी०] इयं च प्रमादाप्रमादप्रत्युपेक्षा लेश्याविशेषतो भवतीति लेश्यासूत्रम्, सुगमम्, लेश्याधिकारादेव पञ्चेन्द्रियतिर्यग्मनुष्यदेवलेश्यासूत्राणि, देवप्रत्यासत्त्या सक्केत्यादिकान्यग्रमहिष्यादिसूत्राणि चावग्रहमतिसूत्रादर्वाग्वर्तीनि, कण्ठ्यानि च, नवरं देवानां जात्यपेक्षया अवस्थितरूपा: षट् लेश्या अवगन्तव्या इति । - [सू० ५१०] छव्विहा उग्गहमती पन्नत्ता, तंजहा-खिप्पमोगिण्हति, बहुमोगिण्हति, बहुविधमोगिण्हति, धुवमोगिण्हति, अणिस्सियमोगिण्हति, असंदिद्धमोगिण्हति ।। छव्विहा ईहामती पन्नत्ता, तंजहा-खिप्पमीहति, बहुमीहति जाव असंदिद्धमीहति । छव्विधा अवायमती पन्नत्ता, तंजहा-खिप्पमवेति जाव असंदिद्धं अवेति। छव्विधा धारणा पत्नत्ता, तंजहा-बहुं धरेति, बहुविधं धरेति, पोराणं धरेति, दुद्धरं धरेति, अणिस्सितं धरेति, असंदिद्धं धरेति । [टी०] अनन्तरं देववक्तव्यतोक्ता, देवाश्च भवप्रत्ययादेव विशिष्टमतिमन्तो भवन्तीति मतिभेदान् सूत्रचतुष्टयेनाह– छव्विहा उग्गहेत्यादि, मति: आभिनिबोधिकम्, सा चतुर्विधा, अवग्रहेहापाय-धारणाभेदात्, तत्रावग्रहः प्रथमं सामान्यार्थग्रहणम्, तद्रूपा मतिरवग्रहमति:, इयं च द्विविधा व्यञ्जनावग्रहमतिरावग्रहमतिश्च, तत्रार्थावग्रहमतिर्द्विधानिश्चयतो व्यवहारतश्च, तत्र व्यञ्जनावग्रहोत्तरकालमेकसामयिकी प्रथमा, द्वितीया त्वन्तर्मुहूर्तप्रमाणा अवायरूपा अपि सा ईहापाययोरुत्तरयोः कारणत्वादवग्रहमतिरित्युपचरितेति, यत आह सामन्नमेत्तगहणं नेच्छइओ समयमोग्गहो पढमो । तत्तोऽणंतरमीहियवत्थुविसेसस्स जोऽवाओ ॥ सो पुण ईहावायावेक्खाउऽवग्गहो त्ति उवयरिओ। एस विसेसावेक्खं सामन्नं गेण्हए जेण ॥ [विशेषाव० २८२-२८३] इत्यादि। तत्र व्यवहारावग्रहमतिमाश्रित्य प्राय: षड्विधत्वं व्याख्येयमिति, तद्यथाक्षिप्रमवगृह्णाति तूल्यादिस्पर्श क्षयोपशमपटुत्वादचिरेणैव वेत्ति मतिस्तद्विशिष्ट: पुरुषो Page #120 -------------------------------------------------------------------------- ________________ ५२१ षष्ठमध्ययनं षट्स्थानकम् । वेति, बहु ति शय्यायां ह्युपविशन् पुमांस्तत्रस्थयोषित्- पुष्प-चन्दन-वस्त्रादिस्पर्शं बहुं भिन्नजातीयं सन्तमेकैकं भेदेनावबुध्यते- अयं योषित्स्पर्श इत्यादि, बहुविहं ति बढ्यो विधा भेदा यस्य स बहुविधस्तं योषिदादिस्पर्शमेकैकं शीत-स्निग्ध-मृदुकठिनादिरूपमवगृह्णातीति, धुवं ति ध्रुवमत्यन्तं सर्वदैवेत्यर्थः, यदा यदा अस्य तेन स्पर्शेन योषिदादिना योगो भवति तदा तदा तमवच्छिनत्तीत्यर्थः, एतदुक्तं भवतिसतीन्द्रिये सति चोपयोगे यदाऽसौ विषय: स्पृष्टो भवति तदा तमवगृह्णात्येवेति, अणिस्सियं ति निश्रितो लिङ्गप्रमितोऽभिधीयते, यथा यूथिकाकुसुमानामत्यन्तं शीतमृदु-स्निग्धादिरूप: प्राक् स्पर्शोऽनुभूत: तेनानुमानेन लिङ्गेन तं विषयमपरिच्छिन्दत् यदा ज्ञानं प्रवर्त्तते तदा अनिश्रितमलिङ्गमवगृह्णातीत्यभिधीयते, असंदिद्धं ति असंदिग्धं निश्चितं सकलसंशयादिदोषरहितमिति, यथा तमेव योषिदादिस्पर्शमवगृह्णत् योषित एवायं चन्दनस्यैवायमित्येवमवगृह्णातीति । एवमीहा-ऽपाय-धारणामतीनां षड्विधत्वम्, नवरं धारणायां क्षिप्र-ध्रुवपदे परित्यज्य पुराण-दुर्द्धरपदाभ्यां सह षड्विधत्वमुक्तम्, तत्र च पुराणं बहुकालीनं दुर्द्धरं गहनं चित्रादीति, क्षिप्र-बहु-बहुविधादिपदषट्कविपर्ययेणापि षड्विधा अवग्रहादिमतिर्भवतीति मतिभेदानामष्टाविंशतेादशभिर्गुणनात् त्रीणि शतानि षटत्रिंशदधिकानि भवन्ति, अभाणि च भाष्यकारेण जं बहु १ बहुविह २ खिप्पा ३ ऽणिस्सिय ४ निच्छिय ५ धुवे ६ यर १२ विभिन्ना । पुणरोग्गहादओ तो तं छत्तीसत्तिसयभेदं ॥ [विशेषाव० ३०७ ] इत्यादि। [सू० ५११] छव्विधे बाहिरते तवे पन्नत्ते, तंजहा-अणसणं, ओमोदरिता, भिक्खातरिता, रसपरिच्चाते, कायकिलेसो, पडिसंलीणता । छव्विधे अन्भंतरते तवे पन्नत्ते, तंजहा-पायच्छित्तं, विणओ, वेयावच्चं, सज्झाओ, झाणं, विउसग्गो । [टी०] अनन्तरं मतिरुक्ता, तद्विशेषवन्तश्च तपस्यन्तीति तपोऽभिधानाय सूत्रद्वयम्छव्विहेत्यादि गतार्थमेतत्, तथापि किञ्चिदुच्यते, बाहिरए तवे त्ति बाह्यमित्यासेव्यमानस्य लौकिकैरपि तपस्तया ज्ञायमानत्वात् प्रायो बहि: शरीरस्य तापकत्वाद्वा तपति दुनोति शरीरकर्माणि यत्तत्तप इति, तत्राऽनशनम् अभोजनमाहारत्याग इत्यर्थः, तद् द्विधा Page #121 -------------------------------------------------------------------------- ________________ ५२२ इत्वरं यावत्कथिकं च, तत्रेत्वरं चतुर्थादि षण्मासान्तमिदं तीर्थमाश्रित्येति, यावत्कथिकं त्वाजन्मभावि त्रिधा– पादपोपगमनेङ्गितमरण-भक्तपरिज्ञाभेदात्, एतच्च प्राग्व्याख्यातमिति १, ओमोयरिय त्ति अवमम् ऊनमुदरं जठरम् अवमोदरं तस्य करणमवमोदरिकेति, सा च द्रव्यत उपकरण-भक्त-पानविषया प्रतीता, भावतस्तु क्रोधादित्याग इति २, तथा भिक्षार्थं चर्या चरणमटनं भिक्षाचर्या, सैव तपो निर्जराङ्गत्वादनशनवद्, अथवा सामान्योपादानेऽपि विशिष्टा विचित्राभिग्रहयुक्तत्वेन वृत्तिसङ्केपरूपा सा ग्राह्या, यत इहैव वक्ष्यति- छव्विहा गोयरचरिय [सू० ५१४] त्ति, न चेयं ततोऽत्यन्तभिन्नेति, भिक्षाचर्यायां चाभिग्रहा द्रव्यादिविषयतया चतुर्विधाः, तत्र द्रव्यतोऽलेपकार्याद्येव द्रव्यं ग्रहीष्ये, क्षेत्रत: परग्राम-गृहपञ्चकादिलब्धम्, कालत: पूर्वाह्लादौ, भावतो गानादिप्रवृत्ताल्लब्धमिति ३, रसा: क्षीरादयः, तत्परित्यागो रसपरित्याग: ४, कायक्लेशः शरीरक्लेशनम्, स च वीरासनादिरनेकधा ५, प्रतिसंलीनता गुप्तता, सा चेन्द्रियकषाय-योगविषया विविक्तशयनासनता वेति ६ । __ अन्भिंतरए त्ति लौकिकैरनभिलक्ष्यत्वात् तन्त्रान्तरीयैश्च परमार्थतोऽनासेव्यमानत्वान्मोक्षप्राप्त्यन्तरङ्गत्वाच्चाभ्यन्तरमिति, प्रायश्चित्तम् उक्तनिर्वचनमालोचनादि दशविधमिति १, विनीयते कर्म येन स विनय:, उक्तं च जम्हा विणयइ कम्मं अट्ठविहं चाउरंतमोक्खाए। तम्हा उ वयंति विऊ विणयं ति विलीणसंसारा ॥ [आव० नि० १२३१] इति । स च ज्ञानादिभेदात् सप्तधा वक्ष्यते २। तथा व्यावृतभावो वैयावृत्यं धर्मसाधनार्थमन्नादिदानमित्यर्थ: ३, उक्तं चवेयावच्चं वावडभावो इह धम्मसाहणणिमित्तं । अन्नाइयाण विहिणा संपायणमेस भावत्थो ॥ [ ] इति । तच्च दशधाआयरिय उवज्झाए थेरतवस्सीगिलाणसेहाणं । साहम्मियकुलगणसंघसंगयं तमिह कायव्वं ॥ [ ] ति । सुष्ठु आ मर्यादया अध्याय: अध्ययनं स्वाध्याय:, स च पञ्चधा- वाचना प्रच्छना परिवर्तना अनुप्रेक्षा धर्मकथा चेति ४, ध्यातिर्ध्यानम् एकाग्रचिन्तानिरोधः, तच्चतुर्की Page #122 -------------------------------------------------------------------------- ________________ षष्ठमध्ययनं षट्स्थानकम् । प्राग् व्याख्यातम्, तत्र धर्म - शुक्ले एव तपसी निर्जरार्थत्वात्, नेतरे बन्धहेतुत्वादिति ५, व्युत्सर्गः परित्यागः, स च द्विधा - द्रव्यतो भावतश्च, तत्र द्रव्यतो गणशरीरोपध्याहारविषयः, भावतस्तु क्रोधादिविषय इति ६ । एते च तपः सूत्रे दशकालिकाद्विशेषतोऽवसेये इति । ५२३ [सू० ५१२] छव्विहे विवादे पन्नत्ते, तंजहा - ओसक्कतित्ता, उस्सक्वइत्ता, अणुलोमइत्ता, पडिलोमतित्ता, भइत्ता, भेलतित्ता । [टी०] अनन्तरोदितार्थेषु विवदते कश्चिदिति विवादस्वरूपमाह– छव्विहेत्यादि, षड्विधः षड्भेदो विप्रतिपन्नयोः क्वचिदर्थे वादो जल्पो विवादः प्रज्ञप्तः, तद्यथाओसक्वइत्त त्ति अवष्वष्क्य अपसृत्याऽवसरलाभाय कालहरणं कृत्वा यो विधीयते स तथोच्यते, एवं सर्वत्र, क्वचिच्च ओसक्वावइत्त त्ति पाठस्तत्र प्रतिपन्थिनं केनापि व्याजेनापसर्प्य अपसृतं कृत्वा पुनरवसरमवाप्य विवदते, उस्सक्वइत्त त्ति उत्ष्वष्क्य उत्सृत्य लब्धावसरतयोत्सुकीभूय, उस्सक्कावइत्त त्ति पाठान्तरे परमुत्सुकीकृत्य लब्धावसरो जयार्थी विवदते, तथा अणुलोमइत्त त्ति विवादाध्यक्षान् सामनीत्याऽनुलोमान् कृत्वा, प्रतिपन्थिनमेव वा पूर्वं तत्पक्षाभ्युपगमेनाऽनुलोमं कृत्वा पडिलोमइत्ता प्रतिलोमान् कृत्वा अध्यक्षान् प्रतिपन्थिनं वा, सर्वथा सामर्थ्ये सतीति, तथा भइत्त त्ति अध्यक्ष भक्त्वा संसेव्य, तथा भेलइत्त त्ति स्वपक्षपातिभिर्मिश्रान् कारणिकान् कृत्वेति भावः, क्वचिद् भेयइत्त त्ति पाठः, तत्र भेदयित्वा केनाप्युपायेन प्रतिपन्थिनं प्रति कारणिकान् द्वेषिणो विधाय स्वपक्षग्राहिणो वेति भावः । [सू० ५१३] छव्विहा खड्डा पाणा पन्नत्ता, तंजहा - बेंदिता, तेंदिता, चउरिंदिता, संमुच्छिमपंचेंदिततिरिक्खजोणिता, तेउकातिता, वाउकातिता । [टी०] विवादं च कृत्वा ततोऽप्रतिक्रान्ताः केचित् क्षुद्रसत्त्वेषूत्पद्यन्त इति तान्निरूपयन्नाह– छव्विहेत्यादि सुगमम्, परमिह क्षुद्रा: अधमाः, अधमत्वं च विकलेन्द्रिय-तेजोवायूनामनन्तरभवे सिद्धिगमनाभावाद्, यत उक्तम् भूदगपंकप्पभवा चउरो हरिया उ छच्च सिज्झेज्जा विगला लभेज्ज विरइं न हु किंचि लभेज सुहुमतसा || [बृहत्सं० २९७] Page #123 -------------------------------------------------------------------------- ________________ ५२४ सूक्ष्मत्रसा: तेजोवायव इति तथा एतेषु देवानुत्पत्तेश्च, यत उक्तम्पुढवी-आउ-वणस्सइ-गब्भे पजत्तसंखजीवीसु । सग्गच्चुयाण वासो सेसा पडिसेहिया ठाणा ॥ [बृहत्सं० १८०] इति । सम्मूर्च्छिमपञ्चेन्द्रियतिरश्चां चाधमत्वं तेषु देवानुत्पत्तेः, तथा पञ्चेन्द्रियत्वेऽप्यमनस्कतया विवेकाभावेन निर्गुणत्वादिति । [सू० ५१४] छव्विहा गोयरचरिया पन्नत्ता, तंजहा-पेडा, अद्धपेडा, गोमुत्तिया, पतंगवीहिया, संबुक्कवट्टा, गंतुंपच्चागता । [टी०] अनन्तरं सत्त्वविशेषा उक्ताः सत्त्वानां चानपायत: साधुना भिक्षाचर्या कार्येति, सा च षोढेति दर्शयन्नाह– छव्विहेत्यादि, गोयरचरिय त्ति गो: बलीवईस्य चरणं चर: गोचरस्तद्वद्या चर्या चरणं सा गोचरचर्या, इदमुक्तं भवति– यथा गोरुच्चनीचतृणेष्वविशेषतश्चरणं प्रवर्त्तते तथा यत् साधोररक्तद्विष्टस्योच्च-नीच-मध्यमकुलेषु धर्मसाधनदेहपरिपालनाय भिक्षार्थं चरणं सा गोचरचर्येति, इयं चैकस्वरूपाऽप्यभिग्रहविशेषात् षोढा, तत्र प्रथमा पेटा वंशदलमयं वस्त्रादिस्थानं जनप्रतीतम्, सा च चतुरस्रा भवति , ततश्च साधुरभिग्रहविशेषाद्यस्यां चर्यायां ग्रामादिक्षेत्रं पेटावच्चतुरस्रं विभजन् विहरति सा पेटेत्युच्यते, एवमर्द्धपेटाऽपि एतदनुसारेण वाच्या, गोमूत्रणं गोमूत्रिका तद्वद्या सा तथा, इयं हि परस्पराभिमुखगृहपङ्क्त्योरेकस्यां गत्वा पुनरितरस्यां पुनस्तस्यामेवेत्येवं क्रमेण भावनीया, पतङ्गः शलभस्तस्य वीथिका मार्ग: तद्वद्या सा तथा, पतङ्गगतिर्हि अनियतक्रमा भवति एवं याऽनाश्रितक्रमा सा तथा, संबुक्कवट्ट त्ति संबुक्कः शङ्खस्तद्वच्छङ्खभ्रमिवदित्यर्थो या वृत्ता सा संबुक्कवृत्तेति, इयं च द्वेधा, तत्र यस्यां क्षेत्रबहिर्भागाच्छङ्खवृत्तत्वगत्याऽटन् क्षेत्रमध्यभागमायाति साऽभ्यन्तरसंबुक्का, यस्यां तु मध्यभागाद् बहिर्याति सा बहि:सम्बुक्केति । गंतुंपच्चागय त्ति उपाश्रयान्निर्गत: सन्नेकस्यां गृहपङ्क्तौ भिक्षमाण: क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनर्द्वितीयायां गृहपङ्क्तौ यस्यां भिक्षते सा गत्वाप्रत्यागता, गत्वा प्रत्यागतं यस्यामिति च विग्रह इति । [सू० ५१५] जंबूदीवे दीवे मंदरस्स पव्वतस्स दाहिणेणमिमीसे रतणप्पभाते पुढवीए छ अवक्वंतमहानिरता पन्नत्ता, तंजहा-लोले, लोलुए, उद्दड्डे, निद्दड्डे, Page #124 -------------------------------------------------------------------------- ________________ षष्ठमध्ययनं षट्स्थानकम् । ५२५ जरते, पज्जरते । चउत्थीए णं पंकप्पभाते पुढवीते छ अवक्कंतमहानिरता पन्नत्ता, तंजहाआरे, वारे, मारे, रोरे, रोरुते, खाडखडे । [टी०] अनन्तरं साधुचर्योक्तेति चर्याप्रस्तावादसाधुचर्याफलभोक्तृस्थानविशेषाभिधानाय सूत्रद्वयं जंबूदीवेत्यादि सुगमम्, नवरम् अवक्कंत त्ति अपक्रान्ता: सर्वशुभभावेभ्योऽपगता भ्रष्टास्तदन्येभ्योऽतिनिकृष्टा इत्यर्थः, अपकान्ता वा अकमनीया:, सर्वेऽप्येवमेव नरकाः, विशेषतश्चैते इति दर्शनार्थं विशेषणमिति सम्भाव्यते, ते च ते महानरकाश्चेति विग्रहः एतेषां चैवं प्ररूपणा तेरिकारस नव सत्त पंच तिन्नेव होंति एक्को य । पत्थडसंखा एसा सत्तसु वि कमेण पुढवीसु ॥ [बृहत्सं० २५३] एवमेकोनपञ्चाशत् प्रस्तटाः, एतेषु क्रमेणैतावन्त एव सीमन्तकादयो वृत्ताकारा नरकेन्द्रकाः, तत्र सीमन्तकस्य पूर्वादिदिक्षु एकोनपञ्चाशत्प्रमाणा नरकावली विदिक्षु चाष्टचत्वारिंशत्प्रमाणेति प्रतिप्रस्तटमुभयत्रैकैकहान्या सप्तम्यां दिक्ष्वेकैक एव विदिक्षु न सन्त्येवेति । तत: पूर्वादिषु चतसृषु दिक्षु सीमन्तकापेक्षया तृतीयादयः प्रत्येकमावलिकासु विलयादयो नरका भवन्तीति, एवं चैते लोलादय: षडप्यावलिकागतानां मध्ये अधीता विमाननरकेन्द्रकाख्ये ग्रन्थे, यतस्तत्रोक्तम्- लोले तह लोलुए चेव [विमान० ३०] इति, एतौ चावलिकाया: पर्यन्तिमौ, तथा उद्दढे चेव निद्दड्डे[विमान० २७]त्ति एतौ सीमन्तकप्रभाविंशतितमैकविंशाविति, तथा जरए तह चेव पजरए [विमान० २९] त्ति पञ्चत्रिंशत्तम-षट्त्रिंशत्तमौ, केवलं लोलो लोलुप इत्येवं शुद्धपदैः सर्वनरकाणां पूर्वावलिकायामेवाभिलाप:, उत्तरदिगाद्यावलिकासु पुनरेभिरेव सविशेषैर्नामभिर्नरका अभिलप्यन्ते, तद्यथा- उत्तरायां लोलमध्यो लोलुपमध्य इत्यादि, एवं पश्चिमायां लोलावतॊ दक्षिणायां लोलावशिष्ट इत्यादि। __इह तु दक्षिणानामेषां विवक्षितत्वेन लोलावशिष्ट इत्यादिवक्तव्येऽपि सामान्याभिधानमेव निर्विशेषं विवक्षितमिति सम्भाव्यते। चउत्थीए त्ति पङ्कप्रभायाम् अपक्रान्ता अपकान्ता Page #125 -------------------------------------------------------------------------- ________________ ५२६ वेत्यादि तथैव, इह च सप्त प्रस्तटा: सप्तैव नरकेन्द्रका:, यथोक्तम् आरे मारे नारे तत्थे तमए य होइ बोद्धव्वे । खाडखडे य खडखडे इंदयनिरया चउत्थीए ॥ [विमान० १०] इति । तदेवम् आरा मारा खडखडा नरकेन्द्रका:, अन्ये तु वार-रोर-रोरुकाख्यास्त्रयः प्रकीर्णका:, अथवा इन्द्रका एव नामान्तरैरुक्ता इति सम्भाव्यत इति ।। [सू० ५१६] बंभलोगे णं कप्पे छ विमाणपत्थडा पन्नत्ता, तंजहा-अरते, विरते, णीरते, निम्मले, वितिमिरे, विसुद्धे । [टी०] अनन्तरमसाधुचर्याफलभोक्तृस्थानान्युक्तानीतश्च साधुचर्याफलभोक्तृस्थानविशेषानाह– बंभेत्यादि, बंभलोए त्ति पञ्चमदेवलोके, तत्र षडेव विमानप्रस्तटा: प्रज्ञप्ता:, आह च तेरस १-२ बारस ३-४ छ ५ पंच चेव ६ चत्तारि ७-८-९-१०-११-१२ चउसु कप्पेसु। गेवेजेसु तिय तिय ३-३-३- एगो य अणुत्तरेसु १ भवे ॥ [विमान० १२९] त्ति, सर्वेऽपि ६२, तद्यथा- अरजा इत्यादि सुगममेवेति । [सू० ५१७] चंदस्स णं जोतिसिंदस्स जोतिसरन्नो छ णक्खत्ता पुव्वंभागा समखेत्ता तीसतिमुहुत्ता पन्नत्ता, तंजहा-पुव्वा भद्दवया, कत्तिता, महा, पुव्वा फग्गुणी, मूलो, पुव्वा आसाढा १॥ चंदस्स णं जोतिसिंदस्स जोतिसरण्णो छ णक्खत्ता णत्तंभागा अवड्डखेत्ता पन्नरसमुहुत्ता पन्नत्ता, तंजहा-सतभिसता, भरणी, अद्दा, अस्सेसा, साती, जेट्ठा २ । चंदस्स णं जोतिसिंदस्स जोतिसरन्नो छ णक्खत्ता उभयंभागा दिवड्डखेत्ता पणयालीसमुहुत्ता पन्नत्ता, तंजहा-रोहिणी, पुणव्वसू, उत्तरा फग्गुणी, विसाहा, उत्तरा आसाढा, उत्तरा भद्दवया ३। टी०] अनन्तरं विमानवक्तव्यतोक्तेति तत्प्रस्तावान्नक्षत्रविमानवक्तव्यतां सूत्रत्रयेणाह१. प्रथम-द्वितीययोर्देवलोकयोः १३, तृतीय-चतुर्थयोः १२, पञ्चमे ६, षष्ठे ५, सप्तमे ४, अष्टमे ४, नवम-दशमयोः ४, एकादश-द्वादशयोः ४, नवसु ग्रैवेयकेषु ९, अनुत्तरेषु १ इत्येवं १३+१२+६+५+४+४+४+४+९+१ = सर्वेऽपि ६२ ॥ Page #126 -------------------------------------------------------------------------- ________________ ५२७ षष्ठमध्ययनं षट्स्थानकम् । चंदस्सेत्यादि व्यक्तम्, नवरं पुव्वंभाग त्ति पूर्वमिति पूर्वभागेनाग्रेणेत्यर्थः, भज्यन्ते अप्राप्तेनैव चन्द्रेण सेव्यन्ते युज्यन्ते इति यावदिति पूर्वभागानि, अनुस्वारश्च प्राकृतत्वादिति, चन्द्रस्याग्रयोगीनि, चन्द्र एतान्यप्राप्तो भुङ्क्त इति लोकश्रीप्रोक्ता भावनेति, उक्तं च पुव्वा तिन्निय मूलो मह कित्तिय अग्गिमा जोगा [ ] इति । समं स्थूलन्यायमाश्रित्य त्रिंशन्मुहूर्त्तभोग्यं क्षेत्रम् आकाशदेशलक्षणं येषां तानि समक्षेत्राणि, अत एवाह—- त्रिंशन्मुहूर्त्तानि त्रिंशतं मुहूर्तांश्चन्द्रभोगो येषां तानि तथा। णत्तंभाग त्ति नक्तंभागानि चन्द्रस्य समयोगीनीत्यर्थः, उक्तं च- अद्दाऽसेसा साई सभमभिई जेट्ठ समजोगा [ 1 केवलं भरणीस्थाने लोकश्रीसूत्रे अभिजिदुक्तेति मतविशेषो दृश्यत इति, अपार्द्धं समक्षेत्रापेक्षया अर्द्धमेव क्षेत्रं येषां तानि तथा । अर्द्धक्षेत्रत्वमेवाह- पञ्चदशमुहूर्त्तानीति । उभयंभाग त्ति चन्द्रेणोभयतः उभयभागाभ्यां पूर्वतः पश्चाच्चेत्यर्थः, भज्यन्ते भुज्यन्ते यानि तान्युभयभागानि, चन्द्रस्य पूर्वतः पृष्ठतश्च भोगमुपगच्छन्तीत्यर्थः इति भावना लोकश्रीभणितेति, उक्तं च- उत्तर तिन्निविसाह पुणव्वसू रोहिणी उभयजोगा ।। [ 1 | इति । द्वितीयमपार्द्धं यत्र तत् द्व्यपाईं सार्द्धमित्यर्थः, क्षेत्रं येषां तानि तथा, यतः पञ्चचत्वारिंशन्मुहूर्त्तानीति । अन्यानि दश पश्चिमयोगानि । पूर्वभागादिनक्षत्राणां गुणोऽयम् उक्तक्रमेण नक्षत्रैर्युज्यमानस्तु चन्द्रमाः । सुभिक्षकृद्विपरीतं युज्यमानोऽन्यथा भवेत् ।। [ ] इति । [सू० ५१८ ] अभिचंदे णं कुलकरे छ धणुसयाई उड्डउच्चत्तेणं होत्था । [सू० ५१९] भरहे णं राया चाउरंतचक्कवट्टी छ पुव्वसतसहस्साइं महाराया था । [सू० ५२०] पासस्स णं अरहतो पुरिसादाणीयस्स छस्सता वादीणं सदेवमणुयासुराते परिसाते अपराजिताणं संपया होत्था । वासुपुज्जेणं अरहा छहिं पुरिससतेहिं सद्धिं मुंडे जाव पव्वते । चंदप्पभे णं अरहा छम्मासा छउमत्थे होत्था । Page #127 -------------------------------------------------------------------------- ________________ ५२८ [टी०] अनन्तरं चन्द्रव्यतिकर उक्त इति किञ्चिच्छब्दसाम्यात्तद्वर्णसाम्यावा अभिचन्द्रकुलकरसूत्रम्, तद्वंशजन्मसम्बन्धाद् भरतसूत्रं पार्श्वनाथसूत्रं च, जिनसाधाद् वासुपूज्यसूत्रं चन्द्रप्रभसूत्रं चाह– अभिचंदेत्यादि, सुगमानि चैतानि, नवरम् अभिचन्द्रोऽमुष्यामवसर्पिण्यां चतुर्थ: कुलकरः । चाउरंत त्ति चत्वारोऽन्ता: समुद्रत्रयहिमवल्लक्षणा यस्यां सा चतुरन्ता पृथ्वी, तस्या अयं स्वामीति चातुरन्त:, स चासौ चक्रवर्ती चेति चातुरन्तचक्रवर्ती । षट् पूर्वशतसहस्राणि तल्लक्षाणि, पूर्वं तु चतुरशीतिवर्षलक्षाणां तद्गुणेति। आदाणीयस्स त्ति आदीयते उपादीयते इत्यादानीयः उपादेय इत्यर्थः, पुरुषाणां मध्ये आदानीयः पुरुषश्चासावादानीयश्चेति वा पुरुषादानीयस्तस्य । चन्द्रप्रभस्य षण्मासानिह छद्मस्थपर्यायो दृश्यते, आवश्यके तु पद्मप्रभस्यासौ पठ्यते, चन्द्रप्रभस्य तु त्रीनिति मतान्तरमिदमिति । __ [सू० ५२१] तेइंदिया णं जीवा असमारभमाणस्स छव्विधे संजमे कजति, तंजहा-घाणामातो सोक्खातो अववरोवेत्ता भवति, घाणामतेणं दुक्खेणं असंजोगेत्ता भवति, जिब्भामातो सोक्खातो अववरोवेत्ता भवति एवं चेव, एवं फासामातो वि । तेइंदिया णं जीवा समारभमाणस्स छव्विहे असंजमे कजति, तंजहाघाणामातो सोक्खातो ववरोवेत्ता भवति, घाणामएणं दुक्खेणं संजोगेत्ता भवति, जाव फासामतेणं दक्खेणं संजोगेत्ता भवति । [टी०] छद्मस्थश्चेन्द्रियोपयोगवान् भवतीतीन्द्रियप्रत्यासत्या त्रीन्द्रियाश्रितं संयममसंयम च प्रतिपादयन् सूत्रद्वयमाह- तेइंदियेत्यादि कण्ठ्यम्, नवरम् असमारभमाणस्स त्ति अव्यापादयत:, घाणामाउ त्ति घ्राणमयात् सौख्यात् गन्धोपादानरूपात् अव्यपरोपयिता अभ्रंशकः, घ्राणमयेन गन्धोपलम्भाभावरूपेण दुःखेनासंयोजयिता भवति, इह चाव्यपरोपणमसंयोजनं च संयमोऽनाश्रवरूपत्वादितरदसंयम इति । [सू० ५२२] जंबूदीवे दीवे छ अकम्मभूमीओ पन्नत्ताओ, तंजहा-हेमवते, हेरण्णवते, हरिवस्से, रम्मगवस्से, देवकुरा, उत्तरकुरा १ । जंबूदीवे दीवे छव्वासा पन्नत्ता, तंजहा-भरहे, एरवते, हेमवते, हेरन्नवए, Page #128 -------------------------------------------------------------------------- ________________ षष्ठमध्ययनं षट्स्थानकम् । ५२९ हरिवस्से, रम्मगवस्से २ । _ जंबूदीवे दीवे छ वासहरपव्वता पन्नत्ता, तंजहा-चुल्लहिमवंते, महाहिमवंते, निसढे, नीलवंते, रुप्पी, सिहरी ३ । जंबुमंदरदाहिणेणं छ कूडा पन्नत्ता, तंजहा-चुल्लहिमवंतकूडे, वेसमणकूडे, महाहिमवंतकूडे, वेरुलितकूडे, निसढकूडे, रुयगकूडे ४ । जंबुमंदरउत्तरेणं छ कूडा पन्नत्ता, तंजहा-नेलवंतकूडे, उवदंसणकूडे, रुप्पिकूडे, मणिकंचणकूडे, सिहरिकूडे, तिगिछिकूडे ५ । ___ जंबुद्दीवे दीवे छ महदहा पन्नत्ता, तंजहा-पउमद्दहे, महापउमद्दहे, तिगिंच्छिद्दहे, केसरिद्दहे, महापोंडरीयद्दहे, पुंडरीयद्दहे ६ । तत्थ णं छ देवताओ महिड्डियाओ जाव पलिओवमट्टितीतातो परिवसंति, तंजहा-सिरि, हिरि, धिति, कित्ति, बुद्धि, लच्छी ७ । जंबुमंदरदाहिणेणं छ महानदीओ पन्नत्ताओ, तंजहा-गंगा, सिंधू, रोहिता, रोहितंसा, हरी, हरिकंता ८ ।। जंबुमंदरउत्तरेणं छ महानदीतो पन्नत्ताओ, तंजहा-नरकंता, नारिकंता, सुवन्नकूला, रुप्पकूला, रत्ता, रत्तवती ९ । जंबुमंदरपुरस्थिमेणं सीताते महानदीते उभयकूले छ अंतरनदीओ पन्नत्ताओ, तंजहा-गाहावती, दहवती, पंकवती, तत्तजला, मत्तजला, उम्मत्तजला १०। जंबुमंदरपच्चत्थिमेणं सीतोदाते महानदीते उभयकूले छ अंतरनदीओ पन्नत्ताओ, तंजहा-खीरोदा, सीहसोता, अंतोवाहिणी, उम्मिमालिणी, फेणमालिणी, गंभीरमालिणी ११ । धायइसंडदीवपुरत्थिमद्धे णं छ अकम्मभूमीओ पन्नत्ताओ, तंजहा-हेमवते, एवं जहा जंबुद्दीवे जाव अंतरणदीतो २२ जाव पुक्खरवरदीवडपच्चत्थिमद्धे भाणितव्वं ५५ । [टी०] इयं च संयमासंयमप्ररूपणा मनुष्यक्षेत्र एवेति मनुष्यक्षेत्रगतषट्स्थानकावतारिवस्तुप्ररूपणाप्रकरणं जंबूदीवेत्यादिकं पञ्चपञ्चाशत्सूत्रप्रमाणमाह, सुबोधं Page #129 -------------------------------------------------------------------------- ________________ ५३० चैतत्, नवरं कूटसूत्रे हिमवदादिषु वर्षधरपळतेषु द्विस्थानकोक्तक्रमेण द्वे द्वे कूटे समवसेये इति । [सू०५२३] छ उऊ पन्नत्ता, तंजहा-वरिसारत्ते, सरए, हेमंते, शिशिरे] सिसिरे, वसंते, गिम्हे१॥ [सू० ५२४] छ ओमरत्ता पन्नत्ता, तंजहा-ततिते पव्वे, सत्तमे पव्वे, एक्कारसमे पव्वे, पन्नरसमे पव्वे, एगूणवीसतिमे पव्वे, तेवीसइमे पव्वे २॥ छ अइरत्ता पन्नत्ता, तंजहा-चउत्थे पव्वे, अट्ठमे पव्वे, दुवालसमे पव्वे, सोलसमे पव्वे, वीसइमे पव्वे, चउवीसइमे पव्वे ३॥ [टी०] अनन्तरोपवर्णितरूपे च क्षेत्रे कालो भवतीति कालविशेषनिरूपणाय छ उऊ इत्यादि सूत्रत्रयम्, सुगमं चेदम्, नवरम् उऊ त्ति द्विमासप्रमाणकालविशेष ऋतु:, तत्राषाढ-श्रावणलक्षणा प्रावृट्, एवं शेषा: क्रमेण, लौकिकव्यवहारस्तु श्रावणाद्या: वर्षा-शरद्धेमन्त-शिशिर-वसन्त-ग्रीष्माख्या ऋतव इति । ओमरत्त त्ति अवमा हीना रात्रिरवमरात्रो दिनक्षय: । पव्व त्ति अमावास्या पौर्णमासी वा, तदुपलक्षित: पक्षोऽपि पर्व, तत्र लौकिकग्रीष्मत्तौ यत्तृतीयं पर्व आषाढकृष्णपक्षस्तत्र, सप्तमं पद्ध भाद्रपदकृष्णपक्षस्तत्र, एवमेकान्तरितमासानां कृष्णपक्षा: सर्वत्र पाणीति, उक्तं च आसाढबहुलपक्खे भद्दवए कत्तिए अ पोसे य । फग्गुण-वइसाहेसु य बोद्धव्वा ओमरत्ताउ ॥ [ ] अइरत्त त्ति अतिरात्रः अधिकदिनं दिनवृद्धिरिति यावत्, चतुर्थं पर्व आषाढशुक्लपक्षः, एवमिहैकान्तरितमासानां शुक्लपक्षा: सर्वत्र पाणीति । [सू० ५२५] आभिणिबोधियणाणस्स णं छव्विहे अत्थोग्गहे पन्नत्ते, तंजहासोइंदियत्थोग्गहे जाव नोइंदियत्थोग्गहे । [सू० ५२६] छव्विहे ओहिणाणे पन्नत्ते, तंजहा-आणुगामिते, अणाणुगामिते, वढमाणते, हायमाणते, पडिवाती, अपडिवाती । [टी०] अयं चातिरात्रादिकोऽर्थो ज्ञानेनावसीयत इत्यधिकृताध्ययनावतारिणो ज्ञानस्याभिधानाय सूत्रद्वयमाह- आभीत्यादि, सुगमम्, नवरम् अर्थस्य सामान्यस्य Page #130 -------------------------------------------------------------------------- ________________ ५३१ षष्ठमध्ययनं षट्स्थानकम् । श्रोत्रेन्द्रियादिभिः प्रथममविकल्पं शब्दोऽयमित्यादिविकल्परूपं चोत्तरविशेषापेक्षया सामान्यस्यावग्रहणमर्थावग्रहः, स च नैश्चयिक एकसामयिको व्यावहारिकस्त्वान्तर्मोहूर्तिकः, अर्थविशेषितत्वाद् व्यञ्जनावग्रहव्युदास:, स हि चतुर्धा । आणुगामिए त्ति अनुगमनशीलमनुगामि तदेवाऽऽनुगामिकं देशान्तरगतमपि ज्ञानिनं यदनुगच्छति लोचनवदिति, यत्तु तद्देशस्थस्यैव भवति तद्देशनिबन्धनक्षयोपशमजत्वात् स्थानस्थदीपवद् देशान्तरगतस्य त्वपैति तदनानुगामिकमिति । यत्तु क्षेत्रतोऽङ्गुलासङ्ख्येयभागविषयं कालत आवलिकासङ्ख्येयभागविषयं द्रव्यतस्तेजोभाषाद्रव्यान्तरालवर्त्तिद्रव्यविषयं भावतस्तद्गतसङ्ख्येयपर्यायविषयं च जघन्यत: समुत्पद्य पुनर्वृद्धि विषयविस्तरणात्मिकां गच्छदुत्कर्षेणाऽलोके लोक-प्रमाणान्यसङ्ख्येयानि खण्डान्यसङ्ख्येया उत्सर्पिण्यवसर्पिणी: सर्वरूपिद्रव्याणि प्रतिद्रव्यमसङ्ख्येयपर्यायांश्च विषयीकरोति तद्वर्धमानमिति । ___ तथा यजघन्येनाङ्गुलासङ्ख्येयभागविषयमुत्कर्षेण सर्वलोकविषयमुत्पद्य पुनः सङ्क्लेशवशात् क्रमेण हानि विषयसङ्कोचात्मिकां याति यावदमुलासङ्ख्येयभागं तद्धीयमानमिति । तथा प्रतिपतनशीलं प्रतिपाति उत्कर्षेण लोकविषयं भूत्वा प्रतिपतति, तथा तद्विपरीतमप्रतिपाति, येनालोकस्य प्रदेशोऽपि दृष्टस्तदप्रतिपात्येवेति । - [सू० ५२७] नो कप्पइ निग्गंथाण वा निग्गंथीण वा इमाई छ अवतणाई वदित्तते, तंजहा-अलियवयणे, हीलियवयणे, खिंसितवयणे, फरुसवयणे, गारत्थियवयणे, विउसवितं वा पुणो उदीरित्तते । [टी०] एवंविधज्ञानवतां च यानि वचनानि वक्तुं न कल्पन्ते तान्याह-नो कप्पतीत्यादि कण्ठ्यम्, नवरम् अवयणाई ति नञ: कुत्सार्थत्वात् कुत्सितानि वचनानि अवचनानि, तत्राऽलीकं प्रचलायसे किं दिवा' इत्यादिप्रश्ने न प्रचलायामि' इत्यादि, हीलितं सासूयं 'गणिन् ! वाचक ! ज्येष्ठार्य' इत्यादि, खिंसितं जन्म-कर्माद्युद्घट्टनतः, परुषं दुष्टशैक्षेत्यादि, गारं ति अगारं गेहं तवृत्तयो अगारस्थिता: गृहिण: तेषां यत्तदगारस्थितवचनं 'पुत्र ! मामक ! भागिनेय !' इत्यादि, उक्तं च Page #131 -------------------------------------------------------------------------- ________________ ५३२ अरिरे माहणपुत्ता अव्वो बप्पो त्ति भाय मामोति । भट्टी सामिय गोमिय ।। [बृहत्कल्प० ६११६] त्ति | व्यवशमितं वा उपशमितं वा पुनरुदीरयितुं न कल्पत इति प्रक्रमोऽवचनत्वादस्येति, अनेन व्यवशमितस्य पुनरुदीरणवचनं नाम षष्ठमवचनमुक्तम् । [सू० ५२८] छ कप्पस्स पत्थारा पन्नत्ता, तंजहा - पाणातिवातस्स वायं वयमाणे, मुसावायस्स वादं वदमाणे, अदिन्नादाणस्स वायं वयमाणे, अविरतिवायं वयमाणे, अपुरिसवायं वयमाणे, दासावायं वयमाणे, इच्चेते छ कप्पस्स पत्थारे पत्थरेत्ता सम्ममपरिपूरेमाणे तट्ठाणपत्ते । [टी०] अवचनेषु प्रायश्चित्तप्रस्तारो भवतीति तानाह - छ कप्पेत्यादि, कल्पः साध्वाचारस्तस्य सम्बन्धिनस्तद्विशुद्ध्यर्थत्वात् प्रस्तारा : प्रायश्चित्तस्य रचनाविशेषाः, तत्र प्राणातिपातस्य वादं वार्तां वाचं वा वदति साधौ प्रायश्चित्तप्रस्तारो भवतीत्येकः, यथा अन्यजनविनाशितदर्दुरे न्यस्तपादं भिक्षुमुपलभ्य क्षुल्लक आह- साधो ! दर्दुरो भवता मारितः, भिक्षुराह— नैवम्, क्षुल्लक आह- द्वितीयमपि व्रतं ते नास्ति, तत: क्षुल्लको भिक्षाचर्यातो निवृत्याचार्यसमीपमागच्छतीत्येकं प्रायश्चित्तस्थानम्, ततः साधयति यथा— तेन दर्दुरो मारित इति प्रायश्चित्तान्तरम्, ततोऽभ्याख्यातसाधुराचार्येणोक्तः यथा दर्दुरो भवता मारित: ?, असावाह - नैवम्, इह क्षुल्लकस्य प्रायश्चित्तान्तरम्, पुनः क्षुल्लक आह- पुनरप्यपलपसीति, भिक्षुराह— गृहस्थाः पृच्छ्यन्ताम्, वृषभा गत्वा पृच्छन्तीति प्रायश्चित्तान्तरमित्येवं योऽभ्याख्याति तस्य मृषावाददोष एव, यस्तु सत्यमारितं नि तस्य दोषद्वयमिति १, अत्रोक्तम् ओमो चोइज्जंतो दुपहियाईसु संपसारेइ पर्यालोचयति । अहमवि णं चोइस्सं न य लभए तारिसं छिद्दं ॥ अन् घाइए ददुरम्म दट्टु चलणं कयं ओमो । वहिओ हा एस तुमे न वत्ति बीयं पि ते णत्थि ।। [बृहत्कल्प० ६१३५-३६ ] इत्यादि, तथा मृषावादस्य सत्कं वादं विकल्पनं वार्तां वा वदति साधौ प्रायश्चित्तप्रस्तारो भवतीति, तथाहि— क्वचित् संखड्यामकालत्वात् प्रतिषिद्धौ साधू अन्यत्र गतौ, ततो Page #132 -------------------------------------------------------------------------- ________________ षष्ठमध्ययनं षट्स्थानकम् । ५३३ मुहूर्तान्तरे रत्नाधिकेनोक्तम्- व्रजाम: संखड्यामिदानीं भोजनकालो यतस्तत्रेति, लघुर्भणति- प्रतिषिद्धोऽहं न पुनव्रजामि, ततोऽसौ निवृत्याचार्यायेदमालोचयति यथाअयं दीन-करुणवचनैर्याचते, प्रतिषिद्धोऽपि च प्रविशति एषणां प्रेरयतीत्यादि, ततो रत्नाधिकमाचार्यो भणति- साधो ! भवानेवं करोति ?, स आह– नैवमित्यादि, पूर्ववत् प्रस्तार: २, इहाप्युक्तम्मोसम्मि संखडीए मोयगगहणं अदत्तदाणम्मि । आरोवणपत्थारो तं चेव इमं तु नाणत्तं ॥ दीण-कलुणेहिं जायइ पडिसिद्धो विसइ एसणं हणइ । जंपइ मुहप्पियाणि य जोग-तिगिच्छा-निमित्ताई ॥ [बृहत्कल्प० ६१४२-४३] इत्यादि। एवमदत्तादानस्य वादं वदति, अत्र भावना- एकत्र गेहे भिक्षा लब्धा, सा अवमेन गृहीता, यावदसौ भाजनं संमार्टि तावद्रत्नाधिकेन संखड्यां मोदका लब्धास्तानवमो दृष्ट्वा निवृत्याचार्यस्यालोचयति- यथाऽनेनादत्ता मोदका गृहीता इत्यादि, प्रस्तारः प्राग्वदिति ३ । ___ एवमविरति: अब्रह्म, तद्वादं वार्तां वा, अथवा न विद्यते विरतिर्यस्याः सा अविरतिका स्त्री, तद्वादं तद्वार्ती वा तदासेवाभणनरूपां वदति, तथाहि- अवमो भावयति-एष रत्नाधिकतया मां स्खलितादिषु प्रेरयति, ततो रोषादभ्याख्याति जेट्टजेण अकजं सजं अजाघरे कयं अज । उवजीविओ य भंते ! मए वि संसट्ठकप्पोऽत्थ ॥ [बृहत्कल्प० ६१५०] अहमपि तद्भुक्तां भुक्तवानित्यर्थः, प्रस्तारभावना प्राग्वत् ४ । तथा अपुरुषो नपुंसकोऽयमित्येवं वादं वाचं वार्ती वा वदतीति, इह समास: प्रतीत एव, भावनाऽत्र-आचार्यं प्रत्याह- अयं साधुर्नपुंसकम्, आचार्य आह– कथं जानासि?, स आह– एतन्निजकैरहमुक्त:- किं भवतां कल्पते प्रव्राजयितुं नपुंसकमिति ? ममापि किञ्चित्तल्लिङ्गदर्शनाच्छङ्का अस्तीति, प्रस्तार: प्राग्वत्, अत्राप्युक्तम् तइओ त्ति कहं जाणसि ? दिट्ठा णीया से तेहि मे वुत्तं । वट्टइ तइओ तुब्भं पव्वावेउं मम वि संका ॥ Page #133 -------------------------------------------------------------------------- ________________ ५३४ दीसइ य पाडिरूवं ठिय-चंकमिय-सरीर-भासादी । बहुसो अपुरिसवयणे वित्थारारोवणं कुजा ॥ [बृहत्कल्प० ६१५३-५४] इति । तथा दासवादं वदति, भावना- कश्चिदाह- दासोऽयम्, आचार्य आह– कथम्?, देहाकाराः कथयन्ति दासत्वमस्येति, प्रस्तार: प्राग्वदिति, [अत्राप्युक्तम् खरउ त्ति कहं जाणसि ? देहागारा कहिंति से हंदि छिक्कोवण शीघ्रकोप: उब्भंडो णीयासी दारुणसहावो ॥ देहेण वी विरूवो खुज्जो वडभो य बाहिरप्पाओ । फुडमेवं आगारा कहंति जह एस खरओ त्ति ॥ [बृहत्कल्प० ६१५७-५८] ] आचार्य आहकेइ सुरूव विरूवा खुजा मडहा य बाहिरप्पाया । न हु ते परिभवियव्वा वयणं व अणारियं वोत्तुं ॥ [बृहत्कल्प० ६१५९] इत्यादि ६। इतिरेवंप्रकारान् एताननन्तरोदितान् षट् कल्पस्य साध्वाचारस्य प्रस्तारान् प्रायश्चित्तरचनाविशेषान् मासगुह्यदि-पाराञ्चिकावसानान् प्रस्तार्य अभ्युपगमत: आत्मनि प्रस्तुतान् विधाय प्रस्तारयिता वा अभ्याख्यानदायकसाधुः सम्यगप्रतिपूरयन् अभ्याख्येयार्थस्यासद्भूततया अभ्याख्यानसमर्थनं कर्तुमशक्नुवन् प्रत्यङ्गिरं कुर्वन् सन् तस्यैव प्राणातिपातादिकत्तुरेव स्थान प्राप्तो गत: तत्स्थानप्राप्त: स्यात् प्राणातिपातादिकारीव दण्डनीय: स्यादिति भावः, यत्र प्रायश्चित्तपदे विवदमानोऽवतिष्ठते न पदान्तरमारभते तत्पदं प्रापणीय इति भावः, शेषं सुगममिति। [सू० ५२९] छ कप्पस्स पलिमंथू पत्नत्ता, तंजहा-कोकुतिते संजमस्स पलिमंथ, मोहरिते सच्चवयणस्स पलिमंथ, चक्खुलोलुते इरितावहिताते पलिमंथू, तितिणिते एसणागोतरस्स पलिमंथू, इच्छालोभिते मुत्तिमग्गस्स पलिमंथू, भिजाणिदाणकरणे मोक्खमग्गस्स पलिमंथू । सव्वत्थ भगवता अणिताणता पसत्था । [सू० ५३०] छव्विधा कप्पट्टिती पन्नत्ता, तंजहा-सामातितकप्पट्टिती, छेदोवट्ठावणितकप्पट्टिती, निव्विसमाणकप्पट्ठिती, णिव्विट्ठकप्पद्विती, जिणकप्पट्ठिती, थेरकप्पट्टिती । Page #134 -------------------------------------------------------------------------- ________________ षष्ठमध्ययनं षट्स्थानकम् । ५३५ [टी०] कल्पाधिकारे सूत्रद्वयम्- छ कप्पेत्यादि, षट् कल्पस्य कल्पोक्तसाध्वाचारस्य परिमथ्नन्तीति परिमन्थवः, उणादित्वात्, पाठान्तरेण परिमन्था वाच्या:, घातका इत्यर्थः, इह च मन्थो द्विधा- द्रव्यतो भावतश्च, यत आहदव्वम्मि मंथओ खलु तेणामंथिजए जहा दहियं । दहितुल्लो खलु कप्पो मंथिजइ कुक्कुयाईहिं ॥ [बृहत्कल्प० ६३१६] ति । तत्र कुक्कुइए त्ति कुच अवस्यन्दन [ ] इति वचनात् कुत्सितम् अप्रत्युपेक्षितत्वादिना कुचितम् अवस्यन्दितं यस्य स कुकुचितः, स एव कौकुचितः, कुकुचा वा अवस्यन्दनं प्रयोजनमस्येति कौकुचिकः, स च त्रिधास्थान-शरीर-भाषाभिः । ___ तत्र स्थानतो यो यन्त्रकवत् नर्तिकावद्वा भ्राम्यतीति, शरीरतो य: करादिभिः पाषाणादीन् क्षिपति, उक्तं च करगोफणधणुपायाइएहि उच्छुहइ पत्थराईए। भमुहादाढियथणपुयविकंपणं णट्टवाइत्तं ॥ [बृहत्कल्प० ६३२३] ति, भाषातो य: सेण्टित-मुखवादित्रादि करोति, तथा च जल्पति यथा परे हसन्तीति । अयं च त्रिविधोऽपि संयमस्य पृथिव्यादिरक्षणादे: कायगुप्तिपर्यन्तस्य यथासम्भवं परिमन्थुर्भवत्येवेति १, मोहरिए त्ति मुखम् अतिभाषणातिशायनवदस्तीति मुखरः, स एव मौखरिको बहुभाषी, स च सत्यवचनस्य मृषावादविरते: परिमन्थुः, मौखर्ये सति मृषावादसम्भवादिति २, चक्खुलोल त्ति चक्षुषा लोल: चञ्चलः चक्षुर्वा लोलं चञ्चलं यस्य स तथा, स्तूपादीनालोकयन् व्रजति य इत्यर्थः, इदं च धर्मकथादीनामुपलक्षणम्, आह च आलोयंतो वच्चइ थूभाईणि कहेइ वा धम्मं ।। परियट्टणाणुपेहण ण पेह पंथं अणुवउत्तो ॥ [बृहत्कल्प० ६३३०] इति, इरियावहिय त्ति ईर्या गमनं तस्याः पन्था मार्ग ईर्यापथस्तत्र भवा या समितिरीर्यासमितिलक्षणा सा ईर्यापथिकी, तस्या: परिमन्थुरिति ३ । तितिणिए त्ति तितिणिकोऽलाभे सति खेदाद् यत्किञ्चनाभिधायी, स च Page #135 -------------------------------------------------------------------------- ________________ ५३६ खेदप्रधानत्वादेषणा उद्गमादिदोषविमुक्तभक्त-पानादिगवेषण-ग्रहणलक्षणा तत्प्रधानो यो गोचरो गोरिव मध्यस्थतया भिक्षार्थं चरणं स एषणागोचरस्तस्य परिमन्थुः, सखेदो हि अनेषणीयमपि गृह्णातीति भाव: ४ । इच्छालोभिए त्ति इच्छा अभिलाष: स चासौ लोभश्च इच्छालोभः, महालोभ इत्यर्थः, शुक्लशुक्लोऽतिशुक्लो यथा, स यस्यास्ति स इच्छालोभिको महेच्छोऽधिकोपधिरित्यर्थः, उक्तं च- इच्छालोभो उ उवहिमइरेगाबृहत्कल्प० ६३३त्ति, स मुक्तिमार्गस्येति मुक्तिः निष्परिग्रहत्वमलोभत्वमित्यर्थः, सैव मार्ग इव मार्गो निर्वृतिपुरस्येति ५, भिज त्ति लोभस्तेन यन्निदानकरणं चक्रवर्तीन्द्रादिऋद्धिप्रार्थनं तन्मोक्षमार्गस्य सम्यग्दर्शनादिरूपस्य परिमन्थुः, आर्त्तध्यानरूपत्वात्, भिध्याग्रहणाद् यत् पुनरलोभस्य भवनिर्वेद-मार्गानुसारितादिप्रार्थनं तन्न मोक्षमार्गस्य परिमन्थुरिति दर्शितमिति, ननु तीर्थकरत्वादिप्रार्थनं न राज्यादिप्रार्थनवदुष्टमतस्तद्विषयं निदानं मोक्षस्यापरिमन्थुरिति, नैवम्, यत आह-सव्वत्थेत्यादि, सर्वत्र तीर्थकरत्व-चरमदेहत्वादिविषयेऽपि आस्तां राज्यादौ भगवता जिनेन अनिदानता अप्रार्थनमेव पसत्थ त्ति प्रशंसिता श्लाघितेति, तथा च इहपरलोगनिमित्तं अवि तित्थगरत्तचरमदेहत्तं । सव्वत्थेसु भगवया अणियाणत्तं पसत्थं तु ॥ [बृहत्कल्प० ६३३४] एवमेव हि सामायिकशुद्धि: स्यादिति, उक्तं चपडिसिद्धेसु वि दोसे विहिएसु य ईसि रागभावे वि । सामाइयं असुद्धं सुद्धं समयाए दोण्हं पि ॥ [योगशतक १७ ] त्ति । अयं चान्तिमपरिमन्थयोर्विशेष:आहारोवहिदेहेसु इच्छालोभो उ सज्जई । नियाणकारी संगं तु कुरुते उद्धदेहिकं ॥ [ ] पारलौकिकमित्यर्थः ॥ कप्पट्टिई इत्यादि, कल्पस्य कल्पाद्युक्तसाध्वाचारस्य सामायिकच्छेदोपस्थापनीयादे: स्थिति: मर्यादा कल्पस्थितिः । तत्र सामायिककल्पस्थिति:सिजायरपिंडे या १ चाउज्जामे य २ पुरिसजिढे य ३ । कीकम्मस्स य करणे ४ चत्तारि अवट्ठिया कप्पा ॥ [बृहत्कल्प० ६३६१] Page #136 -------------------------------------------------------------------------- ________________ ५३७ षष्ठमध्ययनं षट्स्थानकम् । सामायिकसाधूनामवश्यंभाविन इत्यर्थः । आचेलक्कु १ देसिय २ सपडिक्कमणे ३ य रायपिंडे ४ य । मासं ५ पज्जोसवणा ६ छप्पेतऽणवट्ठिया कप्पा ॥ [बृहत्कल्प० ६३६२] नावश्यंभाविन इत्यर्थः । छेदोपस्थापनीयकल्पस्थिति:- एतानि च तृतीयाध्ययनवज्ञयानि । निव्विसमाणकप्पट्ठिई निविट्ठकप्पट्टिइ त्ति परिहारविशुद्धिकल्पं वहमाना निर्विशमानकाः, यैरसौ व्यूढस्ते निर्विष्टास्तेषां या स्थिति: मर्यादा सा तथा, तत्र, परिहारिय छम्मासे तह अणुपरिहारिया वि छम्मासे । कप्पट्ठिओ छम्मासे एते अट्ठारसा मास ॥ [बृहत्कल्प० ६४७४] त्ति । तथा जिनकल्पस्थिति:गच्छम्मि उ निम्माया धीरा जाहे य गहियपरमत्था । अग्गह जोग्गअभिग्गहे उविंति जिणकप्पियचरित्तं ॥ [बृहत्कल्प० ६४८३] ति एवमादिका, अग्गह जोग्ग अभिग्गहेत्ति कासाञ्चित् पिण्डैषणानामग्रहे योग्यानां चाभिग्रहे अनयैव ग्राह्यमित्येवंरूपे गृहीतपरमार्था इत्यर्थः । स्थविरकल्पस्थिति:[संजमकरणुजोया उद्योगा: निप्फायग नाण-दसण-चरित्ते । दीहाउ वुड्डवासे वसहीदोसेहि य विमुक्का ॥ [बृहत्कल्प० ६४८५] इत्यादिका । [सू० ५३१] समणे भगवं महावीरे छट्टेणं भत्तेणं अपाणएणं मुंडे जाव पव्वइए । समणस्स णं भगवओ महावीरस्स छट्टेणं भत्तेणं अपाणएणं अणंते अणुत्तरे जाव समुप्पन्ने । समणे भगवं महावीरे छट्टेणं भत्तेणं अपाणएणं सिद्धे जाव सव्वदुक्खप्पहीणे३। [सू० ५३२] सणंकुमार-माहिंदेसु णं कप्पेसु विमाणा छ जोयणसयाई उडुंउच्चत्तेणं पन्नत्ता १ । Page #137 -------------------------------------------------------------------------- ________________ ५३८ सणंकुमार-माहिंदेसु णं कप्पेसु देवाणं भवधारणिजगा सरीरगा उक्कोसेणं छ रतणीओ उटुंउच्चत्तेणं पन्नत्ता २ । [टी०] इयं च कल्पस्थितिर्महावीरेण देशितेति सम्बन्धान्महावीरवक्तव्यतासूत्रत्रयम्, तथा अनेनेयमपरापि कल्पस्थितिर्दर्शितेति कल्पसूत्रद्वयमुपन्यस्तम्, सुगमं चैतत् पञ्चकमपि, नवरं षष्ठेन भक्तेन उपवासद्वयलक्षणेनाऽपानकेन पानीयपानपरिहारवता यावत्करणात् [निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदसणे'त्ति दृश्यम्, सिद्धे जाव त्ति करणात्] 'बुद्धे मुत्ते [अंतकडे परिनिव्वुडे'त्ति] दृश्यम् ।। [सू० ५३३] छव्विहे भोयणपरिणामे पन्नत्ते, तंजहा-मणुण्णे, रसिते, पीणणिजे, बिंहणिजे, दीवणिजे, दप्पणिजे । छव्विहे विसपरिणामे पन्नत्ते, तंजहा-डक्के, भुत्ते, निवतिते, मंसाणुसारी, सोणिताणुसारी, अट्ठिमिंजाणुसारी । [टी०] उक्तरूपेषु च देवशरीरेष्वाहारपरिणामोऽस्तीत्याहारपरिणामनिरूपणायाहछविहे भोयणेत्यादि, भोजनस्येति आहारविशेषस्य परिणाम: पर्याय: स्वभावो धर्म इति यावत, तत्र मणुन्ने त्ति मनोज्ञमभिलषणीयं भोजनमित्येकस्तत्परिणाम:. परिणामवता सहाभेदोपचारात्, तथा रसिकं माधुर्याद्युपेतम्, तथा प्रीणनीयं रसादिधातुसमताकारि, बृंहणीयं धातूपचयकारि, दीपनीयम् अग्निबलजनकम्, दर्पणीयं बलकरम्, उत्साहवृद्धिकरमित्यन्य इति । __परिणामाधिकारादायातं विषपरिणामसूत्रमप्येवम, नवरं डक्के त्ति दष्टस्य प्राणिनो दंष्ट्राविषादिना यत् पीडाकारि तद् दष्टं जङ्गमविषम्, यच्च भुक्तं सत् पीडयति तद् भुक्तमित्युच्यते, तच्च स्थावरम्, यत् पुनर्निपतितम् उपरि पतितं सत् पीडयति तन्निपतितं त्वग्विषं दृष्टिविषं चेति त्रिविधं स्वरूपतः, तथा किञ्चिन्मांसानुसारि मांसान्तधातुव्यापकं किञ्चिच्छोणितानुसारि तथैव किञ्चिच्चाऽस्थिमिञ्जानुसारि तथैवेति त्रिविधं कार्यतः, एवं च सति षड्विधं तत्, ततस्तत्परिणामोऽपि षोलैवेति ।। [सू० ५३४] छव्विहे पट्टे पन्नत्ते, तंजहा-संसयपट्टे, वुग्गहपट्टे, अणुजोगी, अणुलोमे, तहणाणे, अतहणाणे । Page #138 -------------------------------------------------------------------------- ________________ षष्ठमध्ययनं षट्स्थानकम् । ५३९ [टी०] एवंभूतार्थानां च निर्णयो निरतिशयस्याऽऽप्तप्रश्नतो भवतीति प्रश्नविभागमाहछव्विहेत्यादि, प्रच्छनं प्रश्नः, तत्र संशयप्रश्नः क्वचिदर्थे संशये सति यो विधीयते यथा जइ तवसा वोदाणं संजमओऽणासवो त्ति ते कह णु । देवत्तं जंति जई ? गुरुराह सरागसंजमओ ॥ [ ] व्युद्ग्रहेण मिथ्याभिनिवेशेन विप्रतिपत्त्येत्यर्थः, परपक्षदूषणार्थं य: क्रियते प्रश्न: स व्युद्ग्रहप्रश्नः, यथा सामन्नाउ विसेसो अन्नोऽणन्नो व होज जइ अन्नो । सो नत्थि खपुप्फ पिवऽणन्नो सामन्नमेव तयं ॥ [विशेषाव० ३४] ति । __अनुयोगीति अनुयोगो व्याख्यानं प्ररूपणेति यावत् स यत्रास्ति तदर्थं य: क्रियत इति भावः, यथा- चउहिं समएहिं लोगो इत्यादिप्ररूपणाय कइहिं समएहीत्यादि ग्रन्थकार एव प्रश्नयति, अनुलोमो अनुलोमनार्थम् अनुकूलकरणाय परस्य यो विधीयते, यथा क्षेमं भवतामित्यादि, तहनाणे त्ति यथा प्रच्छनीयार्थे प्रष्टव्यस्य ज्ञानं तथैव प्रच्छकस्यापि ज्ञानं यत्र प्रश्ने स तथाज्ञानः, जानत्प्रश्न इत्यर्थः, स च गौतमादेः यथा केवइकालेणं भंते ! चमरचंचा रायहाणी विरहिया उववाएण [ ] मित्यादिरिति, एतद्विपरीतस्त्वतथाज्ञानोऽजानत्प्रश्न इत्यर्थः, क्वचित् छव्विहे अढे इति पाठस्तत्र संशयादिभिरर्थो विशेषणीय इति । [सू० ५३५] चमरचंचा णं रायहाणी उक्कोसेणं छम्मासा विरहिता उववातेणं। एगमेगे णं इंदट्ठाणे उक्कोसेणं छम्मासे विरहिते उववातेणं । अधेसत्तमा णं पुढवी उक्कोसेणं छम्मासा विरहिता उववातेणं । सिद्धिगती णं उक्कोसेणं छम्मासा विरहिता उववातेणं । [टी०] इहानन्तरसूत्रे तथाज्ञानप्रश्नो दर्शितस्तत्र चोत्तरवस्तुना भाव्यमिति तद् दर्शयतिचमरचंचेत्यादि, चमरस्य दाक्षिणात्यस्यासुरनिकायनायकस्य चञ्चा चञ्चाख्या नगरी चमरचञ्चा, या हि जम्बूद्वीपमन्दरस्य पर्वतस्य दक्षिणेन तिर्यगसङ्ख्येयान् द्वीपसमुद्रान व्यतिव्रज्यारुणवरद्वीपस्य बाह्याद् वेदिकान्तादरुणोदं समुद्रं द्विचत्वारिंशद्योजनसहस्राण्यवगाह्य चमरस्यासुरराजस्य तिगिंच्छिकूटो नामा य उत्पातपर्वतोऽस्ति Page #139 -------------------------------------------------------------------------- ________________ ५४० सप्तदशैकविंशत्युत्तराणि योजनशतान्युच्चस्तस्य दक्षिणेन षड् योजनकोटीशतानि साधिकान्यरुणोदे समुद्रे तिर्यग् व्यतिव्रज्याधो रत्नप्रभाया: पृथिव्याः चत्वारिंशतं योजनसहस्राण्यवगाह्य व्यवस्थिता जम्बूद्वीपप्रमाणा च, सा चमरचञ्चा राजधानी उत्कृष्टेन षण्मासान् विरहिता वियुक्ता उपपातेन, इहोत्पद्यमानदेवानां षण्मासान् यावद्विरहो भवतीति भावः । __विरहाधिकारादिदं सूत्रत्रयम्- एगेत्यादि, एकैकमिन्द्रस्थानं चमरादिसम्बन्ध्याश्रयो भवन-नगर-विमानरूपस्तदुत्कर्षेण षण्मासान् यावद्विरहितमुपपातेनेन्द्रापेक्षयेति । अधःसप्तमीत्यत्र सप्तमी हि रत्नप्रभापि कथञ्चिद्भवतीति तद्व्यवच्छेदार्थमधोग्रहणं अतस्तमस्तमेत्यर्थः, सा षण्मासान् विरहितोपपातेन, यदाह चउवीसई मुहुत्ता १ सत्त अहोरत्त २ तह य पन्नरस ३ । मासो य ४ दो य ५ चउरो ६ छम्मासा विरहकालो उ ७ ॥ [बृहत्सं० २८१] इति । सिद्धिगतावुपपातो गमनमात्रमुच्यते न जन्म, तद्धेतूनां सिद्धस्याभावादिति, इहोक्तम्एगसमओ जहन्नं उक्कोसेणं हवंति छम्मासा । विरहो सिद्धिगईए उव्वदृणवज्जिया नियमा ॥ [बृहत्सं० ३४५] इति । शेषं सुगममिति। [सू० ५३६] छव्विधे आउयबंधे पन्नत्ते, तंजहा-जातिणामनिधत्ताउते, गतिणामणिधत्ताउते, ठितिनामनिधत्ताउते, ओगाहणाणामनिधत्ताउते, पदेसणामनिधत्ताउते, अणुभावणामनिहत्ताउते । नेरतियाणं छव्विहे आउयबंधे पन्नत्ते, तंजहा-जातिणामनिहत्ताउते जाव अणुभावनामणिहत्ताउए । एवं जाव वेमाणियाणं । नेरइया णियमं छम्मासावसेसाउता परभवियाउयं पगरेति । एवं असुरकुमारा वि जाव थणियकुमारा । असंखेजवासाउयसन्निपंचेंदियतिरिक्खजोणिया णियमं छम्मासावसेसाउया परभवियाउयं पगरेंति । असंखेजवासाउया सन्निमणुस्सा नियमं जाव पगरेंति। वाणमंतरा जोतिसिता वेमाणिता जधा णेरतिता । [टी०] अनन्तरमुपपातस्य विरह उक्त:, उपपातश्चायुर्बन्धे सति भवतीत्यायुर्बन्धसूत्रप्रपञ्च Page #140 -------------------------------------------------------------------------- ________________ षष्ठमध्ययनं षट्स्थानकम् । ५४१ छव्विहेत्यादिकमाह, सुगमश्चायम्, नवरम् आयुषो बन्ध: आयुर्बन्धः, तत्र जाति: एकेन्द्रियजात्यादि: पञ्चधा, सैव नाम नाम्न: कर्मण उत्तरप्रकृतिविशेषो जीवपरिणामो वा तेन सह निधत्तं निषिक्तं यदायुस्तजातिनामनिधत्तायुः, निषेकश्च कर्मपुद्गलानां प्रतिसमयानुभवनरचनेति, उक्तं च मोत्तूण सगमबाहं पढमाए ठिईए बहुतरं दव्वं । सेसे विसेसहीणं जावुक्कस्संति सव्वासिं ॥ [कर्मप्र० ] इति, ०० ००० स्थापना चेयम्- .. तथा गति: नरकादिका चतुर्द्धा, शेषं तथैवेति गतिनामनिधत्तायुरिति, तथा स्थितिरिति यत् स्थातव्यं केनचिद्विवक्षितेन भावेन जीवेनायु:कर्मणा वा सैव नाम: परिणामो धर्मः स्थितिनामस्तेन विशिष्टं निधत्तं यदायु:दलिकरूपं तत् स्थितिनामनिधत्तायुः, तथा अवगाहते यस्यां जीव: सा अवगाहना शरीरमौदारिकादि तस्या नाम औदारिकादिशरीरनामकर्मेत्यवगाहनानाम तेन सह यन्निधत्तमायुस्तदवगाहनानाम-निधत्तायुरिति, तथा प्रदेशानाम् आयु:कर्मद्रव्याणां नाम: तथाविधा परिणति: प्रदेशनाम प्रदेशरूपं वा नामकर्मविशेष इत्यर्थः प्रदेशनाम, तेन सह यन्निधत्तमायुस्तत् प्रदेशनामनिधत्तायुरिति, तथा अनुभाग: आयुर्द्रव्याणामेव विपाकस्तल्लक्षण एव नाम: परिणामोऽनुभागनामः, अनुभागरूपं वा नामकर्मानुभागनाम, तेन सह निधत्तं यदायुस्तदनुभागनामनिधत्तायुरिति । __अथ किमर्थं जात्यादिनामकर्मणाऽऽयुर्विशेष्यते ?, उच्यते, आयुष्कस्य प्राधान्योपदर्शनार्थम्, यस्मान्नारकाद्यायुरुदये सति जात्यादिनामकर्मणामुदयो भवति, नारकादिभवोपग्राहकं चायुरेव, यस्मादुक्तं प्रज्ञप्त्याम्- नेरइए णं भंते नेरइएसु उववज्जइ? अनेरइए नेरइएसु उववजइ ?, गोयमा ! नेरइए नेरइएसु उववजइ [भगवती० ४।९।१], एतदुक्तं भवति- नारकायु:संवेदनप्रथमसमय एव नारक इत्युच्यते, तत्सहचारिणां च पञ्चेन्द्रियजात्यादिनामकर्मणामप्युदय इति, इह चायुर्बन्धस्य षड्विधत्वे उपक्षिप्ते यदायुषः षड्विधत्वमुक्तं तद् आयुषो बन्धाव्यतिरेकाद् बद्धस्यैव चायुर्व्यपदेशविषयत्वादिति । Page #141 -------------------------------------------------------------------------- ________________ ५४२ नियमं ति अवश्यंभावादित्यर्थः, छम्मासावसेसाउय त्ति षण्मासा अवशेषा अवशिष्टा यस्य तत्तथा तदायुर्वेषां ते षण्मासावशेषायुष्काः, परभवो विद्यते यस्मिंस्तत् परभविकं तच्च तदायुश्चेति परभविकायुः प्रकुर्वन्ति बध्नन्ति, असङ्ख्येयानि वर्षाण्यायुर्येषां ते तथा ते च ते संज्ञिनश्च समनस्का: पञ्चेन्द्रियतिर्यग्योनिकाश्चेत्यसङ्ख्येयवर्षायुष्कसंज्ञिपञ्चेन्द्रियतिर्यग्योनिकाः, इह च संज्ञिग्रहणमसङ्ख्येयवर्षायुष्का: संज्ञिन एव भवन्तीति नियमदर्शनार्थम्, न त्वसङ्ख्येयवर्षायुषामसंज्ञिनां व्यवच्छेदार्थम्, तेषामभावादेवेति। एवमसङ्ख्येयवर्षायुष्कसंज्ञिपञ्चेन्द्रियमनुष्याऽपि वाच्या। शेषं वृत्तौ। [सू० ५३७] छव्विधे भावे पन्नत्ते, तंजहा-ओदतिते, उवसमिते, खतिते, खतोवसमिते, पारिणामिते, सन्निवाइए । [टी०] अनन्तरमायु:कर्मबन्ध उक्तः, आयु: पुनरौदयिकभावहेतुरित्यौदयिकभावं भावसाधाच्छेषभावांश्च प्रतिपादयन्नाह- छव्विहे भावे इत्यादि, भवनं भाव: पर्याय इत्यर्थः, तत्रौदयिको द्विविधः- उदय उदयनिष्पन्नश्च, तत्रोदयोऽष्टानां कर्मप्रकृतीनामुदय: शान्तावस्थापरित्यागेनोदीरणावलिकामतिक्रम्योदयावलिकायामात्मीयात्मीयरूपेण विपाक इत्यर्थः, अत्र चैवं व्युत्पत्ति:- उदय एवौदयिकः, उदयनिष्पन्नस्तु कर्मोदयजनितो जीवस्य मानुषत्वादि: पर्यायः, तत्र च उदयेन निर्वृत्तस्तत्र वा भव इत्यौदयिकः इत्येवं व्युत्पत्तिरिति, तथा औपशमिकोऽपि द्विविध:- उपशम उपशमनिष्पन्नश्च, तत्रोपशमो मोहनीयकर्मणोऽनन्तानुबन्ध्यादिभेदभिन्नस्योपशमश्रेणिप्रतिपन्नस्य मोहनीयभेदान् अनन्तानुबन्ध्यादीनुपशमयतः उदयाभाव इत्यर्थः, उपशम एवौपशमिकः, उपशमनिष्पन्नस्तु उपशान्तक्रोध इत्यादिरुदयाभावफलरूप आत्मपरिणाम इति भावना, तत्र च व्युत्पत्ति:उपशमेन निवृत्त औपशमिक इति, तथा क्षायिको द्विविध:- क्षय: क्षयनिष्पन्नश्च, तत्र क्षयोऽष्टानां कर्मप्रकृतीनां ज्ञानावरणादिभेदानां क्षयः काभाव एवेत्यर्थः, तत्र क्षय एव क्षायिकः, क्षयनिष्पन्नस्तु तत्फलरूपो विचित्र आत्मपरिणामः केवलज्ञान-दर्शनचारित्रादिः, तत्र क्षयेण निर्वृत्तः क्षायिक इति व्युत्पत्तिः, तथा क्षायोपशमिको द्विविध:-क्षयोपशमः क्षयोपशमनिष्पन्नश्च, तत्र क्षयोपशमश्चतुर्णां घातिकर्मणां केवलज्ञानप्रतिबन्धकानां ज्ञानावरण-दर्शनावरण-मोहनीया-ऽन्तरायाणाम्, क्षयोपशम इह उदीर्णस्य Page #142 -------------------------------------------------------------------------- ________________ षष्ठमध्ययनं षट्स्थानकम् । ५४३ क्षयोऽनुदीर्णस्य च विपाकमधिकृत्योपशम इति गृह्यते, आह- औपशमिकोऽप्येवंभूत एव, नैवम्, तत्रोपशान्तस्य प्रदेशानुभवतोऽप्यवेदनाद् अस्मिंश्च वेदनादिति, अयं च क्षयोपशम: क्रियारूप एवेति, क्षयोपशम एव क्षायोपशमिकः, क्षयोपशमनिष्पन्नस्त्वाभिनिबोधिकज्ञानादिलब्धिपरिणाम आत्मन एव, क्षयोपशमेन निवृत्त: क्षायोपशमिक: इति च व्युत्पत्तिरिति । तथा परिणमनं परिणाम: अपरित्यक्तपूर्वावस्थस्यैव तद्भावगमनमित्यर्थः, स एव पारिणामिक इत्युच्यते, स च साद्यनादिभेदेन द्विविधः, तत्र सादि: जीर्णघृतादीनाम्, तद्भावस्य सादित्वादिति, अनादिपारिणामिकस्तु धर्मास्तिकायादीनाम्, तद्भावस्य तेषामनादित्वादिति । तथा सन्निपातो मेलकस्तेन निर्वृत्त: सान्निपातिकः, अयं चैषां पञ्चानामौदयिकादिभावानां व्यादिसंयोगत: सम्भवासम्भवानपेक्षया षड्विंशतिभङ्गरूप:, तत्र द्विकसंयोगे दश, त्रिकसंयोगेऽपि दशैव, चतुष्कसंयोगे पञ्च, पञ्चकसंयोगे त्वेक एवेत्यादि विस्तरो वृत्तौ। [सू० ५३८] छव्विहे पडिक्कमणे पन्नत्ते, तंजहा-उच्चारपडिक्कमणे, पासवणपडिक्कमणे, इत्तिरिते, आवकहिते, जंकिंचिमिच्छा, सोमणंतिते । [टी०] अनन्तरं भावा उक्तास्तेषु चाप्रशस्तेषु यद् वृत्तं यच्च प्रशस्तेषु न वृत्तं विपरीतश्रद्धान-प्ररूपणे वा ये कृते तत्र प्रतिक्रमितव्यं भवतीति प्रतिक्रमणमाह- छव्विहे पडिक्कमणे इत्यादि, प्रतिक्रमणं द्वितीयप्रायश्चित्तभेदलक्षणं मिथ्यादुष्कृतकरणमिति भावः, तत्रोच्चारोत्सर्गं विधाय यदीर्यापथिकीप्रतिक्रमणं तदुच्चारप्रतिक्रमणम्, एवं प्रश्रवणविषयमपीति, इत्तरियं ति इत्वरं स्वल्पकालिकं दैवसिक-रात्रिकादि, आवकहियंति यावत्कथिकं यावज्जीविकं महाव्रत-भक्तपरिज्ञादिरूपम्, प्रतिक्रमणत्वं चास्य विनिवृत्ति-लक्षणान्वर्थयोगादिति, जंकिंचिमिच्छ त्ति खेल-सिंघानाविधिनिसर्गाऽऽभोगा-ऽनाभोगसहसाकाराद्यसंयमस्वरूपं यत्किञ्चिन्मिथ्या असम्यक तद्विषयं मिथ्येदमित्येवं-प्रतिपत्तिपूर्वकं मिथ्यादुष्कृतकरणं यत्किञ्चिन्मिथ्याप्रतिक्रमणमिति, तथा सोमणंतिए त्ति स्वापनान्तिकं स्वपनस्य सुप्तिक्रियाया अन्ते अवसाने भवं स्वापनान्तिकम्, सुप्तोत्थिता हि ईर्यां प्रतिक्रामन्ति साधव इति, अथवा स्वप्नो निद्रावशविकल्पस्तस्याऽन्तो विभाग: स्वप्नान्तस्तत्र भवं स्वाप्नान्तिकम्, स्वप्नविशेष Page #143 -------------------------------------------------------------------------- ________________ ५४४ हि प्रतिक्रमणं कुर्वन्ति साधवः, यदाह गमणागमण विहारे सुत्ते वा सुमिणदंसणे राओ । नावानइसंतारे इरियावहियापडिक्कमणं ॥ [आव० नि० १५४७] यत:- आउलमाउलाए सोवणवत्तियाए [आव० सू०] इत्यादि प्रतिक्रमणसूत्रम्, तथा स्वप्नकृतप्राणातिपातादिष्वन्वर्थगत्या प्रतीपक्रमणरूपकार्योत्सर्गलक्षणप्रतिक्रमणमेवमुक्तम्। सू० ५३९] कत्तिताणक्खत्ते छतारे पण्णत्ते । असिलेसाणक्खत्ते छतारे पन्नत्ते । [सू० ५४०] जीवा णं छट्ठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा ३, तंजहा-पुढविकाइयनिव्वत्तिते जाव तसकाइयणिव्वत्तिते । एवंचिण उवचिण बंध उदीर वेय तध निजरा चेव । छप्पतेसिया णं खंधा अणंता पण्णत्ता । छप्पदेसोगाढा पोग्गला अणंता पण्णत्ता । छस्समयट्टितीता पोग्गला अणंता पण्णत्ता । छग्गुणकालगा पोग्गला जाव छग्गुणलुक्खा पोग्गला अणंता पण्णत्ता । ॥ छट्ठाणं छ?मज्झयणं समत्तं ॥ अनन्तरं प्रतिक्रमणमुक्तम्, तच्चावश्यकमप्युच्यते, आवश्यकं च नक्षत्रोदयाद्यवसरे कुर्वन्तीति नक्षत्रसूत्रं शेषसूत्राणि चा अध्ययनपरिसमाप्तेः पूर्वाध्ययनवदवसेयानीति । इति श्रीमत्तपागच्छाधिराजभट्टारकपुरन्दरसूरीश्वरश्रीविजयसेनसूरिराज्ये श्रीमत्तपागच्छश्रृंगारहारसूरीश्वरश्रीविजयदेवसूरियौवराज्ये पण्डितश्रीकुशलवर्धनगणिशिष्यनगर्षिगणिना स्ववाचनपरोपकारकृते कृतोद्धाररूपयां श्रीसकलवाचकशिरोमणिमहोपाध्यायश्रीविमलहर्षगणिभिः संशोधितायां सुखावबोधायां श्रीस्थानाङ्गदीपिकायां षट्स्थानकाख्यं षष्ठमममध्ययनं समाप्तम्। Page #144 -------------------------------------------------------------------------- ________________ ५४५ अथ सप्तममध्ययनं सप्तस्थानकम् । [सू० ५४१] सत्तविधे गणावक्कमणे पन्नत्ते, तंजहा-सव्वधम्मा रोएमि १, एगतिता रोएमि, एगइया णो रोएमि २, सव्वधम्मा वितिगिच्छामि ३, एगतिता वितिगिच्छामि, एगतिता नो वितिगिच्छामि ४, सव्वधम्मा जुहुणामि ५, एगतिता जुहुणामि, एगइया णो जुहुणामि ६, इच्छामि णं भंते ! एगल्लविहारपडिमं उवसंपजित्ता णं विहरित्तते ७ । [टी०] व्याख्यातं षष्ठमध्ययनमधुना सप्तममारभ्यते, अस्य चायमभिसम्बन्ध:इहानन्तराध्ययने षट्सङ्ख्योपेता: पदार्थाः प्ररूपिता:, इह तु त एव सप्तसङ्ख्योपेता: प्ररूप्यन्त इत्येवंसम्बन्धस्यास्य चतुरनुयोगद्वारस्येदमादिसूत्रम्- सत्तविहेत्यादि । अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः- अनन्तरसूत्रे पुद्गला: पर्यायत उक्ताः, इह तु पुद्गलविशेषाणामेव क्षयोपशमतो योऽनुष्ठानविशेषो जीवस्य भवति तस्य सप्तविधत्वमुच्यते इत्येवंसम्बन्धस्यास्य व्याख्या, संहितादिस्तु तत्क्रम: प्रतीत एव, नवरं सप्तविधं सप्तप्रकारं प्रयोजनभेदेन भेदात् गणाद् गच्छादपक्रमणं निर्गमो गणापक्रमणं प्रज्ञप्तं तीर्थकरादिभिः, तद्यथा- सर्वान् धर्मान् निर्जराहेतून् श्रुतभेदान् सूत्रार्थोभयविषयान् अपूर्वग्रहण-विस्मृतसन्धान-पूर्वाधीतपरावर्तनरूपान् चारित्रभेदांश्च क्षपण-वैयावृत्यरूपान् रोचयामि रुचिविषयीकरोमि चिकीर्षामि, ते चामुत्र परगणे सम्पद्यन्ते नेह स्वगणे, बहुश्रुतादि-सामग्र्यभावाद्, ‘अतस्तदर्थं स्वगणादपक्रामामि भदन्त !' इत्येवं गुरुपृच्छाद्वारेणैकं गणापक्रमणमुक्तम् १, अथ ‘सर्वधर्मान् रोचयामी'त्युक्ते कथं पृच्छार्थोऽवगम्यते इति?, उच्यते, ‘इच्छामि णं भंते ! एकल्लविहारपडिम'मित्यादिपृच्छावचन-साधर्म्यादिति, रुचेस्तु करणेच्छार्थता पत्तियामि रोएमी'त्यत्र व्याख्यातैवेति, क्वचित्तु ‘सव्वधम्मं जाणामि, एवं पि एगे अवक्कमे' इत्येवं पाठः, तत्र ‘ज्ञानी अहमिति किं गणेन' इति मदादपक्रामति १, तथा एगइय त्ति एककान् कांश्चन श्रुतधर्मांश्चारित्रधर्मान् वा रोचयामि चिकीर्षामि एककांश्च श्रुतधर्मांश्चारित्रधर्मान् वा नो रोचयामिन चिकीर्षामीत्यतश्चिकीर्षितधर्माणां स्वगणे करणसामग्र्यभावादपक्रामामि भदन्त इति द्वितीयम् २, तथा सर्वधर्मान् उक्तलक्षणान् विचिकित्सामि Page #145 -------------------------------------------------------------------------- ________________ ५४६ संशयविषयीकरोमीत्यतः संशयापनोदार्थं गणादपक्रामामीति तृतीयम् ३, एवमेककान् विचिकित्सामि, एककान् नो विचिकित्सामीति चतुर्थम् ४, तथा जुहुणामित् जुहोमि अन्येभ्यो ददामि, न च स्वगणे पात्रमस्त्यतोऽपक्रामामीति पञ्चमम् ५, एवं षष्ठमपि ६, तथा इच्छामि णं भदन्त ! धर्माचार्य ! एकाकिनो गच्छनिर्गतत्वाज्जिनकल्पकादितया यो विहारो विचरणं तस्य या प्रतिमा प्रतिपत्तिः प्रतिज्ञा सा एकाकिविहारप्रतिमा तामुपसम्पद्य अङ्गीकृत्य विहर्त्तुमिति सप्तममिति ७ । उक्तं च नाट्ठ दंसणट्ठा चरणट्ठा एवमाइ संकमणं । संभोगट्ठा व पुणो आयरियट्ठा व णायव्वं ॥ [ निशीथ० ५४५८ ] इति । तत्र ज्ञानार्थम् सुत्तस्स व अत्थस्स व उभयस्स व कारणा उ संकमणं । वीसज्जियस्स गमणं भीओ य नियत्तए कोइ ॥ [ निशीथ० ५४५९ ] इति । दर्शनप्रभावकशास्त्रार्थं दर्शनार्थम् । चारित्रार्थं यथा चरितट्ठ देसि दुविहा, देशे द्विविधा दोषा इत्यर्थः, एसणदोसा य इत्थिदोसा य । ततो गणापक्रमणं भवति, गच्छम्मि य सीयंते आयसमुत्थेहिं दोसेहिं ॥ [ निशीथ० ५५३९] इति । सम्भोगार्थं नाम यत्रोपसम्पन्नस्ततोऽपि विसम्भोगकारणे सदनलक्षणे सत्यपक्रामतीति, आचार्यार्थं नामाऽऽचार्यस्य महाकल्पश्रुतादि श्रुतं नास्त्यतस्तदध्यापनाय शिष्यस्य गणान्तरसङ्क्रमो भवतीति, इह च स्वगुरुं पृष्ट्वैव विसर्जितेनापक्रमितव्यमिति सर्वत्र पृच्छार्थो व्याख्येयः, उक्तकारणवशात् पक्षादिकालात् परतोऽविसर्जितोऽपि गच्छेदिति, निष्कारणं गणापक्रमणं त्वविधेयम्, यतः आयरियाईण भया च्छित्तभया न सेवड़ अकिच्चं । वेयावच्चज्झयणेसु सज्जए तदुवओगेणं ॥ [ निशीथ० ५४५५] सूत्रार्थोपयोगेनेत्यर्थः, तथाएगो इत्थीगम्मो तेणादिभया य अल्लिययगारे गृहस्थान् । कोहादी व उदिन्ने परिनिव्वावंति से अन्ने | [निशीथ० ५४५६ ] त्ति । [सू० ५४२] सत्तविधे विभंगणाणे पन्नत्ते, तंजहा - एगदिसिं लोगाभिगमे, Page #146 -------------------------------------------------------------------------- ________________ सप्तममध्ययनं सप्तस्थानकम् । ५४७ पंचदिसिं लोगाभिगमे, किरियावरणे जीवे, मुदग्गे जीवे, अमुदग्गे जीवे, रूवी जीवे, सव्वमिणं जीवा । ___तत्थ खलु इमे पढमे विभंगणाणे- जया णं तहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पजति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं पासति पातीणं वा पडिणं वा दाहिणं वा उदीणं वा उर्ल्ड वा जाव सोहम्मे कप्पे, तस्स णमेवं भवति-अत्थि णं मम अतिसेसे णाणदंसणे समुप्पन्नेएगदिसिं लोगाभिगमे, संतेगतिता समणा वा माहणा वा एवमाहंसु- पंचदिसिं लोगाभिगमे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, पढमे विभंगणाणे । __ अहावरे दोच्चे विभंगणाणे-जता णं तधारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पजति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं पासति पातीणं वा पडिणं वा दाहिणं वा उदीणं वा उढे जाव सोहम्मे कप्पे, तस्स णमेवं भवति-अत्थि णं मम अतिसेसे णाणदंसणे समुप्पन्ने- पंचदिसिं लोगाभिगमे, संतेगतिता समणा वा माहणा वा एवमाहंसु- एगदिसिं लोगाभिगमे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, दोच्चे विभंगणाणे । अधावरे तच्चे विभंगणाणे-जया णं तधारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पजति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं पासति पाणे अतिवातेमाणे मुसं वतमाणे अदिनमादितमाणे मेहुणं पडिसेवमाणे परिग्गहं परिगेण्हमाणे रातिभोयणं भुंजमाणे वा, पावं च णं कम्मं कीरमाणं णो पासति, तस्स णमेवं भवति-अत्थि णं मम अतिसेसे णाणदंसणे समुप्पन्ने- किरितावरणे जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसुनो किरितावरणे जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, तच्चे विभंगणाणे। ___ अधावरे चउत्थे विभंगणाणे-जया णं तधारूवस्स समणस्स वा माहणस्स वा जाव समुप्पजति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासति, बाहिरभंतरए पोग्गले परितादितित्ता पुढेगत्तं णाणत्तं फुसिता फुरित्ता फुडित्ता विकुव्वित्ताणं चिट्ठित्तते, तस्स णमेवं भवति-अत्थि णं मम अतिसेसे Page #147 -------------------------------------------------------------------------- ________________ ५४८ णाणदंसणे समुप्पन्ने- मुदग्गे जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु-अमुदग्गे जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, चउत्थे विभंगनाणे । अहावरे पंचमे विभंगणाणे-जया णं तधारूवस्स समणस्स जाव समुप्पजति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासति, बाहिरब्भंतरए पोग्गले अपरितादितित्ता पुढेगत्तं णाणत्तं जाव विकुग्वित्ताणं चिट्ठित्तते, तस्स णमेवं भवति-अत्थि जाव समुप्पन्ने- अमुदग्गे जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु-मुदग्गे जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, पंचमे विभंगणाणे । अहावरे छठे विभंगणाणे-जया णं तधारूवस्स समणस्स वा माहणस्स वा जाव समुप्पजति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासति, बाहिरब्भंतरते पोग्गले परितादितित्ता वा अपरियादितित्ता वा पुढेगत्तं णाणत्तं फुसित्ता जाव विकुव्वित्ताणं चिट्ठित्तते, तस्स णमेवं भवति-अत्थि णं मम अतिसेसे णाणदंसणे समुप्पन्ने- रूवी जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु-अरूवी जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, छठे विभंगणाणे । __ अहावरे सत्तमे विभंगणाणे-जया णं तहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पजति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं पासति सुहुमेणं वायुकातेणं फुडं पोग्गलकायं एतंतं वेतंतं चलंतं खुब्भंतं फंदंतं घटुंतं उदीरेंतं तं तं भावं परिणमंतं, तस्स णमेवं भवति-अत्थि णं मम अतिसेसे णाणदंसणे समुप्पन्ने- सव्वमिणं जीवा, संतेगतिता समणा वा माहणा वा एवमाहंसु-जीवा चेव अजीवा चेव, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, तस्स णमिमे चत्तारि जीवनिकाया णो सम्ममुवगता भवंति, तंजहापुढविकाइया जाव वाउकाइया, इच्चेतेहिं चउहिं जीवनिकाएहिं मिच्छादंडं पवत्तेइ, सत्तमे विभंगणाणे । Page #148 -------------------------------------------------------------------------- ________________ सप्तममध्ययनं सप्तस्थानकम् । ५४९ [टी०] एवं श्रद्धानस्थैर्याद्यर्थमन्यथा वा गणादपक्रान्तस्य कस्यापि विभङ्गज्ञानं स्यादिति तस्य भेदानाह- सत्तविहेत्यादि, सप्तविधं सप्तप्रकार विरुद्धो वितथो वा अयथा वस्तुभङ्गो वस्तुविकल्पो यस्मिंस्तद्विभङ्गं तच्च तज्ज्ञानं च साकारत्वादिति विभङ्गज्ञानं मिथ्यात्वसहितावधिरित्यर्थः, एगदिसिं ति एकस्यां दिशि, एकया दिशा पूर्वादिकयेत्यर्थः, लोकाभिगमो लोकावबोध इत्येकं विभङ्गज्ञानम्, विभङ्गता चास्य शेषदिक्षु लोकस्यानभिगमेन तत्प्रतिषेधनादिति १ । तथा पञ्चसु दिक्षु लोकाभिगमो नैकस्यां दिशीति, इहापि विभङ्गता एकदिशि लोकनिषेधादिति २ । क्रियामात्रस्यैव प्राणातिपातादेर्जीवैः क्रियमाणस्य दर्शनात्तद्धेतुकर्मणश्चादर्शनात् क्रियैवावरणं कर्म यस्य स क्रियावरण:, कोऽसौ? जीव इत्यवष्टम्भपरं यद्विभङ्गं तत्तृतीयम्, विभङ्गता चास्य कर्मणोऽदर्शनेनानभ्युपगमादेवमुत्तरत्रापि विभङ्गताऽवसेयेति ३ । मुयग्गे त्ति बाह्याभ्यन्तरपुद्गलरचितशरीरो जीव इत्यवष्टम्भवत्, भवनपत्यादिदेवानां बाह्याभ्यन्तरपुद्गलपर्यादानतो वैक्रियकरणदर्शनादिति चतुर्थम् ४ । अमुदग्गे जीवे त्ति देवानां बाह्याभ्यन्तरपुद्गलादानविरहेण वैक्रियवतां दर्शनाद् अबाह्याभ्यन्तरपुद्गलरचितावयवशरीरो जीव इत्यवसायवत् पञ्चमम् ५ । तथा रूवी जीवे त्ति देवानां वैक्रियशरीरवतां दर्शनाद्रूप्येव जीव इत्येवमवष्टम्भवत् षष्ठमिति ६ । तथा सव्वमिणं जीव त्ति वायुना चलत: पुद्गलकायस्य दर्शनात् सर्वमेवेदं वस्तु जीवा एव, चलनधर्मोपेतत्वादित्येवं निश्चयवत् सप्तममिति सङ्ग्रहवचनमेतत् ७ । तत्थेत्यादि त्वेतस्यैव विवरणवचनमुत्तानार्थमेव, नवरं तत्थ त्ति तेषु सप्तसु मध्ये जया णं ति यस्मिन् काले से णं ति इह तदेति गम्यते स विभंगी पासइ त्ति उपलक्षणत्वाज्जानातीति च, अन्यथा ज्ञानत्वं विभङ्गस्य न स्यादिति, पाईणं वेत्यादौ वा विकल्पार्थः, उड्ढं जाव सोहम्मो कप्पो इत्यनेन सौधर्मात् परतः किल प्रायो बालतपस्विनो न पश्यन्तीति दर्शितम्, तथाऽवधिमतोऽप्यधोलोको दुरधिगमो विभङ्गज्ञानिनस्तु सुतरामित्यधोदिग्दर्शनमिह नाभिहितम्, दुरधिगम्यता चाधोलोकस्य त्रिस्थानकेऽभिहितेति, एवं भवइ त्ति एवंविधो विकल्पो भवति, यदुत- अस्ति मे अतिशेषं शेषाण्यतिक्रान्तं सातिशयमित्यर्थो ज्ञानं च दर्शनं च ज्ञानेन वा दर्शनं Page #149 -------------------------------------------------------------------------- ________________ ५५० ज्ञानदर्शनम्, ततश्चैकदिशो दर्शनेन तत्रैव लोकस्योपलम्भादाह- एकदिशि लोकाभिगम इति, एकदिग्मात्र एव लोकस्तथोपलम्भादिति भावः, सन्ति विद्यन्ते एकके श्रमणा वा ब्राह्मणा वा, ते चैवमाहुः- अन्यास्वपि पञ्चसु दिक्षु लोकाभिगमो भवति, तास्वपि तस्य विद्यमानत्वात्, ये ते एवमाहुः यदुत- पञ्चस्वपि दिक्षु लोकाभिगमो मिथ्या ते एवमाहुरिति प्रथमं विभङ्गज्ञानमिति १। अथापरं द्वितीयम्, तत्र पाईणं वेत्यादौ वाशब्दश्चकारार्थो द्रष्टव्यः, विकल्पार्थत्वे तु पञ्चानां दिशां पश्यत्ता न गम्यते, एकस्या एव च गम्यते, तथा च प्रथम-द्वितीययोर्विभङ्गयो/दो न स्यादिति, क्वचिद् वाशब्दा न दृश्यन्त एवेति २ । प्राणानतिपातयमानानित्यादिषु जीवानिति गम्यते, नो किरियावरणे त्ति अपि तु कर्मावरण इति ३ । देवामेव त्ति देवानेव भवनवास्यादीनेव बाहिरब्भंतरे त्ति बाह्यान् शरीरावगाहक्षेत्राद् अभ्यन्तरान् अवगाहक्षेत्रस्थान् पुद्गलान् वैक्रियवर्गणारूपान् पर्यादाय परि समन्तात् वैक्रियसमुद्घातेनाऽऽदाय गृहीत्वा, पुढेगत्तं ति पृथक्काल-देशभेदेन कदाचित् क्वचिदित्यर्थः, एकत्वम् एकरूपत्वं नानात्वं नानारूपत्वं विकृत्य उत्तरवैक्रियतया चितॄत्तए त्ति स्थातुम् आसितुं प्रवृत्तानिति वाक्यशेष इति सम्बन्धः, कथं विकृत्येत्याह- फुसित्ता तानेव पुद्गलान् स्पृष्ट्वा, तथाऽऽत्मना स्फुरित्वा वीर्यमुल्लास्य पुद्गलान् वा स्फोरयित्वा, तथा स्फुटित्वा प्रकाशीभूय, पुद्गलान् वा स्फोटयित्वा, किमुक्तं भवति ? विकुळ वैक्रियं कृत्वा न त्वौदारिकतयेति, तस्येति विभङ्गज्ञानिनो बाह्याभ्यन्तरपुद्गलपर्यादानप्रवृत्तदेवान् पश्यत एवं भवति इति विकल्पो जायते, मुदग्गे त्ति बाह्याभ्यन्तरपुद्गलरचितशरीरो जीव इति ४ । अथापरं पञ्चमम्, तत्र बाह्याभ्यन्तरान् पुद्गलान् अपर्यादायेत्यत्र निषेधस्य वैक्रियसमुद्घातापेक्षित्वादुत्पत्तिक्षेत्रस्थांस्तूत्पत्तिकाले गृहीत्वा भवधारणीयशरीरस्यैकत्वमेकदेवापेक्षया कण्ठाद्यवयवापेक्षया वा नानात्वं त्वनेकदेवापेक्षया हस्ताङ्गुल्याद्यवयवापेक्षया वा विकुळ स्थातुं प्रवृत्तानित्यादि, शेषं प्राग्वत्, बाह्यपुद्गलपर्यादानं हि विनोत्तरवैक्रियैकत्वनानात्वे किल न भवत इति भवधारणीयमिहाधिकृतम्, तदेवमबाह्याभ्यन्तरपुद्गलरचितशरीरदेवदर्शनात्तस्यैवं विकल्पो भवति– अमुदग्गे त्ति अबाह्याभ्यन्तरपुद्गलरचितावयवशरीरो जीव इति ५ । रूविं जीवे त्ति पुद्गलानां पर्यादानेऽपर्यादाने च वैक्रियरूपस्यैकानेकरूपस्य Page #150 -------------------------------------------------------------------------- ________________ सप्तममध्ययनं सप्तस्थानकम् । देवेषु दर्शनाद्रूपवानेव जीव इत्यध्यवसायो जायते, तस्य अरूपस्य कदाचनाप्यदर्शनादिति ६ । सुहुमेत्यादि सूक्ष्मेण मन्देन, न तु सूक्ष्मनामकर्मोदयवर्त्तिना, तस्य वस्तुचलनासमर्थत्वात्, फुडं ति स्पृष्टं पुद्गलकायं पुद्गलराशिम् एयंतं ति एजमानं कम्पमानं व्येजमानं विशेषेण कम्पमानं चलन्तं स्वस्थानादन्यत्र गच्छन्तं क्षुभ्यन्तम् अधो निमज्जन्तं स्पन्दन्तम् ईषच्चलन्तं घट्टयन्तं वस्त्वन्तरं स्पृशन्तमुदीरयन्तं प्रेरयन्तं तं तमनाख्येयमनेकविधं भावं पर्यायं परिणमन्तं गच्छन्तम् । सव्वमिणं ति सर्वमिदं चलत् पुद्गलजातं जीवाः स्पन्दनलक्षणजीवधर्म्मोपेतत्वात् यच्च चलदपि श्रमणादयो जीवाश्चाजीवाश्चेति प्राहु: तन्मिथ्येति तदध्यवसाय इति, तस्स णं ति तस्य विभङ्गज्ञानवतः इमे त्ति वक्ष्यमाणाः, न सम्यगुपगता: अचलनावस्थायां जीवत्वेन न बोधविषयीभूताः, तद्यथा- पृथिव्यप्तेजोवायवः, चलन- दोहदादिधर्म्मवतां त्रसानामेव दोहदादित्रसधर्म्मवतां वनस्पतीनामेव च जीवतया प्रज्ञानात्, पृथिव्यादीनां तु वायुचलनेन स्वतश्चलनेन च त्रसत्वेनैव प्रज्ञानात् स्थावरजीवतया तु तेषामनभ्युपगमाच्चेति । इच्चेएहिं ति इि हेतोरेतेषु चतुर्षु जीवनिकायेषु मिथ्यात्वपूर्वो दण्डो हिंसा मिथ्यादण्डस्तं प्रवर्त्तयति, तद्रूपानभिज्ञः संस्तान् हिनस्ति निह्नुते चेति भाव इति सप्तमं विभङ्गज्ञानमिति ७ । ५५१ [सू० ५४३] सत्तविधे जोणिसंगहे पन्नत्ते, तंजहा- अंडजा, पोतजा, जराउजा, रसजा, संसेदगा, संमुच्छिमा, उब्भिगा । अंडगा सत्तगतिता सत्तागतिता पन्नत्ता, तंजहा - अंडगे अंडगेसु उववज्जमाणे अंडतेहिंतो वा पोतजेहिंतो वा जाव उब्भिएहिंतो वा उववज्जेज्जा, से चेव णं से अंडते अंडगत्तं विप्पजहमाणे अंडगत्ताते वा पोतगत्ताते वा जाव उब्भियत्ताते वा गच्छेज्जा । पोतगा सत्तगतिता सत्तागतिता, एवं चेव सत्तण्ह वि गतिरागती भाणियव्वा जाव उभयति । [टी०] मिथ्यादण्डं प्रवर्त्तयतीत्युक्तम्, दण्डश्च जीवेषु भवतीति योनिसङ्ग्रहतो जीवानाह— सत्तविहेत्ति, योनिभिः उत्पत्तिस्थानविशेषैर्जीवानां सङ्ग्रहः योनिसङ्ग्रहः, स च सप्तधा, योनिभेदात् सप्तधा जीवभेदा इत्यर्थः, अण्डजाः पक्षि- मत्स्य - सर्पादयः, Page #151 -------------------------------------------------------------------------- ________________ ५५२ पोतं वस्त्रं तद्वज्जाता: पोतादिव वा बोहित्थाजाता:, अजरायुवेष्टिता इत्यर्थः, पोतजाः हस्ति-वल्गुलीप्रभृतयः, जरायौ गर्भवेष्टने जाता:, तद्वेष्टिता इत्यर्थः, जरायुजाः मनुष्या गवादयश्च, रसे तीमन-काञ्जिकादौ जाता रसजा:, संस्वेदाज्जाता: संस्वेदजा: यूकादय:, सम्मूर्छन निर्वृत्ताः सम्मूर्छिमा: कृम्यादयः, उद्भिदो भूमिभेदाजाता उद्भिजाः खञ्जनकादय:। अथाण्डजादीनामेव गत्यागतिप्रतिपादयन् अंडजेत्यादि सूत्रसप्तकम्, तत्र मृतानां सप्त गतयोऽण्डजादियोनिलक्षणा येषां ते सप्तगतयः, सप्तभ्य एवाण्डजादियोनिभ्य आगति: उत्पत्तिर्येषां ते सप्तागतयः । एवं चेव त्ति यथाऽण्डजानां सप्तविधे गत्यागती भणिते तथा पोतजादिभिः सह सप्तानामप्यण्डजादिजीवभेदानां गतिरागतिश्च भणितव्या जाव उब्भिय त्ति सप्तमसूत्रं यावदिति, शेषं सुगमम् ।। _[सू० ५४४] आयरियउवज्झायस्स णं गणंसि सत्त संगहट्ठाणा पन्नत्ता, तंजहा-आयरियउवज्झाए गणंसि आणं वा धारणं वा सम्मं पउंजित्ता भवति १, एवं जधा पंचट्ठाणे जाव आयरियउवज्झाए गणंसि आपुच्छियचारि यावि भवति नो अणापुच्छियचारि यावि भवति ५, आयरियउवज्झाए गणंसि अणुप्पन्नाइं उवकरणाई सम्मं उप्पाइत्ता भवति ६, आयरियउवज्झाए गणंसि पुव्वुप्पन्नाइं उवकरणाइं सम्मं सारक्खित्ता संगोवित्ता भवति, णो असम्म सारक्खित्ता संगोवित्ता भवति ७ । __ आयरियउवज्झायस्स णं गणंसि सत्त असंगहट्ठाणा पन्नत्ता, तंजहाआयरियउवज्झाए गणंसि आणं वा धारणं वा नो सम्मं पउंजित्ता भवति १, एवं जाव उवगरणाणं नो सम्मं सारक्खेत्ता संगोवेत्ता भवति ७ । [टी०] पूर्वं योनिसङ्ग्रह उक्त इति सङ्ग्रहप्रस्तावात् सङ्ग्रहसूत्रम्- आयरियेत्यादि, आचार्योपाध्यायस्येति समाहारद्वन्द्वः कर्मधारयो वा गणे गच्छे सङ्ग्रहो ज्ञानादीनां शिष्याणां वा तस्य स्थानानि हेतवः सङ्ग्रहस्थानानि, आचार्योपाध्यायो गणे आज्ञां वा विधिविषयमादेशं धारणां वा निषेधविषयमादेशमेव सम्यक् प्रयोक्ता भवति, एवं हि ज्ञानादिसङ्ग्रह: शिष्यसङ्ग्रहो वा स्याद्, अन्यथा तभ्रंश एवेति Page #152 -------------------------------------------------------------------------- ________________ सप्तममध्ययनं सप्तस्थानकम् । प्रतीतम्, यत: जहि नत्थि सारणा वारणा य पडिचोयणा य गच्छम्मि। सो उ अगच्छो गच्छो मोत्तव्वो संजमत्थीहिं ॥ [बृहत्कल्प० ४४६४] ति । __ एवं जहा पंचठाणे त्ति, तच्चेदम्- 'आयरियउवज्झाए णं गणंसि अहाराइणियाए कितिकम्मं पउंजित्ता भवइ २, आयरियउवज्झाए णं गणंसि जे सुयपज्जवजाते धारेइ ते काले काले सम्म अणुप्पवाइत्ता भवइ ३, आयरिउवज्झाए णं गणंसि गिलाणसेहवेयावच्चं सम्मं अब्भुट्टित्ता भवइ ४, आयरियउवज्झाए णं गणंसि आपुच्छियचारी यावि भवइ, नो अणापुच्छियचारी ५,' स्थानद्वयं त्विहैवेति, व्याख्या सुकरैव, नवरमाप्रच्छनं गच्छस्य, यत उक्तम्सीसे जइ आमंते पडिच्छगा तेण बाहिरं भावं । अह इयरे तो सीसा ते वि समत्तम्मि गच्छंति ॥ तरुणा बाहिरभावं न य पडिलेहोवही ण कीकम्मं । मूलगपत्तसरिसगा परिभूया वच्चिमो थेरा ॥ [बृहत्कल्प० १४५७-५८] इति । तथा अणुप्पन्नाई ति अनुत्पन्नानि अलब्धानि उपकरणानि वस्त्र-पात्रादीनि सम्यग् एषणाविशुद्ध्या उत्पादयिता सम्पादनशीलो भवति । संरक्षयिता उपायेन चौरादिभ्यः, सङगोपयिता अल्पसागारिककरणेन मलिनतारक्षणेन वेति । एवं सङ्ग्रहस्थानविपर्ययभूतमसङ्ग्रहसूत्रमपि भावनीयमिति । [सू० ५४५] सत्त पिंडेसणाओ पन्नत्ताओ १। सत्त पाणेसणातो पण्णत्ताओ २। सत्त उग्गहपडिमातो पन्नत्ताओ ३॥ सत्त सत्तिक्कया पण्णत्ता ४। सत्त महज्झयणा पण्णत्ता ५। सत्तसत्तमिया णं भिक्खुपडिमा एकूणपण्णत्ताते रातिदिएहिमेगेण य छण्णउतेणं भिक्खासतेणं अहासुत्तं जाव आराहिया वि भवति ६। [टी०] अनन्तरमाज्ञां न प्रयोक्ता भवतीत्युक्तमाज्ञा च पिण्डैषणादिविषयेति पिण्डैषणादिसूत्रषट्कम्- सत्त पिंडेसणाउ त्ति, पिण्डः समयभाषया भक्तं तस्यैषणा ग्रहणप्रकाराः पिण्डैषणा:, ताश्चैता: Page #153 -------------------------------------------------------------------------- ________________ ५५४ संसट्ठ १ मसंसट्ठा २ उद्धड ३ तह अप्पलेविया चेव ४ । उग्गहिया ५ पग्गहिया ६ उज्झियधम्मा य ७ सत्तमिया ॥ [ ] अत्रासंसृष्टा हस्त-मात्राभ्यां चिन्तनीया ‘असंसट्टे हत्थे असंसट्टे मत्ते', अखरडिय त्ति वुत्तं भवइ, एवं गृह्णत: प्रथमा भवति, [गाथायां सुखमुखोच्चारणार्थोऽन्यथा पाठः।] तथा संसृष्टा ताभ्यामेव खरंटिताभ्यामेव द्वितीया । उद्धृता नाम स्थाल्यादौ स्वयोगेन भोजनजातमुद्धृतम्, ततो असंसढे हत्थे असंसढे मत्ते संसट्टे वा मत्ते संसढे हत्थे, एवं गृह्णतः तृतीया। अल्पलेपा नाम अल्पशब्दोऽभाववाचकः, निर्लेप पृथुकादि गृह्णतश्चतुर्थी । अवगृहीता नाम भोजनकाले शरावादिषूपहतमेव भोजनजातं यत् ततो गृह्णत: पञ्चमी। प्रगृहीता नाम भोजनवेलायां दातुमभ्युद्यतेन करादिना प्रगृहीतं यद्भोजनजातं भोक्तुं वा स्वहस्तादिना तद् गृह्णत इति षष्ठी । उज्झितधा नाम यत् परित्यागार्ह भोजनजातमन्ये च द्विपदादयो नावकाङ्क्षन्ति तदर्द्धत्यक्तं वा गृह्णत इति हृदयं सप्तमीति । पानैषणा एता एव, नवरं चतुर्थ्यां नानात्वम्, तत्र ह्यायाम-सौवीरकादि निर्लेपं विज्ञेयमिति । उग्गहपडिम त्ति अवगृह्यत इत्यवग्रहो वसतिः, तत्प्रतिमा: अभिग्रहा अवग्रहप्रतिमाः, तत्र पूर्वमेव विचिन्त्यैवंभूतः प्रतिश्रयो मया ग्राह्यो नान्यथाभूत इति तमेव याचित्वा गृह्णत: प्रथमा । तथा यस्य भिक्षोरेवंभूतोऽभिग्रहो भवति, तद्यथाअहं च खल्वेषां साधूनां कृते अवग्रहं ग्रहीष्यामि, अन्येषां चावग्रहे गृहीते सति वत्स्यामीति तस्य द्वितीया । प्रथमा सामान्येन, इयं तु गच्छान्तर्गतानां सम्भोगिकानामसम्भोगिकानां चोद्युक्तविहारिणाम्, यतस्तेऽन्योन्यार्थं याचन्त इति । तृतीया त्वियम्अन्यार्थमवग्रहं याचिष्ये अन्यावगृहीतायां तु न स्थास्यामीति, एषा त्वहालन्दिकानाम्, यतस्ते सूत्रावशेषमाचार्यादभिकाङ्क्षन्त: आचार्यार्थं तां याचन्त इति । चतुर्थी पुनरहमन्येषां कृते अवग्रहं न याचिष्ये अन्यावगृहीते तु वत्स्यामीति, इयं तु गच्छ एव अभ्युद्यतविहारिणां जिनकल्पाद्यर्थं परिकर्म कुर्वताम् । पञ्चमी तु अहमात्मकृते अवग्रहमवग्रहीष्यामि न चापरेषां द्वि-त्रि-चतुः-पञ्चानामिति, इयं तु जिनकल्पिकस्येति । षष्ठी पुनर्यदीयमवग्रहं ग्रहीष्यामि तदीयमेव चेत् कटादिसंस्तारकं ग्रहीष्यामि, इतरथोत्कुटुको वा निषण्ण उपविष्टो वा रजनीं गमिष्यामीत्येषाऽपि जिनकल्पिकादेरिति । सप्तमी एषैव पूर्वोक्ता, Page #154 -------------------------------------------------------------------------- ________________ सप्तममध्ययन सप्तस्थानकम् । ५५५ नवरं यथाऽऽस्तृतमेव शिलादिकं ग्रहीष्यामि नेतरदिति । अयं च सूत्रत्रयार्थः क्वचित् सूत्रपुस्तक एव दृश्यत इति । सत्त सत्तिक्कय त्ति अनुद्देशकतयैकसरत्वेन एकका: अध्ययनविशेषा आचाराङ्गस्य द्वितीयश्रुतस्कन्धे द्वितीयचूडारूपाः, ते च समुदायत: सप्तेति कृत्वा सप्तैकका अभिधीयन्ते, तेषामेकोऽपि सप्तैकक इति व्यपदिश्यते, तथैवनामत्वात्, एवं च ते सप्तेति, तत्र प्रथम: स्थानसप्तैककः, द्वितीयो नैषेधिकीसप्तैककः, तृतीय उच्चार-प्रश्रवणविधिसप्तैककः, चतुर्थ: शब्दसप्तैककः, पञ्चमो रूपसप्तैककः, षष्ठ: परक्रियासप्तैककः, सप्तमोऽन्योन्यक्रियासप्तैकक इति । सत्त महज्झयण त्ति सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धे महान्ति प्रथमश्रुतस्कन्धाध्ययनेभ्य: सकाशाद् ग्रन्थतो बृहन्ति अध्ययनानि महाध्ययनानि, तानि च पुण्डरीकम् १, क्रियास्थानम् २, आहारपरिज्ञा ३, प्रत्याख्यानक्रिया ४, अनाचारश्रुतम् ५, आर्द्रककुमारीयम् ६, नालन्दीयम् ७ चेति । ___ सत्तसत्तमिय त्ति सप्त सप्तमानि दिनानि यस्यां सा सप्तसप्तमिका, सा हि सप्तभिर्दिनसप्तकैर्यथोत्तरं वर्द्धमानदत्तिभिर्भवति, तत्र प्रथमे सप्तके प्रतिदिनमेका भक्तस्य पानकस्य चैका दत्तिर्यावत् सप्तमे सप्त दत्तयः, भिक्षुप्रतिमा साध्वभिग्रहविशेष:, सा चैकोनपञ्चाशता रात्रिन्दिवैः अहोरात्रैर्भवति, यत: सप्त सप्तकान्येकोनपञ्चाशदेव स्यादिति, तथा एकेन च षण्णवत्यधिकेन भिक्षाशतेन, यत: प्रथमे सप्तके सप्तैव, द्वितीयादिषु तद्विगुणाद्या: यावत् सप्तमे एकोनपञ्चाशदिति, सर्वाः सङ्कलिता: शतं षण्णवत्यधिकं भवति, भक्तभिक्षाश्चैता:, पानकभिक्षा अप्येतावत्यो न चेह गणिता इति, एतत्स्वरूपमेवं निर्युक्त्यादे यं। ____ अहासुत्तं ति यथासूत्रं सूत्रानतिक्रमेण, यावत्करणात् अहाअत्थं यथार्थं निर्युक्त्यादिव्याख्यानानतिक्रमेणेत्यर्थः, अहातच्चं यथातत्त्वं सप्तसप्तमिकेत्यभिधानार्थानतिक्रमेण, अन्वर्थसत्यापनेनेत्यर्थः, अहामग्गं मार्गः क्षायोपशमिको भावस्तदनतिक्रमेण, औदयिकभावागमनेनेत्यर्थः, अहाकप्पं यथाकल्पं कल्पनीयानतिक्रमेण प्रतिमासमाचारानतिक्रमेण वा, सम्मं काएणं कायप्रवृत्त्या न मनोमात्रेणेत्यर्थः, Page #155 -------------------------------------------------------------------------- ________________ ५५६ फासिया स्पृष्टा प्रतिपत्तिकाले विधिना प्राप्ता, पालिय त्ति पुन: पुनरुपयोगप्रतिजागरणेन रक्षिता, सोहिय त्ति शोभिता तत्समाप्तौ गुर्वादिप्रदान-शेषभोजनासेवनेन [शोधिता वा अतिचारवर्जनेन तदालोचनेन वा], तीरिय त्ति तीरं पारं नीता, पूर्णेऽपि कालावधौ किञ्चित्कालावस्थानेन, किट्टिय त्ति कीर्त्तिता पारणकदिने 'अयमयं चाभिग्रहविशेष: कृत आसीद् अस्यां प्रतिमायां स चाराधित एवाधुना मुत्कलोऽहम्' इति गुरुसमक्षं कीर्तनादिति, आराहिय त्ति एभिरेव प्रकारैः सम्पूर्णैर्निष्ठां नीता भवतीति, प्रत्याख्यानापेक्षया अन्यत्र व्याख्यानमेषामेवम् [सू० ५४६] अधेलोगे णं सत्त पुढवीओ पन्नत्ताओ, सत्त घणोदधीतो पन्नत्ता, सत्त घणवाता पण्णत्ता, सत्त तणुवाता पण्णत्ता, सत्त उवासंतरा पन्नत्ता। एतेसु णं सत्तसु उवासंतरेसु सत्त तणुवाया पतिहिता । एतेसु णं सत्तसु तणुवातेसु सत्त घणवाता पतिट्टिता । एएसु णं सत्तसु घणवातेसु सत्त घणोदधी पतिट्ठिता। एतेसु णं सत्तसु घणोदधीसु पिंडलगपिहुलसंठाणसंठिताओ सत्त पुढवीओ पनत्ताओ, तंजहा-पढमा जाव सत्तमा । एतासि णं सत्तण्हं पुढवीणं सत्त णामधेजा पन्नत्ता, तंजहा-घम्मा, वंसा, सेला, अंजणा, रिट्ठा, मघा, माघवती । एतासि णं सत्तण्हं पुढवीणं सत्त गोत्ता पन्नत्ता, तंजहा-रतणप्पभा, सक्करप्पभा, वालुयप्पभा, पंकप्पभा, धूमप्पभा, तमा, तमतमा । _[टी०] सप्तसप्तमिकादिप्रतिमाश्च पृथिव्यामेव विधीयन्त इति पृथिवीप्रतिपादनायाहअहेलोएत्यादि सुगमम्, नवरं अधोलोकग्रहणादूर्ध्वलोकेऽपि पृथिवीसत्ताऽवगम्यते, तत्र चैका ईषत्प्राग्भाराख्या पृथिव्यस्तीति, इह च यद्यपि प्रथमपृथिव्या उपरितनानि नव योजनशतानि तिग्लोके भवन्ति तथापि देशोनाऽपि पृथिवीति कृत्वा न दोषायेति, एताश्च क्रमेण बाहल्यतो योजनलक्षमशीत्यादिसहस्राधिकं भवन्ति, उक्तं चपढमा असीइसहस्सा १ बत्तीसा २ अट्ठवीस ३ वीसा य ४ । अट्ठार ५ सोल ६ अट्ट य ७ सहस्स लक्खोवरिं कुज्जा ॥ [बृहत्सं० २४१] इति । Page #156 -------------------------------------------------------------------------- ________________ सप्तममध्ययनं सप्तस्थानकम् । ५५७ अधोलोकाधिकारात्तद्गतवस्तुसूत्राण्या बादरसूत्रात्, सुगमानि चैतानि, नवरं घनोदधीनां बाहल्यं विंशतिर्योजनसहस्राणि घन-तनुवाता-ऽऽकाशान्तराणामसङ्ख्यातानि तानि, आह चसव्वे वीससहस्सा बाहल्लेणं घनोदधी नेया । सेसाणं तु असंखा अहो अहो जाव सत्तमिया ॥ [बृहत्सं० २४२] इति । तथा छत्रमतिक्रम्य छत्रं छत्रातिच्छत्रम्, तस्य संस्थानम् आकार: ‘अधस्तनं छत्रं महदुपरितनं लघु' इति, तेन संस्थिताः छत्रातिच्छत्रसंस्थानसंस्थिताः, इदमुक्तं भवतिसप्तमी सप्तरज्जुविस्तृता षष्ठ्यादयस्त्वेकैकरज्जुहीना इति, नामधेज त्ति नामान्येव नामधेयानि, गोत्त त्ति गोत्राणि तान्यपि नामान्येव, केवलमन्वर्थयुक्तानि गोत्राणि इतराणि त्वितराणि, अन्वर्थश्च सुखोन्नेयः। [सू० ५४७] सत्तविहा बादरवाउकाइया पन्नत्ता, तंजहा-पातीणवाते, पडीणवाते, दाहिणवाते, उदीणवाते, उड्डेवाते, अहेवाते, विदिसिवाते । [टी०] सप्तावकाशान्तराणि प्राक् प्ररूपितानि, तेषु च बादरा वायवः सन्तीति तत्प्ररूपणायाह- सत्तविहा बायरेत्यादि, सूक्ष्माणां न भेदोऽस्ति ततो बादरग्रहणम्, भेदश्च दिग्विदिग्भेदात् प्रतीत एवेति । [सू० ५४८] सत्त संठाणा पन्नत्ता, तंजहा-दीहे, रहस्से, वट्टे, तंसे, चउरंसे, पिहुले, परिमंडले । [सू० ५४९] सत्त भयट्ठाणा पन्नत्ता, तंजहा-इहलोगभते, परलोगभते आदाणभते, अकम्हाभते, वेयणाभते, मरणभते, असिलोगभते । [टी०] वायवो ह्यदृश्यास्तथापि संस्थानवन्तो भयवन्तश्चेति संस्थान-भयसूत्रे सुगमे, संस्थानानि च प्रतीतानि, तद्विशेषा: प्रतर-घनादयोऽन्यतो ज्ञेया: । सत्त भयट्ठाणेत्यादि, भयं मोहनीयप्रकृतिसमुत्थ आत्मपरिणामः, तस्य स्थानानि आश्रया भयस्थानानि, तत्र मनुष्यादिकस्य सजातीयादन्यस्मान्मनुष्यादेरेव सकाशाद्यद् भयं तदिहलोकभयम्, इहाधिकृतभीतिमतो जातौ लोक इहलोकस्ततो भयमिति व्युत्पत्तिः, तथा विजातीयात् तिर्यग्-देवादेः सकाशान्मनुष्यादीनां यद् भयं तत् परलोकभयम्, आदीयत इत्यादानं Page #157 -------------------------------------------------------------------------- ________________ ५५८ धनं तदर्थं चौरादिभ्यो यद् भयं तदादानभयम्, अकस्मादेव बाह्यनिमित्तानपेक्षं गृहादिष्वेव स्थितस्य रात्र्यादौ भयमकस्माद्भयम्, वेदना पीडा, तद्भयं वेदनाभयम्, मरणभयं प्रतीतम्, अश्लोकभयम् अकीर्तिभयम्, एवं हि क्रियमाणे महदयशो भवतीति तद्भयान्न प्रवर्त्तत इति । [सू० ५५०] सत्तहिं ठाणेहिं छउमत्थं जाणेजा, तंजहा-पाणे अतिवातेत्ता भवति, मुसं वदित्ता भवति, अदिन्नमातित्ता भवति, सद्द-फरिस-रस-रूवगंधे आसादेत्ता भवति, पूतासक्कारमणुव्हेत्ता भवति, इमं सावजं ति पण्णवेत्ता पडिसेवेत्ता भवति, णो जधावादी तधाकारी यावि भवति । सत्तहिं ठाणेहिं केवली जाणेज्जा, तंजहा-णो पाणे अतिवातेत्ता भवति जाव जधावादी तधाकारी यावि भवति । [टी०] भयं च छद्मस्थस्यैव भवति, स च यैः स्थानैर्ज्ञायते तान्याह- [सत्तहिं ठाणेहिं इत्यादि] सुगमम्, सप्तभि: स्थानैर्हेतुभूतैः छद्मस्थं जानीयात्, तद्यथाप्राणान् अतिपातयिता, तेषां कदाचिद् व्यापादनशीलो भवति, इह च प्राणातिपातनमिति वक्तव्येऽपि धर्माधर्मिणोरभेदादतिपातयितेति धर्मी निर्दिष्टः, प्राणातिपातनाच्छद्मस्थोऽयमित्यवसीयते, केवली हि क्षीणचारित्रावरणत्वान्निरतिचारसंयमत्वादप्रतिषेवित्वान्न कदाचिदपि प्राणानामतिपातयिता भवतीत्येवं सर्वत्र भावना ज्ञेया, तथा मृषा वदिता भवति, अदत्तमादाता ग्रहीता भवति, शब्दादीनास्वादयिता भवति, पूजासत्कारं पुष्पार्चन-वस्त्राद्यर्चने अनुबंहयिता परेण स्वस्य क्रियमाणस्य तस्यानुमोदयिता, तद्भावे हर्षकारीत्यर्थः, तथेदमाधाकर्मादि सावा सपापमित्येवं प्रज्ञाप्य तदेव प्रतिषेविता भवति, तथा सामान्यतो नो यथावादी तथाकारी, अन्यथाभिधायाऽन्यथा कर्ता भवति, चापीति समुच्चये । एतान्येव विपर्यस्तानि केवलिगमकानि भवन्तीत्येतत्प्रतिपादनपरं केवलिसूत्रं सुगममेव । [सू० ५५१] सत्त मूलगोत्ता पन्नत्ता, तंजहा-कासवा, गोतमा, वच्छा, कोच्छा, कोसिता, मंडवा, वासिट्ठा । जे कासवा ते सत्तविधा पन्नत्ता, तंजहा-ते कासवा, ते संडिल्ला, ते Page #158 -------------------------------------------------------------------------- ________________ सप्तममध्ययनं सप्तस्थानकम् । गोला, ते वाला, ते मुंजतिणो, ते पव्वतिणो, ते वरिसकण्हा । जे गोतमा ते सत्तविधा पन्नत्ता, तंजहा-ते गोयमा, ते गग्गा, ते भारद्दा, ते अंगरिसा, ते सक्कराभा, ते भक्खराभा, ते उदत्ताभा ।। ___ जे वच्छा ते सत्तविधा पन्नत्ता, तंजहा-ते वच्छा, ते अग्गेया, ते मित्तेया, ते सामलिणो, ते सेलतता, ते अट्ठिसेणा, ते वीयकण्हा । __ जे कोच्छा ते सत्तविधा पन्नत्ता, तंजहा-ते कोच्छा, ते मोग्गलायणा, ते पिंगायणा, ते कोडीणो, ते मंडलिणो, ते हारिता, ते सोमभी । ___ जे कोसिता ते सत्तविधा पन्नत्ता, तंजहा-ते कोसिता, ते कच्चातणा, ते सालंकातणा, ते गोलिकातणा, ते पक्खिकातणा, ते अग्गिच्चा, ते लोहिच्चा । ___ जे मंडवा ते सत्तविधा पन्नत्ता, तंजहा-ते मंडवा, ते आरिट्ठा, ते संमुता, ते तेला, ते एलावच्चा, ते कंडिल्ला, ते खारातणा । जे वासिट्टा ते सत्तविधा पन्नत्ता, तंजहा-ते वासिट्ठा, ते उंजायणा, ते जारुकण्हा ते वग्घावच्चा, ते कोडिन्ना, ते सन्नी, ते पारासरा । [टी०] केवलिनश्च प्रायो गोत्रविशेषवन्त एव भवन्ति प्रव्रज्यायोग्यत्वान्नाभेयादिवदिति सत्त मूलगोत्तेत्यादिना ग्रन्थेन गोत्रविभागमाह, सुगमाश्चायम्, नवरं गोत्राणि तथाविधैकैकपुरुषप्रभवा मनुष्यसन्तानाः, उत्तरगोत्रापेक्षया मूलभूतानि आदिभूतानि गोत्राणि मूलगोत्राणि, कासे भव: कास्य: रसः, तं पीतवानिति कास्यपः, तदपत्यानि कास्यपा:, मुनिसुव्रत-नेमिवर्जा जिनाश्चक्रवर्त्यादयश्च क्षत्रिया: सप्तमगणधरादयो द्विजा: जम्बूस्वाम्यादयो गृहपतयश्चेति, इह च गोत्रस्य गोत्रवद्भ्योऽभेदादेवं निर्देश:, अन्यथा कास्यपमिति वाच्यं स्यादेवं सर्वत्र, तथा गोतमस्यापत्यानि गौतमाः क्षत्रियादयो यथा सुव्रत-नेमी जिनौ नारायण-पद्मवर्जवासुदेव-बलदेवा इन्द्रभूत्यादिगणनाथत्रयं वैरस्वामी च, तथा वत्सस्यापत्यानि वत्सा: शय्यम्भवादय:, एवं कुत्सा शिवभूत्यादय: कोच्छं सिवभूई पि य [कल्पसू०] इति वचनात्, एवं कौशिका: षडुलूकादयः, मण्डोरपत्यानि माण्डवाः, वशिष्ठस्यापत्यानि वाशिष्ठाः षष्ठगणधरा-ऽऽर्यसुहस्त्यादयः, Page #159 -------------------------------------------------------------------------- ________________ ५६० तथा ये ते कास्यपास्ते सप्तविधा:, एके कास्यपशब्दव्यपदेश्यत्वेन कास्यपा एवान्ये तु कास्यपगोत्रविशेषभूतशण्डिलादिपुरुषापत्यरूपा: शाण्डिल्यादयोऽवगन्तव्या: । __ [सू० ५५२] सत्त मूलनया पन्नत्ता, तंजहा-नेगमे, संगहे, ववहारे, उज्जुसुते, सद्दे, समभिरूढे, एवंभूते । [टी०] अयं च मूलगोत्र-प्रतिगोत्रविभागो नयविशेषमताद्भवतीति नयविभागमाह[सत्त मूलेत्यादि], मूलभूता नया मूलनया:, ते च सप्त, उत्तरनया हि सप्त शतानि, यदाहएक्कक्को य सयविहो सत्त नयसया हवंति एवं तु । अन्नो वि य आएसो पंचेव सया नयाणं तु ॥ [आव० नि० ५४२, विशेषाव० २२६४] तथा जावइया वयणपहा तावइया चेव हुंति नयवाया । जावइया नयवाया तावइया चेव परसमय ॥ [सम्मति० ३।४७] त्ति । तत्रानन्तधर्माध्यासिते वस्तुन्येकधर्मसमर्थनप्रवणो बोधविशेषो नय इति, तत्र णेगमे त्ति नैकैर्मानैर्महासत्ता-सामान्यविशेष-विशेषज्ञानैर्मिमीते मिनोति वा नैकम: १। तथा सङ्ग्रहणं भेदानां सङ्गृह्णाति वा भेदान् सङ्गृह्यन्ते वा भेदा येन स सङ्ग्रह: २। तथा व्यवहरणं व्यवहरतीति वा व्यवहियते वा अपलप्यते सामान्यमनेन विशेषान् वाऽऽश्रित्य व्यवहारपरो व्यवहार: ३ । तथा ऋजु वक्रविपर्ययादभिमुखं श्रुतं ज्ञानं यस्यासौ ऋजुश्रुतः, ऋजु वा वर्तमानमतीतानागतवक्रपरित्यागाद्वस्तु सूत्रयति गमयतीति ऋजुसूत्रः ४ । तथा शपनं शपति वा असौ शप्यते वा तेन वस्त्विति शब्दः, तस्यार्थपरिग्रहादभेदोपचारान्नयोऽपि शब्द एव, यथा कृतकत्वादिलक्षणहेत्वर्थप्रतिपादकं पदं हेतुरेवोच्यत इति। अतो घट: कुटः कुम्भ इति स्वपर्यायध्वनिवाच्यमेकमेवेत्यादि ५। तथा नानार्थेषु नानासंज्ञासमभिरोहणात् समभिरूढ: ६ । तथा यथा शब्दार्थ एवं पदार्थो भूत: सन्नित्यर्थोऽन्यथाभूतोऽसन्नितिप्रतिपत्तिपर एवंभूतो नयः इति ७। शेषविस्तरार्थो वृत्तितो ज्ञेय इति। [सू० ५५३] सत्त सरा पन्नत्ता, तंजहा Page #160 -------------------------------------------------------------------------- ________________ सप्तममध्ययनं सप्तस्थानकम् । सज्ने, रिस, गंधारे, मज्झिमे, पंचमे सरे । धेवते चेव, णेसादे, सरा सत्त विवाहिता ॥ ४७ ॥ एसि णं सत्तहं सराणं सत्त सरट्ठाणा पन्नत्ता, तंजहासज्जं तु अग्गजिब्भाते, उरेण रिसभं सरं । कंठुग्गतेण गंधारं, मज्झजिब्भाते मज्झिमं ॥ ४८ ॥ णासाते पंचमं बूया, दंतोट्ठेण य रेवतं । मुद्धाणेण य णेसातं, सरट्ठाणा वियाहिता ॥ ४९ ॥ सत्त सरा जीवनिस्सिता पन्नत्ता, तंजासज्जं रवति मऊरो, कुक्कुडो रिसभं सरं । हंसो णदति गंधारं, मज्झिमं तु गवेलगा ॥ ५० ॥ अह कुसुमसंभवे काले, कोइला पंचमं सरं । छठ्ठे च सारसा कोंचा, सायं सत्तमं गतो ॥५१॥ सत्त सरा अजीवनिस्सिता पन्नत्ता, तंजा सज्जं रवति मुइंगो, गोमुही रिसभं सरं । संखो णदति गंधारं, मज्झिमं पुण झल्लरी ॥५२॥ चउचलणपतिट्ठाणा, गोहिया पंचमं सरं । आडंबरो रेवततं, महाभेरी य सत्तमं ॥५३॥ एतेसि णं सत्तण्हं सराणं सत्त सरलक्खणा पन्नत्ता, तंजहासज्जेण लभति वित्तिं, कतं च ण विस्सति । गावो मत्ता य पुत्ता य, णारीणं चेव वल्लभो ॥५४॥ रिसभेणं तु एसजं, सेणावच्चं धणाणि य । वत्थगंधमलंकारं, इत्थिओ सयणाणि ॥ ५५ ॥ गंधारे गीतजुत्तिण्णा, वजवित्ती कलाहिया । भवंति कतिणो पण्णा, जे अन्ने सत्थपारगा ॥५६॥ ५६१ Page #161 -------------------------------------------------------------------------- ________________ ५६२ मज्झिमसरसंपन्ना, भवंति सुहजीविणो । खायती पियती देती, मज्झिमं सरमस्सितो ॥५७॥ पंचमसरसंपन्ना, भवंति पुढवीपती । सूरा संगहकत्तारो, अगगणणातगा ॥ ५८ ॥ रेवतसरसंपन्ना, भवंति कलहप्पिया । साउणिता वग्गुरिता, सोयरिया मच्छबंधा य ॥ ५९ ॥ चंडाला मुट्ठिया मेता, जे अन्ने पावकम्मिणो । गोघातगा य जे चोरा, णेसातं सरमस्सिता ॥६०॥ एतेसिं णं सत्तहं सराणं तयो गामा पण्णत्ता, तंजहा - सज्जगामे, मज्झिमगामे, गंधारगामे । सज्जगामस्स णं सत्त मुच्छणातो पन्नत्ताओ, तंजहा मंगी कोरव्वी या, हरी य रयणी य सारकंता य । छट्ठी य सारसी णाम, सुद्धसज्जा य सत्तमा ॥ ६१ ॥ मज्झिमगामस्स णं सत्त मुच्छणातो पन्नत्ताओ, तंजहाउत्तरमंदा रयणी, उत्तरा उत्तराससा । अस्सोकंता य सोवीरा, अभिरु हवति सत्तमा ॥ ६२ ॥ गंधारगामस्स णं सत्त मुच्छणातो पन्नत्ताओ, तंजहाणंदी तु खुद्दिमा पूरिमा य चउत्थी य सुद्धगंधारा । उत्तरगंधारा वि त, पंचमिता हवति मुच्छा उ ॥ ६३ ॥ सुठुत्तरमायामा, सा छट्ठी णियमसो उ णायव्वा । अह उत्तरायता कोडीमा त सा सत्तमी मुच्छा ||६४ || सत्त स्सरा कतो संभवंति ? गेयस्स का भवति जोणी ? | कतिसमता उसासा ? कति वा गेयस्स आगारा ? ॥६५॥ सत्त सरा णाभीतो, भवंति गीतं च रुन्नजोणीतं । पादसमता उस्सासा, तिन्नि य गीयस्स आगारा ॥ ६६ ॥ Page #162 -------------------------------------------------------------------------- ________________ सप्तममध्ययनं सप्तस्थानकम् । आइमिउ आरभंता, समुव्वहंता य मज्झगारम् । अवसाणे य खवेंता, तिन्नि य गेयस्स आगारा || ६७ || छ दोसे अट्ठ गुणे, तिन्नि य वित्ताइं दो य भणितीओ । जाणाहिति सो गाहिति, सुसिक्खितो रंगमज्झमि ॥ ६८ ॥ भीतं दुतं रहस्सं, गायंतो मा त गाहि उत्तालं । काकस्सरमणुनासं च, होंति गेयस्स छ होसा ॥६९॥ पुण्णं रत्तं च अलंकियं च वत्तं तथा अविघुट्ठे । मधुरं सम सुकुमारं अट्ठ गुणा होंति गेयस्स ॥७०॥ उर-कंठ-सिरपसत्थं च, गिज्जते मउअ - रिभितपदबद्धं । समताल - पडुक्खेवं, सत्तस्सरसीभरं गेयं ॥७१॥ निद्दोसं सारवंतं च, हेउजुत्तमलंकियं । उवणीतं सोवयारं च, मितं मधुरमेव य ॥७२॥ सममद्धसमं चेव, सव्वत्थ विसमं च जं । तिन्नि वित्तप्पयाराई, चउत्थं नोपलब्भती ॥७३॥ सक्कता पागता चेव, दुविधा भणितीओ आहिता । सरमंडलम्मि गिज्जंते, पसत्था इसिभासिता ||७४ || केसी गातति मधुरं, केसी गातति खरं च रुक्खं च । केसी गायति चउरं, केसी विलंबं दुतं केसी ॥ विस्सरं पुण केरिसी ? ॥७५॥ सामा गायती मधुरं, काली गायति खरं च रुक्खं च । गोरी गातति चउरं, काण विलंबं दुतं अंधा ॥ विस्सरं पुण पिंगला ॥७६॥ तंतिसमं तालसमं, पादसमं लयसमं गहसमं च । नीससिऊससितसमं, संचारसमा सरा सत्त ॥७७॥ ५६३ Page #163 -------------------------------------------------------------------------- ________________ ५६४ सत्त सरा ततो गामा, मुच्छणा एकविंसती । ताणा एकूणपण्णासा, संमत्तं सरमंडलम् ॥७८॥ [टी०] अथ कथं सप्त नयशतान्यसङ्ख्या वा नया: सप्तसु नयेष्वन्तर्भवन्तीति ?, उच्यते, यथा वक्तृविशेषादसङ्ख्येया अपि स्वरा: सप्तसु स्वरेष्विति स्वराणामेव स्वरूपप्रतिपादनाय सत्त सरेत्यादि स्वरप्रकरणमाह, सुगमं चेदम्, नवरं स्वरणानि स्वरा: शब्दविशेषाः । सजेत्यादिश्लोकाः, षड्भ्यो जात: षड्जः, उक्तं हि नासां कण्ठमुरस्तालु जिह्वां दन्तांश्च संश्रितः । षभिः सञ्जायते यस्मात्तस्मात् षड्ज इति स्मृतः ॥ [ ] तथा ऋषभो वृषभस्तद्वद् यो वर्त्तते स ऋषभ इति, आह चवायुः समुत्थितो नाभेः कण्ठशीर्षसमाहतः ।। नईत्यृषभवद् यस्मात् तस्मादृषभ उच्यते ॥ [ ] तथा गन्धो विद्यते यत्र स गन्धारः, स एव गान्धारः, गन्धवाहविशेष: इत्यर्थः, तथा मध्ये कायस्य भवो मध्यमः, यदवाचिवायुः समुत्थितो नाभेरुरोहृदि समाहतः । नाभिं प्राप्तो महानादो मध्यमत्वं समश्नुते ॥ [ ] तथा पञ्चानां षड्जादिस्वराणां निर्देशक्रममाश्रित्य पूरण: पञ्चमः, अथवा पञ्चसु नाभ्यादिस्थानेषु मातीति पञ्चम: स्वर:, यदभ्यधायि वायुः समुत्थितो नाभेरुरोहत्कण्ठशिरोहत: । पञ्चस्थानोत्थितस्यास्य पञ्चमत्वं विधीयते ॥ [ ] तथा अभिसन्धयते अनुसन्धयति शेषस्वरानिति निरुक्तिवशाद् धैवतः, यदुक्तम्अभिसन्धयते यस्मादेतान् पूर्वोत्थितान् स्वरान् । तस्मादस्य स्वरस्यापि धैवतत्वं विधीयते ॥ [ ] पाठान्तरेण रेवतश्चैवेति । तथा निषीदन्ति स्वरा यस्मिन् स निषादः, यतोऽभिहितम्निषीदन्ति स्वरा यस्मान्निषादस्तेन हेतुना । सर्वांश्चाभिभवत्येष यदादित्योऽस्य दैवतम् ॥ [ ] इति । तदेवं स्वरा: सप्त वियाहिय त्ति व्याख्याता: । ननु कार्यं हि कारणायत्तम्, जिह्वा Page #164 -------------------------------------------------------------------------- ________________ सप्तममध्ययनं सप्तस्थानकम् । च स्वरस्य कारणम्, सा चासङ्ख्येयरूपा ततः कथं स्वराणां सङ्ख्यातत्वमिति, उच्यते, असङ्ख्याता अपि विशेषतः स्वराः सामान्यतः सर्वेऽपि सप्तस्वन्तर्भवन्ति, अथवा स्थूरस्वरान् गीतं वाश्रित्य सप्त उक्ताः । I स्वरान्नामतोऽभिधाय कारणतस्तन्निरूपणायोपक्रम्यते - एएसि णमित्यादि, तत्र नाभिसमुत्थः स्वरोऽविकारी आभोगेन अनाभोगेन वा यं प्रदेशं प्राप्य विशेषमासादयति तत् स्वरस्योपकारकमिति स्वरस्थानमुच्यते । सज्जमित्यादिश्लोकद्वयम्, ब्रूयादिति सर्वत्र क्रिया, षड्जं तु प्रथमस्वरमेव, अग्रभूता जिह्वा अग्रजिह्वा जिह्वाग्रमित्यर्थः, तया, यद्यपि षड्जभणने स्थानान्तराण्यपि व्याप्रियन्ते अग्रजिह्वा वा स्वरान्तरेषु व्याप्रियते तथापि सा तत्र बहुतरव्यापारवतीति कृत्वा तया तमेव ब्रूयादित्यभिहितम्, उरो वक्षस्तेन ऋषभस्वरम्, कंठुग्गएणं ति कण्ठश्चासावुग्रकश्च उत्कटः कण्ठोग्रकस्तेन कण्ठस्य वोग्रत्वं यत्तेन कण्ठोग्रत्वेन कण्ठाद्वा यदुद्गतम् उद्गतिः स्वरोद्गमलक्षणा क्रिया तेन कण्ठोद्गतेन गान्धारम्, जिह्वाया मध्यो भागो मध्यजिह्वा, तया मध्यमम्; तथा दन्ताश्च ओष्ठौ च दन्तोष्ठं तेन धैवतं रेवतं वेति । सत्तसरा जीवनिस्सिय त्ति जीवनिःसृता [ जीवाश्रिता: ] जीवेभ्यो वा निःसृता निर्गताः । सज्जमित्यादिश्लोकः, नदति रौति, गवेलग त्ति गावश्च एलकाश्च ऊरणका गवेलकाः। अह कुसुम इत्यादिरूपकं गाथाभिधानम्, विषमाक्षरपादं वा पादैरसमं दशधर्मवत् । ५६५ तन्त्रेऽस्मिन् यदसिद्धं गाथेति तत् पण्डितैर्ज्ञेया ॥ [ ] इति वचनात् । अथेति विशेषार्थ:, विशेषार्थता चैवम् - यथा गवेलका अविशेषेण मध्यमं स्वरं नदन्ति [न] तथा कोकिलाः पञ्चमम्, अपि तु कुसुमसम्भवे काल इति । कुसुमा बाहुल्यतो वनस्पतिषु सम्भवो यस्मिन् स तथा तत्र, मधावित्यर्थः । अजीवनिस्सिय त्ति तथैव, नवरं जीवप्रयोगादेव इति । सज्जमित्यादि श्लोकः, मृदङ्गो मर्दल:, गोमुखी काहला यतस्तस्या मुखे गोशृङ्गमन्यद्वा क्रियत इति, चउ इत्यादिश्लोकः, चतुर्भिश्चरणैः प्रतिष्ठानं भुवि यस्याः सा तथा, गोधाचर्मणा अवनद्धेति गोधिका वाद्यविशेषो दर्द्दरिकेति यत्पर्यायः, आडम्बरः पटह:, सप्तममिति निषादम् । Page #165 -------------------------------------------------------------------------- ________________ ५६६ एएसि णमित्यादि, सत्त त्ति स्वरभेदात् सप्त स्वरलक्षणानि यथास्वं फलं प्रति प्रापणाव्यभिचारीणि स्वरस्वरूपाणि भवन्ति, तान्येव फलत आह- सज्जेणेत्यादि श्लोका: सप्त, षड्जेन लभते वृत्तिम्, अयमर्थ:- षड्जस्येदं लक्षणं स्वरूपमस्ति येन वृत्तिं जीवनं लभते षड्जस्वरयुक्तः प्राणी, एतच्च मनुष्यापेक्षया लक्ष्यते, मनुष्यलक्षणत्वादस्येति, कृतं च न विनश्यति तस्येति शेषः, निष्फलारम्भो न भवतीत्यर्थः, गावो मित्राणि च पुत्राश्च भवन्तीति शेषः । एसजं ति ऐश्वर्यं गन्धारे गीतयुक्तिज्ञा: वर्यवृत्तयः प्रधानजीविका: कलाभिरधिकाः कवयः काव्यकारिण: प्राज्ञाः सद्बोधाः, ये च उक्तेभ्यो गीतयुक्तिज्ञादिभ्योऽन्ये शास्त्रपारगा: धनुर्वेदादिपारगामिनस्ते भवन्तीति । शकुनेन श्येनलक्षणेन चरन्ति पापर्द्धिं कुर्वन्ति शकुनान् वा घ्नन्ति शाकुनिकाः, वागुरा मृगबन्धनम्, तया चरन्तीति वागुरिकाः, शूकरेण शूकरबन्धनार्थं चरन्तीति शूकरान् वा घ्नन्तीति शौकरिका:, मौष्टिका मल्ला इति । एतेसि णं त्ति एतेषामित्यादि, तत्र व्याख्यानगाथासजाइ तिहा गामो स समूहो मुच्छणाण विण्णेओ । ता सत्त एक्कमेक्के तो सत्त सराण इगवीसा ॥ अन्नन्नसरविसेसे उप्पायंतस्स मुच्छणा भणिया । कत्ता व मुच्छिओ इव कुणई मुच्छं व सो व त्ति ॥ [ ] कर्ता वा मूर्च्छित इव करोति, मूर्च्छन्निव वा स कर्तेत्यर्थः, इह च मङ्गीप्रभृतीनामेकविंशतिमूर्च्छनानां स्वरविशेषा: पूर्वगते स्वरप्राभृते भणिता:, अधुना तु तद्विनिर्गतेभ्यो भरत-वैशाखिलादिशास्त्रेभ्यो विज्ञेया इति । सत्तस्सरा कओ त्ति, इह चत्वारः प्रश्नाः, तत्र कुत इति स्थानात्, का योनिरिति का जाति:, तथा कति समया येषु ते कतिसमया: उच्छ्वासा: किंपरिमाणकाला इत्यर्थः, तथाऽऽकारा: आकृतय: स्वरूपाणीत्यर्थः । सत्त सरा गाहा प्रश्ननिर्वचनार्था स्पष्टा, नवरं रुदितं योनि: जाति: समानरूपतया यस्य तद् रुदितयोनिकम्, पादसमया उच्छ्वासा यावद्भिः समयैः पादो वृत्तस्य नीयते तावत्समया उच्छ्वासा गीते भवन्तीत्यर्थः। आकारानाह- आइ गाहा, आदौ प्राथम्ये मृदु कोमलमादिमृदु गीतमिति गम्यते, Page #166 -------------------------------------------------------------------------- ________________ सप्तममध्ययनं सप्तस्थानकम् । ५६७ आरभमाणा:, इह समुदितत्रयापेक्षं बहवचनमन्यथा एक एव आकारो द्वयमन्यद वक्ष्यमाणलक्षणमिति, तथा समुद्वहन्तश्च महत्तां गीतध्वनेरिति गम्यते, मध्यकारे मध्यभागे, तथा अवसाने च क्षपयन्तो गीतध्वनिं मन्द्रीकुर्वन्तस्त्रयो गीतस्याकारा भवन्ति, आदि-मध्या-ऽवसानेषु गीतध्वनि: मृदु-तार-मन्द्रस्वभाव: क्रमेण भवतीति भावः । किञ्चान्यत्- छ होसेत्यादि, षट् दोषा वर्जनीया:, तानाह- भीयं गाहा, भीतं त्रस्तमानसम् १, द्रुतं त्वरितम् २, रहस्सं ति हस्वस्वरं लघुशब्दमित्यर्थः, ३, उत्तालम् उत् प्राबल्यार्थे इत्यतितालमस्थानतालं वा, तालस्तु कंशिकादिशब्दविशेष इति ४, काकस्वरं श्लक्ष्णाश्रव्यस्वरम्, अनुनासं च सानुनासिकं नासिकाकृतस्वरमित्यर्थः, किमित्याह- गायन् गानप्रवृत्तस्त्वं हे गायन ! मा गासी:, किमिति ?, यत एते गेयस्य षट् दोषा इति । अष्टौ गुणानाह- पुन्नं त्ति गाहा, पूर्णं स्वरकलाभिः १, रक्तं गेयरागेणानुरक्तस्य २, अलङ्कृतमन्यान्यस्वरविशेषाणां स्फुटशुभानां करणात् ३, व्यक्तमक्षरस्वरस्फुटकरणत्वात् ४, अविघुटुं विक्रोशनमिव यन्न विस्वरम् ५, मधुरं मधुरस्वरं कोकिलारुतवत् ६, समं ताल-वंशस्वरादिसमनुगतम् ७, सुकुमारं ललितं ललतीव यत् स्वरघोलनाप्रकारेण शब्दस्पर्शनेन श्रोत्रेन्द्रियस्य सुखोत्पादनाद्वेति ८, एभिरष्टाभिर्गुणैर्युक्तं गेयं भवति, अन्यथा विडम्बना । किञ्चान्यत्- उर गाहा, उर:-कण्ठ-शिर:सु प्रशस्तं विशुद्धम्, अयमर्थः- यारसि स्वरो विशालस्तत उरोविशुद्धम्, कण्ठे यदि स्वरो वर्त्तितोऽस्फुटितश्च ततः कण्ठविशुद्धम्, शिरसि प्राप्तो यदि नानुनासिकस्तत: शिरोविशुद्धम्, अथवा उर:-कण्ठ-शिर:सु श्लेष्मणा अव्याकुलेषु विशुद्धेषु प्रशस्तेषु यत्तत्तथेति, चकारो गेयगुणान्तरसमुच्चये, गीयते उच्चार्यते गेयमिति सम्बध्यते, किंविशिष्टमित्याहमृदुकं मधुरस्वरं रिभितं यत्राक्षरेषु घोलनया संचरन् स्वरो रङ्गतीव, घोलनाबहुलमित्यर्थः, पदबद्धं गेयपदैनिबद्धमिति, पदत्रयस्य कर्मधारयः, समतालपडुक्खेवं ति समशब्दः प्रत्येकं सम्बध्यते, तेन समास्ताला हस्तताला उपचारात् तद्रवो यस्मिंस्तत् समतालं तथा समः प्रत्युत्क्षेपः प्रतिक्षेपो वा मुरज-कंशिकाद्यातोद्यानां यो ध्वनिस्तल्लक्षण: Page #167 -------------------------------------------------------------------------- ________________ ५६८ नृत्यत्पादक्षेपलक्षणो वा यस्मिंस्तत्समप्रत्युत्क्षेपं समप्रतिक्षेपं वेति । तथा सत्तसरसीभरं ति सप्त स्वरा: सीभरं ति अक्षरादिभि: समा यत्र तत् सप्तस्वरसीभरम्, ते चामी अक्खरसमं १ पयसमं २ तालसमं ३ लयसमं ४ गहसमं च ५। नीससिऊससियसमं ६ संचारसमं ७ सरा सत्त ॥ [अनुयोग० सू० २६० (१०)] त्ति । इयं च गाथा स्वरप्रकरणोपान्ते तंतिसममित्यादिरधीतापि इहाऽक्षरसममित्यादिः कृत्वा व्याख्यायते, अनुयोगद्वारटीकायामेवमेव दर्शनादिति, तत्र दीर्घ अक्षरे दीर्घः स्वर: क्रियते इस्वे हस्व: प्लुते प्लुत: सानुनासिके सानुनासिक: तदक्षरसमम्, तथा यद् गेयपदं नामिकादिकमन्यतरबन्धेन बद्धं यत्र स्वरे अनुपाति भवति तत्तत्रैव यत्र गीते गीयते तत् पदसममिति, यत् परस्पराहतहस्ततालस्वरानुवर्ति भवति तत्तालसमम्, शृङ्ग-दार्वाद्यन्यतरमयेनाङ्गुलिकोशकेनाहतायास्तन्त्र्या: स्वरप्रकारो लयस्तमनुसरतो गातुर्यद् गेयं तल्लयसमम्, प्रथमतो वंश-तन्त्र्यादिभिर्य: स्वरो गृहीतस्तत्समं गीयमानं ग्रहसमम्, नि:श्वसितोच्छ्वसितमानमनतिक्रामतो यद् गेयं तन्नि:- श्वसितोच्छ्वसितसमम्, तैरेव वंशतन्त्र्यादिभिर्यदङ्गुलिसञ्चारसमं गीयते तत् सञ्चारसमम्, गेयं च सप्त स्वरास्तदात्मकमित्यर्थः । यो गेये सूत्रबन्धः स एवमष्टगुण एव कार्य इत्याह- निद्दोसं सिलोगो, तत्र निर्दोषम् अलियमुवघायजणयं [आव० नि० ८८१-८८४, बृहत्कल्प० २७८-२८१] इत्यादिद्वात्रिंशत्सूत्रदोषरहितम् १, सारवद् अर्थेन युक्तम् २, हेतुयुक्तम् अर्थगमककारणयुक्तम् ३, अलङ्कृतं काव्यालङ्कारयुक्तम् ४, उपनीतम् उपसंहारयुक्तम् ५, सोपचारम् अनिष्ठुराविरुद्धालज्जनीयाभिधानं सोत्प्रासं वा ६, मितं पद-पादा-ऽक्षरैः, नापरिमितमित्यर्थः ७, मधुरम् त्रिधा शब्दा-ऽर्था-ऽभिधानतः ८, गेयं भवतीति शेषः। तिन्नि य वित्ताइं ति यदुक्तं तद्व्याख्या- समं सिलोगो, तत्र समं पादैरक्षरैश्च, तत्र पादैश्चतुर्भिरक्षरैस्तु गुरुलघुभिः, अर्द्धसमं त्वेकतरसमम्, विषमं तु सर्वत्र पादाक्षरापेक्षयेत्यर्थः, अन्ये तु व्याचक्षते- समं यत्र चतुर्वपि पादेषु समान्यक्षराणि, अर्द्धसमं यत्र प्रथम-तृतीययोर्द्वितीय-चतुर्थयोश्च समत्वम्, तथा सर्वत्र सर्वपादेषु विषमं Page #168 -------------------------------------------------------------------------- ________________ सप्तममध्ययनं सप्तस्थानकम् । ५६९ च विषमाक्षरं यद् यस्माद् वृत्तं भवति ततस्त्रीणि वृत्तप्रजातानि पद्यप्रकाराः, अत एव चतुर्थं नोपलभ्यत इति । दोन्नि य भणिईओ त्ति, अस्य व्याख्या- सक्कया सिलोगो, भणिति: भाषा आहिया आख्याता स्वरमण्डले षड्जादिस्वरसमूहे, शेषं कण्ठ्यम् । कीदृशी स्त्री कीदृशं गायतीति प्रश्नमाह- केसी गाहा, केसि त्ति कीदृशी खरं ति खरस्थानं रूक्षं प्रसिद्धं चतुरं दक्षं विलम्बं परिमन्थरं द्रुतं शीघ्रमिति । विस्सरं पुण केरिसि त्ति गाथाधिकमिति । उत्तरमाह- सामा गाहा कण्ठ्या, पिंगल त्ति कपिला । तंति गाहा, तन्त्रीसमं वीणादितन्त्रीशब्देन तुल्यं मिलितं च, शेषं प्राग्वत्, नवरं पादो वृत्तपाद:, तन्त्रीसममित्यादिषु गेयं सम्बन्धनीयम्, तथा गेयस्य स्वरानन्तरत्वादुक्तं संचारसमा सरा सत्त त्ति, अन्यथा सञ्चारसममिति वाच्यं स्यात्, तंतिसमा तालसमेत्यादि वेति । अयं च स्वरमण्डलसक्षेपार्थ:- सत्त सरा सिलोगो, तता तन्त्री तानो भण्यते, तत्र षड्जादिः स्वर: प्रत्येकं सप्तभिस्तानैर्गीयत इत्येवमेकोनपञ्चाशत् ताना: सप्ततन्त्रीकायां वीणायां भवन्तीति, एवमेकतन्त्रीकायां त्रितन्त्रीकायां च, कण्ठेनापि गीयमाना एकोनपञ्चाशदेवेति । स्वरप्रकरणं समाप्त। [सू०५५४] सत्तविधे कायकिलेसे पन्नत्ते, तंजहा-ठाणातिते, उक्कुडुयासणिते, पडिमट्ठाती, वीरासणिते, णेसजिते, दंडायतिए, लगंडसाती । [टी०] अनन्तरं गानतो लौकिक: कायक्लेश उक्तोऽधुना लोकोत्तरं तमेवाहसत्तविहेत्यादि, प्राय: प्रांगेव व्याख्यातमिदं तथापि किञ्चिल्लिख्यते, कायस्य शरीरस्य क्लेशः खेद: पीडा कायक्लेशो बाह्यतपोविशेषः, स्थानायतिकः [स्थानातिग: स्थानातिदो वा] कायोत्सर्गकारी, इह च धर्मधर्मिणोरभेदादेवमुपन्यासः, अन्यथा कायक्लेशस्य प्रक्रान्तत्वात् स एव वाच्य: स्यात्, न तद्वान्, इह तु तद्वानिर्दिष्ट इति, एवं सर्वत्र, उत्कुटुकासनिकः प्रतीतः, तथा प्रतिमास्थायी भिक्षुप्रतिमाकारी, वीरासनिको य: सिंहासननिविष्ट इवाऽऽस्ते, नैषधिकः समपद-पुतादिनिषद्योपवेशी, १. सू० ३९६ ॥ Page #169 -------------------------------------------------------------------------- ________________ ५७० दण्डायतिकः प्रसारितदेहः, लगण्डशायी भूम्यलग्नपृष्ठः । [सू० ५५५] जंबुद्दीवे दीवे सत्त वासा पन्नत्ता, तंजहा - भरहे, एरवते, हेमवते, हेरन्नवते, हरिवासे, रम्मगवासे, महाविदेहे । जंबुद्दीवे दीवे सत्त वासहरपव्वता पन्नत्ता, तंजहा - चुल्लहिमवंते, महाहिमवंते, निसढे, नीलवंते, रुप्पी, सिहरी, मंदरे । जंबुवे वे सत्त महानदीओ पुरत्थाभिमुहीओ लवणसमुदं समप्पेंति, तंजहा - गंगा, रोहिता, हिरी, सीता, णरकंता, सुवण्णकूला, रत्ता । जंबुद्दीवे दीवे सत्त महानदीओ पच्चत्थाभिमुहीओ लवणसमुद्दे समप्पेंति, तंजहा- सिंधू, रोहितंसा, हरिकंता, सीतोदा, णारिकंता, रुप्पकूला, रत्तावती । धायइसंडदीवपुरत्थिमद्धे णं सत्त वासा पन्नत्ता, तंजहा - भरहे जाव महाविदेहे । धायइसंडदीवपुरत्थिमद्धे णं सत्त वासहरपव्वता पन्नत्ता, तंजहा - चुल्लहिमवंते जाव मंदरे । धायइसंडदीवपुरत्थिमद्धे णं सत्त महानदीओ पुरत्थाभिमुहीओ कालोदसमुदं समप्पेंति, तंजहा - गंगा जाव रत्ता । धायइसंडदीवपुरत्थिमद्धे णं सत्त महानदीओ पच्चत्थाभिमुहीओ लवणसमुदं समप्पेंति, तंजहा-सिंधू जाव रत्तावती । धायइसंडदीवपच्चत्थिमद्धे णं सत्त वासा एवं चेव, णवरं पुरत्थाभिमुहीओ लवणसमुद्दं समप्पेंति, पच्चत्थाभिमुहीओ कालोद, सेसं तं चेव । पुक्खरवरदीवढपुरत्थिमद्धे णं सत्त वासा तहेव, णवरं पुरत्थाभिमुहीओ पुक्खरोदं समुदं समप्पेंति, पच्चत्थाभिमुहीतो कालोदं समुदं समप्पेंति, सेसं तं चेव। एवं पच्चत्थिमद्धे वि, णवरं पुरत्थाभिमुहीओ कालोदं समुदं समप्पेंति, पच्चत्थाभिमुहीओ पुक्खरोदं समुदं समप्पेंति, सव्वत्थ वासा वासहरपव्वता णदीओ य भाणितव्वाणि । [टी०] इदं च कायक्लेशरूपं तपो मनुष्यलोक एवास्तीति तत्प्रतिपादनपरं Page #170 -------------------------------------------------------------------------- ________________ सप्तममध्ययनं सप्तस्थानकम् । ५७१ जंबुद्दीवेत्यादि प्रकरणम्, गतार्थं चैतत् । । [सू० ५५६] जंबुद्दीवे दीवे भारहे वासे तीताते उस्सप्पिणीते सत्त कुलकरा होत्था, तंजहा मित्तदामे सुदामे य सुपासे य सयंपभे । विमलयोसे सुघोसे य महाघोसे य सत्तमे ॥७९॥ जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीते सत्त कुलकरा होत्था, तंजहा पढमित्थ विमलवाहण चक्खुम जसमं चउत्थमभिचंदे । तत्तो पसेणती पण मरुदेवे चेव नाभी य ॥८॥ एतेसि णं सत्तण्हं कुलकराणं सत्त भारियाओ होत्था, तंजहाचंदजसा चंदकंता सुरूव पडिरूव चक्खुकंता य । सिरिकंता मरुदेवा कुलकरइत्थीण नामाइं ॥८१॥ जंबुद्दीवे दीवे भारहे वासे आगमेसाते उस्सप्पिणीते सत्त कुलकरा भविस्संति, तंजहामित्तवाहणे सुभोमे य सुप्पभे य सयंपभे । दत्ते सुहुमे सुबंधू य आगमेसेण होक्खती ॥८२॥ विमलवाहणे णं कुलकरे सत्तविधा रुक्खा उवभोगत्ताते हव्वमागच्छिंसु, तंजहा मत्तंगता त भिंगा चित्तंगा चेव होंति चित्तरसा । मणियंगा त अणियणा सत्तमगा कप्परुक्खा य ॥८३॥ [सू० ५५७] सत्तविधा दंडनीती पन्नत्ता, तंजहा-हक्कारे, मक्कारे, धिक्कारे, परिभासे, मंडलबंधे, चारते, छविच्छेदे । [सू० ५५८] एगमेगस्स णं रन्नो चाउरंतचक्कवहिस्स सत्त एगिदियरतणा पन्नत्ता, तंजहा-चक्करतणे, छत्तरयणे, चम्मरयणे, दंडरतणे, असिरतणे, मणिरयणे, काकणिरतणे । Page #171 -------------------------------------------------------------------------- ________________ ५७२ एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स सत्त पंचेंदियरतणा पन्नत्ता, तंजासेणावतीरतणे, गाहावतिरतणे, वडतिरयणे, पुरोहितरयणे, इत्थिरतणे, आसरतणे, हत्थिरयणे । [टी०] मनुष्यक्षेत्राधिकारात्तद्गतकुलकर- कल्पवृक्ष-नीति- रत्न- दुष्षमादिलिङ्गसूत्राणि, पाठसिद्धानि चैतानि, नवरम् आगमिस्सेण होक्खड़ त्ति आगमिष्यता कालेन हेतुना भविष्यतीत्यर्थः, तथा विमलवाहने प्रथमकुलकरे सति सप्तविधा इति पूर्वं दशविधा अभूवन्, रुक्ख त्ति कल्पवृक्षाः, उवभोगत्ताए त्ति उपभोग्यतया हव्वं शीघ्रमागतवन्तः, भोजनादिसम्पादनेनोपभोगं तत्कालीनमनुष्याणामागता इत्यर्थः । मत्तंगया य गाहा, मत्तंगया इति मत्तं मदस्तस्य कारणत्वान्मद्यमिह मत्तशब्देनोच्यते, तस्याङ्गभूताः कारणभूताः, तदेव वाऽङ्गम् अवयवो येषां ते मत्ताङ्गकाः, सुखपेयमद्यदायिन इत्यर्थः, चकारः पूरणे, भिंग त्ति संज्ञाशब्दत्वाद् भृङ्गारादि - विविधभाजनसम्पादका भृङ्गाः, चित्तंग त्ति चित्रस्य अनेकविधस्य माल्यस्य कारणत्वाच्चित्राङ्गाः, चित्तरस त्ति चित्रा विचित्रा रसा मधुरादयो मनोहारिणो येभ्यः सकाशात् सम्पद्यन्ते ते चित्ररसा:, मणियंग त्ति मणीनाम् आभरणभूतानामङ्गभूताः कारणभूताः मणयो वा अङ्गानि अवयवा येषां ते मण्यङ्गाः, भूषणसम्पादका इत्यर्थः, अणियण त्ि अनग्नकारकत्वादनग्ना विशिष्टवस्त्रदायिनः, संज्ञाशब्दो वाऽयमिति, कप्परुक्ख उक्तव्यतिरिक्तसामान्यकल्पितफलदायित्वेन कल्पना कल्पस्तत्प्रधाना वृक्षाः कल्पवृक्षा इति । [दंडनीइ त्ति] दण्डनं दण्डः अपराधिनामनुशासनम्, तत्र तस्य वा स एव वा नीति: नयो दण्डनीतिः, हक्कारे त्ति ह इत्यधिक्षेपार्थस्तस्य करणं हक्कारः, अयमर्थः- प्रथमद्वितीयकुलकरकालेऽपराधिनो दण्डो हक्कारमात्रम्, तेनैवासौ हृतसर्वस्वमिवात्मानं मन्यमानः पुनरपराधस्थाने न वर्त्तत इति तस्य दण्डनीतिता, एवं मा इत्यस्य निषेधार्थस्य करणम् अभिधानं माकारः, तृतीय- चतुर्थकुलकरकाले महत्यपराधे माकारो दण्डः इतरत्र तु पूर्व एवेति, तथा धिगधिक्षेपार्थ एव, तस्य करणम् उच्चारणं धिक्कारः, पञ्चम-षष्ठ Page #172 -------------------------------------------------------------------------- ________________ सप्तममध्ययनं सप्तस्थानकम् । ५७३ सप्तमकुलकरकाले महापराधे धिक्कारो दण्डो जघन्य-मध्यमापराधयोस्तु क्रमेण हक्कारमाकाराविति। तथा परिभाषणं परिभाषा अपराधिनं प्रति कोपाविष्कारेण मा यासीरित्यभिधानम्, तथा मण्डलबन्धो मण्डलम् इङ्गितं क्षेत्रम्, तत्र बन्धो नास्मात् प्रदेशाद् गन्तव्यमित्येवं वचनलक्षणम्, पुरुषमण्डलपरिवारणलक्षणो वा, चारकम् गुप्तिगृहम्, छविच्छेदो हस्त-पाद-नासिकादिच्छेदः, इयमनन्तरा चतुर्विधा भरतकाले बभूव, चतसृणामन्त्यानामाद्यद्वयमृषभकाले अन्ये तु भरतकाले इत्यन्ये।। चक्करयणेत्यादि, रत्नं निगद्यते तत् जातौ यदुत्कृष्टम् [ ] इति वचनात् चक्रादिजातिषु यानि वीर्यत उत्कृष्टानि तानि चक्ररत्नादीनि मन्तव्यानि, तत्र चक्रादीनि सप्तैकेन्द्रियाणि पृथिवीपरिणामरूपाणि, तेषां च प्रमाणम् चक्कं छत्तं दंडो तिन्नि वि एयाई वामतुल्लाई । चम्मं दुहत्थदीहं बत्तीसं अंगुलाई असी ॥ चउरंगुलो मणी पुण तस्सद्धं चेव होइ वित्थिन्नो । चउरंगुलप्पमाणा सुवन्नवरकागणी नेया ॥ [बृहत्सं० ३०१-२] सेनापति: सैन्यनायकः, गृहपति: कोष्ठागारनियुक्तः, वर्द्धकी सूत्रधारः, पुरोहित: शान्तिकर्मकारीति, चतुर्दशाप्येतानि प्रत्येकं यक्षसहस्राधिष्ठितानीति । [सू० ५५९] सत्तहिं ठाणेहिं ओगाढं दुस्समं जाणेजा, तंजहा-अकाले वरिसइ, काले ण वरिसइ, असाधू पुजंति, साधु ण पुजंति, गुरूहि जणो मिच्छं पडिवन्नो, मणोदुहता, वतिदुहता । सत्तहिं ठाणेहिं ओगाढं सुसमं जाणेजा, तंजहा-अकाले न वरिसइ, काले वरिसति, असाधू ण पुजंति, साधू पुजंति, गुरूहि जणो सम्मं पडिवन्नो, मणोसुहता, वतिसुहता । [टी०] सुगमे सूत्रे किन्तु ओगाढं ति अवतीर्णाम् अवगाढां वा प्रकर्षप्राप्तामिति । अकाल: अवर्षाः । असाधव: असंयता: । गुरुषु माता-पितृ-धर्माचार्येषु मिच्छं मिथ्याभावं विनयभ्रंशमित्यर्थः प्रतिपन्न: आश्रित: । मणोदुहय त्ति मनसो मनसा वा Page #173 -------------------------------------------------------------------------- ________________ ५७४ दुःखिता दुःखितत्वं दु:खकारित्वं वा द्रोहकत्वं वा, एवं वइदुहयेत्यपि व्याख्येयमिति । सम्मं ति सम्यग्भावं विनयमित्यर्थः। [सू० ५६०] सत्तविधा संसारसमावनगा जीवा पन्नत्ता, तंजहा-नेरतिता, तिरिक्खजोणिता, तिरिक्खजोणिणीतो, मणुस्सा, मणुस्सीओ, देवा, देवीओ। [टी०] एते च दुष्षमा-सुषमे संसारिणां दु:खाय सुखाय चेति संसारिप्ररूपणायाहसत्तेत्यादि कण्ठ्यम् । [सू० ५६१] सत्तविधे आउभेदे पन्नत्ते, तंजहाअज्झवसाण-निमित्ते आहारे वेयणा-पराघाते । फासे आणापाणू सत्तविधं भिज्जए आउं ॥८४॥ [टी०] संसारिणां च संसरणम् आयुर्भेदे सति भवतीति दर्शनायाह– सत्तेत्यादि, तत्र आउयभेदे त्ति आयुषो जीवितव्यस्य भेदः उपक्रम: आयुर्भेदः, स च सप्तविधनिमित्तप्रापितत्वात् सप्तविध एवेति । अज्झवसाण गाहा, अध्यवसानं रागस्नेह-भयात्मकोऽध्यवसायो निमित्तं दण्ड-कश-शस्त्रादीति समाहारद्वन्द्वः, तत्र सति आयुर्भिद्यत इति सम्बन्धः, तथा आहारे भोजनेऽधिके सति, तथा वेदना नयनादिपीडा, पराघातो गर्त्तपातादिसमुत्थः, इहापि समाहारद्वन्द्व एव, तत्र सति, तथा स्पर्श तथाविधभुजङ्गादिसम्बन्धिनि सति, तथा आणापाणु त्ति उच्छ्वास-नि:श्वासौ निरुद्धावाश्रित्येति, एवं च सप्तविधं यथा भवति तथा भिद्यते आयुरिति । प्रथमैकवचनान्तत्वादध्यवसानादिपदानाम्, एवं सप्तविधत्वादायुर्भेदहेतूनां सप्तविधं यथा भवति तथा भिद्यते आयुरिति, अयं चायुर्भेद: सोपक्रमायुषामेव नेतरेषामिति । आह– यद्येवं भिद्यते आयुस्तत: कृतनाशोऽकृताभ्यागमश्च स्यात्, कथम् ?, संवत्सरशतमुपनिबद्धमायुस्तस्य अपान्तराल एव व्यपगमात् कृतनाशो येन च कर्मणा तद् भिद्यते तस्याकृतस्यैवाभ्यागमः, एवं च मोक्षानाश्वासः, ततश्चारित्राप्रवृत्त्यादयो दोषा इति, आह चकम्मोवक्कामिजइ अपत्तकालं पि जइ तओ पत्ता । अकयागमकयनासा मोक्खाणासासओ दोसा ॥ [विशेषाव० २०४७] Page #174 -------------------------------------------------------------------------- ________________ सप्तममध्ययनं सप्तस्थानकम् । अत्रोच्यते— यथा वर्षशतभोग्यभक्तमप्यग्निकव्याधितस्याल्पेनापि कालेनोपभुञ्जानस्य न कृतनाशो नाप्यकृताभ्यागमस्तद्वदिहापीति, आह च न हि दीहकालियस्स वि णासो तस्साणुभूइओ खिप्पं । बहुकालाहारस्स व दुयमग्गियरोगिणो भोगो ॥ सव्वं च परसतया भुज्जइ कम्ममणुभागओ भइयं । तेणावस्साणुभवे के कयनासादओ तस्स ? ॥ [ विशेषाव० २०४८-४९] इत्यादि । [सू० ५६२] सत्तविधा सव्वजीवा पन्नत्ता, तंजहा पुढविकाइया, आउकाइया, तेउकाइया, वाउकाइया, वणस्सतिकाइया, तसकाइया, अकाइया । अहवा सत्तविहा सव्वजीवा पन्नत्ता, तंजहा - कण्हलेसा जाव सुक्कलेसा, अलेसा । [टी०] अयं चायुर्भेद: कथञ्चित् सर्वजीवानामस्तीति तानाह - [ सत्तेत्यादि ] सूत्रद्वयं कण्ठ्यम्, नवरं सर्वे च ते जीवाश्चेति सर्वजीवाः, संसारि - मुक्ता इत्यर्थः, तथा अकाइय त्ति सिद्धाः षड्विधकायाव्यपदेश्यत्वादिति । अलेश्याः सिद्धाः अयोगिनो वेति । [सू० ५६३ ] बंभदत्ते णं राया चाउरंतचक्कवट्टी सत्त धणूई उड्डउच्चत्तेणं सत्त य वाससताइं परमाउं पालयित्ता कालमासे कालं किच्चा अधे सत्तमाते पुढवीते अप्पतिट्ठाणे णरए णेरतितत्ताते ववन्ने । [टी०] अनन्तरं कृष्णलेश्यादयो जीवभेदा उक्ता:, तत्र च कृष्णलेश्यः सन्नारकोऽप्युत्पद्यते ब्रह्मदत्तवदिति ब्रह्मदत्तस्वरूपाभिधानायाह - [ बंभदत्तेत्यादि ] सुगमम्। [सू० ५६४ ] मल्ली णं अरहा अप्पसत्तमे मुंडे भवित्ता अगारातो अणगारिय पव्वइए, तंजहा-मल्ली विदेहरायवरकन्नगा, पडिबुद्धी इक्खागराया, चंदच्छाये अंगराया, रुप्पी कुणालाधिपती, संखे कासीराया, अदीणसत्तू कुरुराया, जितसत्तू पंचालराया । - ५७५ Page #175 -------------------------------------------------------------------------- ________________ ५७६ [टी०] ब्रह्मदत्त उत्तमपुरुष इति तदधिकारात् उत्तमपुरुषविशेषस्थानोत्पन्नमल्लि वक्तव्यतामाह– मल्ली णमित्यादि, मल्लिरहन् अप्पसत्तमे त्ति आत्मना सप्तमः सप्तानां पूरण:, आत्मा वा सप्तमो यस्यासावात्मसप्तमः, मल्लिशब्दस्य स्त्रीलिङ्गत्वेऽप्यर्हच्छब्दापेक्षया पुंनिर्देश:, विदेहजनपदराजस्य वरकन्या विदेहराजवरकन्या १, तथा प्रतिबुद्धिर्नाम्ना इक्ष्वाकुराज: साकेतनिवासी २, चन्द्रच्छायो नाम अङ्गजनपदराजश्चम्पानिवासी ३, रुक्मी नाम कुणालजनपदाधिपतिः श्रावस्तीवास्तव्यः ४, शङ्खो नाम काशीजनपदराजो वाराणसीनिवासी ५, अदीनशत्रुर्नाम्ना कुरुदेशनाथः हस्तिनागपुरवास्तव्यः ६, जितशत्रुर्नाम पञ्चालजनपदराजः काम्पिल्यनगरनायक इति ७, आत्मसप्तमत्वं च भगवतः प्रव्रज्यायामभिहितप्रधानपुरुषापेक्षयावगन्तव्यम्, यतः प्रव्रजितेन तेन ते प्रव्राजितः, तथा त्रिभिः पुरुषशतै: बाह्यपरिषदा त्रिभिश्च स्त्रीशतैरभ्यन्तरपरिषदाऽसौ संपरिवृतः प्रव्रजित इति ज्ञातेषु श्रूयत इति, उक्तं च- पास मल्ली य तिहिं तिहिं सएहिं[आव० नि० २२४] ति, एवमन्येष्वपि विरोधाभासेषु विषयविभागाः सम्भवन्तीति निपुणैर्गवेषणीयाः, शेषं सुगममिति । अत्र मल्लिचरित्रं ज्ञाताधर्म्मकथाङ्गे । [सू० ५६५ ] सत्तविहे दंसणे पन्नत्ते, तंजहा सम्मदंसणे, मिच्छदंसणे, सम्मामिच्छदंसणे, चक्खुदंसणे, अचक्खुदंसणे, ओहिदंसणे, केवलदंसणे । [टी०] एते च मल्ल्यादयः सम्यग्दर्शने सति प्रव्रजिता इति सामान्यतो दर्शननिरूपणायाह– सुगमम् परं सम्यग्दर्शनं सम्यक्त्वं मिथ्यादर्शनं मिथ्यात्वं सम्यग्मिथ्यादर्शनं मिश्रमिति, एतच्च त्रिविधमपि दर्शनमोहनीयभेदानां क्षयक्षयोपशमोपशमोदयेभ्यो जायते तथाविधरुचिस्वभावं चेति, चक्षुर्दर्शनादि तु दर्शनावरणीयभेदचतुष्टयस्य यथासम्भवं क्षयोपशम-क्षयाभ्यां जायते सामान्यग्रहणस्वभावं चेति, तदेवं श्रद्धान-सामान्यग्रहणयोर्दर्शनशब्दवाच्यत्वाद्दर्शनं सप्तधोक्तमिति । [सू० ५६६] छउमत्थवीयरागे णं मोहणिज्जवज्जाओ सत्त कम्मपयडीओ वेदेति, तंजहा - णाणावरणिज्जं दरिसणावरणिज्जं वेयणिजं आउयं नामं गोतमंतरातितं । [सू० ५६७ ] सत्त ठाणाइं छउमत्थे सव्वभावेणं न याणति न पासति, Page #176 -------------------------------------------------------------------------- ________________ सप्तममध्ययन सप्तस्थानकम् । ५७७ तंजहा-धम्मत्थिकायं, अधम्मत्थिकायं, आगासत्थिकायं, जीवं असरीरपडिबद्धं, परमाणुपोग्गलं, सई, गंधं । ___ एयाणि चेव उप्पन्नणाणे जाव जाणति पासति, तंजहा-धम्मत्थिकायं जाव गंधं । [टी०] अनन्तरं केवलदर्शनमुक्तम्, तच्च छद्मस्थावस्थाया अनन्तरं भवतीति छद्मस्थप्रतिबद्धं सूत्रद्वयं विपर्ययसूत्रं च छउमत्थेत्यादि सुगमम्, नवरं छद्मनि आवरणद्वयरूपे अन्तराये च कर्मणि तिष्ठतीति छद्मस्थ: अनुत्पन्नकेवलज्ञान-दर्शन: स चासौ वीतरागश्च उपशान्तमोहत्वात् क्षीणमोहत्वाद्वा विगतरागोदय इत्यर्थः, सत्त त्ति मोहस्य क्षयादुपशमाद्वा नाऽष्टावित्यर्थः, अत एवाह- मोहणिज्जवज्जाउ त्ति । [सू० ५६८] समणे भगवं महावीरे वइरोसभणारातसंघयणे समचउरंससंठाणसंठिते सत्त रयणीओ उटुंउच्चत्तेणं होत्था । [सू० ५६९] सत्त विकहाओ पन्नत्ताओ, तंजहा-इत्थिकहा, भत्तकहा, देसकहा, रायकहा, मिउकोलुणिता, दंसणभेयणी, चरित्तभेदणी । [टी०] एतान्येव च जिनो जानातीत्युक्तम्, स च वर्तमानतीर्थे महावीर इति तत्स्वरूपं तत्प्रतिषिद्धविकथाभेदांश्चाह–समणे इत्यादि सूत्रद्वयं सुगमम्, नवरं विकहाउ त्ति चतम्रः प्रसिद्धा: व्याख्याताश्चेति । मिउकोलुणिय त्ति श्रोतृहृदयमाईवजननात् मृद्वी सा चासौ कारुणिकी च कारुण्यवती मृदुकारुणिकी पुत्रादिवियोगदुःखदुःखितमात्रादिकृतकारुण्यरसगर्भप्रलापप्रधानेत्यर्थः, तद्यथा हा पुत्त पुत्त हा वच्छ ! वच्छ ! मुक्का मि कहमणाहाहं ? । एवं कलुणविलावा जलंतजलणेऽज सा पडिया ॥ [ ] इति । दर्शनभेदनी ज्ञानाद्यतिशयतः कुतीर्थिकप्रशंसादिरूपा, तद्यथासूक्ष्मयुक्तिशतोपेतं सूक्ष्मबुद्धिकरं परम् । सूक्ष्मार्थदर्शिभिर्दृष्टं श्रोतव्यं बौद्धशासनम् ॥ [ ] इत्यादि । एवं हि श्रोतॄणां तदनुरागात् सम्यग्दर्शनभेद: स्यादिति । चारित्रभेदनी 'न १. सू० २८२ ॥ Page #177 -------------------------------------------------------------------------- ________________ ५७८ सम्भवन्तीदानीं महाव्रतानि साधूनां प्रमादबहुलत्वादतिचारप्रचुरत्वादतिचारशोधकाचार्यतत्कारकसाधु-शुद्धीनामभावादिति ज्ञान-दर्शनाभ्यां तीर्थं वर्त्तत इति ज्ञान-दर्शनकर्त्तव्येष्वेव यत्नो विधेयः' इत्यादि । अनया हि प्रतिपन्नचारित्रस्यापि तद्वैमुख्यमुपजायते किं पुनस्तदभिमुखस्येति चारित्रभेदनीति । [सू० ५७०] आयरिय-उवज्झायस्स णं गणंसि सत्त अतिसेसा पन्नत्ता. तंजहा-आयरियउवज्झाए अंतो उवस्सगस्स पाते णिगिज्झिय णिगिज्झिय पप्फोडेमाणे वा पमजमाणे वा णातिक्कमति, एवं जधा पंचट्ठाणे जाव बाहिं उवस्सगस्स एगरातं वा दुरातं वा वसमाणे नातिक्कमति, उवकरणातिसेसे, भत्तपाणातिसेसे । [टी०] विकथासु च वर्तमानान् साधूनाचार्या निषेधयन्ति सातिशयत्वात्तेषामिति तदतिशयप्रतिपादनायाह- आयरियेत्यादि, पञ्चस्थानके व्याख्यातप्रायं तथापि किञ्चिदुच्यते- आचार्योपाध्यायो निगृह्य निगृह्य अन्तर्भूतकारितार्थत्वेन पादधूल्या: प्रसरन्त्या निग्रहं कारयित्वा प्रस्फोटयन् पादप्रोञ्छनेन वैयावृत्यकरादिना प्रस्फोटनं कारयन् प्रमार्जयन् प्रमार्जनं कारयन् नाज्ञामतिक्रामति, शेषसाधव: उपाश्रयाद् बहिरिदं कुर्वन्तीत्याचार्यादेरतिशयः, [एवमित्यादिनेदं सूचितम् ‘आयरियउवज्झाए अंतो उवस्सयस्स उच्चारपासवणं विगिंचेमाणे वा विसोहेमाणे वा णाइक्कमइ २, आयरियउवज्झाए पभू इच्छा वेयावडियं करेजा इच्छा नो करेजा ३, आयरियउवज्झाए अंतो उवस्सयस्स एगरायं वा दुरायं वा संवसमाणे णाइक्कमइ ४, आयरियउवज्झाए बाहिं उवस्सयस्स एगरायं वा दुरायं वा संवसमाणे णाइक्कमइ ५,'] एतद् व्याख्यातमेवेति । इदमधिकम्- उपकरणातिशेष: शेषसाधुभ्य: सकाशात् प्रधानोज्ज्वलवस्त्राद्युपकरणता, उक्तं च आयरियगिलाणाणं मइला मइला पुणो वि धोवंति । मा हु गुरूण अवन्नो लोगम्मि अजीरणं इयरे ॥ [ओघनि० ३५१] इति ग्लाने इत्यर्थः। भक्तपानातिशेष: पूज्यतरभक्तपानतेति, उक्तं च १. सू० ४३८ ॥ Page #178 -------------------------------------------------------------------------- ________________ सप्तममध्ययनं सप्तस्थानकम् । कलमोयणो उ पयसा परिहाणी जाव कोद्दवुब्भज्जी । तत्थ उ मिउ तुप्पतरं जत्थ य जं अच्चियं दोसु ॥ [ओघनि० भा० ३०७] कोद्दवुब्भजि त्ति कोद्दवजाउलयम्, दोसु त्ति क्षेत्र-कालयोरिति, गुणाश्चैतेसुत्तत्थथिरीकरणं विणओ गुरुपूय सेहबहुमाणो । दाणवतिसद्धवुड्डी बुद्धीबलवद्धणं चेव ॥ [ओघनि० ६०९] इति । [सू० ५७१] सत्तविधे संजमे पन्नत्ते, तंजहा-पुढविकातितसंजमे जाव तसकातितसंजमे, अजीवकायसंजमे १ । सत्तविधे असंजमे पन्नत्ते, तंजहा-पुढविकातितअसंजमे जाव तसकातितअसंजमे, अजीवकायअसंजमे २ । __ सत्तविधे आरंभे पन्नत्ते, तंजहा-पुढविकातितआरंभे जाव अजीवकातआरंभे ३ । एवमणारंभे वि ४, एवं सारंभे वि ५, एवमसारंभे वि ६, एवं समारंभे वि ७, एवं असमारंभे वि जाव अजीवकायअसमारंभे ८ । __ [टी०] एते चाचार्यातिशया: संयमोपकारायैव विधीयन्ते न रागादिनेति संयमं तद्विपक्षभूतमसंयमं चासंयमभेदभूतारम्भादित्रयं च सविपक्षं प्रतिपादयन् सूत्राष्टकं सातिदेशमाह– सत्तविहे इत्यादि सर्वं सुगमम्, नवरं संयम: पृथिव्यादिविषयेभ्यः सङ्घट्ट-परितापोपद्रवणेभ्य: उपरमः, अजीवकायसंजमे त्ति अजीवकायानां पुस्तकादीनां ग्रहण-परिभोगोपरम:, असंयमस्त्वनुपरम:, आरम्भादयोऽसंयमभेदाः, तल्लक्षणमिदं प्रागभिहितम् आरंभो उद्दवओ परितावकरो भवे समारंभो । संकप्पो संरंभो सुद्धनयाणं तु सव्वेसिं ॥ [ ] ति । नन्वारम्भादयोऽपद्रावण-परितापादिरूपा उक्तास्ते चाजीवकायानामचेतनतया न युक्तास्तदयोगादजीवकायानारम्भादयोऽपीति, अत्रोच्यते, अजीवेषु पुस्तकादिषु ये समाश्रिता जीवास्तदपेक्षया अजीवकायप्राधान्यादजीवकायारम्भादयो न विरुध्यन्त इति। [सू० ५७२] अध भंते ! अदसि-कुसुंभ-कोद्दव-कंगु-रालग-वरा-कोदसगसण-सरिसव-मूलगबीयाणं एतेसि णं धन्नाणं कोट्ठाउत्ताणं पल्लाउत्ताणं जाव Page #179 -------------------------------------------------------------------------- ________________ ५८० पिहिताणं केवतितं कालं जोणी संचिट्ठति ? गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं सत्त संवच्छराई, तेण परं जोणी पमिलायति जाव जोणीवोच्छेदे पण्णत्ते १ । [सू० ५७३] बादरआउकाइयाणं उक्कोसेणं सत्त वाससहस्साई ठिती पन्नत्ता तच्चाए णं वालुयप्पभाते पुढवीते उक्कोसेणं नेरइयाणं सत्त सागरोवमाइं ठिती पण्णत्ता ३ । ___ चउत्थीते णं पंकप्पभाते पुढवीते जहन्नेणं नेरइयाणं सत्त सागरोवमाइं ठिती पन्नत्ता ४ । [टी०] अनन्तरं संयमादय उक्तास्ते च जीवविषया इति जीवविशेषान् स्थितित: प्रतिपादयन् सूत्रचतुष्टयमाह- अहेत्यादि सूत्रसिद्धम्, नवरम् अथेति परिप्रश्नार्थ:, भदन्तेति गुर्वामन्त्रणम्, अयसीति अतसी, कुसुंभो लट्टा, रालक: कंगूविशेष:, सन: त्वक्प्रधानो धान्यविशेषः, सर्षपाः सिद्धार्थकाः, मूलकः शाकविशेषः, तस्य बीजानि मूलकबीजानि, ककारलोप-सन्धिभ्यां मूलाबीय त्ति प्रतिपादितमिति, शेषाणां पर्याया लोकरूढितो ज्ञेया इति, यावद्ग्रहणात् ‘मंचाउत्ताणं मालाउत्ताणं ओलित्ताणं लित्ताणं लंछियाणं मुद्दियाणं' ति द्रष्टव्यम्, व्याख्याऽस्य प्रागिवेति, पुनर्यावत्करणात् पविद्धंसइ विद्धंसइ से बीए अबीए भवइ तेण परं' ति दृश्यम् । बादरआउकाइयाणं ति, सूक्ष्माणां त्वन्तर्मुहूर्तमेवेति, एवमुत्तरत्रापि विशेषणफलं यथासम्भवं स्वधिया योजनीयम् । [सू० ५७४] सक्कस्स णं देविंदस्स देवरन्नो वरुणस्स महारण्णो सत्त अग्गमहिसीतो पन्नत्ताओ । ईसाणस्स णं देविंदस्स देवरन्नो सोमस्स महारण्णो सत्त अग्गमहिसीतो पन्नत्ताओ। ईसाणस्स णं देविंदस्स देवरण्णो जमस्स महारण्णो सत्त अग्गमहिसीओ पन्नत्ताओ। १. सू० १५४, ४५९ ॥ Page #180 -------------------------------------------------------------------------- ________________ सप्तममध्ययनं सप्तस्थानकम् । ५८१ [सू० ५७५] ईसाणस्स णं देविंदस्स देवरण्णो अन्भिंतरपरिसाते देवाणं सत्त पलिओवमाई ठिती पन्नत्ता । सक्कस्स णं देविंदस्स देवरन्नो अग्गमहिसीणं देवीणं सत्त पलिओवमाइं ठिती पन्नत्ता । सोहम्मे कप्पे परिग्गहियाणं देवीणं उक्कोसेणं सत्त पलिओवमाइं ठिती पन्नत्ता । [सू० ५७६] सारस्सयमाइच्चाणं सत्त देवा सत्त देवसता पन्नत्ता । गद्दतोय-तुसियाणं देवाणं सत्त देवा सत्त देवसहस्सा पन्नत्ता । [सू० ५७७] सणंकुमारे कप्पे उक्कोसेणं देवाणं सत्त सागरोवमाइं ठिती पन्नत्ता । माहिंदे कप्पे उक्कोसेणं देवाणं सातिरेगाइं सत्त सागरोवमाइं ठिती पन्नत्ता। बंभलोगे कप्पे जहन्नेणं देवाणं सत्त सागरोवमाइं ठिती पन्नत्ता । [सू० ५७८] बंभलोय-लंततेसु णं कप्पेसु विमाणा सत्त जोयणसताई उडुंउच्चत्तेणं पन्नत्ता । सू० ५७९] भवणवासीणं देवाणं भवधारणिज्जा सरीरगा उक्कोसेणं सत्त रयणीओ उटुंउच्चत्तेणं, एवं वाणमंतराणं, एवं जोइसियाणं । सोहम्मीसाणेसु णं कप्पेसु देवाणं भवधारणिजगा सरीरा सत्त रयणीओ उटुंउच्चत्तेणं पन्नत्ता ।। [टी०] अनन्तरं नारका उक्ता इति स्थिति-शरीरादिभिस्तत्साधाद्देवानां वक्तव्यतामभिधित्सुः सूत्रप्रपञ्चमाह- सक्कस्सेत्यादि, सुगमश्चायम् सूत्रप्रपञ्चः, नवरं वरुणस्स महारनो त्ति लोकपालस्य पश्चिमदिग्वर्तिनः, सोमस्य पूर्वदिग्लोकपालस्य, यमस्य दक्षिणदिग्लोकपालस्य । [सू० ५८०] णंदिस्सरवरदीवस्स णं दीवस्स अंतो सत्त दीवा पन्नत्ता, तंजहा-जंबूदीवे, धायइसंडे, पोक्खरवरे, वरुणवरे, खीरवरे, घयवरे, खोयवरे। गंदीसरवरदीवस्स णं दीवस्स अंतो सत्त समुद्दा पन्नत्ता, तंजहा-लवणे, Page #181 -------------------------------------------------------------------------- ________________ ५८२ कालोदे, पुक्खरोदे, वरुणोदे, खीरोदे, घओदे, खोतोदे । [टी०] अनन्तरं देवानामधिकार उक्तो देवावासाश्च द्वीप-समुद्रा इति तदर्थं नंदीसरेत्यादि सूत्रद्वयं कण्ठ्य म् । [सू० ५८१] सत्त सेढीओ पन्नत्ताओ, तंजहा-उज्जुआयता, एगतो वंका, दुहतो वंका, एगतो खहा, दुहतो खहा, चक्कवाला, अद्धचक्कवाला । __ [टी०] एते च प्रदेशश्रेणीसमूहात्मकक्षेत्राधारा: श्रेण्याऽवस्थिता इति श्रेणिप्ररूपणायाह[सत्त सेढीत्यादि], श्रेणय: प्रदेशपङ्क्तय:, ऋज्वी सरला सा चासावायता च दीर्घा ऋज्वायता, स्थापना _, एकओ वंका एकस्यां दिशि वक्रा L, दुहओ वंका उभयतो वक्रा, एगओ खहा एकस्यां दिश्यङ्कुशाकारा , दुहओ खहा उभयतोऽङ्कुशाकारा 2, चक्रवाला वलयाकृतिः ० , अर्द्धचक्रवाला अर्द्धवलयाकारेति (। एताश्चैकतोवक्राद्या लोकपर्यन्तप्रदेशापेक्षा: सम्भाव्यन्ते । [सू० ५८२] चमरस्स णं असुरिंदस्स असुरकुमाररन्नो सत्त अणिता सत्त अणिताधिपती पन्नत्ता, तंजहा-पत्ताणिते, पीढाणिते, कुंजराणिते, महिसाणिते, रहाणिते, नट्टाणिते, गंधव्वाणिते । दुमे पत्ताणिताधिपती एवं जहा पंचट्ठाणे जाव किंनरे रधाणिताधिपती, रिटे णट्टाणियाधिपती, गीतरती गंधव्वाणिताधिपती । बलिस्स णं वइरोयणिंदस्स वइरोयणरण्णो सत्त अणिया सत्त अणियाधिपती पन्नत्ता, तंजहा-पत्ताणिते जाव गंधव्वाणिते । महद्दमे पत्ताणिताधिपती जाव किंपुरिसे रधाणिताधिपती, महारिढे णट्टाणिताधिपती, गीतजसे गंधव्वाणिताधिपती । धरणस्स णं नागकुमारिंदस्स नागकुमाररण्णो सत्त अणिता सत्त अणिताधिपती पन्नत्ता, तंजहा-पत्ताणिते जाव गंधव्वाणिते । रुद्दसेणे पत्ताणिताधिपती जाव आणंदे रधाणिताधिपती, नंदणे णट्टाणियाधिपती, तेतली गंधव्वाणियाधिपती । १. सू० ४०४ ॥ Page #182 -------------------------------------------------------------------------- ________________ सप्तममध्ययनं सप्तस्थानकम् । भूताणंदस्स सत्त अणिया सत्त अणियाहिवई पन्नत्ता, तंजा-पत्ताणिते जाव गंधव्वाणिए । दक्खे पत्ताणियाहिवती जाव णंदुत्तरे रहाणियाहिपती, रती णट्टाणियाहिवती, माणसे गंधव्वाणियाहिवती । एवं जाव घोसमहाघोसाणं नेयव्वं । ५८३ सक्क्स्स णं देविंदस्स देवरण्णो सत्त अणिया सत्त अणियाहिवती पन्नत्ता, तंजहा- पत्ताणिए जाव गंधव्वाणिए । हरिणेगमेसी पत्ताणियाधिपती जाव माढरे रधाणिताधिपती, सेते णट्टाणिताहिवती, तुंबुरू गंधव्वाणिताधिपती । ईसाणस्स णं देविंदस्स देवरण्णो सत्त अणिया सत्त अणियाहिवई पन्नत्ता, तंजहा- पत्ताणिते जाव गंधव्वाणिते । लहुपरक्कमे पत्ताणियाहिवती जाव महासेते णट्टाणियाहिवती, णारते गंधव्वाणिताधिपती, सेसं जधा पंचट्ठाणे, एवं जावऽच्युतस्स त्ति नेव्वं । [टी०] चक्रवालार्द्धचक्रवालादिना गतिविशेषेण भ्रमणयुक्तानि दर्पितत्वाद्देवसैन्यानि भवन्तीति तत्प्रतिपादनाय चमरेत्यादि प्रकरणं सुगमम्, नवरं पीठानीकम् अश्वसैन्यम्, नाट्यानीकं नर्त्तकसमूहः, गन्धर्व्वानीकं गायनसमूह:, एवं जहा पंचठाणए अतिदेशात् ‘सोमे आसराया पीढाणीयाहिवई २, वेकुंथू हत्थिराया कुंजराणियाहिवई ३, लोहियक्खे महिसाणियाहिवई ४,' इति द्रष्टव्यमेवमुत्तरसूत्रेष्वपीति । तथा धरणस्येव सकलदाक्षिणात्यानां भवनपतीन्द्राणां सेना सेनाधिपतयः, औदीच्यानां तु भूतानन्दस्येवेति । [सू० ५८३] चमरस्स णं असुरिंदस्स असुरकुमाररण्णो दुमस्स पत्ताणिताहिपतिस्स सत्त कच्छाओ पन्नत्ताओ, तंजहा- पढमा कच्छा जाव सत्तमा कच्छा । चमरस्स णमसुरिंदस्स असुरकुमाररन्नो दुमस्स पत्ताणिताधिपतिस्स पढमाए कच्छाए चउसट्ठि देवसहस्सा पन्नत्ता, जावतिता पढमा कच्छा तब्बिगुणा दोच्चा कच्छा, जावइया दोच्चा कच्छा तब्बिगुणा तच्चा कच्छा, एवं जाव जावतिता छट्ठा कच्छा तब्बिगुणा सत्तमा कच्छा । एवं बलिस्स वि, णवरं महद्दुमे सट्ठि देवसाहस्सितो, सेसं तं चेव । Page #183 -------------------------------------------------------------------------- ________________ धरणस्स एवं चेव, णवरमट्ठावीसं देवसहस्सा, सेसं तं चेव। जधा धरणस्स एवं जाव महाघोसस्स, नवरं पत्ताणिताधिपती अन्ने, ते पुव्वभणिता । ___ सक्कस्स णं देविंदस्स देवरन्नो हरिणेगमेसिस्स सत्त कच्छाओ पन्नत्ताओ, तंजहा-पढमा कच्छा एवं जहा चमरस्स तहा जावऽच्चुतस्स, णाणत्तं पत्ताणिताधिपतीणं, ते पुव्वभणिता । देवपरिमाणमिमं-सक्कस्स चउरासीति देवसहस्सा, ईसाणस्स असीतिं देवसहस्सा, देवा इमाते गाथाते अणुगंतव्वा चउरासीति असीति बावत्तरि सत्तरी य सट्ठी य । पन्ना चत्तालीसा तीसा वीसा दस सहस्सा ॥८५॥ जावऽच्चुतस्स लहुपरक्कमस्स दस देवसहस्सा जाव जावतिता छट्ठा कच्छा तब्बिगुणा सत्तमा कच्छा । [टी०] कच्छ त्ति समूहः, यथा धरणस्य तथा सर्वेषां भवनपतीन्द्राणां महाघोषान्तानाम्, केवलं पादातानीकाधिपतयोऽन्ये ज्ञेया:, ते च पूर्वमनन्तरसूत्रे भणिताः, नाणत्तं ति शक्रादीनामानतप्राणतेन्द्रान्तानामेकान्तरितानां हरिनेगमेषी पादातानीकाधिपतिरीशानादीनामारणाच्युतेन्द्रान्तानामेकान्तरितानां लघुपराक्रम इति । देवेत्यादि, देवाः प्रथमकच्छासम्बन्धिनोऽनया गाथयाऽवगन्तव्या:, चतुरासी गाहा, चतुरशीत्यादीनि पदानि सौधर्मादिषु क्रमेण योजनीयानि, नवरं विंशतिपदमानतप्राणतयोर्योजनीयम्, तयोर्हि प्राणताभिधानस्येन्द्रस्यैकत्वात्, दशेति पदं त्वारणाऽच्युतयोर्योजनीयम्, अच्युताभिधानस्येन्द्रस्यैकत्वादिति । [सू० ५८४] सत्तविधे वयणविकप्पे पन्नत्ते, तंजहा-आलावे, अणालावे, उल्लावे, अणुल्लावे, संलावे, पलावे, विप्पलावे । [टी०] सकलमिदमनन्तरोदितं वचनप्रत्याय्यमिति वचनभेदानाह- [सत्तविहेत्यादि], सप्तविधो वचनस्य भाषणस्य विकल्पो भेदो वचनविकल्प: प्रज्ञप्तस्तद्यथा- आङ ईषदर्थत्वादीषल्लपनमालाप:, [नञः कुत्सार्थत्वादशीलेत्यादिवत् कुत्सित आलाप:] अनालाप इति, उल्लाप: काक्वा वर्णनं काक्वा वर्णनमुल्लापः [अमरको० ? 1 इति वचनात, Page #184 -------------------------------------------------------------------------- ________________ सप्तममध्ययनं सप्तस्थानकम् । ५८५ स एव कुत्सितोऽनुल्लापः, संलापः परस्परभाषणं, प्रलापो निरर्थकं वचनं, स एव विविधो विप्रलाप इति । [सू० ५८५-१] सत्तविधे विणए पन्नत्ते, तंजहा-णाणविणए, दंसणविणए, चरित्तविणए, मणविणए, वतिविणए, कायविणए, लोगोवयारविणए । __[टी०] एतेषां वचनविकल्पानां मध्ये केचिद्विकल्पा विनयार्था अपि स्युरिति विनयभेदप्रतिपादनायाह- सत्तविहेत्यादि, सप्तविधो विनीयतेऽष्टप्रकारं कर्माऽनेनेति विनय: प्रज्ञप्तस्तद्यथा-ज्ञानम् आभिनिबोधिकादि पञ्चधा, तदेव विनयो ज्ञानविनयः, ज्ञानस्य वा विनयो भक्त्यादिकरणं ज्ञानविनय:, उक्तं च भत्ती १ तह बहुमाणो २ तद्दिट्टत्थाण सम्म भावणया ३ । विहिगहण ४ ब्भासो वि य ५ एसो विणओ जिणाभिहिओ ॥ [ ] दर्शनं सम्यक्त्वं तदेव विनयो दर्शनविनयो दर्शनस्य वा तदव्यतिरेकादर्शनगुणाधिकानां शुश्रूषणा-ऽनाशातनारूपो विनयो दर्शनविनयः, उक्तं च सुस्सूसणा अणासायणा य विणओ उ दंसणे दुविहो । दसणगुणाहिएसुं कजइ सुस्सूसणाविणओ ॥ सक्कार १ ब्भुट्ठाणे २ सम्माणा ३ सणअभिग्गहो तह य ४ । आसणमणुप्पयाणं ५ कीकम्मं ६ अंजलिगहो य ७ ॥ इंतस्सऽणुगच्छणया ८ ठियस्स तह पजुवासणा भणिया ९।। गच्छंताणुव्वयणं १० एसो सुस्सूसणाविणओ ॥ [ ] इति, इह च सत्कारः स्तवन-वन्दनादिः, अभ्युत्थानं विनयार्हस्य दर्शनादेवाऽऽसनत्यजनम्, सन्मानो वस्त्र-पात्रादिपूजनम्, आसनाभिग्रहः पुनस्तिष्ठत आदरेण आसनानयनपूर्वकमुपविशताऽत्रेति भणनम्, आसनानुप्रदानं तु आसनस्य स्थानात् स्थानान्तरसञ्चारणम्, कृतिकर्म द्वादशावर्त्तवन्दनकम्, शेषं प्रकटमिति, उचितक्रियाकरणरूपोऽयं दर्शने शुश्रूषणाविनयः । अनाशातनाविनयस्तु अनुचितक्रियाविनिवृत्तिरूपः, अयं पञ्चदशविध:, आह चतित्थगर १ धम्म २ आयरिय ३ वायगे ४ थेर ५ कुल ६ गणे ७ संघे ८ । संभोगिय ९ किरियाए १० मइनाणाईण १५ य तहेव ॥ [ ] Page #185 -------------------------------------------------------------------------- ________________ ५८६ सम्भोगिका एकसामाचारीका:, क्रिया आस्तिकता, अत्र भावनातीर्थकराणामनाशातनायां तीर्थकरप्रज्ञप्तधर्मास्यानाशातनायाम् ‘वर्तितव्य'मित्येवं सर्वत्र द्रष्टव्यमिति । कायव्वा पुण भत्ती बहुमाणो तहय वन्नवाओ य । अरहंतमाइयाणं केवलनाणावसाणाणं ॥ [ ] उक्तो दर्शनविनयः, साम्प्रतं चारित्रविनय उच्यते, तत्र चारित्रमेव विनयश्चारित्रस्य वा श्रद्धानादिरूपो विनयश्चारित्रविनय:, आह च सामाइयादिचरणस्स सद्दहणया १ तहेव काएणं । संफासणं २ परूवण ३ मह पुरओ भव्वसत्ताणं ॥ [ ] ति, मनोवाक्कायविनयास्तु मन:प्रभृतीनां विनयाहेषु कुशलप्रवृत्त्यादिरूपः, उक्तं चमणवइकाइयविणओ आयरियाईण सव्वकालं पि । अकुसलाण निरोहो कुसलाणमुईरणं तह य ॥ [ ] लोकानामुपचारो व्यवहारः, तेन स एव वा विनयो लोकोपचारविनयः । [सू० ५८५-२] पसत्थमणविणए सत्तविधे पन्नत्ते, तंजहा-अपावते, असावजे, अकिरिते, निरुवक्केसे, अणण्हवकरे, अच्छविकरे, अभूताभिसंकणे १ । अपसत्थमणविणए सत्तविधे पन्नत्ते, तंजहा-पावते, सावजे, सकिरिते, सउवक्केसे, अण्हवकरे, छविकरे, भूताभिसंकणे २ । पसत्थवइविणए सत्तविधे पन्नत्ते, तंजहा-अपावते, असावजे, जाव अभूताभिसंकणे ३ । अपसत्थवइविणते सत्तविधे पन्नत्ते, तंजहा-पावते जाव भूताभिसंकणे ४। पसत्थकातविणए सत्तविधे पन्नत्ते, तंजहा-आउत्तं गमणं, आउत्तं ठाणं, आउत्तं निसीयणं, आउत्तं तुअट्टणं, आउत्तं उल्लंघणं, आउत्तं पल्लंघणं, आउत्तं सव्विंदियजोगजुंजणता ५। अपसत्थकातविणते सत्तविधे पन्नत्ते, तंजहा-अणाउत्तं गमणं जाव अणाउत्तं Page #186 -------------------------------------------------------------------------- ________________ सप्तममध्ययनं सप्तस्थानकम् । ५८७ सव्विंदियजोगजुंजणता ६। लोगोवतारविणते सत्तविधे पन्नत्ते, तंजहा-अब्भासवत्तितं, परच्छंदाणुवत्तितं, कजहेउं, कतपडिकतिता, अत्तगवेसणता, देसकालण्णता, सव्वत्थेसु अपडिलोमता ७। [टी०] मनोवाक्कायविनयान् प्रशस्ताप्रशस्तभेदान् प्रत्येकं सप्तप्रकारान् लोकोपचारविनयं च सप्तधैवाह- पसत्थमणेत्यादि सूत्रसप्तकं सुगमम्, नवरं प्रशस्त: शुभो मनसो विनयनं विनयः, प्रवर्त्तनमित्यर्थः, प्रशस्तमनोविनयः। तत्र अपापकः शुभचिन्तारूप:, असावद्य: चौर्यादिगर्हितकर्मानालम्बन:, अक्रिय: कायिक्याधिकरणिक्यादिक्रियावर्जितः, निरुपक्लेश: शोकादिबाधावर्जित:, स्नु प्रश्रवणे [पा० धा० १०३८] इति वचनात् आस्नव: आश्रव: कर्मोपादानम्, तत्करणशील आस्नवकरः, तनिषेधादनास्नवकरः प्राणातिपाताद्याश्रववर्जित इत्यर्थः, अक्षयिकर: प्राणिनां न क्षये: व्यथाविशेषस्य कारकः, अभूताभिशङ्कनो न भूतान्यभिशङ्कन्ते बिभ्यति यस्मात् स तथा, अभयङ्कर इत्यर्थः, एतेषां च प्रायः सदृशार्थत्वेऽपि शब्दनयाभिप्रायेण भेदोऽवगन्तव्योऽन्यथा वेति, एवं शेषमपि । आयुक्तं गमनम् आयुक्तस्य उपयुक्तस्य संलीनयोगस्य यदिति, एवं सर्वत्र, नवरं स्थानम् ऊर्ध्वस्थानं कायोत्सर्गादि, निसीयणं ति निषदनम् उपवेशनम्, तुयट्टणं शयनम्, उल्लङ्घनं डेवनं देहल्यादेः, प्रलङ्घनम् अर्गलादेः, सर्वेषामिन्द्रियाणां योगा व्यापारा: सर्वे वा ये इन्द्रिययोगास्तेषां योजनता करणं सर्वेन्द्रिययोगयोजनता ।। लोकोपचारविनये, अब्भासवत्तियं ति प्रत्यासत्तिवर्त्तित्वम्, श्रुताद्यर्थिना हि आचार्यादिसमीपे आसितव्यमित्यर्थः, परच्छंदाणुवत्तियं ति पराभिप्रायानुवर्त्तित्वम्, कजहेउं ति कार्यहेतोः, अयमर्थ:- कार्यं श्रुतप्रापणादिकं हेतुं कृत्वा, श्रुतं प्रापितोऽहमनेनेति हेतोरित्यर्थः, विशेषेण विनये तस्य वर्तितव्यं तदनुष्ठानं च कर्त्तव्यमिति, तथा कृतप्रतिकृतिता कृते भक्तादिनोपचारे प्रसन्ना गुरवः प्रतिकृतिं प्रत्युपकरणं सूत्रादिदानत: करिष्यन्तीति भक्तादिदानं प्रति यतितव्यमिति, आर्त्तस्य दुःखार्तस्य गवेषणम् औषधादेरित्यार्त्तगवेषणं तदेवाऽऽर्तगवेषणतेति, पीडितस्योपकार इत्यर्थः, देश Page #187 -------------------------------------------------------------------------- ________________ ५८८ कालज्ञता अवसरज्ञता, सर्वार्थेष्वप्रतिलोमता आनुकूल्यमिति । [सू० ५८६] सत्त समुग्धाता पन्नत्ता, तंजहा-वेदणासमुग्धाते, कसायसमुग्धाते, मारणंतियसमुग्घाते, वेउव्वियसमुग्धाते, तेजससमुग्धाते, आहारसमुग्धाते केवलिसमुग्घाते । मणुस्साणं सत्त समुग्घाता एवं चेव । [टी०] विनयात् कर्मघातो भवति, स च समुद्घाते विशिष्टतर इति समुद्घातप्ररूपणायाह- सत्त समुग्घायेत्यादि, हन् हिंसागत्योः [पा० धा० १०१२], हननं घात:, समित्येकीभावे, उत् प्राबल्ये, तत एकीभावेन प्राबल्येन च घातो निर्जरा समुद्घात:, कस्य केन सहै कीभावगमनम् ?, उच्यते, आत्मनो वेदनाकषायाद्यनुभवपरिणामेन, यदा ह्यात्मा वेदनीयाद्यनुभवज्ञानपरिणतो भवति तदा नान्यज्ञानपरिणत इति, प्राबल्येन घात: कथम् ?, यस्माद्वेदनीयादिसमुद्घातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्य उदये प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशै: सह संश्लिष्टान् शातयतीत्यर्थः, उक्तं च-पुव्वकयकम्मसडणं तु निजरा [मूलाचारे ४४५] इति । स च वेदनादिभेदेन सप्तधा भवतीत्याह– सप्त समुद्घाता: प्रज्ञप्ता:, तद्यथा- वेदनासमुद्घात इत्यादि, तत्र वेदनासमुद्घातोऽसद्वेद्यकाश्रय:, कषायसमुद्घात: कषायाख्यचारित्रमोहनीयकर्माश्रयः, मारणान्तिकसमुद्घातोऽन्तमुहूर्त्तशेषायुष्ककर्माश्रयः, वैकुर्विक-तैजसा-ऽऽहारकसमुद्घाता: शरीरनामकर्माश्रया:, केवलिसमुद्घातस्तु सदसद्वेद्यशुभाशुभ-नामोच्चनीचर्गोत्रकर्माश्रय इति, तत्र वेदनासमुद्घातसमुद्धत आत्मा वेदनीयकर्मपुद्गलशातं करोति, कषायसमुद्घातसमुद्धत: कषायपुद्गलशातं मारणान्तिकसमुद्घातसमुद्धत: आयुष्ककर्मपुद्गलघातं वैकुर्विकसमुद्घातसमुद्धतस्तु जीवप्रदेशान् शरीराबहिनिःकास्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च सङ्ख्येयानि योजनानि दण्डं निसृजति निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्रारबद्धान् शातयति, यथोक्तम्- वेउब्वियसमुग्घाएणं समोहणइ, समोहणित्ता संखेजाई जोयणाई दंडं निसरइत्यादि, एवं तैजसा-ऽऽहारकसमुद्घातावपि व्याख्येयौ, केवलिसमुद्घातेन समुद्धत: केवली वेदनीयादिकर्मापुद्गलान् शातयतीति, इहान्त्यो Page #188 -------------------------------------------------------------------------- ________________ सप्तममध्ययनं सप्तस्थानकम् । ऽष्टसामयिकः शेषास्त्वसङ्ख्यातसामयिका इति । चतुर्विंशतिदण्डकचिन्तायां सप्तापि समुद्घाता मनुष्याणामेव भवन्तीत्याह-मणुस्साणं सत्तेत्यादि, एवं चेव त्ति सामान्यसूत्र इव सप्तापि समुच्चारणीया इति । [सू० ५८७] समणस्स णं भगवतो महावीरस्स तित्थंसि सत्त पवतणनिण्हगा पन्नत्ता, तंजहा-बहुरता, जीवपतेसिता, अव्वत्तिता, सामुच्छेइता, दोकिरिता, तेरासिता, अबद्धिता १ । एतेसि णं सत्तण्हं पवयणनिण्हगाणं सत्त धम्मातरिता होत्था, तंजहाजमाली, तीसगुत्ते, आसाढे, आसमित्ते, गंगे, छलुए, गोट्ठामाहिले २ । एतेसि णं सत्तण्हं पवयणनिहगाणं सत्त उप्पत्तिनगरा होत्था, तंजहासावत्थी, उसभपुरं, सेतविता, मिहिल, उल्लुगातीरं । पुरिमंतरंजि, दसपुर, णिण्हगउप्पत्तिनगराइं ॥८६॥ ३ । [टी०] एतच्च समुद्घातादिकं जिनाभिहितं वस्त्वन्यथा प्ररूपयन् प्रवचनबाह्यो भवति यथा निह्नवा इति तद्वक्तव्यतां सूत्रत्रयेणाह- सुगमं सर्वम्, नवरं प्रवचनम् आगमं निह्ववते अपलपन्त्यन्यथा प्ररूपयन्तीति प्रवचननिह्नवा: प्रज्ञप्ता जिनैः । तत्र बहुरय त्ति एकेन समयेन क्रियाध्यासितरूपेण वस्तुनोऽनुत्पत्ते: प्रभूतसमयैश्चोत्पत्तेः बहुषु समयेषु रता: सक्ता बहुरता:, दीर्घकालद्रव्यप्रसूतिप्ररूपिण इत्यर्थः । तथा जीव: प्रदेश एव येषां ते जीवप्रदेशास्त एव जीवप्रदेशिकाः, चरमप्रदेशजीवप्ररूपिण इति हृदयम् । तथा अव्यक्तम् अस्फुटं वस्तु अभ्युपगमतो विद्यते येषां तेऽव्यक्तिकाः, संयताद्यवगमे सन्दिग्धबुद्धय इति भावना। तथा समुच्छेदः प्रसूत्यनन्तरं सामस्त्येन प्रकर्षेण च छेदः समुच्छेदो विनाश:, समुच्छेदं ब्रुवत इति सामुच्छेदिका:, क्षणक्षयिकभावप्ररूपका इत्यर्थः । तथा द्वे क्रिये समुदिते द्विक्रियम्, तदधीयते तद्वेदिनो वा द्वैक्रिया:, कालाभेदेन क्रियाद्वयानुभवप्ररूपिण इत्यर्थः, तथा जीवा-ऽजीव-नोजीवभेदास्त्रयो राशयः समाहृतास्त्रिराशि, तत् प्रयोजनं येषां ते त्रैराशिकाः, राशित्रयख्यापका इत्यर्थः । तथा स्पृष्टं जीवेन कर्म न स्कन्धबन्धवद्वद्धमबद्धम्, तदेषामस्तीत्यबद्धिकाः, स्पृष्टकर्मविपाकप्ररूपका इति हृदयम्। धम्मायरिय त्ति धर्मः उक्तप्ररूपणादिलक्षण: Page #189 -------------------------------------------------------------------------- ________________ ५९० श्रुतधर्मस्तत्प्रधाना: प्रणायकत्वेनाचार्या धर्माचार्या-स्तन्मतोपदेष्टार इत्यर्थः, तत्र जमाली क्षत्रियकुमारो भगवन्महावीरजामातृभागिनेयः, विस्तरार्थोऽस्य भगवत्या अस्य वृत्तेश्च ज्ञेय इति १। तथा तिष्यगुप्त: वसुनामधेयाचार्यस्य चतुर्दशपूर्वधरस्य शिष्यः, यो हि राजगृहे विहरन्नात्मप्रवादाभिधानपूर्वस्य एगे भंते ! जीवप्पएसे जीवे त्ति वत्तव्वं सिया ? नो इणढे [समट्टे - इत्यादि वृत्तौ ] २ । तथा आषाढः, येन हि श्वेतव्यां नगर्यां पोलासे उद्याने स्वशिष्याणां प्रतिपन्नागाढयोगानां रात्रौ हृदयशूलेन मरणमासाद्य देवेन भूत्वा तदनुकम्पया स्वकीयमेव कडेवरमधिष्ठाय सर्वां सामाचारीम् अनुप्रवर्त्तयता योगसमाप्ति: शीघ्रं कृता, वन्दित्वा तानभिहितं च- क्षमणीयं भदन्ता: ! यन्मया यूयं वन्दनं कारिता:, यस्य च शिष्या ‘इयच्चिरमसंयतो वन्दितोऽस्माभिः' इति विचिन्त्याव्यक्तमतमाश्रिताः, इत्यादि ३। तथा अश्वमित्रः, यो हि महागिरिशिष्यस्य कौण्डिन्याभिधानस्य शिष्यो मिथिलायां नगर्यां लक्ष्मीगृहे चैत्ये अनुप्रवादाभिधाने पूर्व नैपुणिके वस्तुनि छिन्नच्छेदनयवक्तव्यतायां पडुप्पन्नसमयनेरइया वोच्छिजिस्संति, एवं जाव वेमाणिय त्ति, इत्यादि वृत्तौ ४ । तथा गंग इति, यो हि आर्यमहागिरिशिष्यस्य धनगुप्तस्य शिष्य: उल्लुकातीराभिधाननगराच्छरद्याचार्यवन्दनार्थं प्रस्थित उल्लुकां नदीमुत्तरन् खलतिना शिरसा दिवाकरकरनिकरसम्पातसञ्जातमुष्णं पादाभ्यां च शीतलजलजनितनितान्तशीतं वेदयंश्चिन्तयामास- [ सूत्रेऽभिहितमेका क्रियैकदा वेद्यते शीता वोष्णा वा, अहं च द्वे क्रिये वेदयामि, इत्यादि वृत्तौ ] ५ ।। तथा छलुए त्ति षडुलूकः, यो हि नामान्तरेण रोहगुप्तः, यश्चाऽन्तरञ्ज्यां पुर्यां भूतगुहाभिधानव्यन्तरायतने व्यवस्थितानां श्रीगुप्ताभिधानाना-माचार्याणां वन्दनार्थं ग्रामान्तरादागच्छन् प्रवादिप्रदापितपटहकध्वनिमाकर्ण्य सदर्पं च तं निषेध्याऽऽचार्यस्य तन्निवेद्य ततो मायूर्यादिविद्या उपादाय राजकुलमतिगत्य बलश्रीनाम्नो नरनायकस्याग्रत: पोटशालाभिधानपरिव्राजकप्रवादिनमाहूय तेन च जीवा-ऽजीवलक्षणे राशिद्वये स्थापिते Page #190 -------------------------------------------------------------------------- ________________ सप्तममध्ययनं सप्तस्थानकम् । तत्प्रतिभाप्रतिघाताय नोजीवलक्षणं तृतीयं राशिं व्यवस्थाप्य तद्विद्यानां स्वविद्याभि: प्रतिघातकरणेन तं निगृह्य गुरुसमीपमागत्य तन्निवेदितवान्, यश्च गुरुणा अभिहितो यथागच्छ राजसभामित्यादि ६ । ५९१ तथा गोष्ठामाहिल इति, यो हि दशपुरनगरे आर्यरक्षितस्वामिनि दिवं गते आचार्य श्रीदुर्बलिकापुष्पमित्रे गणं परिपालयति विन्ध्याभिधानसाधोरष्टमं कर्मप्रवादाभिधानं पूर्वमाचार्यादुपश्रुत्य प्रत्युच्चारयतः कर्म्मबन्धाधिकारे किञ्चित् कर्म जीवप्रदेशैः स्पृष्टमात्रं कालान्तरस्थितिमप्राप्य विघटते शुष्ककुड्यापतितचूर्णमुष्टिवत्, किञ्चित् पुनः स्पृष्टं बद्धं च कालान्तरेण विघटते आर्द्रलेपकुड्ये सस्नेहचूर्णवत्, किञ्चित् पुनः स्पृष्टं बद्धं निकाचितं जीवेन सहैकत्वमापन्नं कालान्तरेण वेद्यते इत्येवमाकर्ण्योक्तवान् नन्वेवं मोक्षाभाव: प्रसजति, कथम् ? जीवात् कर्म्म न वियुज्यते । तत्र विवादे गुरुभिः बहुभिर्हेतुभिः प्रतिपद्यमानो यदा नैतत् प्रतिपन्नवानुद्घाटितश्चेति सोऽयमबद्धिकधर्माचार्य इति ७ । उत्पत्तिनगराणि सप्तानां क्रमेण सप्तैव होत्थ त्ति सामान्येन वर्त्तमानत्वेऽपि नगराणां तद्विशेषगुणातीतत्वेनातीतनिर्देश:, सावत्थी गाहा, ऋषभपुरं राजगृहम्, उल्लुका नदी, तत्तीरवर्त्तिनगरमुल्लुकातीरम्, पुरीति नगरी अंतरंजीति तन्नाम, इह च मकारोऽलाक्षणिकः, दसपुर ति अनुस्वारलोपादिति । [सू० ५८८] सातावेयणिज्जस्स कम्मस्स सत्तविधे अणुभावे पन्नत्ते, तंजहामणुन्ना सद्दा, मणुण्णा रूवा जाव मणुन्ना फासा, मणोसुहता, वतिसुहता । असातावेयणिज्जस्स णं कम्मस्स सत्तविधे अणुभावे पन्नत्ते, तंजहाअमणुण्णा सद्दा जाव वतिदुता । [ टी०] एते च निह्नवा: संसारे पर्यटन्तः सातासातभोगिनो भविष्यन्तीति तत्स्वरूपं सूत्रद्वयेनाह - सायेत्यादि कण्ठ्यम्, नवरम् अणुभावे त्ति विपाक: उदयो रस इत्यर्थः, मनोज्ञाः शब्दादयः सातोदयकारणत्वादनुभावा एवोच्यन्ते, तथा मनसः शुभता मनःशुभता, साऽपि सातानुभावकारणत्वात् सातानुभाव उच्यते, एवं वचः शुभताऽपि, मनःसुखता वा सातानुभावः, तत्स्वरूपत्वात् तस्याः, एवं वाक्सुखताऽपीति, Page #191 -------------------------------------------------------------------------- ________________ ५९२ एवमसातानुभावोऽपि । [सू० ५८९] महाणक्खत्ते सत्ततारे पन्नत्ते १ । अभितीयादिता सत्त णक्खता पुव्वदारिता पन्नत्ता, तंजहा-अभिती, सवणो, धणिट्ठा, सतभिसता, पुव्वा भद्दवता, उत्तरा भद्दवता, रेवती २ । अस्सिणितादिता णं सत्त णक्खत्ता दाहिणदारिता पन्नत्ता, तंजहाअस्सिणी, भरणी, कित्तिता, रोहिणी, मिगसिर, अद्दा, पुणव्वसू ३ । पुस्सादिता णं सत्त णक्खत्ता अवरदारिता पन्नत्ता, तंजहा- पुस्सो, असिलेसा, मघा, पुव्वा फग्गुणी, उत्तरा फग्गुणी, हत्थो, चित्ता ४ । सातितातिया णं सत्त णक्खत्ता उत्तरदारिता पन्नत्ता, तंजहा- साति, विसाहा, अणुराहा, जेट्ठा, मूलो, पुव्वा आसाढा, उत्तरा आसाढा ५ । [टी०] सातासाताधिकारात् तद्वतां देवविशेषाणां प्ररूपणाय सूत्रपञ्चकमाह- महेत्यादि सुगमम्, नवरं पूर्वं द्वारं येषामस्ति तानि पूर्वद्वारिकाणि, पूर्वस्यां दिशि गम्यते येष्वित्यर्थः, एवं शेषाण्यपि सप्त सप्तेति, इह चार्थे पञ्च मतानि सन्ति, यत आह चन्द्रप्रज्ञप्त्याम्तत्थ खलु इमाओ पंच पडिवत्तीओ पन्नत्ताओ, तत्थेगे एवमाहंसु कत्तिआइआ सत्त नक्खत्ता पुव्वदारिया पन्नत्ता [१०।२१], एवमन्ये मघादीन्यपरे धनिष्ठादीनि इतरेऽश्विन्यादीनि अपरे भरण्यादीनि, दक्षिणापरोत्तरद्वाराणि च सप्त सप्त यथामतं क्रमेणैव समवसेयानीति, वयं पुण एवं वयामो अभियियाइया णं सत्त नक्खत्ता पुव्वदारिया पन्नत्ता [१०।२१], एवं दक्षिणद्वारिकादीन्यपि क्रमेणैवेति, तदिह षष्ठं मतमाश्रित्य सूत्राणि प्रवृत्तानि, लोके तु प्रथमं मतमाश्रित्यैतदभिधीयते, यदुक्तं - दहनाद्यमृक्षसप्तकमैन्त्र्यां तु मघादिकं च याम्यायाम् । अपरस्यां मैत्र्यादिकमथ सौम्यां दिशि धनिष्ठादि ॥ भवति गमने नराणामभिमुखमुपसर्पतां शुभप्राप्तौ । अथ पूर्वमृक्षसप्तकमुद्दिष्टं मध्यममुदीच्याम् ॥ पूर्वायामौदीच्यं प्रातीच्यं दक्षिणाभिधानायाम् । याम्यं तु भवति मध्यममपरस्यां यातुराशायाम् ॥ Page #192 -------------------------------------------------------------------------- ________________ सप्तममध्ययनं सप्तस्थानकम् । ५९३ येऽतीत्य यान्ति मूढा: परिघाख्यामनिलदहनदिनेखाम् । निपतन्ति तेऽचिरादपि दुर्व्यसने निष्फलारम्भाः ॥ [ ] इति, [सू० ५९०] जंबूदीवे दीवे सोमणसे वक्खारपव्वते सत्त कूडा पन्नत्ता, तंजहासिद्धे सोमणसे ता बोद्धव्वे मंगलावतीकूडे । देवकुरु विमल कंचण वसिट्ठकूडे त बोद्धव्वे ॥८७॥ जंबुद्दीवे दीवे गंधमायणे वक्खारपव्वते सत्त कूडा पन्नत्ता, तंजहासिद्धे त गंधमातण बोधव्वे गंधिलावतीकूडे । उत्तरकुरु फलिहे लोहितक्ख आणंदणे चेव ॥८८॥ [टी०] देवाधिकारादेवनिवासकूटसूत्रद्वयं जंबू इत्यादि कण्ठ्यम्, केवलं सोमणसे त्ति सौमनसे गजदन्तके देवकुरूणां प्राचीने कूटानि शिखराणि, सिद्धे गाहा, सिद्धायतनोपलक्षितं सिद्धकूटं मेरुप्रत्यासन्नमेवं सर्व्वगजदन्तकेषु सिद्धायतनानि, शेषाणि तत: परंपरयेति, सोमणसे त्ति सौमनसकूटं तत्समाननामकतदधिष्ठातृदेवभवनोपलक्षितम्, मङ्गलावतीविजयसमनामदेवस्य मङ्गलावतीकूटम्, एवं देवकुरुदेवनिवासो देवकुरुकूटमिति, विमल-काञ्चनकूटे यथार्थे क्रमेण च वत्सावत्समित्राभिधानाधोलोकवासिदिक्कुमारीद्वयनिवासभूते, वशिष्टकूटं तन्नामदेवनिवास:, एवमुत्तरत्रापि । गन्धमादनो गजदन्तक एवोत्तरकुरूणां प्रतीचीन:, तत्र सिद्ध गाहा कण्ठ्या, नवरं स्फटिककूटलोहिताक्षकूटे अधोलोकनिवासिभोगङ्करा-भोगवत्यभिधानदिक्कुमारीद्वयनिवासभूते इति। [सू० ५९१] बेतिंदिताणं सत्त जातीकुलकोडिजोणिपमुहसतसहस्सा पन्नत्ता। [सू० ५९२] जीवा णं सत्तट्ठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा, तंजहा-नेरतियनिव्वत्तिते जाव देवनिव्वत्तिते। एवंचिण जाव णिज्जरा चेव ॥ [सू० ५९३] सत्तपदेसिता खंधा अणंता पण्णत्ता । सत्तपदेसोगाढा पोग्गला जाव सत्तगुणलुक्खा पोग्गला अणंता पण्णत्ता । Page #193 -------------------------------------------------------------------------- ________________ ५९४ ॥ सत्तट्ठाणं सम्मत्तं ॥ [0] कूटेष्वपि पुष्करिणीजले द्वीन्द्रियाः सन्तीति द्वीन्द्रियसूत्रं बेइंदियाणमित्यादि, जातौ द्वीन्द्रियजातौ याः कुलकोटयः तास्तथा ताश्च ता योनिप्रमुखाश्च द्विलक्षसङ्ख्यद्वीन्द्रियोत्पत्तिस्थानद्वारिकास्ता जातिकुलकोटियोनिप्रमुखाः, इह च विशेषणं परपदं प्राकृतत्वात्, तासां शतसहस्राणि लक्षाणीति, इदमुक्तं भवति - द्वीन्द्रियजातौ या योनयस्तत्प्रभवा याः कुलकोटयस्तासां लक्षाणि सप्त प्रज्ञप्तानीति, तत्र योनिर्यथा गोमय:, तत्र चैकस्यामपि कुलानि विचित्राकाराः कृम्यादय इति । शेषा ध्रुवगण्डिका ससम्बन्धा पूर्ववद् व्याख्येयेति । इति श्रीमत्तपागच्छाधिराजभट्टारकपुरन्दरसूरीश्वर श्रीविजयसेनसूरिराज्ये श्रीमत्तपागच्छश्रृंगारहारसूरीश्वर श्रीविजयदेवसूरियौवराज्ये पण्डित श्रीकुशलवर्धन गणिशिष्यनगर्षिगणिना स्ववाचनपरोपकारकृते कृतोद्धाररूपयां श्रीसकलवाचकशिरोमणिमहोपाध्यायश्रीविमलहर्षगणिभिः संशोधितायां सुखावबोधायां श्रीस्थानाङ्गदीपिकायां सप्तस्थानकाख्यं सप्तमममध्ययनं समाप्तम्। Page #194 -------------------------------------------------------------------------- ________________ ५९५ अथाष्टममध्ययनम् अष्टस्थानकम् । [सू० ५९४] अट्ठहिं ठाणेहिं संपन्ने अणगारे अरिहति एगल्लविहारपडिमं उवसंपजित्ता णं विहरित्तते, तंजहा-सड्डी पुरिसजाते, सच्चे पुरिसजाते, मेहावी पुरिसजाते, बहुस्सुते पुरिसजाते, सत्तिमं, अप्पाधिकरणे, धितिमं, वीरितसंपन्ने। [टी०] व्याख्यातं सप्तममध्ययनमधुना सङ्ख्याक्रमसम्बद्धमेवाष्टस्थानकाख्यमष्टममध्ययनमारभ्यते, अस्य च पूर्वसूत्रेण सहायं सम्बन्ध:- अनन्तरं पुद्गला उक्ताः, ते च कार्मणा: प्रतिमाविशेषप्रतिपत्तिमतो विशेषेण निर्जीर्यन्त इत्येकाकिविहारप्रतिमायोग्य: पुरुषो निरूप्यते, इत्येवंसम्बन्धस्यास्य व्याख्या, संहितादिचर्चस्तु प्रसिद्ध एव, नवरम् अष्टाभि: स्थान: गुणविशेषैः सम्पन्नो युक्तोऽनगारः साधुरर्हति योग्यो भवति, एगल्ल त्ति एकाकिनो विहारो ग्रामादिचर्या स एव प्रतिमा अभिग्रह: एकाकिविहारप्रतिमा जिनकल्पप्रतिमा मासिक्यादिका वा भिक्षुप्रतिमा तामुपसम्पद्य आश्रित्य णमित्यलङ्कारे विहर्तुं ग्रामादिषु चरितुम्, तद्यथा-सहित्ति श्रद्धा तत्त्वेषु श्रद्धानमास्तिक्यमित्यर्थोऽनुष्ठानेषु वा निजोऽभिलाषस्तद्वत्, सकलनाकिनायकैरप्यचलनीयसम्यक्त्वचारित्रमित्यर्थः, पुरुषजातं पुरुषप्रकार: १, तथा सत्यं सत्यवादि, प्रतिज्ञाशूरत्वात्, सद्भयो हितत्वाद्वा सत्यम् २, तथा मेधा श्रुतग्रहणशक्तिस्तद्वत् मेधावि, अथवा मेराए धावति त्ति मेधावि मर्यादावर्ति ३, तथा मेधावित्वाद् बहु प्रचुरं श्रुतम् आगम: सूत्रतोऽर्थतश्च यस्य तद् बहुश्रुतम्, तच्चोत्कृष्टतोऽसम्पूर्णदशपूर्वधरं जघन्यतो नवमस्य तृतीयवस्तुवेदीति ४, तथा शक्तिमत् समर्थं पञ्चविधकृततुलनमित्यर्थः, तथाहि तवेण सत्तेण सुत्तेण एगत्तेण बलेण य । तुलणा पंचहा वुत्ता जिणकप्पं पडिवजओ ॥ [बृहत्कल्प० १३२८] त्ति ५ । अल्पाधिकरणं निष्कलहम् ६, धृतिमत् चित्तस्वास्थ्ययुक्तमरतिरत्यनुलोमप्रतिलोमोपसर्गसहमित्यर्थः ७, वीर्यम् उत्साहातिरेकस्तेन संपन्नमिति ८, इहाद्यानामेव चतुर्णां पदानां प्रत्येकमन्ते पुरुषजातशब्दो दृश्यते ततोऽन्त्यानामप्ययं सम्बन्धनीय इति। Page #195 -------------------------------------------------------------------------- ________________ ५९६ [सू० ५९५ ] अट्ठविधे जोणिसंगहे पन्नत्ते, तंजहा- अंडगा, पोतगा जाव उब्भिगा, उववातिता १ । अंडगा अट्ठगतिता अट्ठागतिता पन्नत्ता, तंजहा - अंडए अंडएसु उववज्जमाणे अंडरहिंतो वा पोततेहिंतो वा जाव उववातितेहिंतो वा उववज्जेज्जा, से चेव णं से अंडते अंडगत्तं विप्पजहमाणे अंडगत्ताते वा पोतगत्ताते वा जाव उववातितत्ताते वा गच्छेज्जा २ | एवं पोतगा वि ३, जराउजा वि ४, सेसाणं गतीरागती णत्थि । [ टी०] अयं चैवंविधोऽनगारः सर्वप्राणिनां रक्षणक्षमो भवतीति तेषामेव योन्या: सङ्ग्रहं गत्यागती चाह— अट्ठविहेत्यादि सूत्रचतुष्टयं सुगमम्, नवरमौपपातिका देवनारकाः, सेसाणं ति अण्डज-पोतज - जरायुजवर्जितानां रसजादीनां गतिरागतिश्च नास्तीत्यष्टप्रकारेति शेष:, यतो रसजादयो नौपपातिकेषूत्पद्यन्ते, पञ्चेन्द्रियाणामेव तत्रोत्पत्तेः, नाप्यौपपातिका रसजादिषु सर्वेष्वप्युपपद्यन्ते, पञ्चेन्द्रियैकेन्द्रियेष्वेव तेषामुपपत्तेरिति अण्डज-पोतज - जरायुजसूत्राणि त्रीण्येव भवन्तीति । [सू० ५९६] जीवा णमट्ठ कम्मपगडीतो चिणिंसु वा चिणंति वा चिणिस्संति वा, तंजहा - णाणावरणिज्जं, दरिसणावरणिज्जं, वेयणिज्जं, मोहणिज्जं, आउयं, नामं, गोत्तं, अंतरातितं । नेरइया णं अट्ठ कम्मपगडीओ चिणिसु वा चिणंति वा चिणिस्संति वा एवं चेव । एवं निरंतरं जाव वेमाणियाणं । जीवा णमट्ठ कम्मपगडीओ उवचिंणिसु वा ३ एवं चेव । एवंचिण उवचिण बंध उदीर वेय तह णिज्जरा चेव ॥ एते छ चउवीसा दंडगा भाणियव्वा । [टी०] अण्डजादयश्च जीवा अष्टविधकर्म्मचयादेर्भवन्तीति चयादीन् षट् क्रियाविशेषान् सामान्यतो नारकादिपदेषु च प्रतिपादयन्नाह - जीवा णमित्यादि, प्रागिव व्याख्येयम्, नवरं चयनं व्याख्यानान्तरेणाऽऽ सकलनम्, उपचयनं परिपोषणम्, बन्धनं निर्मापणम्, उदीरणं करणेनाकृष्य दलिकस्योदये दानम्, वेदनम् अनुभव उदय इत्यर्थः, निर्जरा Page #196 -------------------------------------------------------------------------- ________________ अष्टममध्ययनं अष्टस्थानकम् । ५९७ प्रदेशेभ्यः शटनमिति, लाघवार्थमतिदिशन्नाह– एवं चेव त्ति यथा चयनार्थः कालत्रयविशेषत: सामान्येन नारकादिषु चोक्तः एवमुपचयार्थोऽपीति भावः । एवं चिणेत्यादि गाथोत्तरार्द्धं प्राग्वत् । एए छेत्यादि, यतश्चयनादिपदानि षड् अतः सामान्यसूत्रपूर्वका: षडेव दण्डका इति । [सू० ५९७] अट्टहिं ठाणेहिं माई मायं कटु नो आलोएजा, नो पडिक्कमेजा जाव नो पडिवजेजा, तंजहा-करिंसु वऽहं १, करेमि वऽहं २, करिस्सामि वऽहं ३, अकित्ती वा मे सिया ४, अवण्णे वा मे सिया ५, अवणये वा मे सिया ६, कित्ती वा मे परिहातिस्सति ७, जसे वा मे परिहातिस्सति ८ । __ अट्ठहिं ठाणेहिं माई मायं कटु आलोएजा जाव पडिवज्जेज्जा, तंजहामातिस्स णं अस्सिं लोए गरहिते भवति १, उववाते गरहिते भवति २, आजाती गरहिता भवति ३, एगमवि माती मातं कट्ट नो आलोएज्जा जाव नो पडिवज्जेज्जा णत्थि तस्स आराहणा ४, एगमवि मायी मायं कट्ट आलोएजा जाव पडिवज्जेजा अत्थि तस्स आराहणा ५, बहुतो वि माती माताओ कट्ट नो आलोएज्जा जाव नत्थि तस्स आराधणा ६, बहुओ वि माती मायाओ कट्ट आलोएज्जा जाव अत्थि तस्स आराधणा ७, आयरियउवज्झायस्स वा मे अतिसेसे नाणदंसणे समुप्पज्जेज्जा, से य मममालोएज्जा माती णं एसे ८ ।। ___माती णं मातं कट्ट से जहानामए अयागरे ति वा तंबागरे ति वा तउआगरे ति वा सीसागरे ति वा रुप्पागरे ति वा सुवन्नागरे ति वा तिलागणी ति वा तुसागणी ति वा भुसागणी ति वा णलागणी ति वा दलागणी ति वा सोंडितालित्थाणि वा भंडितालित्थाणि वा गोलियालित्थाणि वा कुंभारावाते ति वा कवेलुतावाते ति वा इटावाते ति वा जंतवाडचुल्ली ति वा लोहारंबरिसाणि वा तत्ताणि समजोतिभूताणि किंसुकफुल्लसमाणाणि उक्कासहस्साई विणिम्मुतमाणाई २ जालासहस्साई पमुंचमाणाई २ Page #197 -------------------------------------------------------------------------- ________________ ५९८ इंगालसहस्साइं पविक्खिरमाणाई २ अंतो अंतो झियायंति एवामेव माती मातं कट्ट अंतो अंतो झियाइ । जदि वि त णं अन्ने केति वदंति तं पि त णं माती जाणति 'अहमेसे अभिसंकिज्जामि २' । माती णं मातं कट्ट अणालोतितपडिक्कंते कालमासे कालं किच्चा अण्णतरेस देवलोगेसु देवत्ताते उववत्तारो भवंति, तंजहा-नो महिड्डिएसु जाव नो दूरंगतितेसु नो चिरट्ठितीतेसु, से णं तत्थ देवे भवति णो महिड्डिए जाव नो चिरद्वितीते, जा वि त से तत्थ बाहिरब्भंतरिया परिसा भवति सा वि त णं नो आढाति नो परियाणाति णो महरिहेणमासणेणं उवनिमंतेति । भासं पि त से भासमाणस्स जाव चत्तारि पंच देवा अणुत्ता चेव अब्भुटुंति 'मा बहुं देवे ! भासउ २'। से णं ततो देवलोगाओ आउक्खएणं भवक्खएणं ठितिक्खएणं अणंतरं चयं चइत्ता इहेव माणुस्सए भवे जाइं इमाइं कुलाइं भवंति, तंजहाअंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिद्दकुलाणि वा किवणकुलाणि वा भिक्खागकुलाणि वा तहप्पगारेसु कुलेसु पुमत्ताते पच्चायाति, से णं तत्थ पुमे भवति दुरूवे दुवन्ने दुग्गंधे दुरसे दुफासे अणिढे अकंते अप्पिए अमणुण्णे अमणामे हीणस्सरे दीणस्सरे अणिट्ठस्सरे अकंतस्सरे अपियस्सरे अमणुण्णस्सरे अमणामस्सरे अणाएजवयणपच्चायाते । जा वि त से तत्थ बाहिरब्भंतरिता परिसा भवति सा वि त णं णो आढाति णो परिताणाति नो महरिहेणं आसणेणं उवणिमंतेति, भासं पि त से भासमाणस्स जाव चत्तारि पंच जणा अवुत्ता चेव अब्भुटुंति ‘मा बहुं अजउत्तो ! भासउ २' । माती णं मातं कट्ट आलोचितपडिक्कंते कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति, तंजहा-महिड्डिएसु जाव चिरहितीएसु। से णं तत्थ देवे भवति महिड्डिते जाव चिरहितीते हारविरातितवच्छे कडकतुडितथंभितभुते अंगद-कुंडल-मट्टगंडतलकन्नपीढधारी विचित्तहत्थाभरणे Page #198 -------------------------------------------------------------------------- ________________ अष्टममध्ययनं अष्टस्थानकम् । ५९९ विचित्तवत्थाभरणे विचित्तमालामउली कल्लाणगपवरवत्थपरिहिते कल्लाणगपवरगंधमल्लाणुलेवणधरे भासरबोंदी पलंबवणमालधरे दिव्वेणं वनेणं दिव्वेणं गंधेणं दिव्वेणं रसेणं दिव्वेणं फासेणं दिव्वेणं संघातेणं दिव्वेणं संठाणेणं दिव्वाते इड्डीते दिव्वाते जुतीए दिव्वाते पभाते दिव्वाते छायाते दिव्वाते अच्चीए दिव्वेणं तेएणं दिव्वाते लेस्साते दस दिसाओ उज्जोवेमाणे पभासेमाणे महयाहतणगीतवातिततंतीतलतालतुडितघणमुतिंगपडुप्पवातितरवेणं दिव्वाइं भोगभोगाई भुंजमाणे विहरति । जा वि त से तत्थ बाहिरब्भंतरिता परिसा भवति सा वि त णमाढाति परियाणाति महारिहेणमासणेणं उवनिमंतेति, भासं पि त से भासमाणस्स जाव चत्तारि पंच देवा अवुत्ता चेव अब्भुढेंति 'बहं देवे ! भासउ २' । से णं ततो देवलोगातो आउक्खएणं ३ जाव चइत्ता इहेव माणुस्सए भवे जाइं इमाइं कुलाई भवंति अड्डाइं जाव बहुजणस्स अपरिभूताई तहप्पगारेसु कुलेसु पुमत्ताते पच्चाताति । से णं तत्थ पुमे भवति सुरूवे सुवन्ने सुगंधे सुरसे सुफासे इढे कंते जाव मणामे अहीणस्सरे जाव मणामस्सरे आदेजवतणपच्चायाते । जा वि य से तत्थ बाहिरब्भंतरिता परिसा भवति सा वि त णं आढाति जाव 'बहुमज्जउत्ते ! भासउ २' । [टी०] अष्टविधकर्मण: पुनश्चयादिहेतुमासेव्य तद्विपाकं जानन्नपि कर्मगुरुत्वात् कश्चिन्नालोचयतीति दर्शयन्नाह– अट्टहीत्यादि, मायीति मायावान् मायं ति गुप्तत्वेन मायाप्रधानोऽतिचारो मायैव, तां कृत्वा विधाय नो आलोचयेद् गुरवे न निवेदयेत्, नो प्रतिक्रामेत् न मिथ्यादुष्कृतं दद्यात्, जावकरणात् नो निदेज्जा स्वसमक्षम्, नो गरहेजा गुरुसमक्षम्, नो विउट्टेजा न व्यावर्तेतातिचारात्, नो विसोहेज्जा न विशोधयेदतिचारकलङ्क शुभभावजलेन, नो अकरणतया अपुन:करणेनाभ्युत्तिष्ठेद् अभ्युत्थानं कुर्यात्, नो यथार्हं तपःकर्म प्रायश्चित्तं प्रतिपद्येतेति, तद्यथा- करेसुं वऽहं ति कृतवांश्चाहमपराधम्, कृतत्वाच्च कथं तस्य निन्दादि युज्यते, तथा करेमि वऽहं ति साम्प्रतमपि तमहमतिचारं करोमीति कीदृश्यनिवृत्तस्यालोचनादिक्रिया ?, तथा करिष्यामि वाऽहमिति न युक्तमालोचनादीति ३, शेषं स्पष्टम्, नवरमकीर्तिः Page #199 -------------------------------------------------------------------------- ________________ ६०० एकदिग्गामिन्यप्रसिद्धिः, अवर्ण: अयश: सर्वदिग्गामिन्यप्रसिद्धिरेव, एतद् द्वयमविद्यमानं मे भविष्यतीति, अपनयो वा पूजा-सत्कारादेरपनयनं मे स्यादिति, तथा कीर्तिर्यशो वा विद्यमानं मे परिहास्यतीति । उक्तार्थस्य विपर्ययमाह- अट्टहीत्यादि सुगमम्, नवरं मायीत्यासेवावसर एव नालोचनाद्यवसरेऽपि, मायिन आलोचनाद्यप्रवृत्तेः, मायाम् अपराधलक्षणां कृत्वा आलोचयेदित्यादि, मायिनो ह्यनालोचनादावयमनर्थः, यदुत- अस्सिं ति अयं लोको जन्म गर्हितो भवति, सातिचारतया निन्दितत्वादिति, उक्तं च भीउव्विग्गनिलुक्को पायडपच्छन्नदोससयकारी । अप्पच्चयं जणंतो जणस्स धीजीवियं जियइ ॥ [उपदेशमाला० ४७८] त्ति । इत्येकम् । तथा उपपातो देवजन्म गर्हितः किल्बिषिकादित्वेनेति, उक्तं चतवतेणे वइतेणे इत्यादि ।। [दशवै० ५।२।४६] इति द्वितीयम् । आजाति: ततश्च्युतस्य मनुष्यजन्म गर्हिता जात्यैश्वर्यरूपादिरहिततयेति, उक्तं चतत्तो वि से चइत्ताणं लब्भिही एलमूयगं । नरगं तिरिक्खजोणिं वा बोही जत्थ सुदुल्लहा ॥ [दशवै० ५।२।४८] इति तृतीयम् । तथा एकामपि मायी मायाम् अतिचाररूपां कृत्वा यो नालोचयेदित्यादि नास्ति तस्याराधना ज्ञानादिमोक्षमार्गस्येत्यनर्थ इति, उक्तं च लज्जाए गारवेण य बहुस्सुयमएण वा वि दुच्चरियं । जे न कहिंति गुरूणं न हु ते आराहगा होंति ॥ [उत्तरा० नि० २१७] इत्यादि चतुर्थम् । तथा एकामपीत्यादिना त्वर्थप्राप्तिरुक्तेति, यदाहउद्धरियसव्वसल्लो भत्तपरिन्नाए धणियमाउत्तो।। मरणाराहणजुत्तो चंदगवेझं समाणेइ ॥ [ओघनि० ८०७] इति पञ्चममिति । एवं बहुत्वेनापि अनालोचनादावालोचनादौ वाऽनर्थोऽर्थश्च षष्ठ-सप्तमे । तथाऽऽचार्योपाध्यायस्य वा मे अतिशेषं ज्ञानदर्शनं समुत्पद्येत, स च मामालोकयेत् मायी णमेष इत्युल्लेखेनेत्येवं भयादालोचयतीत्यष्टमम् । शेषं सूत्रम् अयं लोक उपपात आजातिश्च गर्हितेत्यस्य पदत्रयस्य विवरणतया अवगन्तव्यम् । मायी मायं कट्ट त्ति Page #200 -------------------------------------------------------------------------- ________________ अष्टममध्ययनं अष्टस्थानकम् । ६०१ सर्वं सुगमम्, नवरं तत्र मायी मायां कृत्वेति, इह कीदृशो भवेदुच्यत इति वाक्यशेषो दृश्य:, स इति यो भवतोऽपि प्रसिद्धः यथेति दृष्टान्तोपन्यासे नामए त्ति सम्भावनायामलङ्कारे वा अयआकरो लोहाकरः यत्र लोहं ध्मायते, इतिरुपप्रदर्शने, वा विकल्पे, तिला धान्यविशेषास्तेषामवयवा अपि तिलास्तेषामग्निः तद्दहनप्रवृत्तो वह्निस्तिलाग्निः, एवं शेषा अप्यग्निविशेषा:, नवरं तुषा: कोद्रवादीनाम्, बुसं यवादीनां कडङ्गरः, नलः शुषिरशराकारः, दलानि पत्राणि, सुण्डिका: पिटकाकाराणि सुरापिष्टस्वेदनभाजनानि कवल्ल्यो वा सम्भाव्यन्ते, तासां लिंत्थाणि चुल्लीस्थानानि सम्भाव्यन्ते, उक्तं च वृद्धैः- गोलियसोंडियभंडियलित्थाणि अग्नेराश्रयाः [ ], अन्यैस्तु देशभेदरूढ्या एते पिष्टपाचकाग्न्यादिभेदा इत्युक्तम्, मयाऽप्येतदुपजीव्यैव सम्भावितमिति, तथा भाण्डिका: स्थाल्य:, ता एव महत्यो गोलिकाः, प्रतीतं चैतच्छब्दद्वयम्, लिंत्थानि तान्येवेति, कुम्भकारस्यापाको भाण्डपचनस्थानम्, कवेल्लुकानि प्रतीतानि तेषामापाकः प्रतीत एव, जंतवाडचुल्ली इक्षुयन्त्रपाटचुल्ली, लोहारंबरिसाणि व त्ति लोहकारस्याम्बरीषा भाष्ट्रा आकरणानीति लोहकाराम्बरीषा इति, तप्तानि उष्णानि, समानि तुल्यानि जाज्वल्यमानत्वात् ज्योतिषा वह्निना भूतानि जातानि यानि तानि समज्योतिर्भूतानि, किंशुकफुल्लं पलासकुसुमम्, तत्समानानि रक्ततया, उल्का इव उल्का अग्निपिण्डास्तत्सहस्राणीति प्राचुर्यख्यापकं विनिर्मुञ्चन्ति विनिर्मुञ्चन्तीति भृशार्थे द्विवचनम्, अङ्गारा लघुतराग्निकणाः, तत्सहस्राणि प्रविकिरन्ति प्रविकिरन्ति अन्तरन्तः झियायंति ध्मायन्ति इन्धनैर्दीप्यन्त इति दृष्टान्तः, दार्टान्तिकस्त्वेवमेवेत्यादि, पश्चात्तापाग्निना ध्मायति जाज्वल्यते, अहमेसे त्ति अहमेषोऽभिशङ्क्ये अहमेषोऽभिशक्य इति एभिरहं दोषकारितया आशङ्क्ये सम्भाव्ये इति, उक्तं हिनिच्वं संकियभीओ गम्मो सव्वस्स खलियचारित्तो । साहुजणस्स अवमओ मओ वि पुण दुग्गइं जाइ ॥ [उपदेशमाला० २२६] अनेनाऽनालोचकस्यायं लोको गर्हितो भवतीति दर्शितम् । से णं तस्सेत्यादिना, पाठान्तरेण मायी णं मायं कह इत्यादिना वा उपपातो गर्हितो Page #201 -------------------------------------------------------------------------- ________________ ६०२ भवतीति दर्श्यते । कालमासे त्ति मरणमासे उपलक्षणत्वान्मरणदिवसे मरणमुहूर्ते कालं किच्चा मरणं कृत्वा अन्यतरेषु व्यन्तरादीनां देवलोकेषु देवजनेषु मध्ये उववत्तारो भवंति त्ति वचनव्यत्ययादुपपत्ता भवतीति, नो महर्द्धिकेषु परिवारादिऋद्ध्या , नो महाद्युतिषु शरीराभरणादिदीप्त्या, नो महानुभागेषु वैक्रियादिशक्तित:, नो महाबलेषु प्राणवत्सु, नो महासौख्येषु नो महेशाख्येषु वा, नो दूरंगतिकेषु न सौधर्मादिगतिषु, नो चिरस्थितिकेषु एक-द्वयादिसागरोपमस्थितिकेषु, यापि च से तस्य तत्र देवलोकेषु बाह्या अप्रत्यासन्ना दासादिवत् अभ्यन्तरा प्रत्यासन्ना पुत्र-कलत्रादिवत् परिषत् परिवारो भवति सापि नो आद्रियते नादरं करोति, नो परिजानाति स्वामितया नाभिमन्यते, नो नैव महच्च तदर्ह च योग्यं महार्ह तेनाऽऽसनेनोपनिमन्त्रयते, किं बहुना ?, दौर्भाग्यातिशयात्तस्य यावच्चतुःपञ्चा: देवा भाषणनिषेधायाऽभ्युत्तिष्ठन्ति प्रयतन्ते, कथम् ?, मा बहुमित्यादि, अनेनोपपातगर्होक्ता ।। आजातिगर्हितत्वं तु से णमित्यादिनाऽऽचष्टे, से त्ति सोऽनालोचकस्ततो व्यन्तरादिरूपाद् देवलोकादवधे:, आयुःक्षयेण आयु:कर्मापुद्गलनिर्जरणेन, भवक्षयेण आयु:कर्मादिनिबन्धनदेवपर्यायनाशेन, स्थितिक्षयेण आयु:स्थितिबन्धक्षयेण देवभवनिबन्धनशेषकर्मणां वा, अनन्तरम् आयु:क्षयादेः समनन्तरमेव च्यवं च्यवनं च्युत्वा कृत्वा इहैव प्रत्यक्षे मानुष्यके भवे पुंस्तया प्रत्याजायत इति सम्बन्धः, केषु? कुलेषु कुटुम्बेषु अन्वयेषु वा, किंविधेषु ? यानि इमानि वक्ष्यमाणतया प्रत्यक्षाणि भवन्ति, तद्यथा- अन्तकुलानि वरुट-छिपकादीनाम्, प्रान्तकुलानि चण्डालादीनाम्, तुच्छकुलानि अल्पमानुषाणि अगम्भीराशयानि वा, दरिद्रकुलानि अनीश्वराणि, कृपणकुलानि तर्कणवृत्तीनि नट-नग्नाचार्यादीनाम्, भिक्षाककुलानि भिक्षणवृत्तीनि तथाविधलिङ्गिकानां च, तथाप्रकारेष्वन्तकुलादिष्वित्यर्थः, प्रत्यायाति प्रत्याजायते वा पुमे त्ति पुमान् । अणिद्वेत्यादि, इष्यते स्म प्रयोजनवशादितीष्टः, कान्तः कान्तियोगात्, प्रियः प्रेमविषयः, मनोज्ञः शुभस्वभाव:, मनसा अम्यते गम्यते सौभाग्यतोऽनुस्मर्यत इति मनोऽमः, एतन्निषेधात् प्रकृतविशेषणानि । तथा हीनस्वरः हूस्वस्वरः, तथा दीनो दैन्यवान् पुरुषस्तत्सम्बन्धित्वात् स्वरोऽपि दीन:, स स्वरो यस्य स तथा, Page #202 -------------------------------------------------------------------------- ________________ अष्टममध्ययनं अष्टस्थानकम् । ६०३ अनादेयवचनश्चासौ प्रत्याजातश्चेति, शेषं कण्ठ्यं यावद् भासउ त्ति, अनेन प्रत्याजातिगर्हितत्वमुक्तमिति। मायीत्यादिना आलोचकस्येहलोकादिस्थानत्रयागर्हितत्वमुक्तविपर्ययस्वरूपमाह । हारेण विराजितं वक्षः उरो यस्य स तथा, कटकानि प्रतीतानि तुटितानि बाह्वाभरणविशेषास्तै: स्तम्भितौ स्तब्धीकृतौ भुजौ बाहू यस्य स तथा । अंगदेत्यादि, कर्णावेव पीठे आसने कुण्डलाधारत्वात् कर्णपीठे, मृष्टे घृष्टे गण्डतले च कपोलतटे कर्णपीठे च यकाभ्यां ते मृष्टगण्डतलकर्णपीठे ते च ते कुण्डले चेति विशेषणोत्तरपद: प्राकृतत्वात् कर्मधारयः, अङ्गदे च केयूरे बाह्वाभरणविशेषावित्यर्थः, कुण्डलमृष्टगण्डतलकर्णपीठे च धारयति य: स तथा, अथवा अङ्गदे च कुण्डले च मृष्टगण्डतले कर्णपीठे च कर्णाभरणविशेषभूते धारयति य: स तथा, तथा विचित्राणि विविधानि हस्ताभरणानि अङ्गुलीयकादीनि यस्य स तथा, तथा विचित्राणि वस्त्राणि चाभरणानि च यस्य, वस्त्राण्येव वाऽऽभरणानि भूषणानि, अवस्थाभरणानि वा अवस्थोचितानीत्यर्थो यस्य स तथा, विचित्रा मालाश्च पुष्पमाला मौलिश्च शेखरो यस्य विचित्रमालानां वा मौलिर्यस्य स तथा, कल्याणकानि मङ्गल्यानि प्रवराणि मूल्यादिना वस्त्राणि परिहितानि निवसितानि येन तान्येव वा परिहितो निवसितो य: स तथा, कल्याणकं प्रवरं च पाठान्तरेण प्रवरगन्धं च माल्यं मालायां साधु पुष्पमित्यर्थः अनुलेपनं च श्रीखण्डादिविलेपनं यो धारयति स तथा, भास्वरा दीप्रा बोन्दी शरीरं यस्य स तथा, प्रलम्बा या वनमाला आभरणविशेषस्तां धारयति यः स तथा, दिव्येन स्वर्गसम्बन्धिना प्रधानेनेत्यर्थो वर्णादिना युक्त इति गम्यते, सङ्घातेन संहननेन वज्रर्षभनाराचलक्षणेन संस्थानेन समचतुरस्रलक्षणेन ऋद्ध्या विमानादिरूपया युक्त्या अन्यान्यभक्तिभिस्तथाविधद्रव्ययोजनेन प्रभया प्रभावन माहात्म्येनेत्यर्थः, छायया प्रतिबिम्बरूपया अर्चिषा शरीरनिर्गततेजोज्वालया तेजसा शरीरस्थकान्त्या लेश्यया अन्त:परिणामरूपया शुक्लादिकया उद्द्योतयमानः स्थूलवस्तूपदर्शनत: प्रभासयमानस्तु सूक्ष्मवस्तूपदर्शनत इति, एकार्थिकत्वेऽपि चैतेषां न दोष:, उत्कर्षप्रतिपादकत्वेनाऽभिहितत्वादिति, महता प्रधानेन बृहता वा रवेणेति सम्बन्धः, अहत: अनुबद्धो Page #203 -------------------------------------------------------------------------- ________________ ६०४ रवस्यैतद्विशेषणं नाट्यं नृत्तं तेन युक्तं गीतं नाट्यगीतं तच्च वादितानि च तानि शब्दवन्ति कृतानि तन्त्री च वीणा तलौ च हस्तौ तालाश्च कंशिका: तुडिय त्ति तूर्याणि च पटहादीनि वादिततन्त्री-तल-ताल-तूर्याणि तानि च तथा घनो मेघस्तदाकारो यो मृदङ्गो ध्वनिगाम्भीर्यसाधात् स चासौ पटुना दक्षेण प्रवादितश्च य: स घनमृदङ्गपटुप्रवादित: स चेति द्वन्द्वे तेषां रव: शब्दस्तेन करणभूतेन, अथवा आहय त्ति आख्यानकप्रतिबद्धं यन्नाट्यं तेन युक्तं यद् गीतम्, शेषं तथैव, इह च मृदङ्गग्रहणं तूर्येषु मध्ये तस्य प्रधानत्वात्, यत उच्यते- मद्दलसाराइं तूराई [ ] ति, भोगार्हा भोगा: शब्दादयो भोगभोगास्तान् भुञ्जान: अनुभवन् विहरति क्रीडति तिष्ठति वेति, भाषामपि च से तस्य भाषमाणस्याऽऽस्तामेको द्वौ वा सौभाग्यातिशयात् यावच्चत्वारः पञ्च वा देवा अनुक्ता एव केनाप्यप्रेरिता एव भाषणप्रवर्त्तनाय बहोरपि भाषितस्य स्वबहुमतत्वख्यापनाय चाभ्युत्तिष्ठन्ति, ब्रुवते च बहुमित्यादि, अभिमतमिदं भवदीयं भाषणमिति हृदयम्, अनेनालोचकस्योपपातागर्हितत्वमुक्तम्, एतद्भणनादिहलोकागर्हितत्वमपि लघुता-ऽऽह्लादाद्यालोचनागुणसद्भावेन वाच्यम्, आलोचनागुणाश्चैते लहुया ल्हाईजणणं अप्पपरनियत्ति अजवं सोही । दुक्करकरणं आढा निस्सल्लत्तं च सोहिगुणा ॥ [व्यवहारभा० १।३१७] इदानीं तस्यैव प्रत्याजात्यगर्हितत्वमाह से णमित्यादिना, अट्ठाई ति धनवन्ति यावत्करणात् दित्ताइं दीप्तानि प्रसिद्धानि दृप्तानि वा दर्पवन्ति वित्थिन्नविउलभवणसयणासणजाणवाहणाई तत्र विस्तीर्णानि विस्तारवन्ति विपुलानि बहूनि भवनानि गृहाणि शयनानि पर्यङ्कादीनि आसनानि सिंहासनादीनि यानानि रथादीनि वाहनानि च वेगसरादीनि येषु कुलेषु तानि तथा, इत्यादि गुणयुक्तेषु [कलेषु पुंस्तया प्रत्यायाति।] अनेनाऽऽलोचकस्याऽनालोचकप्रत्याजातिविपर्यय उक्तः । [सू० ५९८] अट्ठविधे संवरे पन्नत्ते, तंजहा-सोतिंदियसंवरे जाव फासिंदियसंवरे, मणसंवरे, वतिसंवरे, कायसंवरे । अट्ठविधे असंवरे पन्नत्ते, तंजहा-सोतिंदियअसंवरे जाव कायअसंवरे । [टी०] कृतालोचनाद्यनुष्ठानाश्च संवरवन्तो भवन्तीति संवरं तद्विपर्यस्तमसंवरं चाह Page #204 -------------------------------------------------------------------------- ________________ अष्टममध्ययनं अष्टस्थानकम् । ६०५ अट्ठविहेत्यादि सूत्रद्वयं कण्ठ्यम् । [सू० ५९९] अट्ठ फासा पन्नत्ता, तंजहा-कक्खडे, मउते, गरुते, लहुते, सीते, उसिणे, निद्धे, लुक्खे । [टी०] अनन्तरं कायासंवर उक्तः, कायश्चाष्टस्पर्शो भवतीति स्पर्शसूत्रं कण्ठ्यं चेति। [सू० ६००] अट्ठविधा लोगट्टिती पन्नत्ता, तंजहा-आगासपतिट्टिते वाते, वातपतिट्टिते उदही, एवं जधा छट्ठाणे जाव जीवा कम्मपतिट्ठिता, अजीवा जीवसंगहिता, जीवा कम्मसंगहिता । [टी०] स्पर्शाश्चाष्टावेवेति लोकस्थितिरियमतो लोकस्थितिविशेषमाह अट्ठविहेत्यादि कण्ठ्यम्, एवं जहा छट्ठाणे, तत्र चैवम्– उदधिपइट्ठिया पुहवी, घनोदधावित्यर्थः ३, पुढविपइट्ठिया तसा थावरा पाणा, मनुष्यादय इत्यर्थः ४, अजीवा जीवपइट्ठिया, शरीरादिपुद्गला इत्यर्थ: ५, जीवा कम्मपइट्ठिया, कर्मवशवर्तित्वादिति ६, अजीवाः पुद्गलाकाशादयो जीवैः सगृहीता: स्वीकृता:, अजीवान् विना जीवानां सर्वव्यवहाराभावात् ७, जीवाः कर्मभि: ज्ञानावरणादिभिः सगृहीता बद्धाः ८, षष्ठपदे जीवोपग्राहकत्वेन कर्मण आधारता विवक्षितेह तु तस्यैव जीवबन्धनतेति विशेषः । [सू० ६०१] अट्ठविधा गणिसंपता पन्नत्ता, तंजहा-आचारसंपता, सुयसंपता, सरीरसंपता, वतणसंपता, वातणासंपता, मतिसंपता, पतोगसंपता, संगहपरिण्णा णाम अट्ठमा । [टी०] इदं च लोकस्थित्यादि स्वसम्पदुपेतगणिवचनात् ज्ञायत इति गणिसम्पदमाहअट्ठविहा गणिसंपयेत्यादि, गण: समुदायो भूयानतिशयवान् वा गुणानां साधूनां वा यस्यास्ति स गणी आचार्यस्तस्य सम्पत् समृद्धिर्भावरूपा गणिसम्पत्, तत्राचरणमाचारः अनुष्ठानं स एव सम्पत् विभूतिस्तस्य वा सम्पत् सम्पत्तिः प्राप्ति: आचारसम्पत्, सा च चतुर्द्धा, तद्यथा- संयमध्रुवयोगयुक्तता, चरणे नित्यं समाध्युपयुक्ततेत्यर्थः १, असंप्रग्रहः, आत्मनो जात्याधुत्सेकरूपग्राहवर्जनमिति भाव: २, अनियतवृत्ति:, अनियतविहार इति योऽर्थः ३, वृद्धशीलता, वपुर्मनसो निर्विकारतेति यावत् ४ एवं श्रुतसम्पत् । साऽपि चतुर्द्धा, तद्यथा- बहुश्रुतता, युगप्रधानागमतेत्यर्थः १, परिचितसूत्रता २, विचित्रसूत्रता Page #205 -------------------------------------------------------------------------- ________________ ६०६ स्वसमयादिभेदात् ३, घोषविशुद्धिकरता च, उदात्तादिविज्ञानादिति ४ । शरीरसम्पच्चतु , तद्यथा- आरोहपरिणाहयुक्तता, उचितदैर्घ्यविस्तरतेत्यर्थः १, अनवत्रप्यता, अलज्जनीयाङ्गतेत्यर्थ: २, परिपूर्णेन्द्रियता ३, स्थिरसंहननता चेति ४ । वचनसम्पच्चतु , तद्यथा- आदेयवचनता १, मधुरवचनता २, अनिश्रितवचनता, मध्यस्थवचनतेत्यर्थः ३, असन्दिग्धवचनता चेति ४ । वाचनासम्पच्चतुर्द्धा, तद्यथा- विदित्वोद्देशनम् १, विदित्वा समुद्देशनम्, पारिणामिकादिकं शिष्यं ज्ञात्वेत्यर्थ: २, परिनिर्वाप्य वाचना, पूर्वदत्तालापकानधिगमय्य शिष्यं पुन: सूत्रदानमित्यर्थः ३, अर्थनिर्यापणा, अर्थस्य पूर्वापरसाङ्गत्येन गमनिकेत्यर्थ: ४। मतिसम्पच्चतुर्द्धा, अवग्रहेहा-ऽपाय-धारणाभेदादिति। प्रयोगसम्पच्चतुर्द्धा, इह प्रयोगो वादविषयस्तत्रात्मपरिज्ञानं वादादिसामर्थ्यविषये १, पुरुषपरिज्ञानं किंनयोऽयं वाद्यादि: २, क्षेत्रपरिज्ञानम् ३, वस्तुपरिज्ञानम्, वस्तु त्विह वादकाले राजामात्यादि ४ । सङ्ग्रहपरिज्ञा, सङ्ग्रहः स्वीकरणम्, तत्र परिज्ञा ज्ञानं नाम अभिधानमष्टमी सम्पत्, सा च चतुर्विधा, तद्यथा- बालादियोग्यक्षेत्रविषया १, पीठ-फलकादिविषया २, यथासमयं स्वाध्याय-भिक्षादिविषया ३, यथोचितविनयविषया चेति ४ । [सू० ६०२] एगमेगे णं महानिधी अट्ठचक्कवालपतिट्ठाणे अट्ठ अट्ठ जोयणाई उहुंउच्चत्तेणं पन्नत्ते । [सू० ६०३] अट्ट समितीतो पन्नत्ताओ, तंजहा-इरियासमिती, भासासमिती, एसणासमिती, आयाणभंड[मत्तनिक्खेवणासमिती], उच्चार-पा[सवणखेल-सिंघाणग[-जल्लपरिट्ठावणियासमिती] मणस [मिती] वतिस मिती] कायसमिती । [टी०] आचार्या हि गुणरत्ननिधानमिति निधानप्रस्तावानिधिव्यतिकरमाह- एकेत्यादि, एकैको महानिधिश्चक्रवर्तिसम्बन्धी अष्टचक्रवालप्रतिष्ठान: अष्टचक्रप्रतिष्ठित:, मञ्जूषावत्, तत्स्वरूपं चेदम्नवजोयणवित्थिन्ना बारसदीहा समूसिया अट्ठ । जक्खसहस्सपरिवुडा चक्कट्ठपइट्ठिया नव वि ॥ [ ] Page #206 -------------------------------------------------------------------------- ________________ अष्टममध्ययन अष्टस्थानकम् । ६०७ द्रव्यनिधानवक्तव्यतोक्ता, भावनिधानभूतसमितिस्वरूपमाह- अट्ट समिईत्यादि. सम्यगिति: प्रवृत्ति: समितिः, ईर्यायां गमने समितिश्चक्षुर्व्यापारपूर्वतयेतीर्यासमिति:, एवं भाषायां निरवद्यभाषणत:, एषणायामुद्गमादिदोषवर्जनतः, आदाने ग्रहणे भाण्डमात्राया उपकरणमात्रायाः, भाण्डस्य वा वस्त्राद्युपकरणस्य मृन्मयादिपात्रस्य वा मात्रस्य च साधुभाजनविशेषस्य, निक्षेपणायां च समिति: सुप्रत्युपेक्षितसुप्रमार्जितक्रमेणेति, उच्चार-प्रश्रवण-खेल-सिवान-जल्लानां परिष्ठापनिकायां समिति: स्थण्डिलशुद्ध्यादिक्रमेण, खेलो निष्ठीवनम्, सिंघानो नासिकाश्लेष्मेति, मनस: कुशलतायां समितिः, वाचोऽकुशलत्वनिरोधे समितिः, कायस्य स्थानादिषु समितिरिति । [सू० ६०४] अट्ठहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोतणं पडिच्छित्तते, तंजहा-आयारवं, आहारवं, ववहारवं, ओवीलए, पकुव्वते, अपरिस्साती, निजवते, अवातदंसी १।। ___ अट्टहिं ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसमालोएत्तए, तंजहाजातिसंपन्ने, कुलसंपन्ने, विणयसंपन्ने, णाणसंपन्ने, सणसंपन्ने, चरित्तसंपन्ने, खंते, दंते २॥ _[सू० ६०५] अट्ठविहे पायच्छिते पन्नत्ते, तंजहा-आलोयणारिहे, पडिक्कमणारिहे, तदुभयारिहे, विवेगारिहे, विउस्सगारिहे, तवारिहे, छेदारिहे, मूलारिहे ३॥ टी०] समितिष्वतिचारादावालोचना देयेत्यालोचनाचार्यस्यालोचकसाधो: प्रायश्चित्तस्य च स्वरूपाभिधानाय सूत्रत्रयमाह- अट्ठहीत्यादि सूत्रत्रयं सुगमम्, नवरम् आयारवं ति ज्ञानादिपञ्चप्रकाराचारवान् ज्ञाना-ऽऽसेवनाभ्याम्, आहारवं ति अवधारणावान् आलोचकेनालोच्यमानानामतीचाराणामिति, आह च आयरवमायारं पंचविहं मुणइ जो य आयरइ ।। आहारवमवहारे आलोएंतस्स तं सव्वं ॥ [ ] ति । ववहारवं ति आगम-श्रुता-ऽऽज्ञा-धारणा-जीतलक्षणानां पञ्चानामुक्तरूपाणां व्यवहाराणां ज्ञातेति, ओवीलए त्ति अपव्रीडयति विलज्जीकरोति यो लज्जया Page #207 -------------------------------------------------------------------------- ________________ ६०८ सम्यगनालोचयन्तं सर्वं यथा सम्यगालोचयति तथा करोतीत्यपव्रीडकः। पकुव्वए त्ति आलोचिते सति य: शुद्धिं प्रकर्षण कारयति स प्रकारीति, भणितं च- आलोइयम्मि सोहिं जो कारावेइ सो पकुव्वीओ ॥ [ ] इति । अपरिस्साइ त्ति न परिश्रवति नालोचकदोषानुपश्रुत्यान्यस्मै प्रतिपादयति य एवंशील: सोऽपरिश्रावीति । निजवए त्ति निर्यापयति तथा करोति यथा गुर्व्वपि प्रायश्चित्तं शिष्यो निर्वाहयतीति निर्यापक इति । अवायदंसि त्ति अपायान् अनर्थान् शिष्यचित्तभङ्गाऽनिर्वाहादीन् दुर्भिक्ष-दौर्बल्यादिकृतान् पश्यतीत्येवंशील:, सम्यगनालोचनायां वा दुर्लभबोधिकत्वादीन् अपायान् शिष्यस्य दर्शयतीति अपायदर्शीति। अत्तदोसं ति आत्मापराधमिति, जाति-कुले माता-पितृपक्षौ, तत्सम्पन्नः प्रायोऽकृत्यं न करोति, कृत्वापि पश्चात्तापादालोचयतीति तद्ग्रहणम् । विनयसम्पन्न: सुखेनैवालोचयति, तथा ज्ञानसम्पन्नो दोषविपाकं प्रायश्चित्तं चाऽवगच्छति। दर्शनसम्पन्नः शुद्धोऽहमित्येवं श्रद्धत्ते। चारित्रसम्पन्नो भूयस्तमपराधं न करोति सम्यगालोचयति प्रायश्चित्तं च निर्वाहयतीति। क्षान्त: परुषं भणितोऽप्याचार्यैर्न रुष्यतीति। दान्तः प्रायश्चित्तं दत्तं वोढुं समर्थो भवतीति । आलोयणेत्यादि व्याख्यातं प्राय: । [सू० ६०६] अट्ट मतट्ठाणा पन्नत्ता, तंजहा-जातिमते, कुलमते, बलमते, रूवमते, तवमते, सुतमते, लाभमते, इस्सरितमते ।। [टी०] जात्यादिमदेषु सत्स्वालोचनायां न प्रवर्त्तत इति मदस्थानसूत्रं गतार्थम्, नवरं मदस्थानानि मदभेदाः, इह च दोषा: जात्यादिमदोन्मत्त: पिशाचवद्भवति दुःखितश्चेह । जात्यादिहीनतां परभवे च नि:संशयं लभते ॥ [प्रशम० ९८] इति । सू० ६०७] अट्ठ अकिरियावाती पन्नत्ता, तंजहा-एगावाती, अणेगावाती, मितवाती, निम्मितवाती, सायवाती, समुच्छे दवाती, णितावाती, णसंतिपरलोगवाती । [टी०] वादिनां हि प्राय: श्रुतमदो भवतीति वादिविशेषान् दर्शयन्नाह- अट्ठ Page #208 -------------------------------------------------------------------------- ________________ ६०९ अष्टममध्ययनं अष्टस्थानकम् । अकिरियेत्यादि, क्रिया अस्ती'तिरूपा सकलपदार्थसार्थव्यापिनी सैवायथावस्तुविषयतया कुत्सिता अक्रिया नत्र: कुत्सार्थत्वात्, तामक्रियां वदन्तीत्येवंशीला: अक्रियावादिनः, यथावस्थितं हि वस्त्वनेकान्तात्मकं तन्नास्त्येकान्तात्मकमेव चास्तीति प्रतिपत्तिमन्त इत्यर्थः, नास्तिका इति भावः, एवंवादित्वाच्चैते परलोकसाधकक्रियामपि परमार्थतो न वदन्ति, तन्मतवस्तुसत्त्वे हि परलोकसाधकक्रियाया अयोगादित्यक्रियावादिन एव ते इति, तत्रैक एवात्मादिरर्थ इत्येवं वदतीत्येकवादी, दीर्घत्वं च प्राकृतत्वादिति, उक्तं चैतन्मतानुसारिभि:एक एव हि भूतात्मा, भूते भूते व्यवस्थितः ।। एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥ [ ] इति । अपरस्त्वात्मैवास्ति नान्यदिति प्रतिपन्न:, तदुक्तम्पुरुष एवेदं ग्निं सर्वं यद्भूतं यच्च भाव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ [शुक्लयजु० ३१।२] यदेजति यत्नजति यद्रे यदु अन्तिके । यदन्तरस्य सर्वस्य यदु सर्वस्यास्य बाह्यतः ॥ [ईशावास्य० ५] इति। तथानित्यज्ञानविवर्तोऽयं क्षिति-तेजो-जलादिकः । आत्मा तदात्मकश्चेति सङ्गिरन्ते परे पुन: ॥ [ ] इति । शब्दाद्वैतवादी तु सर्वं शब्दात्मकमिदमित्येकत्वं प्रतिपन्नः, उक्तं चअनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्त्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ [वाक्यप० १।१] इति ।। अथवा सामान्यवादी सर्वमेवैकं प्रतिपद्यते इत्यादि महान् २। तथा अनन्तानन्तत्वेऽपि जीवानां मितान् परिमितान् वदति ‘उत्सन्नभव्यकं भविष्यति भुवन'मित्यभ्युपगमात्, मितं वा जीवम् अङ्गुष्ठपर्वमानं श्यामाकतन्दुलमानं वा वदति इत्यादि ३ । तथा निर्मितम् ईश्वर-ब्रह्म-पुरुषादिना कृतं लोकं वदतीति निर्मितवादी, तथा चाहु: आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतय॑मविज्ञेयं प्रसुप्तमिव सर्वत: ॥ [मनुस्मृ० ११५] Page #209 -------------------------------------------------------------------------- ________________ ६१० तस्मिन्नेकार्णवीभूते नष्टस्थावरजङ्गमे। नष्टामरनरे चैव प्रणष्टोरगराक्षसे ॥ केवलं गहरीभूते महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र शयानस्तप्यते तप: ॥ तत्र तस्य शयानस्य नाभे: पद्मं विनिर्गतम् । तरुणरविमण्डलनिभं हृद्यं काञ्चनकर्णिकम् ॥ तस्मिन् पद्मे तु भगवान् दण्डी यज्ञोपवीतसंयुक्तः । ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः ॥ अदिति: सुरसङ्घानां दितिरसुराणां मनुर्मनुष्याणाम् । विनता विहङ्गमानां माता विश्वप्रकाराणाम् ॥ कद्रुः सरीसृपाणां सुलसा माता तु नागजातीनाम् । सुरभिश्चतुष्पदानामिला पुन: सर्वबीजानाम् ॥ [ ] इत्यादि ४ । तथा सातं सुखमभ्यसनीयमिति वदतीति सातवादी, तथाहि- भवत्येवंवादी कश्चित् सुखमेवानुशीलनीयं सुखार्थिना, न त्वसातरूपं तपो-नियम-ब्रह्मचर्यादि, कारणानुरूपत्वात् कार्यस्य, नहि शुक्लैस्तन्तुभिरारब्धः पटो रक्तो भवति अपि तु शुक्ल एव, एवं सुखासेवनात् सुखमेवेति, उक्तं च मृद्वी शय्या प्रातरुत्थाय पेया भक्तं मध्ये पानकं चापराह्ने । द्राक्षाखण्डं शर्करा चार्द्धरात्रे मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः ॥ [ ] अक्रियावादिता चास्य संयम-तपसो: पारमार्थिकप्रशमसुखरूपयो: दुःखत्वेनाभ्युपगमात् कारणानुरूपकार्याभ्युपगमस्य च विषयसुखादननुरूपस्य निर्वाणसुखस्याभ्युपगमेन बाधितत्वादिति ५ । तथा समुच्छेदं प्रतिक्षणं निरन्वयनाशं वदति य: स समुच्छेदवादी, तथाहि- वस्तुन: सत्त्वं कार्यकारित्वम्, कार्याकारिणोऽपि वस्तुत्वे खरविषाणस्यापि सत्त्वप्रसङ्गात्, कार्यं च नित्यं वस्तु क्रमेण न करोति, नित्यस्यैकस्वभावतया कालान्तरभाविसकलकार्यभावप्रसङ्गात्, न चेदेवं प्रतिक्षणं स्वभावान्तरोत्पत्त्या नित्यत्वहानिरिति, यौगपद्येनापि न करोति इत्यादि ६ । तथा नियतं नित्यं वस्तु वदति य: स तथा, तथाहि- नित्यो लोकः, आविर्भाव-तिरोभावमात्रत्वादुत्पाद-विनाशयो:, तथा असतोऽनुत्पादाच्छशविषाणस्येव सतश्चाविनाशात् घटवत्, नहि सर्वथा घटो Page #210 -------------------------------------------------------------------------- ________________ अष्टममध्ययनं अष्टस्थानकम् । ६११ विनष्टः, कपालाद्यवस्थाभिस्तस्य परिणतत्वात् तासां चापारमार्थिकत्वात्, मृत्सामान्यस्यैव पारमार्थिकत्वात्, तस्य चाविनष्टत्वादिति, अक्रियावादी चायमेकान्तनित्यस्य स्थिरैकरूपतया सकलक्रियाविलोपाभ्युपगमादिति ७ । तथा नसंति-परलोगवाइ त्ति नेति न विद्यते शान्तिश्च मोक्ष: परलोकश्च जन्मान्तरमित्येवं यो वदति स तथा, तथाहिनास्त्यात्मा प्रत्यक्षादिप्रमाणाविषयत्वात् खरविषाणवत्, तदभावान्न पुण्य-पापलक्षणं कर्म, इत्यादि विस्तारो वृत्तितोऽन्यग्रन्थतो वा ज्ञेय इति ८। [सू० ६०८] अट्ठविधे महानिमित्ते पन्नत्ते, तंजहा-भोमे, उप्पाते, सुविणे, अंतलिक्खे, अंगे, सरे, लक्खणे, वंजणे । एते च वादिन: शास्त्राभिसंस्कृतबुद्धयो भवन्तीत्यष्टस्थानकावतारीणि शास्त्राण्याहअट्ठ महानिमित्तेत्यादि, अतीता-ऽनागत-वर्तमानानामतीन्द्रियभावानामधिगमे निमित्तं हेतुर्यद्वस्तुजातं तन्निमित्तम्, तदभिधायकशास्त्राण्यपि निमित्तानीत्युच्यन्ते, तानि च प्रत्येकं सूत्र-वृत्ति-वार्तिकत: क्रमेण सहस्र-लक्ष-कोटीप्रमाणानीति कृत्वा महान्ति च तानि निमित्तानि चेति महानिमित्तानि, तत्र भूमिविकारो भौमं भूकम्पादि, तदर्थं शास्त्रमपि भौममेवमन्यान्यपि वाच्यानि १, नवरमुदाहरणमिह शब्देन महता भूमिर्यदा रसति कम्पते । सेनापतिरमात्यश्च राजा राज्यं च पीड्यते ॥ [ ] इत्यादि । उत्पादः(तः?) सहजरुधिरवृष्ट्यादिः २ । स्वप्नो यथामूत्रं वा कुरुते स्वप्ने पुरीषं वाऽतिलोहितम् । प्रतिबुद्ध्येत् तदा कश्चिल्लभते सोऽर्थनाशनम् ॥ [ ] इति ३ । अन्तरिक्षम् आकाशं तत्र भवमान्तरिक्षं गन्धर्व्वनगरादि, यथाकपिलं सस्यघाताय माञ्जिष्ठं हरणं गवाम् । अव्यक्तवर्णं कुरुते बलक्षोभं न संशयः ॥ गन्धर्वनगरं स्निग्धं सप्राकारं सतोरणम् । सौम्यां दिशं समाश्रित्य राज्ञस्तद्विजयङ्करम् ॥ [ ] इत्यादि ४ । अङ्गं शरीरावयवः, तद्विकार आङ्गं शिरःस्फुरणादि, यथा Page #211 -------------------------------------------------------------------------- ________________ ६१२ दक्षिणपार्श्वे स्पन्दमभिधास्ये तत्फलं स्त्रिया वामे । पृथिवीलाभ: शिरसि स्थानविवृद्धिर्ललाटे स्याद् ॥ [ ] इत्यादि ५ । स्वरः शब्दः षड्जादिः, स च निमित्तं यथासज्जेण लभई वित्तिं कयं च न विणस्सइ । गावो मित्ता य पुत्ता य नारीणं चेव वल्लभो ॥ [स्थानाङ्ग० सू० ५५३, गा० ५४] इत्यादि। शकुनरुतं वा यथाचिविचिविसद्दो पुन्नो सामाए सूलिसूलि धन्नो उ । चेरी चेरी दित्तो चिक्कुत्ती लाभहेउ त्ति ॥ [ ] इत्यादि ६ । लक्षणं स्त्रीपुरुषादीनां यथाअस्थिष्वर्थाः सुखं मांसे त्वचि भोगा: स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा सर्वं सत्त्वे प्रतिष्ठितम् ॥ [ ] इत्यादि ७ । व्यञ्जनं मषादि, यथा- ललाटकेशः प्रभुत्वाय [ ] इत्यादि ८ । [सू० ६०९] अट्ठविधा वयणविभत्ती पन्नत्ता, तंजहानिद्देसे पढमा होति बीतिया उवतेसणे । ततिमा करणम्मि कता चउत्थी संपदावणे ॥८९॥ पंचमी त अवाताणे छट्ठी सस्सामिवायणे । सत्तमी सनिहाणत्थे अट्ठमी आमंतणी भवे ॥९०॥ तत्थ पढमा विभत्ती निद्देसे सो इमो अहं व त्ति । बितीता उण उवेतेसे भण कुण व तिमं व तं व त्ति ॥११॥ ततिता करणम्मि कता णीतं च कतं च तेण व मते वा । हंदि णमो साहाते हवति चउत्थी पदाणम्मि ॥१२॥ अमणे गिण्हसु तत्तो इत्तो त्ति वा पंचमी अवादाणे । छट्ठी तस्स इमस्स व गतस्स वा सामिसंबंधे ॥९३॥ हवति पुण सत्तमी तं इमम्मि आधार-काल-भावे त । आमंतणी भवे अट्ठमी उ जह हे जुवाण त्ति ॥१४॥ Page #212 -------------------------------------------------------------------------- ________________ अष्टममध्ययनं अष्टस्थानकम् । [ टी० ] एतानि च शास्त्राणि वचनविभक्तियोगे नाभिधेयप्रतिपादकानीति वचनविभक्तिस्वरूपमाह- अट्ठविहा वयणविभत्तीत्यादि, उच्यते एकत्व-द्वित्वबहुत्वलक्षणोऽर्थो यैस्तानि वचनानि, विभज्यते कर्तृत्व-कर्म्मत्वादिलक्षणोऽर्थो विभक्तिः, वचनात्मिका विभक्तिर्वचनविभक्ति:, सु औ जस् [पा० ४।१।२] इत्यादि। निद्देसे सिलोगो, निर्देशनं निर्देश: कर्मादिकारकशक्तिभिरनधिकस्य लिङ्गार्थमात्रस्य प्रतिपादनम्, तत्र प्रथमा भवति, यथा स वा अयं वाऽऽस्ते अहं वा आसे १ । तथा उपदिश्यत इत्युपदेशनम् उपदेशक्रियाया यद् व्याप्यम्, उपलक्षणत्वादस्य क्रियाया यद् व्याप्यं कर्मेत्यर्थः, तत्र द्वितीया, यथा भण इमं श्लोकम्, कुरु वा तं घटम्, ददाति तम्, याति ग्रामम् २। तथा क्रियते येन तत् करणं क्रियां प्रति साधकतमम्, करोतीति वा करणः कर्त्ता कृत्यल्युटो बहुलम् [पा० ३ | ३ | ११३] इति वचनादिति, करणे तृतीया कृता विहिता, यथा नीतं सस्यं तेन शकटेन, कृतं कुण्डं मयेति ३ । तथा संपदावणे त्ति सत्कृत्य प्रदाप्यते यस्मै उपलक्षणत्वात् सम्प्रदीयते वा यस्मै स सम्प्रदापनं सम्प्रदानं वा, तत्र चतुर्थी, यथा भिक्षवे भिक्षां दापयति ददाति वेति, सम्प्रदापनस्योपलक्षणत्वादेव नमः - स्वस्ति - स्वाहा स्वधा - ऽलं - वषड्युक्ताच्च चतुर्थी भवति, नमः शाखायै वैरादिकायै, नमः प्रभृतियोगोऽपि कैश्चित् सम्प्रदानमभ्युपगम्यते इति ४ । पंचमीय श्लोकः, अपादीयते अपायतो विश्लेषत आ मर्यादया दीयते दो अवखण्डने [पा० धा० ११४८] इति वचनात् खण्ड्यते भिद्यते आदीयते वा गृह्यते यस्मात्तदपादानमवधिमात्रमित्यर्थः, तत्र पञ्चमी भवति, यथा अपनय ततो गृहाद्धान्यमितो वा कुशूलाद् गृहाणेति ५ । छट्ठी सस्सामिवायणे त्ति स्वं च स्वामी च स्वस्वामिनी तयोर्वचनं प्रतिपादनम्, तत्र स्वस्वामिवचने, स्वस्वामिसम्बन्धे इत्यर्थः, षष्ठी भवति, यथा तस्यास्य वा गतस्य वाऽयं भृत्यः, वायणे तीह प्राकृतत्वाद् दीर्घत्वम् ६ । सन्निधीयते क्रिया अस्मिन्निति सन्निधानम् आधारः, तदेवार्थः सन्निधानार्थः, तत्र सप्तमी, विषयोपलक्षणत्वाच्चास्य काले भावे च क्रियाविशेषणे, तत्र सन्निधाने तद्भक्तमिह पात्रे, तत् सप्तच्छदवनमिह शरदि पुष्यति, पुष्पनक्रिया शरदा विशेषिता, तत् कुटुम्बकमिह गवि दुह्यमानायां गतम्, इह गमनक्रिया गोदोहनभावेन विशेषितेति ६१३ Page #213 -------------------------------------------------------------------------- ________________ ६१४ ७ । अष्टम्यामन्त्रणी भवेदिति, सु औ जसिति, प्रथमाऽपीयं विभक्तिरामन्त्रणलक्षणस्यार्थस्य कर्म-करणादिवत् लिङ्गार्थमात्रातिरिक्तस्य प्रतिपादकत्वेनाष्टम्युक्ता, यथा हे युवन्निति श्लोकद्वयार्थः ८। उदाहरणगाथास्तु व्याख्यातानुसारेण भावनीयाः, तत्थ गाहा, तइया गाहा, इह हंदीत्युपप्रदर्शने, पयाणम्मि त्ति सम्प्रदाने । अवणे गाहा, अवणे त्ति अपनयेत्यर्थः, [इदं चाऽनुयोगद्वारानुसारेण व्याख्यातम्, आदर्शेषु तु अमणे इति दृश्यते, तत्र च स्त्र्यामन्त्रणतया गमनीयम्, हे अमनस्के इत्यर्थः ।] [सू० ६१०] अट्ठ ठाणाई छउमत्थे सव्वभावेणं ण याणति न पासति, तंजहा-धम्मत्थिगातं जाव गंधं, वातं । ___ एताणि चेव उप्पन्ननाणदंसणधरे जाव गंधं, वातं । [टी०] अथ वचनविभक्तियुक्तशास्त्रसंस्कारात् किं छद्मस्था: साक्षाददृश्यार्थान् विदन्ति ?, उच्यते, नेत्याह- अट्ठ ठाणेत्यादि व्याख्यातं प्राक्, नवरं यावत्करणात् 'अधम्मत्थिकायं २, आगासत्थिकायं ३, जीवमसरीरपडिबद्धं ४, परमाणुपोग्गलं ५, सद्द ६' मिति द्रष्टव्यमिति, एतान्येव जिनो जानातीत्याह- एयाणीत्यादि सुगमम् । [सू० ६११] अट्ठविधे आउव्वेदे पन्नत्ते, तंजहा-कुमारभिच्चे, कायचिगिच्छा, सालाती, सल्लहत्ता, जंगोली, भूतवेज्जा, खारतंते, रसातणे । टी०] यथा धर्मास्तिकायादीन् जिनो जानाति तथाऽऽयुर्वेदमपि जानाति, स चायम्- अट्ठविहे आउव्वेए इत्यादि, आयुः जीवितं तद्विदन्ति रक्षितुमनुभवन्ति वोपक्रमरक्षणेन विन्दन्ते वा लभन्ते यथाकालं तेन तस्मात्तस्मिन् वेत्यायुर्वेदः चिकित्साशास्त्रं तदष्टविधम्, तद्यथा- कुमाराणां बालकानां भृतौ पोषणे साधु कुमारभृत्यम्, तद्धि तन्त्रं कुमारभरण-क्षीरदोषसंशोधनार्थं दुष्टस्तन्यनिमित्तानां व्याधीनामुपशमनार्थं चेति १, कायस्य ज्वरादिरोगग्रस्तस्य चिकित्साप्रतिपादकं तन्त्रं कायचिकित्सा, तत्तन्त्रं हि मध्याङ्गसमाश्रितानां ज्वरा-ऽतीसार-रक्तशोषोन्मादप्रमेह-कुष्ठादीनां शमनार्थमिति २, शलाकाया: कर्म शालाक्यम्, तत्प्रतिपादकं तन्त्रं शालाक्यम्, तद्धि उर्ध्वजत्रुगतानां रोगाणां श्रवण-वदन-नयन-घ्राणादिसंश्रितानामुपशमनार्थमिति ३, शल्यस्य हत्या हननमुद्धारः शल्यहत्या, तत्प्रतिपादकं तन्त्रमपि Page #214 -------------------------------------------------------------------------- ________________ अष्टममध्ययनं अष्टस्थानकम् । ६१५ शल्यहत्येत्युच्यते, तद्धि विविधतृण-काष्ठ- पाषाण-पांशु-लोह-लोष्ठा-ऽस्थिनखप्रायाऽङ्गान्तर्गतशल्योद्धरणार्थमिति ४, जङ्गोलीति विषविघाततन्त्रम्, अगदतन्त्रमित्यर्थः, तद्धि सर्प-कीट-लूतादष्टविषविनाशनार्थं विविधविषसंयोगोपशमनार्थं चेति ५, भूतादीनां निग्रहार्थं विद्यातन्त्रं भूतविद्या, सा हि देवा-ऽसुर-गन्धर्व-यक्षरक्ष:-पितृ-पिशाच-नाग-ग्रहाद्युपसृष्टचेतसां शान्तिकर्म-बलिकरणादिग्रहोपशमनार्थेति ६, क्षारतन्त्रमिति क्षरणं क्षार: शुक्रस्य, तद्विषयं तन्त्रं यत् तत्तथा, इदं हि सुश्रुतादिषु वाजीकरणतन्त्रमुच्यते, अवाजिनो वाजीकरणं रेतोवृद्ध्या अश्वस्येव करणमित्यनयोः शब्दार्थः सम एवेति, तत् तन्त्रं हि अल्प-क्षीण-विशुष्करेतसामाप्यायन-प्रसादोपजनननिमित्तं प्रहर्षजननार्थमिति ७, रस: अमृतरसः, तस्याऽयनं प्राप्ति: रसायनम्, तद्धि वय:स्थापनमायुर्मेधाकरणं रोगापहरणसमर्थं च, तत्प्रतिपादकं शास्त्रं रसायनतन्त्रमिति।। [सू० ६१२] सक्कस्स णं देविंदस्स देवरन्नो अट्ठऽग्गमहिसीतो पन्नत्ताओ, तंजहा-पउमा, सिवा, सूती, अंजू, अमला, अच्छरा, णवमिया, रोहिणी१। ईसाणस्स णं देविंदस्स देवरन्नो अट्ठऽग्गमहिसीओ पन्नत्ताओ, तंजहाकण्हा, कण्हराती, रामा, रामरक्खिता, वसू, वसुगुत्ता, वसुमित्ता, वसुंधरा२। ___ सक्कस्स णं देविंदस्स देवरन्नो सोमस्स महारण्णो अट्ठऽग्गमहिसीओ पन्नत्ताओ३। ईसाणस्स णं देविंदस्स देवरण्णो वेसमणस्स महारन्नो अट्ठऽग्गमहिसीओ पन्नत्ताओ ४ । [सू० ६१३] अट्ठ महग्गहा पन्नत्ता, तंजहा-चंदे, सूरे, सुक्के, बुधे, बहस्सती, अंगारते, सणिचरे, केऊ ५ ।। [टी०] कृतरसायनश्च देववन्निरुपक्रमायुर्भवतीति देवप्रस्तावाद्देवानामष्टकान्याह, तत्र सक्कस्सेत्यादि सूत्रपञ्चकं सुगमम्, नवरं महाग्रहा महार्था-ऽनर्थसाधकत्वादिति । [सू० ६१४] अट्ठविधा तणवणस्सतिकातिया पन्नत्ता, तंजहा-मूले, कंदे, खंधे, तया, साले, पवाले, पत्ते, पुप्फे । [टी०] महाग्रहाश्च मनुष्य-तिरश्चामुपघाता-ऽनुग्रहकारिणो बादरवनस्पत्युपघातादि Page #215 -------------------------------------------------------------------------- ________________ ६१६ कारित्वेनेति बादरवनस्पतीनाह - अट्ठविहेत्यादि सुगमम्, नवरं तणवणस्सइत्ति बादरवनस्पतिः, कन्दः स्कन्धस्याधः स्कन्धः स्थुडमिति प्रतीतम्, त्वक् छल्ली, शाला शाखा, प्रवालम् अङ्कुरः, पत्र- पुष्पे प्रतीते । [सू० ६१५] चउरिंदिया णं जीवा असमारभमाणस्स अट्ठविधे संजमे कज्जति, तंजहा-चक्खुमातो सोक्खातो अववरोवेत्ता भवति, चक्खुमतेणं दुक्खेणं असंजोएत्ता भवति, एवं जाव फासामातो सोक्खातो अववरोवेत्ता भवति, फासामतेणं दुक्खेणं असंजोगेत्ता भवति । चाउरिंदिया णं जीवा समारभमाणस्स अट्ठविधे असंजमे कज्जति, तंजहाचक्खुमातो सोक्खातो ववरोवेत्ता भवति, चक्खुमतेणं दुक्खेणं संजोगेत्ता भवति, एवं जाव फासामातो सोक्खातो [ववरोवेत्ता भवति, फासामतेणं दुक्खेणं संजोगेत्ता भवति । ] [टी०] एतदाश्रयाश्चतुरिन्द्रियादयो जीवा भवन्तीति चतुरन्द्रियानाश्रित्य संयमाSसंयमसूत्रे, ते च प्रागिवेति । ७, [सू० ६१६] अट्ठ सुहुमा पन्नत्ता, तंजहा - पाणसुमे १, पणगसुमे २, बीयसुहुमे ३, हरितसुहुमे ४, पुप्फुसुहुमे ५, अंडसुहुमे ६, सुमे सिणेह ८। [टी०] सूक्ष्माण्यप्याश्रित्य संयमासंयमौ स्त इति तान्याह— अट्ठ सुहुमेत्यादि, सूक्ष्माणि श्लक्ष्णत्वादल्पाधारतया च तत्र प्राणसूक्ष्मम् अनुद्धरिः कुन्थुः, स हि चलन्नेव विभाव्यते न स्थित: सूक्ष्मत्वादिति १, पनकसूक्ष्मं पनक: उल्ली, स च प्राय: प्रावृट्काले भूमि-काष्ठादिषु पञ्चवर्णस्तद्रव्यलीनो भवति, स एव सूक्ष्ममिति, एवं सर्वत्र २, तथा बीजसूक्ष्मं शाल्यादिबीजस्य मुखमूले कणिका लोके या तुषमुखमित्युच्यते ३, हरितसूक्ष्मम् अत्यन्ताभिनवोद्भिन्नं पृथिवीसमानवर्णं हरितमेवेति ४, पुष्पसूक्ष्मं वोदुम्बराणां पुष्पाणि तानि तद्वर्णानि सूक्ष्माणीति न लक्ष्यन्ते ५, अण्डसूक्ष्मं मक्षिकाकीटिका-गृहकोकिलाद्यण्डकमिति ६, लयनसूक्ष्मं लयनम् आश्रयः सत्त्वानाम्, तच्च कीटिकानगरकादि, तत्र कीटिकाश्चान्ये च सूक्ष्माः सत्त्वा भवन्तीति ७, स्नेहसूक्ष्म Page #216 -------------------------------------------------------------------------- ________________ अष्टममध्ययनं अष्टस्थानकम् । ६१७ मवश्याय-हिम-महिका-करक-हरतनुरूपमिति ८ । _ [सू० ६१७] भरहस्स णं रन्नो चाउरंतचक्कवहिस्स अट्ठ पुरिसजुगाइं अणुबद्धं सिद्धाइं जाव सव्वदुक्खप्पहीणाई, तंजहा-आदिच्चजसे, महाजसे, अतिबले, महाबले, तेतवीरिते, कत्तवीरिते, दंडवीरिते, जलवीरिते । [टी०] अनन्तरोक्तसूक्ष्मविषयसंयममासेव्य ये अष्टकतया सिद्धास्तानाहभरहस्सेत्यादि कण्ठ्यम्, किन्तु पुरिसजुगाई ति पुरुषा युगानीव कालविशेषा इव क्रमवृत्तित्वात् पुरुषयुगानि, अनुबद्धं सततम् यावत्करणात् 'बुद्धाइं मुक्काइं परिनिव्वुडाइंति, एतेषां चाऽऽदित्ययश:प्रभृतीनामिहोक्तक्रमस्यान्यथात्वमप्युपलभ्यते, तथाहि राया आइच्चजसे महाजसे अइबले अ बलभद्दे । बलविरिय कत्तविरिए जलविरिए दंडविरिए य ॥ [आव० नि० ३६३] इति । इह चान्यथात्वमेकस्यापि नामान्तरभावाद् गाथानुलोम्याच्च सम्भाव्यत इति । [सू० ६१८] पासस्सणं अरहओ पुरिसादाणितस्स अट्ठगणा अट्ठ गणधरा होत्था, तंजहा-सुभे, अजघोसे, वसिट्टे, बंभचारी, सोमे, सिरिधरे, वीरिते, भद्दजसे। [टी०] संयमवदधिकारात् संयमवतामेवाष्टकान्तरमाह- पासेत्यादि व्यक्तम्, किन्तु पुरिसादाणीयस्स त्ति पुरुषाणां मध्ये आदीयत इत्यादानीय उपादेय इत्यर्थः, गणा एकक्रिया-वाचनानां साधूनां समुदाया:, गणधरा: तन्नायका आचार्या: भगवत: सातिशयानन्तरशिष्या:, आवश्यके तूभयेऽपि दश श्रूयन्ते, दस नवगं गणाण माणं जिणिंदाणं [आव० नि० २६८] इति वचनात् जावइया जस्स गणा तावइया गणहरा तस्स [आव० नि० २६९] इति वचनाच्च । तदिहाल्पायुष्कत्वादिकं कारणमपेक्ष्य द्वयोरविवक्षणमिति सम्भाव्यते, न चाष्टस्थानकानुरोध इह समाधानं वक्तुं शक्यते पर्युषणाकल्पे-ऽप्यष्टानामेवाभिधानादिति। [सू० ६१९] अट्ठविधे दंसणे पन्नत्ते, तंजहा-सम्मइंसणे, मिच्छदसणे, सम्मामिच्छइंसणे, चक्खुदंसणे, जाव केवलदंसणे, सुविणदंसणे । [टी०] गणधराश्च दर्शनवन्त इति दर्शनं निरूपयन्नाह– अट्टविहे दंसणे इत्यादि Page #217 -------------------------------------------------------------------------- ________________ ६१८ कण्ठ्यम्, केवलं स्वप्नदर्शनस्याचक्षुर्दर्शनान्तर्भावेऽपि सुप्तावस्थोपाधितो भेदो विवक्षित इति । [सू० ६२०] अट्ठविधे अद्धोवमिते पन्नत्ते, तंजहा-पलितोवमे, सागरोवमे, ओसप्पिणी, उस्सप्पिणी, पोग्गलपरियट्टे, तीतद्धा, अणागतद्धा, सव्वद्धा । [टी०] सम्यग्दर्शनादेश्च स्थितिप्रमाणमौपम्याद्धया भवतीति तां प्ररूपयन्नाह- अट्ठविहे अद्धोवमिते इत्यादि सुगमम्, नवरम् औपम्यमुपमा पल्य-सागररूपा तत्प्रधाना अद्धा कालोऽद्धौपम्यं राजदन्तादिदर्शनात्, पल्येनोपमा यत्र काले परिमाणत: स पल्योपमम्, रूढितो नपुंसकलिङ्गता, एवं सागरोपमम्, अवसर्पिण्यादीनां तु सागरोपमनिष्पन्नत्वादुपमाकालत्वं भावनीयम्, समयादिस्तु शीर्षप्रहेलिकान्त: कालोऽनुपमाकाल इति। [सू० ६२१] अरहतो णं अरिट्टनेमिस्स जाव अट्ठमातो पुरिसजुगातो जुगंतकरभूमी, दुवासपरियाते अंतमकासी । ___ [टी०] कालाधिकारादिदमपरमाह- अरहओ इत्यादि, जाव अट्ठमाउ त्ति अष्टमं पुरुषयुगम् अष्टमपुरुषकालं यावत् युगान्तकरभूमि: पुरुषलक्षणयुगापेक्षयाऽन्तकराणां भवक्षयकारिणां भूमिः कालः सा आसीदिति । इदमुक्तं भवति- नेमिनाथस्य शिष्यप्रशिष्यक्रमेण अष्टौ पुरुषान् यावद् निर्वाणं गतवन्तो न परत इति, तथा पर्यायापेक्षयाऽप्यन्तकरभूमि: प्रसङ्गादुच्यते- दुवास त्ति द्विवर्षमात्रे केवलिपर्याये नेमिनाथस्य जाते सति साधवो भवान्तमकार्षुरिति ।। [सू० ६२२] समणेणं भगवता महावीरेणं अट्ठ रायाणो मुंडा भवेत्ता अगारातो अणगारितं पव्वाविता, तंजहावीरंगते वीरजसे संजय एणिज्जते य रायरिसी । सेय सिवे उद्दायणे संखे कासीवद्धणे ॥१५॥ [टी०] तीर्थकरवक्तव्यताधिकारादिदमाह- समणेणमित्यादि सुगमम्, नवरं भवित्त त्ति अन्तर्भूतकारितार्थत्वात् मुण्डान् भावयित्वेति दृश्यम्, वीरंगते इत्यादि, तह संखे कासिवद्धणए इत्येवं चतुर्थपादे सति गाथा भवति, न चैवं दृश्यते पुस्तकेष्विति, एते च यथा प्रव्राजितास्तथोच्यते, तत्र वीराङ्गको वीरयशा: संजय इत्येते अप्रतीता: । Page #218 -------------------------------------------------------------------------- ________________ अष्टममध्ययनं अष्टस्थानकम् । एणेयको गोत्रत:, स च केतक्यर्द्धजनपदश्वेतवीनगरीराजस्य प्रदेशिनाम्न: श्रमणोपासकस्य निजकः कश्चिद्राजर्षिः । तथा सेय आमलकल्पानगर्या: स्वामी, यस्यां हि सूर्यकाभो देव: सौधर्मात् देवलोकाद् भगवतो महावीरस्य वन्दनार्थमवततार नाट्यविधिं चोपदर्शयामास, यत्र च प्रदेशिराजचरितं भगवता प्रत्यपादीति । तथा शिव: हस्तिनागपुरराजः, यो ह्येकदा चिन्तयामास- अहमनुदिनं हिरण्यादिना वृद्धिमुपगच्छामि यतस्ततोऽस्ति पुराकृतकर्मणां फलमतोऽधुनापि तदर्थमुद्यच्छामीति, ततो व्यवस्थाप्य राज्ये पुत्रं कृत्वोचितमखिलकर्त्तव्यं दिक्प्रोक्षकतापसतया प्रवव्राज, तत: षष्ठंषष्ठेन तपस्यतस्तथोचितमातापयत: परिशटितपत्रादिना पारयतो विभङ्गज्ञानमुत्पेदे, तेन च विलोकयाञ्चकार सप्त द्वीपान् सप्त समुद्रानिति, उत्पन्नं च मे दिव्यज्ञानमित्यादि विस्तारो भगवत्याम् । तथा उदायन: तस्यापि संबन्धो भगवत्यां सविस्तरो ज्ञेय इति। तथा शङ्खः काशीवर्द्धनो वाराणसीनगरीसम्बन्धिजनपदवृद्धिकर इत्यर्थः, अयं च न प्रतीत:, केवलमलकाभिधानो राजा वाराणस्यां भगवता प्रवाजितोऽन्तकृद्दशासु श्रूयते स यदि परं नामान्तरेणायं भवतीति । [सू० ६२३] अट्ठविधे आहारे पन्नत्ते, तंजहा-मणुण्णे असणे पाणे खाइमे साइमे, अमणुण्णे असणे पाणे खाइमे साइमे । [टी०] एते चाहारादौ मनोज्ञामनोज्ञे समवृत्तय इति प्रस्तावादाहारस्वरूपमाहअट्ठविहेत्यादि सुगमम् । [सू० ६२४] उप्पिं सणंकुमारमाहिंदाणं कप्पाणं हव्विं बंभलोगे कप्पे रिट्ठविमाणपत्थडे एत्थ णमक्खाडगसमचउरंससंठाणसंठितातो अट्ट कण्हरातीतो पन्नत्ताओ, तंजहा-पुरस्थिमेणं दो कण्हरातीतो, दाहिणेणं दो कण्हरातीतो, पच्चत्थिमेणं दो कण्हरातीतो, उत्तरेणं दो कण्हरातीतो । पुरत्थिमा अब्भंतरा कण्हराती दाहिणं बाहिरं कण्हराई पुट्ठा, दाहिणा अब्भंतरा कण्हराती पच्चत्थिमं बाहिरं कण्हराई पुट्ठा, पच्चत्थिमा अब्भंतरा कण्हराती उत्तरं बाहिरं Page #219 -------------------------------------------------------------------------- ________________ ६२० कण्हराइं पुट्ठा, उत्तरा अब्भंतरा कण्हराती पुरत्थिमं बाहिरं कण्हराइं पुट्ठा। पुरत्थिमपच्चत्थिमिल्लाओ बाहिराओ दो कण्हरातीतो छलंसातो, उत्तरदाहिणाओ बाहिरातो दो कण्हरातीतो तंसाओ, सव्वाओ वि णं अब्भंतरकण्हरातीओ चउरंसाओ । __एतासि णं अट्ठण्हं कण्हरातीणं अट्ठ नामधेजा पन्नत्ता, तंजहा-कण्हराती ति वा मेहराती ति वा मघा ति वा माघवती ति वा वातफलिहे ति वा वातपलिक्खोभे ति वा देवफलिहे ति वा देवपलिक्खोभे ति वा । [सू० ६२५] एतासि णं अट्ठण्हं कण्हरातीणं अट्ठसु ओवासंतरेसु अट्ठ लोगंतितविमाणा पन्नत्ता, तंजहा-अच्ची, अच्चिमाली, वतिरोयणे, पभंकरे, चंदाभे, सूराभे, सुपइट्ठाभे, अग्गिच्चाभे । __ एतेसु णं अट्ठसु लोगंतितविमाणेसु अट्ठविधा लोगंतिता देवा पन्नत्ता, तंजहा सारस्सतमाइच्चा वण्ही वरुणा य गद्दतोया य । तुसिता अव्वाबाहा अग्गिच्चा चेव बोधव्वा ॥१६॥ एतेसि णमट्ठण्हं लोगंतितदेवाणं अजहण्णमणुक्कोसेणं अट्ठ सागरोवमाइं ठिती पण्णत्ता । [टी०] आहारद्रव्याणि रस[परिणामविशेषवन्त्यमनोज्ञान्यनन्तरमुक्तान्यथ क्षेत्रविशेषान् पुद्गलगतवर्ण]परिणामविशेषवत्त्वेनाऽमनोज्ञान् कृष्णराज्यभिधानान् प्रतिपादयन् सूत्रपञ्चकमाह- उप्पिं इत्यादि सुगमम्, नवरम् उप्पिं ति उपरि हव्विं ति अधस्तात् ब्रह्मलोकस्य रिष्टाख्यो यो विमानप्रस्तटस्तस्येति भाव:, आखाटकवत् समं तुल्यं सर्वासु दिक्षु चतुरस्रं चतुष्कोणं यत् संस्थानम् आकारस्तेन संस्थिताः आखाटकसमचतुरस्रसंस्थानसंस्थिताः कृष्णराजयः कालकपुद्गलपङ्क्तयस्तयुक्तक्षेत्रविशेषा अपि तथोच्यन्त इति, यथा च ता व्यवस्थितास्तथा दर्श्यते- पुरत्थिमे णं ति पुरस्तात् पूर्वस्यां दिशीत्यर्थः द्वे कृष्णराजी, एवमन्यास्वपि द्वे द्वे, तत्र प्राक्तनी यकाऽभ्यन्तरा कृष्णराजी सा दाक्षिणात्यां बाह्यां तां स्पृष्टा स्पृष्टवती, एवं सर्वा अपि वाच्या:, Page #220 -------------------------------------------------------------------------- ________________ ६२१ अष्टममध्ययनं अष्टस्थानकम् । तथा पौरस्त्य-पाश्चात्त्ये द्वे बाह्ये कृष्णराजी षडझे षट्कोटिके, औत्तरदाक्षिणात्ये द्वे बाह्ये कृष्णराज्यौ त्र्यो, सर्वाश्चतस्रोऽपीत्यर्थोऽभ्यन्तरा-श्चतुरस्राः। नामान्येव नामधेयानि, कृष्णराजी कृष्णपुद्गलपक्तिरूपत्वाद्, इतिरुपप्रदर्शने, वा विकल्पे, मेघराजीव या सा मेघराजीति चाभिधीयते कृष्णत्वात्, तथा मघा षष्ठपृथिवी तद्वदतिकृष्णतया सा मघेति वा, माघवती सप्तमपृथिवी तद्वद्या सा माघवतीति, वातपरिघादीनि तु तमस्कायसूत्रवद् व्याख्येयानीति । एतासामष्टानां कृष्णराजीनामष्टस्ववकाशान्तरेषु राजीद्वयमध्यलक्षणेष्वष्टौ लोकान्तिकविमानानि भवन्ति, एतानि चैवं प्रज्ञप्त्यामुच्यन्ते- अभ्यन्तरपूर्वाया अग्रे अर्चिविमानं तत्र सारस्वता देवा:, पूर्वयो: कृष्णराज्योर्मध्ये अर्चिमालीविमाने आदित्या देवाः, अभ्यन्तरदक्षिणाया अग्रे वैरोचने विमाने वह्नय:, दक्षिणयोर्मध्ये शुभङ्करे वरुणाः, अभ्यन्तरपश्चिमाया अग्रे चन्द्राभे गर्दतोया:, अपरयोर्मध्ये सूराभे तुषिता:, अभ्यन्तरोत्तराया अग्रे अङ्काभेऽव्याबाधाः, उत्तरयोर्मध्ये सुप्रतिष्ठाभे आग्नेया:, बहुमध्यभागे रिष्टाभे विमाने रिष्टा देवा इति । अजहन्नुक्कोसेणं ति जघन्यत्वोत्कर्षाभावेनेत्यर्थः, ब्रह्मलोके हि जघन्यत: सप्त सागरोपमाण्युत्कृष्टतस्तु दशेति लोकान्तिकानां त्वष्टाविति । [सू० ६२६] अट्ठ धम्मत्थिगातमज्झपतेसा पन्नत्ता १, अट्ठ अधम्मत्थिगातमज्झपतेसा पन्नत्ता २, एवं चेव अट्ठ आगासत्थिगातमज्झपतेसा पन्नत्ता ३, एवं चेव अट्ठ जीवमज्झपएसा पन्नत्ता ४ । [टी०] कृष्णराजयो यूज़लोकस्य मध्यभागवृत्तय इति धर्मादीनामपि मध्यभागवृत्तिकस्याष्टकचतुष्टयस्याविष्करणाय सूत्रचतुष्टयम्- अट्ठ धम्मेत्यादि स्फुटम्, नवरं धर्मा-ऽधर्मा-ऽऽकाशानां मध्यप्रदेशा[स्ते अष्ट] ये रुचकरूपा इति, जीवस्यापि केवलिसमुद्घाते रुचकस्था एव ते अन्यदा त्वष्टावविचला ये ते मध्यप्रदेशा:, शेषास्त्वावर्त्तमानजलमिवानवरतमुद्वर्त्तन-परिवर्तनपरास्तत्स्वभावत्वाद्ये ते अमध्यप्रदेशा इति । [सू० ६२७] अरहा णं महापउमे अट्ठ रायाणो मुंडा भवित्ता अगारातो Page #221 -------------------------------------------------------------------------- ________________ ६२२ अणगारितं पव्वावेस्सति, तंजहा-पउमं, पउमगुम्मं, नलिणं, नलिणगुम्मं, पउमद्धतं, धणुद्धतं, कणगरहं, भरहं । [सू० ६२८] कण्हस्स णं वासुदेवस्स अट्ठ अग्गमहिसीओ अरहतो णं अरिट्टनेमिस्स अंतितं मुंडा भवेत्ता अगारातो अणगारितं पव्वतित्ता सिद्धाओ जाव सव्वदुक्खप्पहीणाओ, तंजहा पउमावई य गोरी, गंधारी लक्खणा सुसीमा य । जंबवती सच्चभामा, रुप्पिणी कण्हग्गमहिसीओ ॥९७॥ [टी०] जीवमध्यप्रदेशादिपदार्थप्रतिपादकास्तीर्थकरा भवन्तीति प्रकृताध्ययनावतारिणी तीर्थकरवक्तव्यतां सूत्रद्वयेनाह- अरहा णमित्यादि सुगमम्, नवरं महापउमे त्ति महापद्मो भविष्यदुत्सर्पिण्यां प्रथमतीर्थकर: श्रेणिकराजजीव इति इहैव नवस्थानके वक्ष्यमाणव्यतिकर इति, मुंडा भवित्त त्ति मुण्डान् भावयित्वेति । कृष्णाग्रमहिषीवक्तव्यता त्वन्तकृद्दशाङ्गादवसेया, सा चेयम्- किल द्वारकावत्यां कृष्णो वासुदेवो बभूव, पद्मावत्यादिकास्तस्य भार्या अभूवन्, अरिष्टनेमिस्तत्र विहरति स्म, कृष्णः सपरिवार: पद्मावतीप्रमुखाश्च देव्यो भगवन्तं पर्युपासामासिरे, भगवांस्तु तेषां धर्ममाचख्यौ, तत: कृष्णो वन्दित्वाऽभ्यधात्- अस्या भदन्त ! द्वारकावत्या, इत्यादि प्रश्नव्यतिकरादि स्वरूपं सर्वमन्तकृत्सूत्रादवसेयमिति। [सू० ६२९] वीरितपुव्वस्स णं अट्ठ वत्थू अट्ठ चूलवत्थू पन्नत्ता । [टी०] एताश्च सिद्धा वीर्यादिति वीर्याभिधायिनः पूर्वस्य स्वरूपमाहवीरियपुव्वेत्यादि, वीर्यप्रवादाख्यस्य तृतीयपूर्वस्य वस्तूनि मूलवस्तूनि अध्ययनविशेषा आचारे ब्रह्मचर्याध्ययनवत्, चूलावस्तूनि त्वाचाराग्रवदिति । [सू० ६३०] अट्ठ गतीतो पन्नत्ताओ, तंजहा-णिरतगती, तिरियगती, जाव सिद्धिगती, गुरुगती, पणोल्लणगती, पब्भारगती । [टी०] वस्तुवीर्यादेव गतयोऽपि भवन्तीति ता दर्शयन्नाह– अट्ठ गतीओ इत्यादि सुगमम्, नवरं गुरुगइ त्ति भावप्रधानत्वान्निर्देशस्य गौरवेण ऊर्ध्वाधस्तिर्यग्गमनस्वभावेन या परमाण्वादीनां स्वभावतो गति: सा गुरुगतिरिति, या तु परप्रेरणात् सा Page #222 -------------------------------------------------------------------------- ________________ अष्टममध्ययनं अष्टस्थानकम् । ६२३ प्रणोदनगतिर्बाणादीनामिव, या तु द्रव्यान्तराक्रान्तस्य सा प्राग्भारगतिर्यथा नावादेरधोगतिरिति । [सू० ६३१] गंगा-सिंधु-रत्ता-रत्तवतिदेवीणं दीवा अट्ट अट्ठ जोयणाई आयामविक्खंभेणं पन्नत्ता । उक्कामुह-मेहमुह-विजुमुह-विजुदंतदीवा णं दीवा अट्ट अट्ठ जोयणसयाई आयामविक्खंभेणं पन्नत्ता । [सू० ६३२] कालोते णं समुद्दे अट्ठ जोयणसयसहस्साइं चक्कवालविक्खंभेणं पण्णत्ते । अब्भंतरपुक्खरद्धे णं अट्ठ जोयणसयसहस्साई चक्कवालविक्खंभेणं पन्नत्ते, एवं बाहिरपुक्खरद्धे वि । [टी०] अनन्तरं गतिरुक्तेति गतिमतीनां गङ्गादिनदीनामधिष्ठातृदेवीद्वीपस्वरूपमाहगंगेत्यादि कण्ठ्यम्, नवरं गङ्गाद्या भरतैरवतनद्यस्तदधिष्ठातृदेवीनां निवासद्वीपा गङ्गादिप्रपातकुण्डमध्यवर्तिनः । द्वीपाधिकारादन्तरद्वीपसूत्रम्, तत एव द्वीपवत: कालोदसमुद्रस्य प्रमाणसूत्रम्, तदनन्तरभाविनः पुष्कराभ्यन्तरार्द्धस्य बाह्यार्द्धस्य च सूत्रे, सुगमानि चैतानि, नवरमुल्कामुख-मेघमुख-विद्युन्मुख-विद्युद्दन्तशब्देषु प्रत्येकं द्वीपशब्द: सम्बध्यते, ततश्चोल्कामुखद्वीपादयो णमित्यलङ्कारे द्वीपा हिमवतः शिखरिणश्च वर्षधरपर्वतस्य पूर्वयोर्दंष्ट्रयोरपरयोश्च सप्तानां सप्तानामन्तरद्वीपानां मध्ये षष्ठा अन्तरद्वीपा: अष्टावष्टौ योजनशतानि आयामविष्कम्भेण प्रज्ञप्ता: । [सू० ६३३] एगमेगस्स णं रन्नो चाउरंतचक्कवहिस्स अट्ठसोवण्णिते काकणिरतणे छत्तले दुवालसंसिते अट्ठकण्णिते अधिकरणिसंठिते पन्नत्ते । [टी०] पुष्करा॰ च चक्रिणो भवन्तीति तत्सत्करत्नविशेषस्याष्टस्थानकेऽवतारं कुर्वनाह- एगमेगेत्यादि, एकै कस्य राज्ञश्चतुरन्तचक्रवर्तिन इत्यत्रान्यान्यकालोत्पन्नानामपि तुल्यकाकणीरत्नप्रतिपादनार्थमेकैकग्रहणम्, निरुपचरितराजशब्दविषयज्ञापनार्थं राजग्रहणम्, षट्खण्डभरतादिभोक्तृत्वप्रतिपादनार्थं चतुरन्तचक्रवर्त्ति Page #223 -------------------------------------------------------------------------- ________________ ६२४ ग्रहणमिति, अष्टसौवर्णिकं काकणिरत्नम्, सुवर्णमानं तु चत्वारि मधुरतृणफलान्येक: श्वेतसर्षपः, षोडश सर्षपा एकं धान्यमाषफलम्, द्वे धान्यमाषफले एका गुञ्जा, पञ्च गुञ्जा एक: कर्ममाषकः, षोडश कर्ममाषका एकः सुवर्णः, एतानि च मधुरतृणफलादीनि भरतकालभावीनि गृह्यन्ते, यत: सर्वचक्रवर्त्तिनां तुल्यमेव काकणिरत्नमिति, षट्तलं द्वादशाम्रि अष्टकर्णिकम् अधिकरणीसंस्थितं प्रज्ञप्तमिति, तत्र तलानि मध्यखण्डानि, अश्रय: कोटयः, कर्णिका: कोणविभागा:, अधिकरणिः सुवर्णकारोपकरणं प्रतीतमेवेति, इदं च चतुरङ्गुलप्रमाणं चउरंगुलप्पमाणा सुवन्नवरकागणी नेय [बृहत्सं० ३०२] त्ति वचनादिति । [सू० ६३४] मागधस्स णं जोयणस्स अट्ट धणुसहस्साइं निधत्ते पण्णत्ते। [टी०] अङ्गुलप्रमाणनिष्पन्नं योजनमानमाह- मागहेत्यादि, मगधेषु भवं मागधं मगधदेशव्यवहृतं तस्य योजनस्य अध्वमानविशेषस्याष्ट धनुःसहस्राणि निहारो निर्गम: प्रमाणमिति यावत्, निहत्ते त्ति क्वचित्पाठः, तत्र निधत्तं निकाचितं निश्चितं प्रमाणमिति गम्यते, इदं च प्रमाणं परमाण्वादिना क्रमेणावसेयम्, तथाहि परमाणू तसरेणू रहरेणू अग्गयं च वालस्स । लिक्खा जूया य जवो अट्टगुणविवद्धिया कमसो ॥ [अनुयोगद्वार० सू० ३३९] तत्र परमाण्वादिभेदार्थो अनुयोगद्वारादेरवसेयः। [सू० ६३५] जंबू णं सुदंसणा अट्ट जोयणाई उटुंउच्चत्तेणं बहुमज्झदेसभाए, अट्ट जोयणाई विक्खंभेणं, सातिरेगाइं अट्ठ जोयणाई सव्वग्गेणं पन्नत्ता १। कूडसामली णं अट्ठ जोयणाई एवं चेव २॥ [सू० ६३६] तिमिसगुहा णमट्ट जोयणाई उटुंउच्चत्तेणं पन्नत्ता ३ । खंडगपवातगुहा णं अट्ठ एवं चेव ४ । [टी०] योजनप्रमाणमभिधायाथ योजनतो जम्ब्वादीनां प्रमाणप्रतिपादनाय सूत्रचतुष्टयमाह- जंबू णमित्यादि, जम्बू: वृक्षविशेषस्तदाकारा सर्वरत्नमयी या सा जम्बूः, यया अयं जम्बूद्वीपोऽभिधीयते, सुदर्शनेति तस्या नाम, सा चोत्तरकुरूणां पूर्वार्द्ध शीताया महानद्याः पूर्वेण जाम्बूनदमययोजनशतपञ्चकायामविष्कम्भस्य Page #224 -------------------------------------------------------------------------- ________________ अष्टममध्ययनं अष्टस्थानकम् । ६२५ द्वादशयोजनमध्यभागपिण्डस्य क्रमपरिहाणितो द्विगव्यूतोच्छ्रितपर्यन्तस्य द्विगव्यूतोच्छ्रितपञ्चधनु:शतविस्तीर्णपद्मवरवेदिकापरिक्षिप्तस्य इत्यादि वृत्तौ । अट्ठ जोयणाइमित्यादि अष्ट योजनान्यूर्वोच्चत्वेन बहमध्यदेशभागे शाखाविस्तारदेशे, अष्ट योजनानि विष्कम्भेण, सातिरेकाणि अतिरेकयुक्तान्युद्वेधगव्यूतद्वयेनाधिकानीति भावः सर्वाग्रेण सर्वपरिमाणेनेति, तस्याश्च चतम्र: पूर्वादिदिक्षु शाखा:, इत्यादि वृत्तौ। कूटशाल्मली जम्बूतुल्यवक्तव्यता । अत एव एवं चेवेत्युक्तम् । गुहासूत्रे व्यक्ते। [सू० ६३७] जंबुमंदरस्स पव्वतस्स पुरत्थिमेणं सीताते महानतीते उभतोकूले अट्ठ वक्खारपव्वता पन्नत्ता, तंजहा-चित्तकूडे, पम्हकूडे, नलिणकूडे, एगसेले, तिकूडे, वेसमणकूडे, अंजणे, मायंजणे १ । जंबुमंदरपच्चत्थिमेणं सीतोताते महानतीते उभतोकूले अट्ठ वक्खारपव्वता पन्नत्ता, तंजहा- अंकावती, पम्हावती, आसीविसे, सुहावहे, चंदपव्वते, सूरपव्वते, णागपव्वते, देवपव्वते २ । जंबुमंदरपुरत्थिमेणं सीताते महानतीते उत्तरेणं अट्ट चक्कवट्टिविजया पन्नत्ता, तंजहा- कच्छे, सुकच्छे, महाकच्छे, कच्छगावती, आवत्ते जाव पुक्खलावती जंबुमंदर [पुरत्थिमेणं] सीताते महानतीते दाहिणेणं अट्ट चक्कवट्टिविजया पन्नत्ता, तंजहा- वच्छे, सुवच्छे जाव मंगलावती ४ । जंबुमंदरपच्चत्थिमेणं सीतोताते महानदीते दाहिणेणं अट्ठ चक्कवट्टिविजया पन्नत्ता, तंजहा- पम्हे जाव सलिलावती ५ । ____ जंबुमंदरपच्चत्थिमेणं सीतोताए महानदीए उत्तरेणं अट्ठ चक्कवट्टिविजया पन्नत्ता, तंजहा- वप्पे, सुवप्पे जाव गंधिलावती ६ । जंबुमंदरपुरत्थिमेणं सीताते महानतीते उत्तरेणं अट्ट रायहाणीतो पन्नत्ताओ, तंजहा- खेमा, खेमपुरा चेव जाव पुंडरिगिणी ७ । जंबुमंदरपुरथिमेणं सीताए महानदीए दाहिणेणं अट्ठ रायहाणीतो पन्नत्ताओ, Page #225 -------------------------------------------------------------------------- ________________ ६२६ तंजहा- सुसीमा, कुंडला चेव जाव रतणसंचया ८ । जंबुमंदरपच्चत्थिमेणं सीओदाते महानतीते दाहिणेणं अट्ठ रायहाणीओ पन्नत्ताओ, तंजहा- आसपुरा, जाव वीतसोगा ९ ।। जंबुमंदरपच्चत्थिमेणं सीतोताते महानतीते उत्तरेणं अट्ठ रायहाणीओ पन्नत्ताओ, तंजहा- विजया, वेजयंती जाव अउज्झा १० । [टी०] जम्ब्वादीनि च वस्तूनि जम्बूद्वीपे भवन्तीति जम्बूद्वीपाधिकारात्तद्गतवस्तुप्ररूपणाय क्षेत्रसाधाद् धातकीखण्डपुष्करार्द्धगतवस्तुप्ररूपणाय च जम्बू इत्यादिकं सूत्रप्रपञ्चमाह, सूत्रसिद्धश्चायम्, नवरं सूत्राणामयं विभागो- द्वे आद्ये वक्षस्काराणां २ चत्वारि च प्रत्येकं विजय-नगरी-तीर्थकरादि-दीर्घवैताढ्यादीना १६ मेकं चूलिकाया: १९, एवं धातकीखण्डादौ धातक्यादिसूत्रपूर्वाण्येतान्येव द्विर्भिवन्तीति, तथा मालवच्छेलं मेरो: पूर्वोत्तरविदिग्व्यवस्थितं लक्षणीकृत्य प्रदक्षिणया वक्षारा विजयाश्च व्यवस्थाप्यन्त इति, तत्र चक्रवर्त्तिनो विजयन्ते येषु यान् वा ते चक्रवर्त्तिविजया: क्षेत्रविभागा इति, जाव पुक्खलावइ त्ति भणनात् ‘मंगलावत्ते पुक्खले' त्ति द्रष्टव्यम्, जाव मंगलावइ त्ति करणात् ‘महावच्छे वच्छावई रम्मे रम्मए रमणिज्जे' इति दृश्यम्, जाव सलिलावइ त्ति करणात् ‘सुपम्हे महापम्हे पम्हावई संखे नलिणे कुमुए'त्ति दृश्यम्, जाव गंधिलावइ त्ति करणात् ‘महावप्पे वप्पावई वग्गू सुवग्गू गंधिले'त्ति दृश्यम्, खेमपुरा चेव जाव त्ति करणात् ‘अरिट्ठा रिट्ठवई खग्गी मंजूसा ओसहिपुरी'ति दृश्यम्, सुसीमा कुंडला चेव जाव त्ति करणात् ‘अपराजिया पहंकरा अंकावई पम्हावई सुभा' इति दृश्यम्, आसपुरा जाव त्ति करणात् ‘सीहपुरा महापुरा विजयपुरा अवराजिया अवरा असोग'त्ति दृश्यम्, वेजयन्ती जाव त्ति करणात् ‘जयन्ती अवराजिया चक्कपुरा खग्गपुरा अवज्झत्ति दृश्यम् । [सू० ६३८] जंबुमंदरपुरत्थिमेणं सीताते महाणदीए उत्तरेणं उक्कोसपए अट्ठ अरहंता अट्ठ चक्कवट्टी अट्ठ बलदेवा अट्ठ वासुदेवा उप्पजंति वा उप्पजिंसु वा उप्पजिस्संति वा ११ । जंबुमंदरपुरस्थिमेणं सीताए [महाणदीए] दाहिणेणं उक्कोसपए एवं चेव १२ । जंबुमंदरपच्चत्थिमेणं सीओदाते महाणदीए दाहिणेणं Page #226 -------------------------------------------------------------------------- ________________ अष्टममध्ययनं अष्टस्थानकम् । उक्कोसपए एवं चेव १३, एवं उत्तरेण वि १४ । [ टी० ] एताश्च क्षेमादिराजधान्यः कच्छादिविजयानां शीतादिनदीसमासन्नखण्डत्रयमध्यमखण्डे भवन्ति नवयोजनविस्तारा द्वादशयोजनायामाः । ६२७ आसु च तीर्थकरादयो भवन्तीति अट्ठ अरहंत त्ति उत्कृष्टतोऽष्टावर्हन्तो भवन्ति, प्रत्येकं विजयेषु भावात्, एवं चक्रवर्त्त्यादयोऽपि, एवं च चतुर्ष्वपि महानदीकूलेषु द्वात्रिंशत्तीर्थकरा भवन्ति, चक्रवर्त्तिनस्तु यद्यपि शीताशीतोदानद्योरेकैकस्मिन् कूले अष्टावष्टावुत्पद्यन्त इत्युच्यते तथापि सर्वविजयापेक्षया नैकदा ते द्वात्रिंशद्भवन्ति, जघन्यतोऽपि वासुदेवचतुष्टयाविरहितत्वान्महाविदेहस्य, यत्र च वासुदेवस्तत्र चक्रवर्त्ती न भवतीति, तस्मादुत्कृष्टतोऽप्यष्टाविंशतिरेव चक्रवर्त्तिनो भवन्ति, एवं जघन्यतोऽपि चक्रवर्त्तिचतुष्टयसम्भवाद् वासुदेवा अप्यष्टाविंशतिरेव, वासुदेवसहचरत्वाद् बलदेवा अप्येवमिति । [सू० ६३९] जंबुमंदरपुरत्थिमेणं सीताते महानईए उत्तरेणं अट्ठ दीहवेयड्ढा, अट्ठ तिमिसगुहाओ, अट्ठ खंडगप्पवातगुहाओ, अट्ठ कतमालगा देवा, अट्ठ णट्टमालगा देवा, अट्ठ गंगाकुंडा, अट्ठ सिंधुकुंडा, अट्ठ गंगातो, अट्ठ सिंधूओ, अट्ठ उसभकूडा पव्वता, अट्ठ उसभकूडा देवा पन्नत्ता १५ । जंबुमंदरपुरत्थिमेणं सीताते महानतीते दाहिणेणं अट्ठ दीहवेयड्डा एवं चेव जाव अट्ठ उसभकूडा देवा पन्नत्ता, नवरमेत्थ रत्ता-रत्तावतीतो तासिं चेव कुंडा १६ । जंबुमंदरपच्चत्थिमेणं सीतोताए महानतीते दाहिणेणं अट्ठ दीहवेयड्ढा, जाव अट्ठ नट्टमालगा देवा, अट्ठ गंगाकुंडा, अट्ठ सिंधुकुंडा, अट्ठ गंगातो, अट्ठ सिंधूओ, अट्ठ उसभकूडा पव्वता, अट्ठ उसभकूडा देवा पन्नत्ता १७ । जंबुमंदरपच्चत्थिमेणं सीतोदाए महानतीते उत्तरेणं अट्ठ दीहवेयड्डा, जाव अट्ठ नट्टमालगा देवा, अट्ठ रत्ताकुंडा, अट्ठ रत्तावतिकुंडा, अट्ठ रत्ताओ, जाव अट्ठ उसभकूडा देवा पन्नत्ता १८ । मंदरचूलिया णं बहुमज्झदेसभाते अट्ठ जोयणाइं विक्खंभेणं पन्नत्ता १९। Page #227 -------------------------------------------------------------------------- ________________ ६२८ [टी०] दीहवेयड्ड त्ति दीर्घग्रहणं वर्तुलवैताढ्यव्यवच्छेदार्थम्, गुहाष्टकयोर्यथाक्रम देवाष्टके इति, गङ्गाकुण्डानि नीलवद्वर्षधरपर्वतदक्षिणनितम्बस्थितानि षष्टियोजनायामविष्कम्भाणि मध्यवर्तिगङ्गादेवीसभवनद्वीपानि त्रिदिक्सतोरणद्वाराणि येभ्य: प्रत्येकं दक्षिणतोरणेन गङ्गा विनिर्गत्य विजयानि विभजन्त्यो भरतगङ्गावच्छीतामनुप्रविशन्तीति, एवं सिन्धुकुण्डान्यपि । अट्ठ उसभकूड त्ति अष्टौ ऋषभकूटपर्वता अष्टास्वपि विजयेषु तद्भावात् ते च वर्षधरपर्वतप्रत्यासन्ना म्लेच्छखण्डत्रयमध्यखण्डवर्त्तिन: सर्वविजयभरतैरवतेषु भवन्ति, तत्प्रमाणं चेदम् सव्वे वि उसभकूडा उव्विद्धा अट्ठ जोयणा होति । बारस अट्ठ य चउरो मूले मज्झुवरि वित्थिन्ना ॥ [बृहत्क्षेत्र० १९३] इति । देवास्तन्निवासिन एवेति, नवरमेत्थ रत्त-रत्तवईओ तासिं चेव कुंड त्ति, शीताया दक्षिणतोऽपि अष्टौ दीर्घवैताढ्या इत्यादि सर्वं समानम्, केवलं गंगा-सिन्धुस्थाने रक्तारक्तवत्यौ वाच्ये, गङ्गादिकुण्डस्थानेऽपि रक्तादिकुण्डानि वाच्यानीति, तथाहि- ‘अट्ठ रत्ताकुंडा पन्नत्ता, अट्ठ रत्तवईकुंडा, अट्ठ रत्ताओ, अट्ठ रत्तवईओ' । तथा निषधवर्षधरपर्खतोत्तरनितम्बवर्तीनि षष्टियोजनप्रमाणानि रक्ता-रक्तवतीकुण्डानि येभ्य उत्तरतोरणेन विनिर्गत्य ता: शीतामनुपतन्तीति । [सू० ६४०] धायइसंडदीवपुरत्थिमद्धे णं धायतिरुक्खे अट्ठ जोयणाई उर्दूउच्चत्तेणं बहमज्झदेसभाए, अट्ठ जोयणाई विक्खंभेणं, साइरेगाइं अट्ठ जोयणाई सव्वग्गेणं पन्नत्ते । एवं धायइरुक्खातो आढवेत्ता सच्चेव जंबुद्दीववत्तव्वता भाणियव्वा जाव मंदरचूलिय त्ति । एवं पच्चत्थिमद्धे वि महाधाततिरुक्खातो आढवेत्ता जाव मंदरचूलिय त्ति । एवं पुक्खरवरदीवड्डपुरत्थिमद्धे वि पउमरुक्खाओ आढवेत्ता जाव मंदरचूलिय त्ति। एवं पुक्खरवरदीवड्वपच्चत्थिमद्धे वि महापउमरुक्खातो जाव मंदरचूलित त्ति। [टी०] तथा धातकी-महाधातकी-पद्म-महापद्मवृक्षाः जम्बूवृक्षसमानवक्तव्याः । [सू० ६४१] जंबूदीवे दीवे मंदरे पव्वते भद्दसालवणे अट्ठ दिसाहत्थिकूडा Page #228 -------------------------------------------------------------------------- ________________ अष्टममध्ययनं अष्टस्थानकम् । ६२९ पन्नत्ता, तंजहापउमुत्तरे नीलवंते सुहत्थि अंजणागिरी । कुमुदे य पलासे य वडेंसे रोयणागिरी ॥९८॥ १॥ [टी०] क्षेत्राधिकारात् जंबूदीवेत्यादि सूत्रचतुष्टयं सुगमम्, नवरं भद्दसालवणे त्ति मेरुपरिक्षेपतो भूम्यां भद्रशालवनमस्ति, तत्राष्टौ शीता-शीतोदयोरुभयकूलवर्तीनि पूर्वादिषु दिक्षु हस्त्याकाराणि कूटानि दिशाहस्तिकूटानि प्रज्ञप्तानि, तद्यथा- पउमे सिलोगो कण्ठ्यः , नवरमस्य सप्रसंगो विभागोऽयम् मेरूओ पन्नासं दिसिविदिसिं गंतु भद्दसालवणं । चउरो सिद्धाययणा दिसासु विदिसासु पासाया ॥ छत्तीसुच्चा पणुवीसवित्थडा दुगुणमायताययणा । चउवाविपरिक्खित्ता पासाया पंचसयउच्चा ॥ [बृहत्क्षेत्र० ३२१-२२] ईसाणस्सुत्तरिमा पासाया दाहिणा य सक्कस्स । अट्ठ य हवंति कूडा सीतासीतोदुभयकूले ॥ दो दो चउद्दिसिं मंदरस्स हिमवंतकूडसमकप्पा । पउमुत्तरोऽत्थ पढमो पुब्विम सीउत्तरे कूले ॥ तत्तो य नेलवंते सुहत्थि तह अंजणागिरी कुमुदे । तह य पलासवडेसे अट्ठमए रोयणगिरी य ॥ [बृहत्क्षेत्र० ३२४-२६] त्ति । [सू० ६४२] जंबूदीवस्स णं दीवस्स जगती अट्ठ जोयणाई उटुंउच्चत्तेणं बहुमज्झदेसभाते, अट्ठ जोयणाई विक्खंभेणं २॥ [टी०] जगती वेदिकाधारभूता पाली । [सू० ६४३-१] जंबूदीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं महाहिमवंते वासधरपव्वते अट्ठ कूडा पन्नत्ता, तंजहासिद्ध महाहिमवंते हेमवते रोहिता हरीकूडे । हरिकंता हरिवासे वेरुलिते चेव कूडा उ ॥९९॥ ३॥ जंबुमंदरउत्तरेणं रुप्पिम्मि वासहरपव्वते अट्ठ कूडा पन्नत्ता, तंजहासिद्धे रुप्पी रम्मग नरकंता बुद्धि रुप्पकूडे या । Page #229 -------------------------------------------------------------------------- ________________ ६३० हेरण्णवते मणिकंचणे त रुप्पिम्मि कूडा उ ॥१००॥ ४॥ [टी०] सिद्ध गाहा, सिद्धायतनोपलक्षितं कूटं सिद्धकूटम्, तच्च प्राच्याम्, तत: क्रमेणापरत: शेषाणि, महाहिमवत्कूटं तगिरिनायकदेवभवनाधिष्ठितम्, हैमवतकूट हैमवद्वर्षनायकदेवावासभूतम्, रोहितकूटं रोहिताख्यनदीदेवतासत्कम्, ह्रीकूट महापद्माख्यतद्ह्रदनिवासिहीनामकदेवतासत्कम्, हरिकान्ताकूटं तन्नामनदीदेवतासत्कम्, हरिवर्षकूटं हरिवर्षनायकदेवसत्कम्, वैडूर्यकूटं तद्रत्नमयत्वादिति, अनेनैव क्रमेण रुक्मिकूटान्यप्यूह्यानि, तद्गाथा सिद्धे रुप्पीत्यादि कण्ठ्या । [सू० ६४३-२] जंबुमंदरपुरत्थिमेणं रुयगवरे पव्वते अट्ठ कूडा पन्नत्ता, तंजहारिट्ठ तवणिज कंचण रयत दिसासोत्थिते पलंबे य । अंजणे अंजणपुलते रुयगस्स पुरत्थिमे कूडा ॥१०१॥ १॥ तत्थ णं अट्ठ दिसाकुमारिमहत्तरितातो महिड्डियातो जाव पलिओवमद्वितीतातो परिवसंति, तंजहा णंदुत्तरा य णंदा, आणंदा, णंदिवद्धणा ।। विजया य वेजयंती, जयंती अपराजिता ॥१०२॥ २॥ जंबुमंदरदाहिणेणं रुतगवरे पव्वते अट्ठ कूडा पन्नत्ता, तंजहाकणते कंचणे पउमे, नलिणे ससि दिवागरे । वेसमणे वेरुलिते, रुयगस्स उ दाहिणे कूडा ॥१०३॥ ३॥ तत्थ णं अट्ठ दिसाकुमारिमहत्तरियातो महिड्डियातो जाव पलिओवमद्वितीतातो परिवसंति, तंजहा समाहारा सुप्पतिण्णा, सुप्पबुद्धा जसोहरा । लच्छीवती सेसवती, चित्तगुत्ता वसुंधरा ॥१०४॥ ४। जंबुमंदरपच्चत्थिमेणं रुयगवरे पव्वते अट्ठ कूडा पन्नत्ता, तंजहासोत्थिते त अमोहे य, हिमवं मंदरे तधा । रुतगे रुतगुत्तमे चंदे, अट्ठमे त सुदंसणे ॥१०५॥ ५। Page #230 -------------------------------------------------------------------------- ________________ अष्टममध्ययनं अष्टस्थानकम् । ६३१ तत्थ णमट्ठ दिसाकुमारिमहत्तरियाओ महिड्डियातो जाव पलिओवमद्वितीताओ परिवसंति, तंजहा इलादेवी सुरादेवी, पुढवी पउमावती । एगनासा णवमिता, सीता भद्दा त अट्ठमा ॥१०६॥ ६॥ जंबुमंदरउत्तररुयगवरे पव्वते अट्ठ कूडा पन्नत्ता, तंजहारयण रतणुच्चते ता, सव्वरयण रयणसंचते चेव । विजये वेजयंते, जयंते अपराजिते ॥१०७॥ ७॥ तत्थ णं अट्ठ दिसाकुमारिमहत्तरियातो महिड्डिताओ जाव पलिओवमद्वितीताओ परिवसंति, तंजहा अलंबुसा मिस्सकेसी अ, पोंडरिगी त वारुणी । आसा सव्वगा चेव, सिरी हिरी चेव उत्तरतो ॥१०८॥ ८॥ [टी०] जंबूदीवेत्यादि क्षेत्राधिकारात् रुचकाश्रितं सूत्राष्टकं कण्ठ्यम्, नवरं जम्बूद्वीपे यो मन्दरस्तदपेक्षया प्राच्यां दिशि रुचकवरे रुचकद्वीपवर्तिनि प्राग्वर्णितस्वरूपे चक्रवालाकारे अष्टौ कूटानि, तत्र रिटेत्यादिगाथाः स्पष्टाः, तेषु च नन्दोत्तराद्याः दिक्कुमार्यो वसन्ति भगवतोऽर्हतो या जन्मन्यादर्शहस्ता गायन्त्यस्तं पर्युपासते, एवं दाक्षिणात्या भृङ्गारहस्ता गायन्ति, एवं प्रातीच्या: तालवृन्तहस्ता:, एवमौदीच्याश्चामरहस्ताः। [सू० ६४३-३] अट्ठ अहेलोगवत्थव्वातो दिसाकुमारिमहत्तरितातो पन्नत्ताओ, तंजहा भोगंकरा भोगवती, सुभोगा भोगमालिणी । सुवच्छा वच्छमित्ता य, वारिसेणा बलाहगा ॥१०९॥ १॥ अट्ठ उड्ढलोगवत्थव्वाओ दिसाकुमारिमहत्तरितातो पन्नत्ताओ, तंजहामेहंकरा मेहवती, सुमेघा मेघमालिणी । तोयधारा विचित्ता य, पुप्फमाला अणिंदिता ॥११०॥ २॥ [सू० ६४४] अट्ट कप्पा तिरितमिस्सोववन्नगा पन्नत्ता, तंजहा-सोहम्मे जाव Page #231 -------------------------------------------------------------------------- ________________ ६३२ सहस्सारे ३॥ एतेसु णमट्टसु कप्पेसु अट्ठ इंदा पन्नत्ता, तंजहा-सक्के जाव सहस्सारे ४। एतेसि णं अट्ठण्हमिंदाणं अट्ठ परियाणिया विमाणा पन्नत्ता, तंजहापालते, पुप्फते, सोमणसे, सिरिवच्छे, णंदियावत्ते, कामकमे, पीतिमणे, विमले ५। [टी०] देवाधिकारादेव अट्ठ अहेत्यादिपञ्चसूत्री कण्ठ्या, नवरम् अहेलोगवत्थव्वाओ त्ति, सोमणसगंधमायणविजुप्पभमालवंतवासीओ। अट्ठ दिसिदेवयाओ वत्थव्वाओ अहेलोए ॥ [ ] इति । भोगंकराधा अष्टौ या अर्हतो जन्मभवनसंवर्तकपवनादि विदधतीति । ऊर्ध्वलोकवास्तव्याः, तथा च– नंदणवणकूडेसु एयाओ उडलोयवत्थव्वाउ [ ] त्ति, या: अभ्रवर्द्दलकादि कुर्वन्तीति । तिरियमिस्सोववन्नग त्ति अष्टसु तिर्यञ्चोऽप्युत्पद्यन्ते इति भूतभवापेक्षया तिर्यग्भिर्मिश्रास्तिर्यमिश्रास्ते मनुष्या उपपन्ना देवतया जाता येषु ते तिर्यमिश्रोपपन्नका इति । परियायते गम्यते यैस्तानि परियानानि, तान्येव परियानिकानि, परियानं वा गमनं प्रयोजनं येषां तानि पारियानिकानि यानकारकाभियोगिकपालकादिदेवकृतानि पालकादीन्यष्टौ क्रमेण शक्रादीनामिन्द्राणामिति । [सू० ६४५] अट्ठट्ठमिया णं भिक्खुपडिमा चउसट्ठीते रातिदिएहिं दोहि य अट्ठासीतेहिं भिक्खासतेहिं अहासुत्ता जाव अणुपालिता तावि भवति । [टी०] देवत्वं च तपश्चरणादिति तद्विशेषमाह- अट्ठमियेत्यादि, अष्टावष्टमानि दिनानि यस्यां सा तथा, या ह्यष्टाभिर्दिनानामष्टकैः पूर्यते तस्यामष्टावष्टमदिनानि भवन्त्येव, तत्र चाष्टावष्टकानि चतुःषष्टिर्भवत्येव, तथा प्रथमाष्टके एका दत्तिर्भोजनस्य पानकस्य च, एवं द्वितीये द्वे, एवमष्टमेऽष्टौ, ततो द्वे शते अष्टाशीत्यधिके भिक्षाणां सर्वाग्रतो भवत इति, अहासुत्ता ‘अहाकप्पा अहामग्गा अहातच्चा सम्मं काएण फासिया पालिया Page #232 -------------------------------------------------------------------------- ________________ अष्टममध्ययनं अष्टस्थानकम् । ६३३ सोहिया तीरिया किट्टिया आराहिया' इति यावत्करणात् दृश्यम्, अणुपालिय त्ति आत्मसंयमानुकूलतया पालिता इति । [सू० ६४६] अट्ठविधा संसारसमावन्नगा जीवा पन्नत्ता, तंजहापढमसमयनेरतिता, अपढमसमयनेरतिता, एवं जाव अपढमसमयदेवा १। अट्ठविधा सव्वजीवा पन्नत्ता, तंजहा-नेरतिता, तिरिक्खजोणिता, तिरिक्खजोणिणीओ, मणुस्सा, मणुस्सीओ, देवा, देवीओ, सिद्धा २॥ अथवा अट्ठविधा सव्वजीवा पन्नत्ता, तंजहा-आभिनिबोधितनाणी जाव केवलनाणी, मतिअण्णाणी, सुतअण्णाणी, विभंगणाणी ३। [टी०] तपश्च न सर्वेषामपि संसारिणामिति सम्बन्धात् संसारिणो जीवाधिकारात् सर्वजीवांश्च प्रतिपादयन् अट्ठविहेत्यादि सूत्रत्रयमाह, कण्ठ्यं चेदम्, नवरं प्रथमसमयनैरयिका नरकायु:प्रथमसमयोदये, इतरे त्वितरस्मिन्, एवं सर्वेऽपि । [सू० ६४७] अट्ठविधे संजमे पन्नत्ते, तंजहा-पढमसमयसुहुमसंपरागसरागसंजमे, अपढमसमयसुहुमसंपरागसरागसंजमे, पढमसमयबादरसंपरागसरागसंजमे, अपढमसमयबादरसंपरागसरागसंजमे, पढमसमयउवसंतकसायवीतरागसंजमे, अपढमसमयउवसंतकसायवीतरागसंजमे, पढमसमयखीणकसायवीतरागसंजमे, अपढमसमयखीणकसायवीतरागसंजमे । [टी०] अनन्तरं ज्ञानिन उक्तास्ते च संयमिनोऽपि भवन्तीति सम्बन्धात् संयमसूत्रम्, तत्र संयमे त्ति चारित्रम्, स चेह तावद् द्विधा- सराग-वीतरागभेदात्, तत्र सरागो द्विधा- सूक्ष्म-बादरकषायभेदात्, पुनस्तौ प्रथमाप्रथमसमयभेदाद् द्विधा, एवं चतुर्द्धा सरागसंयम इति, तत्र प्रथम: समय: प्राप्तौ यस्य स तथा, सूक्ष्मः किट्टीकृत: सम्पराय: कषाय: सज्वलनलोभलक्षणो वेद्यमानो यस्मिन् स तथा, सह रागेण अभिष्वङ्गलक्षणेन य: स सराग:, स एव संयमः, सरागसंयमः [सरागस्य वा साधो: संयमो य: स तथा, पश्चात् कर्मधारय इत्येक:], द्वितीयोऽयमेव अप्रथमसमयविशेषित इति, अयं च द्विविधोऽपि श्रेणिद्वयापेक्षया पुनर्वैविध्यं लभमानोऽपि न विवक्षित इति चतुर्द्धा नोक्तः, तथा बादरा अकिट्टीकृता: सम्पराया: सज्वलनक्रोधादयो यस्मिन् स तथा, वीतरागसंयमस्तु Page #233 -------------------------------------------------------------------------- ________________ ६३४ श्रेणिद्वयाश्रयणाद् द्विविधः, पुन: प्रथमाप्रथमसमयभेदेनैकैको द्विविध इति चतुर्द्धा, सामस्त्येन चाष्टधेति। [सू० ६४८] अट्ठ पुढवीओ पन्नत्ताओ, तंजहा-रतणप्पभा जाव अहेसत्तमा, ईसिपब्भारा १॥ ईसिपब्भाराते णं पुढवीते बहुमज्झदेसभागे अट्ठजोयणिए खेत्ते अट्ठ जोयणाई बाहल्लेणं पन्नत्ते २॥ ईसिपब्भाराते णं पुढवीते अट्ठ नामधेजा पन्नत्ता, तंजहा-ईसि ति वा, ईसिपब्भारा ति वा, तणू ति वा, तणुतणू इ वा, सिद्धी ति वा, सिद्धालते ति वा, मुत्ती ति वा, मुत्तालते ति वा ३॥ [टी०] संयमिनश्च पृथिव्यां भवन्तीति पृथिवीसूत्रत्रयं कण्ठ्यम्, नवरमष्टयोजनिक क्षेत्रमायाम-विष्कम्भाभ्यामिति गम्यते। ईषत्प्राग्भाराया ईषदिति वा नाम रत्नप्रभाद्यपेक्षया हस्वत्वात् तस्या: १, एवं प्राग्भारस्य हस्वत्वादीषत्प्राग्भारेति वा २, अत एव तनुरिति वा तन्वीत्यर्थः ३, अतितनुत्वात्तनुतनुरिति वा ४, सिध्यन्ति तस्यामिति सिद्धिरिति वा ५, सिद्धानामाश्रयत्वात् सिद्धालय इति वा ६, मुच्यन्ते सकलकर्मभिस्तस्यामिति मुक्तिरिति वा ७, मुक्तानामाश्रयत्वान्मुक्तालय इति वेति ८ । [सू० ६४९] अट्टहिं ठाणेहिं सम्मं घडितव्वं जतितव्वं परक्कमितव्वं, अस्सिं च णं अढे णो पमातेतव्वं भवति-असुताणं धम्माणं सम्मं सुणणताते अब्भुटुंतव्वं भवति १, सुताणं धम्माणं ओगिण्हणताते उवधारणयाते अब्भुटेतव्वं भवति २, णवाणं कम्माणं संजमेणमकरणताते अब्भुट्टेयव्वं भवति ३, पोराणाणं कम्माणं तवसा विगिंचणताते विसोहणताते अब्भुटुंतव्वं भवति ४, असंगिहीतपरितणस्स संगिण्हणताते अब्भुट्टेयव्वं भवति ५, सेहं आयारगोयरं गाहणताते अब्भुट्टेयव्वं भवति ६, गिलाणस्स अगिलाते वेयावच्चं करणताए अन्भुट्टेयव्वं भवति ७, साधम्मिताणमधिकरणंसि उप्पन्नंसि तत्थ अनिस्सितोवस्सिते अपक्खग्गाही मज्झत्थभावभूते 'कहं णु साहम्मिता अप्पसद्दा अप्पझंझा अप्पतुमुतुमा' उवसामणताते अब्भुट्टेयव्वं भवति ८ । Page #234 -------------------------------------------------------------------------- ________________ अष्टममध्ययनं अष्टस्थानकम् । ६३५ [टी०] सिद्धिश्च शुभानुष्ठानेष्वप्रमादितया भवतीति तानि तद्विषयतयाह- अट्टहीत्यादि कण्ठ्यम्, नवरम् अष्टासु स्थानेषु वस्तुषु सम्यग् घटितव्यम् अप्राप्तेषु योग: कार्य:, यतितव्यं प्राप्तेषु तदवियोगार्थं यत्न: कार्यः, पराक्रमितव्यं शक्तिक्षयेऽपि तत्पालने पराक्रम: उत्साहातिरेको विधेय इति, किं बहुना ? एतस्मिन् अष्टस्थानकलक्षणे वक्ष्यमाणेऽर्थे न प्रमादनीयं न प्रमाद: कार्यो भवति, अश्रुतानाम् अनाकर्णितानां धर्माणां श्रुतभेदानां सम्यक् श्रवणतायां श्रवणतायै वाऽभ्युत्थातव्यम् अभ्युपगन्तव्यं भवति १, एवं श्रुतानां श्रोत्रेन्द्रियविषयीकृतानामवग्रहणतायै मनोविषयीकरणाय उपधारणतायै अविच्युति-स्मृति-वासनाविषयीकरणायेत्यर्थ: २, विकिंचण त्ति विवेचना निजरेत्यर्थः. तस्यै, अत एवात्मनो विशुद्धि: विशोधना अकलकत्वं तस्यै इति ४, असगृहीतस्य अनाश्रितस्य परिजनस्य शिष्यवर्गस्येति ५, सेहं ति विभक्तिपरिणामाच्छैक्षकस्य अभिनवप्रव्रजितस्य आयारगोयरं ति आचारः साधुसमाचारस्तस्य गोचरो विषयो व्रतषट्कादिराचारगोचरः, अथवा आचारश्च ज्ञानादिविषय: पञ्चधा गोचरश्च भिक्षाचर्येत्याचारगोचरम्, इह विभक्तिपरिणामादा-चारगोचरस्य ग्राहणतायां शिक्षणे शैक्षमाचारगोचरं ग्राहयितुमित्यर्थः ६, अगिलाए त्ति अग्लान्या अखेदेनेत्यर्थः, वैयावृत्यं प्रतीति शेष: ७, अधिगरणंसि त्ति विरोधे, तत्र साधर्मिकेषु, निश्रितं राग: उपाश्रितं द्वेषः, अथवा निश्रितम् आहारादिलिप्सा उपाश्रितं शिष्य-कुलाद्यपेक्षा, तद्वर्जितो य: सोऽनिश्रितोपाश्रितः, न पक्षं शास्त्रबाधितं गृह्णातीत्यपक्षग्राही, अत एव मध्यस्थभावं भूतः प्राप्तो य: स तथा, स भवेदिति शेषः, तेन च तथाभूतेन कथं नु केन प्रकारेण साधर्मिका साधवोऽल्पशब्दाः विगतराटीमहाध्वनय: अल्पझंझा विगततथाविधविप्रकीर्णवचना: अल्पतुमुतुमा: विगतक्रोधकृतमनोविकारविशेषा भविष्यन्तीति भावयतोपशमनायाऽधिकरणस्याभ्युत्थातव्यं भवतीति ८। [सू० ६५०] महासुक्क-सहस्सारेसु णं कप्पेसु विमाणा अट्ठ जोयणसताई उडुंउच्चत्तेणं पन्नत्ता । [टी०] अप्रमादिनां देवलोकोऽपि भवतीति देवलोकप्रतिबद्धाष्टकमाहमहासुक्केत्यादि सुगमम् । Page #235 -------------------------------------------------------------------------- ________________ ६३६ [सू० ६५१] अरहतो णं अरिट्टनेमिस्स अट्ठ सया वादीणं सदेवमणुयासुराते परिसाते वादे अपराजिताणं उक्कोसिता वादिसंपता होत्था । [टी०] अनन्तरोक्तविमाननिवासिदेवैरपि वस्तुविचारे न जीयन्ते केचिद्वादिन इति तदष्टकमाह- अरहओ इत्यादि सुगमम् । [सू० ६५२] अट्ठसमतिए केवलिसमुग्घाते पन्नत्ते, तंजहा-पढमे समते दंडं करेति, बीए समते कवाडं करेति, ततिए समते मंथं करेति, चउत्थे समते लोगं पूरेति, पंचमे समते लोगं पडिसाहरति, छठे समते मंथं पडिसाहरति, सत्तमे समते कवाडं पडिसाहरति, अट्टमे समते दंडं पडिसाहरति । [टी०] एतेषां च नेमिनाथस्य विनेयानां मध्ये कश्चित् केवली भूत्वा वेदनीयादिकर्मस्थितीनामायुष्कस्थित्या समीकरणार्थं केवलिसमुद्घातं कृतवानिति समुद्घातमाहअद्वेत्यादि, तत्र समुद्घातं प्रारभमाण: प्रथममेवावर्जीकरणमभ्येति, अन्तर्गौहूर्त्तिकम् उदीरणावलिकायां कर्मप्रक्षेपव्यापाररूपमित्यर्थः, तत: समुद्घातं गच्छति, तत्र च प्रथमसमये स्वदेहविष्कम्भमूर्ध्वमधश्चायतमुभयतोऽपि लोकान्तगामिनं जीवप्रदेशसङ्घातं दण्डमिव दण्डं केवली ज्ञानाभोगत: करोति, द्वितीये तु तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणात् पार्श्वतो लोकान्तगामि कपाटमिव कपाटं करोति, तृतीये समये तदेव दक्षिणोत्तरदिग्द्वयप्रसारणान्मन्थानं करोति लोकान्तप्रापिणमेवेति, एवं च लोकस्य प्रायो बहु पूरितं भवति, मन्थान्तराण्यपूरितानि भवन्ति अनुश्रेणिगमनाजीवप्रदेशानामिति, चतुर्थे तु समये मन्थान्तराण्यपि सकललोकनिष्कुटै: सह पूरयति, ततश्च सकलो लोकः पूरितो भवतीति, तदनन्तरमेव पञ्चमे समये यथोक्तप्रतिलोमं मन्थान्तराणि संहरति जीवप्रदेशान् सकर्मकान् सङ्कोचयति, षष्ठे मन्थानमुपसंहरति, घनतरसङ्कोचात्, सप्तमे कपाटमुपसंहरति, दण्डात्मनि सङ्कोचात्, अष्टमे दण्डमुपसंहृत्य शरीरस्थ एव भवति, तत्र च औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तम-षष्ठ-द्वितीयेषु ॥ Page #236 -------------------------------------------------------------------------- ________________ अष्टममध्ययनं अष्टस्थानकम् । कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रये च तस्मिन् भवत्यनाहारको नियमाद् ॥ [प्रशम० २७६ - २७७ ] इति । वाङ्मनसोस्त्वप्रयोक्तैव, प्रयोजनाभावादिति, अतोऽभिहितमष्टौ समया: यस्मिन् सोऽष्टसमय:, स एवऽष्टसामयिकः केवलिनः समुद्घातः केवलिसमुद्घातो न शेष इति । ६३७ [सू० ६५३ ] समणस्स णं भगवतो महावीरस्स अट्ठ सया अणुत्तरोववातिताणं गतिकल्लाणाणं जाव आगमेसिभद्दाणं उक्कोसिता अणुत्तरोववातितसंपता होत्था । [सू० ६५४ ] अट्ठविधा वाणमंतरदेवा पन्नत्ता, तंजहा- पिसाया, भूता, जक्खा, रक्खसा, किन्नरा, किंपुरिसा, महोरगा, गंधव्वा । एतेसि णं अट्ठविहाणं वाणमंतरदेवाणं अट्ठ चेतितरुक्खा पन्नत्ता, तंजाकलंबो उ पिसायाणं, वडो जक्खाण चेतितं । तुलसी भूयाण भवे, रक्खसाणं च कंडओ ॥ १११ ॥ असोगो किन्नराणं च, किंपुरिसाण य चंपतो । नागरुक्खो भुयगाणं, गंधव्वाण य तेंदुओ ॥११२॥ [सू० ६५५] इमीसे रतणप्पभाते पुढवीते बहुसमरमणिजाओ भूमिभागाओ अट्ठ जोयणसते उड्डमबाहाते सूरविमाणे चारं च । [सू० ६५६ ] अट्ठ नक्खत्ता चंदेणं सद्धिं पमदं जोगं जोतेंति, तंजहाकत्तिता, रोहिणी, पुणव्वसू, महा, चित्ता, विसाहा, अणुराधा, जेट्ठा । [टी०] अनन्तरं केवलिनां समुद्घातवक्तव्यतोक्ता, अथाकेवलिनां गुणवतां देवत्वं भवतीति देवाधिकारवत् समणस्सेत्यादि सूत्रपञ्चकं सुगमम्, नवरम् अनुत्तरेषु विजयादिविमानेषूपपातो येषामस्ति तेऽनुत्तरोपपातिकास्तेषां साधूनामिति गम्यते, तथा गति: देवगतिलक्षणा कल्याणा येषाम्, एवं स्थितिरपि तथा आगमिष्यद् भद्रं निर्वाणलक्षणं येषां ते तथा, तेषाम् । चैत्यवृक्षा मणिपीठिकानामुपरिवर्त्तिनः सर्वरत्नमया उपरिच्छत्र ध्वजादिभिरलङ्कृताः 9 - Page #237 -------------------------------------------------------------------------- ________________ ६३८ सुधर्म्मादिसभानामग्रतो ये श्रूयन्ते त एत इति सम्भाव्यते, ये तुचिंधाई कलंबझए सुलस वडे तह य होइ खहंगे । असोय चंपए या नागे तह तुंबरू चेव ॥ [बृहत्सं० ६१] इति, ते चिह्नभूता एतेभ्योऽन्य एवेति, कलंबो इत्यादि श्लोकद्वयं कण्ठ्यम्, नवरं भुयगाणं ति महोरगाणामिति । चारं चरति त्ति चारं करोति, चरतीत्यर्थः । पमद्दं ति प्रमर्द्दः चन्द्रेण स्पृश्यमानता, तल्लक्षणं योगं योजयन्त्यात्मनश्चन्द्रेण सार्द्धं कदाचित्, न तु तमेव सदैवेति, उक्तं च पुणव्वसु- रोहिणि-चित्ता मह - जेट्ठ- ऽणुराह - कित्ति-विसाहा चंदस्स उभयजोग [ 1 त्ति। यानि च दक्षिणोत्तरयोगीनि तानि प्रमर्द्दयोगीन्यपि कदाचिद्भवन्ति, यतो लोकश्रीटीकाकृतोक्तम्– एतानि नक्षत्राण्युभययोगीनि चन्द्रस्य दक्षिणेनोत्तरेण च युज्यन्ते कथञ्चिच्चन्द्रेण भेदमप्युपयान्ति [ ] इति । एतत्फलं चेदम् - एतेषामुत्तरगा ग्रहाः सुभिक्षाय चन्द्रमा नितराम् [ ] इति । [सू० ६५७ ] जंबुद्दीवस्स णं दीवस्स दारा अट्ठ जोयणाई उड्डउच्चत्तेणं पन्नत्ता । सव्वेसिं पिणं दीवसमुद्दाणं दारा अट्ठ जोयणाई उउच्चत्तेणं पन्नत्ता । [सू० ६५८] पुरिसवेयणिज्जस्स णं कम्मस्स जहन्नेणं अट्ठ संवच्छराई बंधट्ठिती पन्नत्ता । जसोकित्तीणामाए णं कम्मस्स जहन्नेणं अट्ठ मुहुत्ताइं बंधट्ठिती पण्णत्ता । उच्चागोतस्स णं कम्मस्स एवं चेव । [सू० ६५९ ] तेइंदियाणमट्ठ जातीकुलकोडीजोणीपमुहसतसहस्सा पन्नत्ता । [सू० ६६०] जीवा णं अट्ठट्ठाणणिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा, तंजहा - पढमसमयनेरतितनिव्वत्तिते जाव अपढमसमयदेवनिव्वत्तिते, एवं चिण उवचिण निज्जरा जाव चेव ॥ अट्ठपतेसिता खंधा अणंता पण्णत्ता, अट्ठपतेसोगाढा पोग्गला अनंता Page #238 -------------------------------------------------------------------------- ________________ अष्टममध्ययनं अष्टस्थानकम् । ६३९ पण्णत्ता, जाव अट्टगुणलुक्खा पोग्गला अणंता पण्णत्ता । ॥ अट्ठाणं सम्मत्तं ॥ [टी०] देवनिवासाधिकाराद्देवनिवासभूतजम्बूद्वीपादिद्वारसूत्रद्वयम्, देवाधिकाराद्देवत्वभाविकर्मविशेषसूत्रत्रयम्, कर्माधिकारात्तन्निबन्धनकुलकोटिसूत्रम्, त्रीन्द्रियादिवैचित्र्यहेतुकर्मापुद्गलसूत्राणि च सुगमानि, नवरं जातीत्यादि जातौ त्रीन्द्रियजातौ कुलकोटीनां योनिप्रमुखाणां योनिद्वारिकाणां यानि शतसहस्राणि तानि तथेति ।। इति श्रीमत्तपागच्छाधिराजभट्टारकपुरन्दरसूरीश्वरश्रीविजयसेनसूरिराज्ये श्रीमत्तपागच्छश्रृंगारहारसूरीश्वरश्रीविजयदेवसूरियौवराज्ये पण्डितश्रीकुशलवर्धनगणिशिष्यनगर्षिगणिना स्ववाचनपरोपकारकृते कृतोद्धाररूपयां श्रीसकलवाचकशिरोमणिमहोपाध्यायश्रीविमलहर्षगणिभिः संशोधितायां सुखावबोधायां श्रीस्थानाङ्गदीपिकायां अष्टस्थानकाख्यं अष्टमममध्ययनं समाप्तम्। Page #239 -------------------------------------------------------------------------- ________________ ६४० अथ नवममध्ययनं नवस्थानकम् । [सू० ६६१] नवहिं ठाणेहिं समणे णिग्गंथे संभोतितं विसंभोतितं करेमाणे णातिक्कमति, तंजहा-आयरियपडिणीयं उवज्झायपडिणीयं थेरपडिणीयं कुलपडिणीयं गणपडिणीयं संघपडिणीयं नाणपडिणीयं दंसणपडिणीयं चरित्तपडिणीयं । [टी०] व्याख्यातमष्टममध्ययनमधुना संख्याक्रमसंबद्धमेव नवमस्थानकाख्यं नवममध्ययनमारभ्यते, अस्य च पूर्वेण सह सम्बन्ध: सङ्ख्याक्रमकृत एवैकः, सम्बन्धान्तरं तु पूर्वस्मिन् जीवादिधर्मा उक्ता: इहापि त एवेत्येवंसम्बन्धस्यास्यादिसूत्रम्नवहिं ठाणेहिं समणे इत्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः- पूर्वसूत्रे पुद्गला वर्णितास्तद्विशेषोदयाच्च कश्चिच्छ्रमणभावमुपगतोऽपि धर्माचार्यादीनां प्रत्यनीकतां करोति, तं च विसम्भोगिकं कुर्वन्नपर: सुश्रमणो नाज्ञामतिक्रामतीतीहाभिधीयत इत्येवंसम्बन्धस्यास्य व्याख्या, सा च सम्बन्धत एवोक्तेति। [सू० ६६२] णव बंभचेरा पन्नत्ता, तंजहा-सत्थपरिण्णा लोगविजओ जाव उवहाणसुयं महपरिण्णा । [टी०] स्वयं ब्रह्मचर्यव्यवस्थित एव चैवं करोतीति तदभिधायकाध्ययनानि दर्शयन्नाहनव बंभचेरेत्यादि, ब्रह्म कुशलानुष्ठानं तच्च तच्चर्यं चासेव्यमिति ब्रह्मचर्यं संयम इत्यर्थः, तत्प्रतिपादकान्यध्ययनान्याचारप्रथमश्रुतस्कन्धप्रतिबद्धानि ब्रह्मचर्याणि, तत्र शस्त्रं द्रव्य-भावभेदादनेकविधम्, तस्य जीवशंसनहेतोः परिज्ञा ज्ञानपूर्वकं प्रत्याख्यानं यत्रोच्यते सा शस्त्रपरिज्ञा १, लोकविजओ त्ति भावलोकस्य राग-द्वेषलक्षणस्य विजयो निराकरणं यत्राभिधीयते स लोकविजय: २, सीओसणिजं ति शीता: अनुकूला: परीषहा उष्णा: प्रतिकूलास्तानाश्रित्य यत् कृतं तच्छीतोष्णीयम् ३, सम्मत्तं ति सम्यक्त्वमविचलं विधेयम्, न तापसादीनां कष्टतप:सेविनामष्टगुणैश्वर्यमुद्वीक्ष्य दृष्टिमोह: कार्य इति प्रतिपादनपरं सम्यक्त्वम् ४, आवंतीति आद्यपदेन, नामान्तरेण तु लोकसारः, तच्चाज्ञानाद्यसारत्यागेन लोकसाररत्नत्रयोद्युक्तेन भाव्यमित्येवमर्थं लोकसार: ५, धूयं ति धूतं सङ्गानां त्यजनं तत्प्रतिपादकं धूतमिति ६, विमोहो त्ति मोहसमुत्थेषु परीषहोपसर्गेषु Page #240 -------------------------------------------------------------------------- ________________ नवममध्ययनं नवस्थानकम् । ६४१ प्रादुर्भूतेषु विमोहो भवेत् तान् सम्यक् सहेतेति यत्राभिधीयते स विमोहः ७, महावीरासेवितस्योपधानस्य तपस: प्रतिपादकं श्रुतं ग्रन्थ उपधानश्रुतमिति ८, महती परिज्ञा अन्तक्रियालक्षणा सम्यग् विधेयेति प्रतिपादनपरं महापरिज्ञेति ९ । [सू० ६६३] नव बंभचेरगुत्तीतो पन्नत्ताओ, तंजहा-विवित्ताइं सयणासणाई सेवेत्ता भवति, नो इत्थिसंसत्ताइं नो पसुसंसत्ताइं नो पंडगसंसत्ताइं १, नो इत्थीणं कहं कहेत्ता २, नो इत्थिगणाई सेवेत्ता भवति ३, णो इत्थीणमिंदिताई मणोहराई मणोरमाई आलोतितं आलोतितं निज्झातेत्ता भवति ४, णो पणीतरसभोती ५, णो पाण-भोयणस्स अतिमातमाहारते सता भवति ६, णो पुव्वरतं पुव्वकीलितं सरेत्ता भवति ७, णो सद्दाणुवाती, णो रूवाणुवाती, णो सिलोगाणुवाती ८, णो सातासोक्खपडिबद्धे यावि भवति ९ । ___णव बंभचेरअगुत्तीओ पन्नत्ताओ, तंजहा-णो विवित्ताई सयणासणाई सेवेत्ता भवति, इत्थिसंसत्ताई पसुसंसत्ताइं पंडगसंसत्ताइं १, इत्थीणं कहं कहेत्ता भवइ २, इत्थिठाणाई सेवेत्ता भवति ३, इत्थीणं इंदियाई मणो० जाव निज्झाएत्ता भवति ४, पणीतरसभोती ५, पाणभोयणस्स अइमातमाहारते सता भवति ६, पुव्वरयं पुव्वकीलितं सरेत्ता भवति ७, सद्दाणुवाती, रूवाणुवाती, सिलोगाणुवाती ८, सायासोक्खपडिबद्धे यावि भवति ९ । [टी०] ब्रह्मचर्यशब्देन मैथुनविरतिरप्यभिधीयत इति ब्रह्मचर्यगुप्ती: प्रतिपादयन्नाहनवेत्यादि, ब्रह्मचर्यस्य मैथुनव्रतस्य गुप्तयो रक्षाप्रकारा: ब्रह्मचर्यगुप्तयः, विविक्तानि स्त्री-पशु-पण्डकेभ्यः पृथग्वर्तीनि शयनासनानि संस्तारक-पीठकादीनि उपलक्षणतया स्थानादीनि च सेविता तेषां सेवको भवति ब्रह्मचारी, अन्यथा तद्बाधासम्भवात्, एतदेव सुखार्थं व्यतिरेकेणाह-नो स्त्रीसंसक्तानि नो देवी-नारी-तिरश्चीभि: समाकीर्णानि सेविता भवतीति सम्बध्यते, एवं पशुभि: गवादिभिः, तत्संसक्तौ हि तत्कृतविकारदर्शनात् मनोविकार: सम्भाव्यत इति, पण्डका: नपुंसकानि, तत्संसक्तौ स्त्रीसमानो दोष: प्रतीत एवेत्येकम् १, नो स्त्रीणां केवलानामिति गम्यते कथां धर्मदेशनादिलक्षणवाक्यप्रतिबन्धरूपां यदिवा कर्णाटी सुरतोपचारकुशला लाटी विदग्धप्रिया [ ] इत्यादिकां Page #241 -------------------------------------------------------------------------- ________________ ६४२ प्रागुक्तां वा जात्यादिचतूरूपां कथयिता तत्कथको भवति ब्रह्मचारीति द्वितीयम् २, नो इत्थिगणाई तीह सूत्रं दृश्यते केवलं नो इत्थिठाणाई ति सम्भाव्यते उत्तराध्ययनेषु तथाऽधीतत्वात् प्रक्रमानुसारित्वाच्चास्येतीदमेव व्याख्यायते, नो स्त्रीणां तिष्ठन्ति येषु तानि स्थानानि निषद्या: स्त्रीस्थानानि तानि सेविता भवति ब्रह्मचारी, कोऽर्थः ? स्त्रीभिः सहैकासने नोपविशेद्, उत्थितास्वपि हि तासु मूहुर्तं नोपविशेदिति, दृश्यमानपाठाभ्युपगमे त्वेवं व्याख्या- नो स्त्रीगणानां पर्युपासको भवेदिति ३, नो स्त्रीणामिन्द्रियाणि नयन-नासिकादीनि मनो हरन्ति दृष्टमात्राण्याक्षिपन्तीति मनोहराणि, तथा मनो रमयन्ति दर्शनानन्तरमनुचिन्त्यमानान्याह्लादयन्तीति मनोरमानि, आलोक्यालोक्य निर्ध्याता दर्शनानन्तरमतिशयेन चिन्तयिता यथाऽहो सलवणत्वं लोचनयो: ऋजुत्वं नाशावंशस्येत्यादि भवति ब्रह्मचारीति ४, नो प्रणीतरसभोगी नो गलत्स्नेहबिन्दुभोक्ता भवति ५, नो पान-भोजनस्य रूक्षस्याप्यतिमात्रम् अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भाए । वाउपवियारणट्ठा छन्भायं ऊणयं कुज्जा ॥ [पिण्डनि० ६५०] इत्येवंविधप्रमाणातिक्रमेणाऽऽहारकः अभ्यवहर्ता सदा सर्वदा भवति, खाद्यस्वाद्ययोरुत्सर्गतो यतीनामयोग्यत्वात् पान-भोजनयोर्ग्रहणमिति ६, नो पूर्वरतं नो गृहस्थावस्थायां स्त्रीसम्भोगानुभवनं तथा पूर्वक्रीडितं तथैव द्यूतादिरमणलक्षणं स्मर्ता चिन्तयिता भवति ७, नो शब्दानुपातीति शब्दं मन्मनभाषितादिकमभिष्वङ्गहेतुमनुपतति अनुसरतीत्येवंशील: शब्दानुपाती, एवं रूपानुपाती, श्लोकं ख्यातिमनुपततीति श्लोकानुपातीति पदत्रयेणाप्येकमेव स्थानकमिति ८, नो सातसौख्यप्रतिबद्ध इति सातात् पुण्यप्रकृतेः सकाशाद्यत् सौख्यं सुखं गन्ध-रस-स्पर्शलक्षणं विषयसम्पाद्यं तत्र प्रतिबद्धः तत्परो ब्रह्मचारी, सातग्रहणादुपशमसौख्यप्रतिबद्धतायां न निषेधः, वापीति समुच्चये, भवतीति ९ । उक्तविपरीता: अगुप्तयोऽप्येवमेवेति । [सू० ६६४] अभिणंदणाओ णं अरहातो सुमती अरहा नवहिं सागरोवमकोडीसयसहस्सेहिं वीतिकंतेहिं समुप्पन्ने । [टी०] उक्तरूपं नवगुप्तिसनाथं च ब्रह्मचर्यं जिनैरभिहितमिति जिनविशेषौ Page #242 -------------------------------------------------------------------------- ________________ ६४३ नवममध्ययनं नवस्थानकम् । प्रकृताध्ययनावतारद्वारेणाह– अभिणंदणेत्यादि कण्ठ्यम् । [सू० ६६५] नव सब्भावपयत्था पन्नत्ता, तंजहा-जीवा, अजीवा, पुण्णं, पावं, आसवो, संवरो, निजरा, बंधो, मोक्खो । [टी०] अभिनन्दन-सुमतिजिनाभ्यां च सद्भूता: पदार्थाः प्ररूपितास्ते च नवेति तान् दर्शयन्नाह– नव सब्भावेत्यादि, सद्भावेन परमार्थेनाऽनुपचारेणेत्यर्थः पदार्था वस्तूनि सद्भावपदार्थाः, तद्यथा- जीवाः सुख-दुःख-ज्ञानोपयोगलक्षणा:, अजीवास्तद्विपरीताः, पुण्यं शुभप्रकृतिरूपं कर्म, पापं तद्विपरीतं कर्मैव, आश्रूयते गृह्यते कर्मानेनेत्याश्रव: शुभाशुभकर्मादानहेतुरिति भावः, संवरः आश्रवनिरोधो गुप्त्यादिभि:, निर्जरा विपाकात् तपसा वा कर्मणां देशत: क्षपणा, बन्ध: आश्रवैरात्तस्य कर्मण आत्मना संयोगः, मोक्ष: कृत्स्नकर्मक्षयादात्मन: स्वात्मन्यवस्थानमिति । ननु जीवाजीवव्यतिरिक्ता: पुण्यादयो न सन्ति, तथाऽयुज्यमानत्वात्, तथाहिपुण्य-पापे कर्मणी, बन्धोऽपि तदात्मक एव, कर्म च पुद्गलपरिणाम:, पुद्गलाश्चाजीवा इति, आश्रवस्तु मिथ्यादर्शनादिरूप: परिणामो जीवस्य, स चात्मानं पुद्गलांश्च विरहय्य कोऽन्य: ?, संवरोऽप्याश्रवनिरोधलक्षणो देश-सर्वभेद आत्मन: परिणामो निवृत्तिरूपः, निर्जरा तु कर्मपरिशाटो जीव: कर्मणां यत् पार्थक्यमापादयति स्वशक्त्या, मोक्षोऽप्यात्मा समस्तकर्मविरहित इति, तस्माज्जीवाजीवौ सद्भावपदार्थाविति वक्तव्यम्, अत एवोक्तमिहैव जदत्थिं च णं लोए तं सव्वं दप्पडोयारं, तंजहा- जीव च्चेय अजीव च्चेय [सू० ४९], अत्रोच्यते, सत्यमेतत् किन्तु यावेव जीवाजीवपदार्थों सामान्येनोक्तौ तावेवेह विशेषतो नवधोक्तौ, सामान्य-विशेषात्मकत्वाद्वस्तुनः, तथेह मोक्षमार्गे शिष्यः प्रवर्त्तनीयो न सङ्ग्रहाभिधानमात्रमेव कर्त्तव्यम्, स च यदैवमाख्यायते यदुताश्रवो बन्धो बन्धद्वारायाते च पुण्य-पापे मुख्यानि तत्त्वानि संसारकारणानि, संवर-निर्जरे च मोक्षस्य, तदा संसारकारणत्यागेनेतरत्र प्रवर्त्तते नान्यथेत्यत: षट्कोपन्यास: मुख्यसाध्यख्यापनार्थं च मोक्षस्येति । [सू० ६६६] णवविधा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा-पुढविकाइया जाव वणस्सइकाइया, बेइंदिया जाव पंचेंदिया १ । Page #243 -------------------------------------------------------------------------- ________________ ६४४ पुढविकाइया नवगइया नवआगइया पन्नत्ता, तंजहा-पुढविकाइए पुढविकाइएसु उववजमाणे पुढविकाइएहिंतो वा जाव पंचेंदियेहिंतो वा उववजेजा, से चेव णं से पुढविकाइए पुढविकाइयत्तं विप्पजहमाणे पुढविकाइयत्ताए वा जाव पंचेंदियत्ताते वा गच्छेज्जा २ । एवमाउकाइया वि ३ जाव पंचेंदिय त्ति १० । णवविधा सव्वजीवा पन्नत्ता, तंजहा-एगिदिया बेइंदिया तेइंदिया चउरिंदिया नेरतिता पंचेंदियतिरिक्खजोणिया मणुया देवा सिद्धा ११ । अथवा णवविधा सव्वजीवा पन्नत्ता, तंजहा-पढमसमयनेरतिता, अपढमसमयनेरतिता जाव अपढमसमयदेवा, सिद्धा १२ । नवविधा जीवोगाहणा पन्नत्ता, तंजहा-पुढविकाइओगाहणा, आउकाइओगाहणा, जाव वणस्सइकाइओगाहणा, बेइंदिओगाहणा, तेइंदिओगाहणा, चउरिंदिओगाहणा, पंचेंदिओगाहणा १३ । जीवा णं नवहिं ठाणेहिं संसारं वत्तिंसु वा वत्तंति वा वत्तिस्संति वा, तंजहा-पुढविकाइयत्ताए जाव पंचेंदियत्ताए १४ ।। [सू० ६६७] णवहिं ठाणेहिं रोगुप्पत्ती सिया, तंजहा-अच्चासणाते, अहितासणाते, अतिणिद्दाए, अतिजागरितेणं, उच्चारनिरोधेणं, पासवणनिरोधेणं, अद्धाणगमणेणं, भोयणपडिकूलताते, इंदियत्थविकोवणताते १५ । [टी०] अत्र च पदार्थनवके प्रथमो जीवपदार्थोऽतस्तद्भेद-गत्यागत्यवगाहना-संसारनिर्वर्तन-रोगोत्पत्तिकारणप्रतिपादनाय नवविहेत्यादिसूत्रपञ्चदशकमाह, सुगमं चेदम्, नवरम् अवगाहन्ते यस्यां सा अवगाहना शरीरमिति, वत्तिंसु व त्ति संसरणं निर्वर्तितवन्तः अनुभूतवन्त:, एवमन्यदपि, अच्चासणयाए त्ति अत्यन्तं सततमासनम् उपवेशनं यस्य सोऽत्यासनस्तद्भावस्तत्ता, तया, अर्शोविकारादयो हि रोगा एतया उत्पद्यन्त इति, अथवा अतिमात्रमशनमत्यशनं तदेवाऽत्यशनता, दीर्घत्वं च प्राकृतत्वात्, तया, सा चाजीर्णकारणत्वात् रोगोत्पत्तये इति, अहियासणयाए त्ति अहितम् अननुकूलं टोलपाषाणाद्यासनं यस्य स तथा, शेषं तथैव, तया, अहिताशनतया वा, अथवा Page #244 -------------------------------------------------------------------------- ________________ नवममध्ययनं नवस्थानकम् । साजीर्णे भुज्यते यत्तु तदध्यसनमुच्यते [ ] इति वचनात् अध्यसनम् अजीर्णे भोजनम्, तदेव तत्ता, तयेति, भोजनप्रतिकूलता प्रकृत्यनुचितभोजनता, तया, इन्द्रियार्थानां शब्दादिविषयाणां विकोपनं विपाकः इन्द्रियार्थविकोपनं कामविकार इत्यर्थः, ततो हि स्त्र्यादिष्वभिलाषादुन्मादादिरोगोत्पत्तिः, यत उक्तम् आदावभिलाषः १ स्याच्चिन्ता तदनन्तरं २ ततः स्मरणम् ३। तदनुगुणानां कीर्त्तन ४ मुद्वेगोऽथ ५ प्रलापश्च ६ ॥ ६४५ उन्मादस्तदनु ७ ततो व्याधि ८ र्जडता तत ९स्ततो मरणम् १० । [ रुद्रटकाव्यालं० १४।४-५।] इति । विषयाप्राप्तौ रोगोत्पत्तिरत्यासक्तावपि राजयक्ष्मादिरोगोत्पत्तिः स्यादिति । [सू० ६६८] णवविधे दरिसणावरणिजे कम्मे पन्नत्ते, तंजहा - निद्दा, निद्दानिद्दा, पयला, पयलापयला, थीणगिद्धी, चक्खुदंसणावरणे, अचक्खुदंसणावरणे, ओहिदंसणावरणे, केवलदंसणावरणे । [टी०] शारीररोगोत्पत्तिकारणान्युक्तानि, अथान्तररोगकारणभूतकर्मविशेषभेदाभिधानायाह– नवेत्यादि, सामान्य- विशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोधो दर्शनम्, तस्यावरणस्वभावं कर्म दर्शनावरणम्, तत् नवविधम्, तत्र निद्रापञ्चकं तावत् द्रा कुत्सायां गतौ [पा० धा० १०५४], नियतं द्राति कुत्सितत्वमविस्पष्टत्वं गच्छति चैतन्यमनयेति निद्रा सुखप्रबोधा स्वापावस्था नखच्छोटिकामात्रेणापि यत्र प्रबोध भवति, तद्विपाकवेद्या कर्म्मप्रकृतिरपि निद्रेति कार्येण व्यपदिश्यते, तथा निद्रातिशायिनी निद्रा निद्रानिद्रा शाकपार्थिवादित्वात् मध्यपदलोपी समासः, सा पुनर्दुःखप्रबोधा स्वापावस्था, तस्यां ह्यत्यर्थमस्फुटतरीभूतचैतन्यत्वाद्दुःखेन बहुभिर्घोलनादिभिः प्रबोधो भवत्यतः सुखप्रबोधनिद्रापेक्षया अस्या अतिशायिनीत्वम्, तद्विपाकवेद्या कर्म्मप्रकृतिरपि कार्यद्वारेण निद्रानिद्रेत्युच्यते, उपविष्ट ऊर्ध्वस्थितो वा प्रचलत्यस्यां स्वापावस्थायामिति प्रचला, सा ह्युपविष्टस्योर्ध्वस्थितस्य वा घूर्णमानस्य स्वप्नुर्भवति, तथाविधविपाकवेद्या कर्म्मप्रकृतिरपि प्रचलेति, तथैव प्रचलातिशायिनी प्रचला प्रचलाप्रचला, साहि चङ्क्रमणादि कुर्वतः स्वप्नुर्भवत्यतः स्थानस्थितस्वप्तृभवां प्रचलामपेक्ष्यातिशायिनी, Page #245 -------------------------------------------------------------------------- ________________ ६४६ तद्विपाका कर्म्मप्रकृतिरपि प्रचलाप्रचला, स्त्याना बहुत्वेन सङ्घातमापन्ना गृद्धिः अभिकाङ्क्षा जाग्रदवस्थाध्यवसितार्थसाधनविषया यस्यां स्वापावस्थायां सा स्त्यानगृद्धिः, तस्यां हि सत्यां जाग्रदवस्थाध्यवसितमर्थमुत्थाय साधयति, स्त्याना वा पिण्डीभूता ऋद्धिः आत्मशक्तिरूपाऽस्यामिति स्त्यानर्द्धिरित्यप्युच्यते, तद्भावे हि स्वप्तः केशवार्द्धबलसदृशी शक्तिर्भवति, तदेवं निद्रापञ्चकं दर्शनावरणक्षयोपशमाल्लब्धात्मलाभानां दर्शनलब्धीनामावारकमुक्तमधुना यद्दर्शनलब्धीनां मूलत एव लाभमावृणोति तदिदं दर्शनावरणचतुष्कमुच्यते, चक्षुषा दर्शनं सामान्यग्राही बोधश्चक्षुर्दर्शनम्, तस्यावरणं चक्षुर्दर्शनावरणम्, अचक्षुषा चक्षुर्वर्जेन्द्रियचतुष्टयेन मनसा वा यद्दर्शनं तदचक्षुर्दर्शनम्, तस्यावरणमचक्षुर्दर्शनावरणम्, अवधिना रूपिमर्यादया, अवधिरेव वा करणनिरपेक्षो बोधरूपो दर्शनं सामान्यार्थग्रहणमवधिदर्शनम्, तस्यावरणमवधिदर्शनावरणम्, तथा केवलम् उक्तस्वरूपं तच्च तद्दर्शनं च तस्यावरणं केवलदर्शनावरणमित्युक्तं नवविधं दर्शनावरणम् । [सू० ६६९] अभिती णं णक्खत्ते सातिरेगे नव मुहुत्ते चंदेण सद्धिं जोगं If I अभीतिआतिया णं णव नक्खत्ता चंदस्स उत्तरेणं जोगं जोतेंति, तंजहाअभीती सवणो धणिट्ठा जाव भरणी । [सू० ६७०] इमीसे णं रतणप्पभाते पुढवीते बहुसमरमणिज्जातो भूमिभागाओ णव जोयणसते उ अबाहाते अवरिल्ले तारारूवे चारं चरति । [सू० ६७१] जंबूदीवे णं दीवे णव जोयणिया मच्छा पविसिंसु वा पविसंति वा पविसिस्संति वा । [सू० ६७२] जंबुद्दीवे दीवे भरहे वासे इमीसे ओसप्पिणीते व बलदेववासुदेवपितरो होत्था, तंजहा पयावती त बंभे, रुद्दे सोमे सिवे ति त । महसीह अग्गिसीहे, दसरहे नवमे त वसुदेवे ॥११३॥ Page #246 -------------------------------------------------------------------------- ________________ नवममध्ययनं नवस्थानकम् । ६४७ एत्तो आढत्तं जधा समाए निरवसेसं जाव एक्का से गब्भवसही, सिज्झिहिती आगमेसे णं ॥११४॥ जंबुद्दीवे दीवे भरहे वासे आगमेस्साते उस्सप्पिणीते नव बलदेववासुदेवपितरो भविस्संति, नव बलदेवमायरो भविस्संति, एवं जधा समाते निरवसेसं जावमहाभीमसेणे सुग्गीवे य अपच्छिमे ॥११५॥ एते खलु पडिसत्तू, कित्तीपुरिसाण वासुदेवाणं । सव्वे य चक्कजोही, हम्मीहंती सच्चक्केहिं ॥११६॥ [टी०] जीवानां कर्मण: सकाशानक्षत्रादिदेवत्वं तिर्यक्त्वं मानुषत्वं च भवतीति नक्षत्रादिवक्तव्यताप्रतिबद्धं सूत्रवृन्दम् अभीत्यादि हम्मीहंती सचक्केहिं इत्येतदन्तमाह, सुगमं चेदं वृन्दम् । नवरं साइरेग त्ति सातिरेकान्नव मुहूर्तान् यावच्चतुर्विंशत्या मुहूर्त्तस्य द्विषष्टिभागैः षट्षष्ट्या च द्विषष्टिभागस्य सप्तषष्टिभागानामिति, उत्तरेण जोगं ति उत्तरस्यां दिशि स्थितानि दक्षिणाशास्थितचन्द्रेण सह योगमनुभवन्तीति भावः । बहुसमरमणिजाउ त्ति अत्यन्तसमो बहुसमोऽत एव रमणीयो रम्यस्तस्माद्भूमिभागात् न पर्वतापेक्षया नापि श्वभ्रापेक्षयेति भावः, अबाधाए त्ति अन्तरे ‘कृत्वे'ति वाक्यशेष:, अवरिल्ले त्ति उपरितनम्, तारारूपं तारकजातीयं चारं भ्रमणं चरति आचरति । नवजोयणिय त्ति नवयोजनायामा एव प्रविशन्ति, लवणसमुद्रे यद्यपि पञ्चशतयोजनायामा मत्स्या भवन्ति तथापि नदीमुखेषु जगतीरन्ध्रौचित्येनैतावतामेव प्रवेश इति, लोकानुभावो वाऽयमिति, पयावईत्यर्द्धं श्लोकस्योत्तरं तु गाथापश्चार्द्धमिति, सक्षेपायाऽतिदिशन्नाहएत्तो त्ति इत: सूत्रादारब्धं जहा समाए त्ति समवाये चतुर्थाशे यथा तथा निरवशेष ज्ञेयम्, तच्चार्थत इदम्– नव वासुदेव-बलदेवानां [पितरः] मातरः तेषामेव नामानि पूर्वभवनामानि धर्माचार्या निदानभूमयो निदानकारणानि प्रतिशत्रवो गतयश्चेति, किमन्तमेतदित्याह- जाव एक्का इत्यादि गाथापश्चार्द्धम्, पूर्वार्द्धं त्विदमस्या:- अटुंतकडा रामा एगो पुण बंभलोयकप्पम्मि [समवायाङ्गे सू० १५८ गा० १४०] त्ति । सिज्झिस्सइ Page #247 -------------------------------------------------------------------------- ________________ ६४८ आगमिस्से णं ति आगमिष्यति काले सेत्स्यति, णमिति वाक्यालङ्कारे तृतीया वेयमिति। तथा जंबूदीवेत्यादावागाम्युत्सर्पिणीसूत्रे एवं जहा समाए इत्याद्यतिदेशवचनमेवमेव भावनीयं यावत् प्रतिवासुदेवसूत्रं महाभीमसेनः सुग्रीवश्चापश्चिमः इत्येतदन्तम् । तथा एते गाहा, एते अनन्तरोदिता नव प्रतिशत्रवः कित्तीपुरिसाणं ति कीर्तिप्रधाना: पुरुषा: कीर्तिपुरुषास्तेषाम्, चक्कजोहि त्ति चक्रेण योद्धं शीलं येषां ते चक्रयोधिन:, हम्मीहंति त्ति हनिष्यन्ते स्वचक्रैरिति । [सू० ६७३] एगमेगे णं महानिधी णव णव जोयणाई विक्खंभेणं पण्णत्ते। रन्नो णं चाउरंतचक्कवट्टिस्स नव महानिहीओ पन्नत्ता, तंजहाणेसप्पे पंडुयए, पिंगलते सव्वरयण महपउमे । काले य महाकाले, माणवग महानिधी संखे ॥११७॥ णेसप्पम्मि निवेसा, गामागर-नगर-पट्टणाणं च । दोणमुह-मडंबाणं, खंधाराणं गिहाणं च ॥११८॥ गणितस्स य बीयाणं, माणुम्माणस्स जं पमाणं च । धन्नस्स य बीयाणं, उप्पत्ती पंडुते भणिया ॥११९॥ सव्वा आभरणविही, पुरिसाणं जा य होति महिलाणं । आसाण य हत्थीण य, पिंगलगनिहिम्मि सा भणिता ॥१२०॥ रयणाइं सव्वरतणे, चोद्दस पवराई चक्कवहिस्स । उप्पजंति एगेंदियाइं पंचेंदियाइं च ॥१२१॥ वत्थाण य उप्पत्ती, निप्फत्ती चेव सव्वभत्तीणं । रंगाण य धोव्वाण य, सव्वा एसा महापउमे ॥१२२॥ काले कालण्णाणं, भव्वपुराणं च तीसु वासेसु । सिप्पसतं कम्माणि य, तिनि पयाए हितकराई ॥१२३॥ लोहस्स य उप्पत्ती, होइ महाकाले आगराणं च । रुप्पस्स सुवन्नस्स य, मणि-मोत्ति-सिल-प्पवालाणं ॥१२४॥ Page #248 -------------------------------------------------------------------------- ________________ नवममध्ययनं नवस्थानकम् । जोधाण य उप्पत्ती, आवरणाणं च पहरणाणं च । सव्वा य जुद्धनीती, माणवते दंडनीती य ॥१२५॥ विहि नाडगविही, कव्वस्स चउव्विहस्स उप्पत्ती । संखे महानिहिम्मी, तुडियंगाणं च सव्वेसिं ॥ १२६॥ चक्कट्ठपतिट्ठाणा, अट्टुस्सेहा य नव य विक्खंभे । बारस दीहा मंजूससंठिता जह्नवीय मुहे ॥ १२७॥ वेरुलियमणिकवाडा, कणगमया विविधरतणपडिपुणा । ससिसूरचक्कलक्खणअणुसमजुगबाहुवतणा त ॥१२८॥ पलिओवमट्टितीता, णिधिसरिणामा य तेसु खलु देवा । जेसिं ते आवासा, अक्किज्जा आहिवच्चं च ॥ १२९ ॥ एते ते नव निहितो, पभूतधणरयणसंचयसमिद्धा । जे वसमुवगच्छंती, सव्वेसिं चक्कवट्टीणं ॥ १३०॥ [टी०] इह महापुरुषाधिकारे महापुरुषाणां चक्रवर्त्तिनां सम्बन्धि निधिप्रकरणमाहएगमेगे इत्यादि सुगमम्, नवरं सप्पे १ पंडुए २ पिंगले य ३ सव्वरयणे य ४ महापउमे ५ । काले य ६ महाकाले ७ माणवग महानिही ८ संखे ९ ॥ नेसप्पम्मि गाहा, इह निधान - तन्नायकदेवयोरभेदविवक्षया नैसर्पो देवः, तस्मिन् सति, तत इत्यर्थः, निवेशा: स्थापनानि अभिनवग्रामादीनामिति, अथवा चक्रवर्तिराज्योपयोगीनि द्रव्याणि सर्वाण्यपि नवसु निधिष्ववतरन्ति, नवनिधानतया व्यवह्रियन्त इत्यर्थः, तत्र ग्रामादीनामभिनवानां पुरातनानां च ये सन्निवेशा निवेशनानि ते नैसर्प्पनिधौ वर्त्तन्ते, नैसर्पनिधितया व्यवह्रियन्त इति भाव:, तत्र ग्रामो जनपदप्रायलोकाधिष्ठितः, आकरो यत्र सन्निवेशे लवणाद्युत्पद्यते, न करो यत्रास्ति तद् नकरम्, पत्तनं देशीस्थानम्, द्रोणमुखं जलपथ- स्थलपथयुक्तम्, मडम्बम् अविद्यमानप्रत्यासन्नवसिमम्, स्कन्धावारः कटकनिवेशः, गृहं भवनमिति १ । गणित गाहा, गणितस्य दीनारादि - पूगफलादिलक्षणस्य, चकारस्य व्यवहितः ६४९ Page #249 -------------------------------------------------------------------------- ________________ ६५० सम्बन्धः स च दर्शयिष्यते, तथा बीजानां तन्निबन्धनभूतानाम्, तथा मानं सेतिकादि, तद्विषयं यत्तदपि मानमेव धान्यादि मेयमिति भावः, तथोन्मानं तुला-कर्षादि, तद्विषयं यत्तदप्युन्मानं खण्ड-गुडादि धरिममित्यर्थः, ततो द्वन्द्वसमाहार: कार्यः, ततस्तस्य च, किमित्याह- यत् प्रमाणम्, चकारो व्यवहितसम्बन्ध एव, तथैव दर्शयिष्यते, तत् पाण्डुके भणितमिति लिङ्गपरिणामेन सम्बन्धः, तथा धान्यस्य व्रीह्यादे/जानां च तद्विशेषाणामुत्पत्तिश्च या सा पाण्डुके पाण्डुकनिधिविषया, तद्व्यापारोऽयमिति भावः, भणिता उक्ता जिनादिभिरिति २ । सव्वा गाहा कण्ठ्या ३ । रयण गाहा, अक्षरघटनैवम्, रत्नान्येकेन्द्रियाणि चक्रादीनि सप्त पञ्चेन्द्रियाणि सेनापत्यादीनि सप्त उत्पद्यन्ते भवन्ति यानि चक्रवर्तिनस्तानि सर्वाणि सर्वरत्ने सर्वरत्ननामनि निधौ द्रष्टव्यानीति ४ । वत्थाणं गाहा, वस्त्राणां वाससां योत्पत्ति: सामान्यतो या च विशेषतो निष्पत्ति: सिद्धिः सर्वभक्तीनां सर्ववस्त्रप्रकाराणां सर्वा वा भक्तयः प्रकारा येषां तानि तथा तेषाम्, किंभूतानां वस्त्राणामित्याह– रङ्गाणां रङ्गवतां रक्तानामित्यर्थः, धौतानां शुद्धस्वरूपाणाम्, सर्वैवैषा महापद्मे महापद्मनिधिविषया ५ । ___काले गाहा, काले कालनामनि निधौ कालज्ञानं कालस्य शुभाशुभरूपस्य ज्ञानं वर्त्तते, ततो ज्ञायत इत्यर्थः, किम्भूतमित्याह– भाविवस्तुविषयं भव्यं पुरातनवस्तुविषयं पुराणम्, चशब्दाद् वर्तमानवस्तुविषयं वर्तमानम्, तीसु वासेसु त्ति अनागतवर्षत्रयविषयमतीतवर्षत्रयविषयं चेति, तथा शिल्पशतं कालनिधौ वर्त्तते, शिल्पशतं च घट १ लोह २ चित्र ३ वस्त्र ४ नापित ५ शिल्पानां प्रत्येक विंशतिभेदत्वादिति, तथा कर्माणि च कृषि-वाणिज्यादीनि कालनिधाविति प्रक्रमः, एतानि च त्रीणि कालज्ञान-शिल्प-कर्माणि प्रजाया: लोकस्य हितकराणि निर्वाहाभ्युदयहेतुत्वेनेति ६। लोह गाहा, लोहस्य चोत्पत्तिर्महाकाले निधौ भवति वर्त्तते, तथा आकराणां च लोहादिसत्कानामुत्पत्तिराकरीकरणलक्षणा, एवं रूप्यादीनामुत्पत्ति: सम्बन्धनीया, केवलं मणय: चन्द्रकान्तादयः, मुक्ता मुक्ताफलानि, शिला: स्फटिकादिका:, Page #250 -------------------------------------------------------------------------- ________________ नवममध्ययनं नवस्थानकम् । ६५१ प्रवालानि विद्रुमाणीति ७ । जो गाहा, योधानां शूरपुरुषाणां योत्पत्तिरावरणानां सन्नाहानां प्रहरणानां खड्गादीनां सा युद्धनीतिश्च व्यूहरचनादिलक्षणा माणवके निधौ निधिनायके वा भवति, तत: प्रवर्तत इति भावः, दण्डेनोपलक्षिता नीतिर्दण्डनीतिश्च सामादिश्चतुर्विधा ८ । __नट्ट गाहा, नाट्यं नृत्यम्, तद्विधि: तत्करणप्रकार:, नाटकं चरितानुसारि नाटकलक्षणोपेतं तद्विधिश्च, इह पदद्वये द्वन्द्वः, तथा काव्यस्य चतुर्विधस्य धर्माऽर्थ-काम-मोक्षलक्षणपुरुषार्थप्रतिबद्धग्रन्थस्य अथवा संस्कृत-प्राकृता-ऽपभ्रंशसङ्कीर्णभाषानिबद्धस्य उत्पत्तिः प्रभव: शो महानिधौ भवति, तथा तूर्याङ्गाणां च मृदङ्गादीनां सर्वेषामिति ९ । ___ चक्क गाहा, चक्रेष्वष्टासु प्रतिष्ठानं प्रतिष्ठा अवस्थानं येषां ते तथा, अष्टौ योजनान्युत्सेध: उच्छ्रयो येषां ते तथा, नव च योजनानीति गम्यते विष्कम्भे विस्तरे, निधय इति शेष:, द्वादश योजनानि दीर्घाः, मञ्जूषाः प्रतीता:, तत्संस्थिता: तत्संस्थाना:, जाह्नव्या गङ्गाया मुखे भवन्तीति । वेरुलिय गाहा, वैडूर्यमणिमयानि कपाटानि येषां ते तथा, मयशब्दस्य वृत्त्या उक्तार्थतेति, कनकमयाः सौवर्णाः, विविधरत्नप्रतिपूर्णाः प्रतीतम्, शशि-सूर-चक्राकाराणि लक्षणानि चिह्नानि येषां ते तथा, अनुसमा: अनुरूपा अविषमा:, जुग त्ति यूप: तदाकारा वृत्तत्वाद्दीर्घत्वाच्च बाहवो द्वारशाखा वदनेषु मुखेषु येषां ते तथा, तत: पदत्रयस्य कर्मधारये शशिसूरचक्रलक्षणानुसमयुगबाहुवदना इति, च: समुच्चये । पलि गाहा, निहिसरिनाम त्ति निधिभि: सदृक् सदृक्षं नाम येषां ते तथा, येषां देवानां ते निधय: आवासा: आश्रया:, किम्भूता:? अक्रेया अक्रयणीया:, सर्वदैव तत्सम्बन्धित्वात्, आधिपत्यं च स्वामिता च तेषु येषां देवानामिति प्रक्रमः, एते ते गाहा कण्ठ्या । [सू० ६७४] णव विगतीतो पन्नत्ताओ तंजहा-खीरं, दधिं, णवणीतं, सप्पिं, तेल्लं, गुलो, महं, मजं, मंसं । [टी०] अनन्तरं चित्तविकृति-विगतिहेतवो निधय उक्ताः, अधुना तथाविधा एव विकृती: प्रतिपादयन्नाह– नव विगतीओ इत्यादि गतार्थम्, तथाप्युच्यते किञ्चित् Page #251 -------------------------------------------------------------------------- ________________ ६५२ विगतीओ त्ति विकृतयो विकारकारित्वात्, पक्वान्नं तु कदाचिदविकृतिरपि तेनैता नव, अन्यथा तु दशापि भवन्तीति, तथाहिएक्केण चेव तवओ पूरिज्जइ पूयएण जो ताओ । बीतिओ वि स पुण कप्पइ निव्विगइय लेवडो नवरं ॥ [पञ्चवस्तु० ३७७] ति । द्वितीयोऽपि विकृतिर्न भवतीति भावः । तत्र क्षीरं पञ्चधा अजैडका-गोमहिष्युष्ट्रीभेदात्, दधि-नवनीत-घृतानि चतुर्डेवोष्ट्रीणां तदभावात्, तैलं चतुर्द्धा तिलाऽतसी-कुसुम्भ-सर्षपभेदात्, गुडो द्विधा द्रव-पिण्डभेदात्, मधु त्रिधा माक्षिक-कौत्तिकभ्रामरभेदात्, मद्यं द्विधा काष्ठ-पिष्टभेदात्, मांसं त्रिधा जल-स्थला-ऽऽकाशचरभेदादिति। [सू० ६७५] णवसोतपरिस्सवा बोंदी पण्णत्ता, तंजहा-दो सोत्ता, दो णेत्ता, दो घाणा, मुहं, पोसए, पाऊ । [टी०] विकृतयश्चोपचयहेतवः शरीरस्येति तस्यैव स्वरूपमाह- नवेत्यादि, नवभिः श्रोतोभि: छिद्रैः परिश्रवति मलं क्षरतीति नवश्रोत:परिश्रवा बोन्दी शरीरमौदारिकमेवैवंविधम्, द्वे श्रोत्रे कर्णौ नेत्रे नयने घ्राणे नासिके मुखम् आस्यं पोसए त्ति उपस्था पायुः अपानमिति । [सू० ६७६] णवविधे पुन्ने पन्नत्ते, तंजहा-अन्नपुन्ने, पाणपुन्ने, वत्थपुन्ने, लेणपुन्ने, सयणपुन्ने, मणपुन्ने, वतिपुन्ने, कायपुन्ने, नमोक्कारपुन्ने । [टी०] एवंविधेनापि शरीरेण पुण्यमुपादीयत इति पुण्यभेदानाह– पुन्नेत्यादि, पात्रायाऽन्नदानाद् यस्तीर्थकरनामादिपुण्यप्रकृतिबन्धस्तदन्नपुण्यमेवं सर्वत्र, नवरं लेणं ति लयनं गृहम्, शयनं संस्तारकः, मनसा गुणिषु तोषात्, वाचा प्रशंसनात्, कायेन पर्युपासनान्नमस्काराच्च यत् पुण्यं तन्मन:पुण्यादीति, उक्तं च अन्नं पानं च वस्त्रं च, आलय: शयनासनम् । शुश्रूषा वन्दनं तुष्टिः, पुण्यं नवविधं स्मृतम् ॥ [ ] इति । [सू० ६७७] णव पावस्सायतणा पन्नत्ता, तंजहा-पाणातिवाते, मुसावाते जाव परिग्गहे, कोहे, माणे, माया, लोभे । [टी०] पुण्यविपर्यासरूपस्य पापस्य कारणान्याह– नव पावस्सेत्यादि कण्ठ्यम्, Page #252 -------------------------------------------------------------------------- ________________ नवममध्ययनं नवस्थानकम् । नवरं पापस्य अशुभप्रकृतिरूपस्याऽऽयतनानि बन्धहेतव इति । [सू० ६७८ ] नवविधे पावसुयपसंगे पन्नत्ते, तंजहाउप्पा निमित्ते मंते अतिक्खिते तिगिच्छिते । कला आवरणे अन्नाणे मिच्छापावतणे ति त ।। १३१ ॥ [टी०] पापहेत्वधिकारात् पापश्रुतसूत्रं कण्ठ्यम्, नवरं पापोपादानहेतुः श्रुतं शास्त्रं पापश्रुतम्, तस्य प्रसङ्गः तथाऽऽसेवारूपः विस्तरो वा सूत्र - वृत्ति - वार्त्तिकरूपः पापश्रुतप्रसङ्गः । उप्पाए सिलोगो, तत्रोत्पातः प्रकृतिविकाररूपः सहजरुधिरवृष्ट्यादिः, तत्प्रतिपादनपरं शास्त्रमपि तथा राष्ट्रोत्पातादि १, तथा निमित्तम् अतीतादिपरिज्ञानोपायशास्त्रं कूरपर्वतादि २, मन्त्रो मन्त्रशास्त्रं जीवोद्धरणगारुडादि ३, आइक्खिए त्ति मातङ्गविद्या यदुपदेशादतीतादि कथयन्ति डोंब्यो बधिरा इति लोकप्रतीताः ४, चैकित्सिकम् आयुर्वेद: ५, कला लेखाद्या: गणितप्रधानाः शकुनरुतपर्यवसाना द्वासप्ततिः, तच्छास्त्राण्यपि तथा ६, आव्रियते आकाशमनेनेत्यावरणं भवन-प्रासादनगरादि, तल्लक्षणशास्त्रमपि तथा, वास्तुविद्येत्यर्थः ७, अज्ञानं लौकिकश्रुतं भारतकाव्य-नाटकादि ८, मिथ्याप्रवचनं शाक्यादितीर्थिकशासनमिति ९, एतच्च सर्वमपि पापश्रुतं संयतेन पुष्टालम्बनेनासेव्यमानमपापश्रुतमेवेति, इतिरेवंप्रकारे, चः समुच्चये । [सू० ६७९] नव णेउणिता वत्थू पन्नत्ता, तंजासंखाणे निमित्ते कातिते, पोराणे पारिहत्थिते । परपंडितते वाति, भूतिकम्मे तिगिच्छिते ॥१३२॥ ६५३ [टी०] उत्पातादिश्रुतवन्तश्च निपुणा भवन्तीति निपुणपुरुषाभिधानायाह- नव निउणेत्यादि, निपुणं सूक्ष्मं ज्ञानं तेन चरन्तीति नैपुणिका:, निपुणा एव वा नैपुणिका:, वत्थु त्ति आचार्यादिपुरुषवस्तूनि, पुरुषा इत्यर्थः, संखाणे सिलोगो, सङ्ख्यानं गणितं तद्योगात् पुरुषोऽपि तथा, सङ्ख्याने वा विषये निपुण इति, एवमन्यत्रापि, नवरं निमित्तं चूडामणिप्रभृति, कायिकं शारीरिकम् इडा - पिङ्गलादि प्राणतत्त्वमित्यर्थः, पुराणो वृद्धः, स च चिरजीवित्वाद् दृष्टबहुविधव्यतिकरत्वान्नैपुणिक इति, पुराणं वा शास्त्रविशेषः तज्ज्ञो निपुणप्रायो भवति, पारिहत्थिए त्ति प्रकृत्यैव दक्षः सर्वप्रयोजनानामकालहीनता Page #253 -------------------------------------------------------------------------- ________________ ६५४ कर्तेति, तथा परः प्रकृष्टः पण्डित: परपण्डितो बहुशास्त्रज्ञः, परो वा मित्रादिः पण्डितो यस्य स तथा, सोऽपि निपुणसंसर्गानिपुणो भवति, वैद्यकृष्णकवदिति, वादी वादलब्धिसम्पन्नो यः परेण न जीयते, मन्त्रवादी वा धातुवादी वेति, ज्वरादिरक्षानिमित्तं भूतिदानं भूतिकर्म तत्र निपुणः, तथा चिकित्सिते निपुणः । अथवा अनुप्रवादाभिधानस्य नवमपूर्वस्य नैपुणिकानि वस्तूनि अध्ययनविशेषा एवेति । [सू० ६८०] समणस्स णं भगवतो महावीरस्स णव गणा होत्था, तंजहागोदासगणे, उत्तरबलितस्सतगणे, उद्देहगणे, चारणगणे, उद्दवातितगणे, विस्सवातितगणे, कामिड्डितगणे, माणवगणे, कोडितगणे । [टी०] एते च नैपुणिका: साधवो गणान्त विनो भवन्तीति गणसूत्रं समणस्सेत्यादि कण्ठ्यम्, नवरं गणा: एकक्रिया-वाचनानां साधूनां समुदाया:, गोदासादीनि च तन्नामानीति । [सू० ६८१] समणेणं भगवता महावीरेणं समणाणं णिग्गंथाणं णवकोडिपरिसुद्धे भिक्खे पन्नत्ते, तंजहा-ण हणति, ण हणावेति, हणंतं णाणुजाणति, ण पतति, ण पतावेति, पतंतं णाणुजाणति, ण किणति, ण किणावेति, किणंतं णाणुजाणति । [टी०] उक्तगणवर्तिनां च साधूनां यद्भगवता प्रज्ञप्तं तदाह- समणेणमित्यादि, नवभि: कोटिभिः विभागैः परिशुद्धं निर्दोषं नवकोटिपरिशुद्ध भिक्षाणां समूहो भैक्षं प्रज्ञप्तम्, तद्यथा- न हन्ति साधु: स्वयमेव गोधूमादिदलनेन, न घातयति परेण गृहस्थादिना, [घ्नन्तं न] नैव अनुजानाति अनुमोदनेन तस्य वा दीयमानस्याप्रतिषेधनेन अप्रतिषिद्धमनुमतम् [ ] इति वचनात् हननप्रसङ्गजननाच्चेति, आह च कामं सयं न कुव्वइ जाणंतो पुण तहा वि तग्गाही। वड्ढेइ तप्पसंगं अगिण्हमाणो उ वारेइ ॥ (पिण्डनि० १११] इति । तथा हतं पिष्टं सत् गोधूमादि मुद्गादि वा अहतमपि सन्न पचति स्वयम्, शेषं प्राग्वत् सुगमं च, इह चाद्या: षट् कोटयोऽविशोधिकोट्यामवतरन्ति आधाकर्मादिरूपत्वात् अन्त्यास्तु तिम्रो विशोधिकोट्यामिति । Page #254 -------------------------------------------------------------------------- ________________ नवममध्ययनं नवस्थानकम् । ६५५ [सू० ६८२] ईसाणस्स णं देविंदस्स देवरणो वरुणस्स महारन्नो णव अग्गमहिसीओ पन्नत्ताओ १॥ [सू० ६८३] ईसाणस्स णं देविंदस्स [देवरण्णो] अग्गमहिसीणं णव पलिओवमाई ठिती पन्नत्ता २॥ ईसाणे कप्पे उक्कोसेणं देवीणं णव पलिओवमाइं ठिती पन्नत्ता ३॥ [सू० ६८४] नव देवनिकाया पन्नत्ता, तंजहासारस्सयमादिच्चा, वण्ही वरुणा य गद्दतोया य । तुसिता अव्वाबाधा, अग्गिच्चा चेव रिट्ठा य ॥१३३॥ ४॥ अव्वाबाहाणं देवाणं नव देवा नव देवसता पन्नत्ता ५, एवं अग्गिच्चा वि ६, एवं रिट्ठा वि । _[सू० ६८५] णव गेवेजविमाणपत्थडा पन्नत्ता, तंजहा-हेट्ठिमहेट्ठिमगेवेजविमाणपत्थडे, हेट्ठिममज्झिमगेवेजविमाणपत्थडे, हेट्ठिमउवरिमगेवेजविमाणपत्थडे, मज्झिमहेट्ठिमगेवेज्जविमाणपत्थडे, मज्झिममज्झिमगेवेजविमाणपत्थडे, मज्झिमउवरिमगेवेजविमाणपत्थडे, उवरिमहेट्ठिमगेवेजविमाणपत्थडे, उवरिममज्झिमगेवेजविमाणपत्थडे, उवरिमउवरिमगेवेजविमाणपत्थडे ८ एतेसि णं णवण्हं गेवेजविमाणपत्थडाणं णव नामधिज्जा पन्नत्ता, तंजहाभद्दे सुभद्दे सुजाते, सोमणसे पितदरिसणे । सुदंसणे अमोहे य, सुप्पबुद्धे जसोधरे ॥१३४॥ ९॥ [टी०] नवकोटीशुद्धाहारग्राहिणां कथञ्चिन्निर्वाणाभावे देवगतिर्भवत्येवेति देवगतिगतवस्तुस्तोममभिधित्सुः ईसाणस्सेत्यादि सूत्रनवकमाह, सुगमं चेदम्, नवरं नव पलिओवमाइं ति नवैव, तासां सपरिग्रहत्वाद्, उक्तं च सपरिग्गहेयराणं सोहम्मीसाण पलिय १ साहीयं २। उक्कोस सत्त पन्ना नव पणपन्ना य देवीणं ॥ [बृहत्सं० १७] ति । सारस्स गाहा, सारस्वता: १, आदित्याः २, वह्नयः ३, वरुणाः ४, गर्दतोयाः Page #255 -------------------------------------------------------------------------- ________________ ६५६ ५, तुषिता: ६, अव्याबाधा: ७, आग्नेयाः ८, एते कृष्णराज्यन्तरेष्वष्टासु परिवसन्ति, रिष्टास्तु कृष्णराजिमध्यभागवर्त्तिनि रिष्टाभविमानप्रस्तटे परिवसन्तीति । [सू० ६८६ ] नवविधे आउपरिणामे पन्नत्ते, तंजहा - गतिपरिणामे, गतिबंधणपरिणामे, ठितिपरिणामे, ठितिबंधणपरिणामे, उडुंगारवपरिणामे, अधेगारवपरिणामे, तिरितंगारवपरिणामे दीहंगारवपरिणामे, रहस्संगारवपरिणामे । , [टी०] अनन्तरं ग्रैवेयकविमानानि उक्तानि तद्वासिनःश्चायुष्मन्तो भवन्तीत्यायुःपरिणामभेदानाह— नवविहे इत्यादि, आउपरिणामे त्ति आयुषः कर्मप्रकृतिविशेषस्य परिणामः स्वभावः शक्तिः धर्म्म इत्यायुः परिणामः, तत्र गतिर्देवादिका तां नियतां येन स्वभावेनायुर्जीवं प्रापयति स आयुषो गतिपरिणाम: १, तथा येनायुः स्वभावेन प्रतिनियतगतिकर्म्मबन्धो भवति यथा नारकायुः स्वभावेन मनुष्य - तिर्यग्गतिनामकर्म बध्नाति न देव-नरकगतिनामकर्मेति स गतिबन्धनपरिणाम: २, तथा आयुषो या अन्तर्मुहूर्त्तादित्रयस्त्रिंशत्सागरोपमान्ता स्थितिर्भवति स स्थितिपरिणाम: ३, तथा येन पूर्वभवायुःपरिणामेन परभवायुषो नियतां स्थितिं बध्नाति स स्थितिबन्धपरिणामः, यथा तिर्यगायुःपरिणामेन देवायुष उत्कृष्टतोऽप्यष्टादश सागरोपमाणीति ४, तथा येनायु:स्वभावेन जीवस्योर्ध्वदिशिगमनशक्तिलक्षणः परिणामो भवति स ऊर्ध्वगौरवपरिणाम:, इह गौरवशब्दो गमनपर्याय: ५, एवमितरौ द्वाविति ६-७, तथा यत आयुःस्वभावाज्जीवस्य दीर्घं दीर्घगमनतया लोकान्तात् लोकान्तं यावद् गमनशक्तिर्भवति स दीर्घगौरवपरिणामः ८, एवं यस्माद् ह्रस्वं गमनं स ह्रस्वगौरवपरिणाम:, सर्वत्र प्राकृतत्वादनुस्वार इति, अन्यथाप्यूह्यमेतदिति ९ । [सू० ६८७] णवणवमिता णं भिक्खुपडिमा एगासीतीते रातिंदिएहिं चउहिं य पंचुत्तरेहिं भिक्खासतेहिं अधासुत्ता जाव आहिता व भवति । [टी०] अनन्तरमायुःपरिणाम उक्तः, तत्रैव चायुः परिणामविशेषे सति तप:शक्तिर्भवतीति तपोविशेषाभिधानायाह-- नवनवमित्यादि कण्ठ्यम्, नवरं नव नवमानि दिनानि यस्यां सा नवनवमिका नव नवमानि च भवन्ति नवसु नवकेष्विति तत्परिमाणेयमिति, नव Page #256 -------------------------------------------------------------------------- ________________ नवममध्ययनं नवस्थानकम् । ६५७ च नवकान्येकाशीतिरिति कृत्वा एकाशीत्या रात्रिन्दिवैः अहोरात्रैर्भवति, तथा प्रथमनवके प्रतिदिनमेका दत्ति: पानकस्य भोजनस्य चेत्येवमेकोत्तरया वृद्ध्या नवमे नवके नव दत्तय:, ततश्च सर्वसङ्कलनया चतुर्भिश्च पञ्चोत्तरैर्भिक्षाशतैर्यथासूत्रं यथाकल्पं यथामार्गं यथातत्त्वं सम्यक्कायेन स्पृष्टा पालिता शोभिता तीरिता कीर्त्तिता आराधिता चापि भवतीति । [सू० ६८८] णवविधे पायच्छित्ते पन्नत्ते, तंजहा - आलोयणारिहे जाव मूलारिहे, अणवट्टप्पारि । [टी०] इयं च जन्मान्तरकृतपापकर्म्मप्रायश्चित्तमिति प्रायश्चित्तनिरूपणसूत्रम्, तच्च गतार्थमिति । [सू० ६८९] जंबुमंदरदाहिणेणं भरहे दीहवेतड्ढे नव कूडा पन्नत्ता, तंजहासिद्धे भरहे खंडग, माणी वेयड्ड पुण्ण तिमिसगुहा । भरहे वेसमणेया ९, भरहे कूडाण णामाई ॥ १३५ ॥ जंबुमंदरदाहिणेणं निसभे वासहरपव्वते णव कूडा पन्नत्ता, तंजहासिद्धे सिहे हरिवस्स, विदेहे हरि धिती य सीतोदा । अवरविदेहे रुतगे ९, निसभे कूडाण णामाई ॥ १३६ ॥ जंबुद्दीवे दीवे मंदरपव्वते णंदणवणे णव कूडा पन्नत्ता, तंजहाणंदणे मंदरे चेव, निसहे हेमवते रयय रुयए य । सागरचित्ते वइरे, बलकूडे ९ चेव बोधव्वे ॥ १३७ ॥ जंबुद्दीवे दीवे मालवंते वक्खारपव्वते णव कूडा पन्नत्ता, तंजहासिद्धे य मालवंते, उत्तरकुर कच्छ सागरे यते । सीता त पुण्णणामे, हरिस्सकूडे य ९ बोद्धव्वे ॥ १३८ ॥ जंबुद्दीवे दीवे कच्छे दीहवेयड्डे नव कूडा पन्नत्ता, तंजहासिद्धे कच्छे खंडग, माणी वेयड्ड पुन्न तिमिसगुहा । कच्छे वेसमणे या ९, कच्छे कूडाण णामाई ॥ १३९ ॥ जंबुद्दीवे दीवे सुकच्छे दीहवेयड्ढे णव कूडा पन्नत्ता, तंजा Page #257 -------------------------------------------------------------------------- ________________ ६५८ सिद्ध सुकच्छे खंडग, माणी वेयड्ढ पुन्न तिमिसगुहा । सुकच्छे वेसमणे ता ९, सुकच्छे कूडाण णामाई ॥१४०॥ एवं जाव पोक्खलावतिम्मि दीहवेयड्ढे, एवं वच्छे दीहवेयड्ढे एवं जाव मंगलावतिम्मि दीहवेयड्ढे । जंबुद्दीवे दीवे विजुप्पभे वक्खारपव्वते नव कूडा पन्नत्ता, तंजहासिद्धे य विजुणामे, देवकुरा पम्ह कणग सोवत्थी । सीतोदा य सयजले, हरिकूडे ९ चेव बोद्धव्वे ॥१४१॥ जंबुद्दीवे दीवे पम्हे दीहवेयड्ढे णव कूडा पन्नत्ता, तंजहासिद्धे पम्हे खंडग माणी वेयड एवं चेव ॥१४२॥ जाव सलिलावतिम्मि दीहवेयड्ढे । एवं वप्पे दीहवेयड्ढे, एवं जाव गंधिलावतिम्मि दीहवेयड्ढे नव कूडा पन्नत्ता, तंजहासिद्धे गंधिल खंडग, माणी वेयड्ड पुन्न तिमिसगुहा । गंधिलावति वेसमणे ९, कूडाणं होंति णामाई ॥१४३॥ एवं सव्वेसु दीहवेयड्ढेसु दो कूडा सरिसणामगा, सेसा ते चेव । जंबुमंदरउत्तरेणं नेलवंते वासहरे पव्वते णव कूडा पन्नत्ता, तंजहासिद्धे नेलवंत विदेहे, सीता कित्ती त नारिकता त । अवरविदेहे रम्मगकूडे, उवदंसणे ९ चेव ॥१४४॥ जंबुमंदरउत्तरेणं एरवते दीहवेतड्ढे नव कूडा पन्नत्ता, तंजहासिद्धेरवए खंडग, माणी वेयड्ढ पुण्ण तिमिसगुहा । एरवते वेसमणे ९, एरवते कूडणामाइं ॥१४५॥ [टी०] प्रायश्चित्तं च भरतादिक्षेत्रेष्वेवेति तद्गतवस्तुविशेषप्रतिपादनाय जंबूदीवेत्यादि एरवए कूडनामाई इत्येतदन्तं सूत्रप्रपञ्चमाह, सुगमश्चायम्, नवरं भरतग्रहणं विजयादिव्यवच्छेदार्थम्, दीर्घग्रहणं वर्तुलवैताढ्यव्यवच्छेदार्थमिति । सिद्ध गाहा, तत्र सिद्धायतनयुक्तं सिद्धकूटं सक्रोशयोजनषट्कोच्छयमेतावदेव मूले विस्तीर्णम् एतदोपरिविस्तारं क्रोशायामेनार्धक्रोशविष्कम्भेण देशोनक्रोशोच्चेनापरदिग्द्वारवर्ज Page #258 -------------------------------------------------------------------------- ________________ नवममध्ययनं नवस्थानकम् । पञ्चधनुःशतोच्छ्रयतदर्द्धविष्कम्भद्वारत्रयोपेतेन जिनप्रतिमाष्टोत्तरशतान्वितेन सिद्धायतनेन विभूषितोपरितनभागमिति, तच्च वैताढ्ये पूर्वस्यां दिशि, शेषाणि तु क्रमेण परतस्तस्मादेवेति, भरतदेवप्रासादावतंसकोपलक्षितं भरतकूटम्, खंडग त्ति खण्डप्रपात नाम वैताढ्यगुहा यया चक्रवर्त्ती अनार्यक्षेत्रात् स्वक्षेत्रमागच्छति तदधिष्ठायकदेवसम्बन्धित्वात् खण्डप्रपातकूटमुच्यते, माणीति माणिभद्राभिधानदेवावासत्वान्माणिभद्रकूटम्, वेयड्ड त्ति वैताढ्यगिरिनाथदेवनिवासाद् वैताढ्यकूटमिति, पुन्न त्ति पूर्णभद्राभिधानदेवनिवासात् पूर्णभद्रकूटम्, तिमिसगुहा नाम गुहा यया स्वक्षेत्राच्चक्रवर्त्ती चिलातक्षेत्रे याति तदधिष्ठायकदेवावासात् तिमिसगुहाकूटमिति, भरहे त्ति तथैव, वैश्रमणलोकपालावासत्वाद्वैश्रमणकूटमिति । सिद्धे गाहा, सिद्धेत्ति सिद्धायतनकूटम्, तथा निषधपर्वताधिष्ठातृदेवनिवासोपेतं निषधकूटम्, हरिवर्षस्य क्षेत्रविशेषस्याधिष्ठातृदेवेन स्वीकृतं हरिवर्षकूटम्, एवं विदेहकूटमपि, ह्रीदेवीनिवासो ह्रीकूटम्, एवं धृतिकूटम्, शीतोदा नदी, तद्देवीनिवासः शीतोदाकूटम्, अपरविदेहकूटं विदेहकूटवदिति, रुचकश्चक्रवालपर्वतः तदधिष्ठातृदेवनिवासो रुचककूटमिति । नंदणे त्ति नन्दनवनं मेरोः प्रथममेखलायाम्, तत्र नव कूटानि, नंदण गाहा, तत्र नन्दनवने पूर्वादिदिक्षु चत्वारि सिद्धायतनानि, विदिक्षु चतुश्चतुः पुष्करिणीपरिवृताश्चत्वारः प्रासादावतंसकाः, तत्र पूर्वस्मात् सिद्धायतनादुत्तरत उत्तरपूर्वस्थप्रासादाद्दक्षिणतो नन्दनकूटम्, तत्र देवी मेघङ्करा १, तथा पूर्वसिद्धायतनादेव दक्षिणतो दक्षिणपूर्वप्रासादादुत्तरतो मन्दरकूटम्, तत्र मेघवती देवी, अनेन क्रमेण शेषाण्यपि यावदष्टमम्, देव्यस्तु निषधकूटे सुमेघा, हैमवतकूटे मेघमालिनी, रजतकूटे सुवच्छा, रुचककूटे वच्छमित्रा, सागरचित्रकूटे वैरसेना, वैरकूटे बलाहकेति, बलकूटं तु मेरोरुत्तरपूर्वस्यां नन्दनवने तत्र बलो देव इति । ६५९ मालवंते इत्यादि, सिद्धे गाहा, माल्यवान् पूर्वोत्तरो गजदन्तपर्वतः, तत्र सिद्धायतनकूटं मेरोरुत्तरपूर्वतः एवं शेषाण्यपि, नवरं सिद्धकूटे भोगा देवी, रजतकूटे भोगमालिनी देवी, शेषेषु स्वसमाननामानो देवाः, हरिसहकूटं तु नीलवत्पर्वतस्य Page #259 -------------------------------------------------------------------------- ________________ ६६० नीलवत्कूटाद् दक्षिणतः सहस्रप्रमाणं विद्युत्प्रभवर्त्ति, हरिकूटं नन्दनवनवर्त्ति बलकूटं च, शेषाणि तु प्रायः पञ्चयोजनशतिकानीति, एवं कच्छादिविजयवैताढ्यकूटान्यपि व्याख्यातानुसारेण ज्ञेयानि, नवरम् एवं जाव पुक्खलावइम्मीत्यादौ यावत्करणान्महाकच्छ-कच्छावती-आवर्त्त - नङ्गलावर्त्त - पुष्कलेषु सुकच्छवद् वैताढ्येषु सिद्धकूटादीनि नव नव कूटानि वाच्यानि, नवरं द्वितीयाष्टमस्थानेऽधिकृतविजयनाम वाच्यमिति । एवं वच्छे त्ति शीताया दक्षिणे समुद्रासन्ने, एवं जाव मंगलावइम्मीत्यत्र यावत्करणात् सुवच्छ-महावच्छ- वच्छावती - रम्य - रम्यक - रमणीयेषु प्रागिव कूटनवकं दृश्यमिति । जंबु इत्यादि विद्युत्प्रभो देवकुरुपश्चिमगजदन्तकः, तत्र नव कूटानि पूर्ववत्, नवरं दिक्कुमार्यौ वारिसेना-बलाहकाभिधाने क्रमेण कनककूट-स्वस्तिककूटयोरिति । पम्हे त्ति शीतोदाया दक्षिणेन विद्युत्प्रभाभिधानगजदन्तकप्रत्यासन्नविजये, जाव सलिलावइम्मीत्यत्र यावत्करणात् सुपक्ष्म-महापक्ष्म-पक्ष्मावती-शङ्ख-नलिन-कुमुदेषु प्रागिव नव नव कूटानि वाच्यानि । एवमित्युक्ताभिलापेन वप्पे ति शीतोदाया उत्तरेण समुद्रप्रत्यासन्ने विजये, जाव गंधिलावइम्मीत्यत्र यावत्करणात् सुवप्र-महावप्रवप्रावती-वल्गु-सुवल्गु-गन्धिलेषु नव नव कूटानि प्रागिव दृश्यानीति । पुनः पम्हादिविजयेषु षोडशस्वतिदिशति एवं सव्वेसु इत्यादिना कूटानां सामान्यं लक्षणमुक्तमिति, विशेषार्थिना तु जम्बूद्वीपप्रज्ञप्तिर्निरूपणीया, एवं नीलवत्कूटानि ऐरवतकूटानि च व्याख्येयानीति । [सू० ६९०] पासे णं अरहा पुरिसादाणिए वज्जरिसभणारातसंघयणे समचउरंससंठाणसंठिते नव रयणीओ उड्डउच्चत्तेणं होत्था । [सू० ६९९ ] समणस्स भगवतो महावीरस्स तित्थम्मि णवहिं जीवेहिं तित्थगरणामगोत्ते कम्मे णिवत्तिते, तंजहा - सेणितेणं, सुपासेणं, उदातिणा, पोट्टिलेणं अणगारेणं, दढाउणा, संखेणं, सततेणं, सुलसाते सावियाते, रेवती । [टी०] इयं कूटवक्तव्यता तीर्थकरैरुक्तेति प्रकृतावतारिणीं जिनवक्तव्यतामाह– पासेत्यादि सूत्रत्रयं? [द्वयं] कण्ठ्यम्, नवरं तित्थगरनाम त्ति तीर्थकरत्वनिबन्धनं नाम Page #260 -------------------------------------------------------------------------- ________________ ६६१ नवममध्ययनं नवस्थानकम् । तीर्थकरनाम तच्च गोत्रं च तीर्थकरनामगोत्रमिति । श्रेणिको राजा प्रसिद्धस्तेन १ । एवं सुपार्थो भगवतो वर्द्धमानस्य पितृव्य: २ । उदायी कोणिकपुत्रः, य: कोणिकेऽपक्रान्ते पाटलिपुत्रं नगरं न्यवीविशत् यश्च स्वभवनस्य विविक्तदेशे पर्वदिनेष्वाहूय संविग्नगीतार्थसद्गुरुं तत्पर्युपासनापरायणः परमसंवेगरस-प्रकर्षमनुसरन् सामायिकपौषधादिकं सुश्रमणोपासकप्रायोग्यमनुष्ठानमनुतिष्ठते, एकदा च निशि देशनिर्धाटितरिपुराजपुत्रेण द्वादशवार्षिकद्रव्यसाधुना कृतपौषधोपवास: सुखप्रसुप्त: कङ्काय:कर्तिकाकण्ठकर्त्तनेन विनाशित इति ३ । पोटिलोऽनगारोऽनुत्तरोपपातिकाङ्गेऽधीतो हस्तिनागपुरवासी भद्राभिधानसार्थवाहीतनयो द्वात्रिंशद्भार्यात्यागी महावीरशिष्यो मासिक्या संलेखनया सर्वार्थसिद्धोपपन्न: महाविदेहात् सिद्धिगामी, अयं त्विह भरतक्षेत्रात् सिद्धिगामी गदित इति ततोऽयमन्य: सम्भाव्यत इति ४, दृढायुप्रतीत: ५ । शङ्ख-शतको श्रावस्तीश्रावको, तयोरीदृशी वक्तव्यता- किल श्रावस्त्यां कोष्ठके चैत्ये भगवानेकदा विहरति स्म, शङ्खादिश्रमणोपासकाश्चागतं भगवन्तं विज्ञाय वन्दितुमागताः, ततो निवर्तमानांस्तान् शङ्ख: खल्वाख्याति स्म- यथा भो देवानांप्रियाः! विपुलमशनाद्युपस्कारयत ततस्तत् परिभुञ्जाना: पाक्षिकं पर्व कुर्वाणा विहरिष्यामः, ततस्ते तत् प्रतिपेदिरे, पुन: शङ्खोऽचिन्तयत्- न श्रेयो मेऽशनादि भुञ्जानस्य पाक्षिकपौषधं प्रतिजाग्रतो विहर्तुम्, श्रेयस्तु मे पौषधशालायां पौषधिकस्य मुक्ताभरण-शस्त्रादेः शान्तवेषस्य विहर्तुम्, अथ स्वगृहे गत्वा उत्पलाभिधानस्वभार्याया वार्ता निवेद्य पौषधशालायां पौषधमकार्षीत्, इतश्च तेऽशनाद्युपस्कारयांचक्रुः एकत्र च समवेयुः, शङ्ख प्रतीक्षमाणास्तस्थुः, ततोऽनागच्छति शो पुष्कली नाम श्रमणोपासक: शतक इत्यपरनामा शङ्खस्याकारणार्थं तद्गृहं जगाम, आगतस्य चोत्पला श्रावकोचितप्रतिपत्तिं चकार, तत: पौषधशालायां स विवेश, ईर्यापथिकीं प्रतिचक्राम, शङ्खमभ्युवाच यदुतोपस्कृतं तदशनादि तद् गच्छाम: श्रावकसमवायम्, भुज्महे तदशनादि, प्रतिजागृम: पाक्षिकपौषधम्, तत उवाच शङ्ख:- अहं हि पौषधिको नागमिष्यामीति, तत: पुष्कली गत्वा श्रावकाणां तत् निविवेद, ते तु तदनु Page #261 -------------------------------------------------------------------------- ________________ ६६२ बुभुजिरे, शङ्खस्तु प्रात: पौषधमपारयित्वैव पारगतपादपद्मप्रणिपतनार्थं प्रतस्थौ, प्रणिपत्य च तमुचितदेशे उपविवेश, इतरेऽपि भगवन्तं वन्दित्वा धर्मं च श्रुत्वा शङ्खान्तिकं गत्वा एवमूचुः- सुष्ठ त्वं देवानांप्रिय ! अस्मान् हीलयसि, ततस्तान् भगवान् जगादमा भो यूयं शङ्ख हीलयत, शङ्खो ह्यहीलनीयः, यतोऽयं प्रियधर्मा दृढधा च, तथा सुदृष्टिजागरिकां जागरित इत्यादि ६-७ । सुलसा राजगृहे प्रसेनजितो राज्ञ: सम्बन्धिनो नागाभिधानस्य रथिकस्य भार्या बभूव, यस्याश्चरितमेवमनुश्रूयते– किल तया पुत्रार्थं स्वपतिरिन्द्रादीन् नमस्यन्नभिहित: अन्यां परिणयेति, स च यस्तव पुत्रस्तेन मे प्रयोजनमिति भणित्वा न तत् प्रतिपन्नवान्, इतश्च तस्या: शक्रालये सम्यक्त्वप्रशंसां श्रुत्वा तत्परीक्षार्थं कोऽपि देव: साधुरूपेणागतस्तं च वन्दित्वा बभाण किमागमनप्रयोजनम्?, देवोऽवादीत्- तव गृहे लक्षपाकं तैलमस्ति तच्च मे वैद्येनोपदिष्टमिति तद्दीयताम्, ददामीत्यतिगता गृहमध्ये अवतारयन्त्याश्च भिन्नं देवेन तद्भाजनम्, एवं द्वितीयं तृतीयं चेत्येवमखेदां दृष्ट्वा तुष्टो देवो द्वात्रिंशतं च गुटिका ददौ, ‘एकैकां खादेः' द्वात्रिंशत् ते सुता भविष्यन्ति, प्रयोजनान्तरे चाहं स्मर्त्तव्यः इत्यभिधाय गतोऽसौ, चिन्तितं चानया सर्वाभिरप्येक एव मे पुत्रो भूयादिति सर्वाः पीता:, आहूता द्वात्रिंशत् पुत्राः, वर्द्धते स्म जठरमरतिश्च, तत: कायोत्सर्गमकरोत्, आगतो देवो निवेदितो व्यतिकरो विहितो महोपकारो जातो लक्षणवत्पुत्रगण इत्यादि ८ । तथा रेवती भगवत औषधदात्री, कथम् ?, किलैकदा भगवतो मेण्ढिकग्रामनगरे विहरत: पित्तज्वरो दाहबहुलो बभूव इत्यादि ९। [सू० ६९२] एस णं अजो ! कण्हे वासुदेवे, रामे बलदेवे, उदये पेढालपुत्ते, पुट्टिले, सतते गाहावती, दारुते नितंठे, सच्चती नितंठीपुत्ते, सावितबुद्धे अंबडे परिव्वायते, अज्जा वि णं सुपासा पासावच्चिजा आगमेस्साते उस्सप्पिणीते चाउज्जामं धम्मं पन्नवतित्ता सिज्झिहिंति जाव अंतं काहिति । [टी०] अनन्तरं ये तीर्थकरा भविष्यन्ति ते प्रकृताध्ययनानुपातेनोक्ता अधुना तु ये Page #262 -------------------------------------------------------------------------- ________________ नवममध्ययनं नवस्थानकम् ।। ६६३ जीवा: सेत्स्यन्ति तथैव तानाह– एस णमित्यादि, तत्र एष इति वासुदेवानां मध्ये पश्चिमोऽनन्तरकालातिक्रान्त इति अज्जो त्ति आमन्त्रणवचनं भगवान् महावीरः किल साधूनामन्त्रयति- हे आर्याः ! उदये पेढालपुत्ते त्ति सूत्रकृतद्वितीयश्रुतस्कन्धे नालन्दीयाध्ययनाभिहितः, तद्यथा उदकनामाऽनगार: पेढालपुत्र: पार्श्वजिनशिष्यः, योऽसौ राजगृहनगरबाहिरिकाया नालन्दाभिधानाया: उत्तरपूर्वस्यां दिशि हस्तिद्वीपवनखण्डे व्यवस्थित:, तदेकदेशस्थं गौतमं संशयविशेषमापृच्छय विच्छिन्नसंशय: सन् चातुर्यामधर्मं विहाय पञ्चयामं धर्मं प्रतिपेदे इति । पोटिलशतकावनन्तरोक्तावेव । दारुकोऽनगारो वासुदेवस्य पुत्रो भगवतोऽरिष्टनेमिनाथस्य शिष्योऽनुत्तरोपपातिकोक्तचरित इति । तथा सत्यकिर्निर्ग्रन्थीपुत्रो यस्येदृशी वक्तव्यता- किल चेटकमहाराजदुहिता सुज्येष्ठाभिधाना वैराग्येण प्रव्रजिता उपाश्रयस्यान्तरातापयति स्म, इतश्च पेढालो नाम परिव्राजको विद्यासिद्धो विद्या दातुकामो योग्यपुरुषं गवेषयति यदि ब्रह्मचारिण्या: पुत्रो भवेत्तत: सुन्यस्ता विद्या भवेयुरिति भावयंस्तां चातापयन्तीं दृष्ट्वा धूमिकाव्यामोहं कृत्वा बीजं निक्षिप्तवान्, गर्भ: सम्भूतो दारको जातः, निर्ग्रन्थिकासमेतो भगवत्समवसरणं गतः, तत्र च कालसन्दीपनामा विद्याधरो वन्दित्वा भगवन्तं पप्रच्छ कुतो मे भयम्?, स्वामी व्याकार्षीत्- एतस्मात् सत्यकेः, ततोऽसौ तत्समीपमुपागत्यावज्ञया तं प्रति बभाण- अरे ! मां त्वं मारयिष्यसि ?, इति भणित्वा पादयो: पातितः, ततोऽन्यदा साध्वीभ्य: सकाशादपहृत्य पितृविद्याधरेण विद्या: ग्राहितः, अथ रोहिण्या विद्यया पञ्चसु पूर्वभवेषु मारितः, षष्ठभवे षण्मासावशेषायुषा तेनासौ नेष्टा, इह तु सप्तमे भवे सिद्धा, तल्ललाटे विवरं विधाय तच्छरीरमतिगता, ललाटच्छिद्रं च देवतया तृतीयमक्षि कृतम्, तेन च स्वपिता स च कालसन्दीपो मारित: विद्याधरचक्रवर्तित्वं च प्रापि, ततोऽसौ सर्वांस्तीर्थकरान् वन्दित्वा नाट्यं चोपदाभिरमते स्मेति । ___ तथा श्राविकां श्रमणोपासिकां सुलसाभिधानां बुद्धः सर्वज्ञधर्मे भावितेयमित्यवगतवान् श्राविका वा बुद्धा ज्ञाता येन स श्राविकाबुद्धः अंमडो अंमडाभिधान: परिव्राजकविद्याधरश्रमणोपासकः, अयं चार्थ: कथानकादवसेयः, तच्चेदम्- चम्पाया Page #263 -------------------------------------------------------------------------- ________________ ६६४ नगर्या: अम्बडो विद्याधरश्रावको महावीरसमीपे धर्ममुपश्रुत्य राजगृहं प्रस्थितः, स च गच्छन् भगवता बहुसत्त्वोपकाराय भणित:, यथा- सुलसाश्राविकाया: कुशलवार्ता कथये:, स च चिन्तयामास पुण्यवतीयं यस्यास्त्रिलोकनाथ: स्वकीयकुशलवार्ता प्रेषयति, कः पुनस्तस्या गुण इति तावत् सम्यक्त्वं परीक्षे, तत: परिव्राजकवेषधारिणा गत्वा तेन भणिताऽसौ- आयुष्मति ! धर्मो भवत्या भविष्यतीत्यस्मभ्यं भक्त्या भोजनं देहि, तया भणितम्- येभ्यो दत्ते भवत्यसौ ते विदिता एव, ततोऽसावाकाशविरचिततामरसासनो जनं विस्मापयते स्म, ततस्तं जनो भोजनेन निमन्त्रयामास, स तु नैच्छत्, लोकस्तं पप्रच्छ– कस्य भगवन् ! भोजनेन भागधेयवत्तां मासक्षपणपर्यन्ते संवर्द्धयिष्यति ?, स प्रतिभणति स्म- सुलसायाः, ततो लोकस्तस्या वर्द्धनकं न्यवेदयत्, यथा तव गेहे भिक्षुरयं बुभुक्षुः, तयाऽभ्यधायि– किं पाषण्डिभिरस्माकमिति, लोकस्तस्मै न्यवेदयत्, तेनापि व्यज्ञायि परमसम्यग्दृष्टिरेषा या महातिशयदर्शनेऽपि न दृष्टिव्यामोहमगमदिति, ततो लोकेन सहासौ तद्गहे नैषधिकी कुर्वन् पञ्चनमस्कारमुच्चारयन् प्रविवेश, साऽप्यभ्युत्थानादिकां प्रतिपत्तिमकरोत्, तेनाप्यसावुपबृंहितेति, यश्चौपपातिकोपाङ्गे महाविदेहे सेत्स्यतीत्यभिधीयते सोऽन्य इति सम्भाव्यते, तथा आर्यापि आर्यिकाऽपि सुपार्थाभिधाना पार्थापत्यीया पार्श्वनाथशिष्यशिष्या। चत्वारो यामा महाव्रतानि यत्र स चतुर्यामस्तं प्रज्ञाप्य सेत्स्यन्ति ५, एतेषु च मध्यमतीर्थकरत्वेनोत्पत्स्यन्ते केचित् केचित्तु केवलित्वेन, भवसिद्धिओ उ भयवं सिज्झिस्सइ कण्हतित्थम्मी ]ति वचनादिति भाव:, शेषं स्पष्टम्। [सू० ६९३] एस णं अजो ! सेणिए राया भिंभिसारे कालमासे कालं किच्चा इमीसे रतणप्पभाते पुढवीते सीमंतते नरए चउरासीतिवाससहस्सट्टितीयंसि निरयंसि नेरइएसु णेरइयत्ताए उववजिहिति, से णं तत्थ णेरइए भविस्सति काले कालोभासे जाव परमकिण्हे वन्नेणं, से णं तत्थ वेदणं वेदिहिती उज्जलं जाव दुरहियासं । से णं ततो नरतातो उव्वदे॒त्ता आगमेसाते उस्सप्पिणीते इहेव जंबुद्दीवे दीवे भरहे वासे वेयद्दगिरिपायमूले पुंडेसु जणवतेसु सतदुवारे णगरे संमुइस्स Page #264 -------------------------------------------------------------------------- ________________ नवममध्ययनं नवस्थानकम् । ६६५ कुलकरस्स भद्दाए भारियाए कुच्छिसि पुमत्ताए पच्चायाहिती । तए णं सा भद्दा भारिया नवण्हं मासाणं बहुपडिपुण्णाणं अद्धट्ठमाण य रातिंदियाणं वीतिकंताणं सुकुमालपाणिपातं अहीणपडिपुन्नपंचेंदियसरीरं लक्खणवंजण जाव सुरूवं दारगं पयाहिती । जं रयणिं च णं से दारगे पयाहिती तं रयणिं च णं सतदुवारे णगरे सम्भंतरबाहिरए भारग्गसो य कुंभग्गसो त पउमवासे त रयणवासे त वासिहिति । तए णं तस्स दारगस्स अम्मापितरो एक्कारसमे दिवसे वीइक्कंते जाव बारसाहे दिवसे अयमेतारूवं गोण्णं गुणनिप्फण्णं नामधिजं काहिंति । जम्हा णं अम्हमिणंसि दारगंसि जातंसि समाणंसि सतदुवारे नगरे सभिंतरबाहिरए भारग्गसो य कुंभग्गसो य पउमवासे य रतणवासे य वासे वुढे तं होउ णमम्हमिमस्स दारगस्स नामधिजं महापउमे महापउमे, तए णं तस्स दारगस्स अम्मापियरो नामधिजं काहिंति-महापउमाती। तए णं तं महापउमं दारगं अम्मापितरो सातिरेगअट्ठवासजातगं जाणित्ता महता महता रायाभिसेएणं अभिसिंचिहिति । से णं तत्थ राया भविस्सति महता हिमवंत-महंतमलयमंदर० रायवन्नतो जाव रजं पसासेमाणे विहरिस्सति। तते णं तस्स महापउमस्स रन्नो अन्नदा कताइ दो देवा महिड्डिया जाव महेसक्खा सेणाकम्मं काहिंति, तंजहा-पुन्नभद्दे त माणिभद्दे त । तते णं सतदुवारे नगरे बहवे रातीसर-तलवर-माडंबित-कोडंबित-इब्भ-सेट्ठिसेणावति-सत्थवाहप्पभितयो अन्नमन्नं सदावेहिंति एवं वतिस्संति-जम्हा णं देवाणुप्पिया ! अम्हं महापउमस्स रन्नो दो देवा महिड्डिया जाव महेसक्खा सेणाकम्मं करेंति, तंजहा-पुन्नभद्दे त माणिभद्दे य, तं होउ णमम्हं देवाणुप्पिया! महापउमस्स रण्णो दोच्चे वि नामधेजे देवसेणे देवसेणे । तते णं तस्स महापउमस्स रण्णो दोच्चे वि नामधेजे भविस्सइ देवसेणाती देवसेणाती । तते णं तस्स देवसेणस्स रन्नो अन्नत्ता कताती सेतसंखतलविमलसन्निकासे चउदंते हत्थिरतणे समुप्पजिहिति । तए णं से देवसेणे राया तं सेतं संखतलविमलसन्निकासं चउदंतं हत्थिरतणं दुरूढे समाणे सतदुवारं नगरं Page #265 -------------------------------------------------------------------------- ________________ ६६६ मज्झमझेणं अभिक्खणं अभिक्खणं अतिजातिहि य णिजाइहि य । तते णं सतदवारे णगरे बहवे रातीसरतलवर जाव अन्नमन्नं सद्दावेहिंति २, एवं वतिस्संति-जम्हा णं देवाणुप्पिया ! अम्हं देवसेणस्स रण्णो सेते संखतलविमलसन्निकासे चउदंते हत्थिरतणे समुप्पन्ने तं होउ णं अम्हं देवाणुप्पिया ! देवसेणस्स रन्नो तच्चे वि नामधेजे विमलवाहणे विमलवाहणे, तते णं तस्स देवसेणस्स रन्नो तच्चे वि णामधेजे भविस्सति विमलवाहणाती विमलवाहणाती । तते णं से विमलवाहणे राया तीसं वासाई अगारवासमझे वसित्ता अम्मापितीहिं देवत्तं गतेहिं गुरुमहत्तरतेहिं अब्भणुन्नाते समाणे उदुम्मि सरते संबुद्धे अणुत्तरे मोक्खमग्गे पुणरवि लोगंतितेहिं जीयकप्पितेहिं देवेहिं ताहिं इट्ठाहिं कंताहिं पियाहिं मणुनाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं वग्गूहिं अभिणंदिजमाणे य अभित्थुव्वमाणे य बहिया सुभूमिभागे उजाणे एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पव्वयाहिति, तस्स णं भगवंतस्स साइरेगाई दुवालस वासाइं निच्चं वोसट्टकाए चियत्तदेहे जे केई उवसग्गा उप्पजति तंजहा-दिव्वा वा माणुसा वा तिरिक्खजोणिया वा ते उप्पन्ने सम्मं सहिस्सति खमिस्सति तितिक्खिस्सति अहियासिस्सइ । तए णं ते भगवं इरियासमिए भासासमिए जाव गुत्तबंभयारी अममे अकिंचणे छिन्नगंथे निरुवलेवे कंसपाती इव मुक्कतोए जहा भावणाए जाव सुहुययासणे विव तेयसा जलंते । कंसे संखे जीवे गगणे वाते य सारए सलिले । पुक्खरपत्ते कुम्मे विहगे खग्गे य भारुंडे ॥१४६॥ कुंजर वसभे सीहे नगराया चेव सागरमखोभे । चंदे सूरे कणगे वसुंधरा चेव सुहुयहुते ॥१४७॥ नत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे भवति । से य पडिबंधे चउव्विहे पन्नत्ते, तंजहा-अंडए ति वा पोयए ति वा उग्गहिए ति वा पग्गहिए Page #266 -------------------------------------------------------------------------- ________________ नवममध्ययनं नवस्थानकम् । ६६७ ति वा, जं णं जं णं दिसं इच्छति तं णं तं णं दिसं अपडिबद्धे सुचिभूए लहुभूते अणुप्पगंथे संजमेणं अप्पाणं भावेमाणे विहरिस्सइ, तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं अणुत्तरेणं दंसणेणं अणुत्तरेणं चरित्तेणं एवं आलएणं विहारेणं अजवेणं] मद्दवेणं] लाघवेणं] खंती[ए] मुत्ती[ए] गुत्ती[ए] सच्चसंजम-तवगुण-सुचरिय-सोचवियफलपरिनिव्वाणमग्गेणं अप्पाणं भावेमाणस्स झाणंतरियाए वट्टमाणस्स अणंते अणुत्तरे निव्वाघाए जाव केवलवरणाणदंसणे समुप्पज्जिहिति, तए णं से भगवं अरहा जिणे भविस्सति, केवली सव्वन्नू सव्वदरिसी सदेवमणुयासुरस्स लोगस्स परियागं जाणइ पासइ, सव्वलोए सव्वजीवाणं आगतिं गतिं ठितिं चयणं उववायं तवं मणो माणसियं भुत्तं कडं पडिसेवियं आवीकम्मं रहोकम्मं, अरहा अरहस्सभागी तं तं कालं मणसवयसकाइए जोगे वट्टमाणाणं सव्वलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरिस्सइ । तए णं से भगवं तेणं अणुत्तरेणं केवलवरनाणदंसणेणं सदेवमणुयासुरलोगं अभिसमेच्चा समणाणं निग्गंथाणं पंच महव्वताई सभावणाई छच्च जीवनिकाए धम्म देसेमाणे विहरिस्सति । से जहाणामते अजो ! मते समणाणं निग्गंथाणं एगे आरंभट्ठाणे पण्णत्ते, एवामेव महापउमे वि अरहा समणाणं निग्गंथाणं एगं आरंभट्ठाणं पण्णवेहिति। से जहाणामते अज्जो मते समणाणं निग्गंथाणं दुविधे बंधणे पन्नत्ते, तंजहा-पेजबंधणे त दोसबंधणे त, एवामेव महापउमे वि अरहा समणाणं णिग्गंथाणं दविधं बंधणं पन्नवेहिती, तंजहा-पेज्जबंधणं च दोसबंधणं च । से जहानामते अजो मए समणाणं निग्गंथाणं तओ दंडा पन्नत्ता, तंजहामणोदंडे ३, एवामेव महापउमे वि अरहा समणाणं निग्गंथाणं ततो दंडे पण्णवेहिति, तंजहा-मणोदंडं ३ । से जहाणामते एवमेतेणमभिलावेणं चत्तारि कसाया पन्नत्ता, तंजहाकोहकसाए ४ । पंच कामगुणा पन्नत्ता, तंजहा-सद्दा ५ । छज्जीवनिकाता पन्नत्ता, तंजहा-पुढविकाइया जाव तसकाइया, एवामेव जाव तसकाइया। Page #267 -------------------------------------------------------------------------- ________________ ६६८ से जहाणामते आजो मए समणाणं निग्गंथाणं] सत्त भयट्ठाणा पन्नत्ता, तंजहा-एवामेव महापउमे वि अरहा समणाणं निग्गंथाणं सत्त भयट्ठाणे पन्नवेहिती, एवमट्ठ मयट्ठाणे, णव बंभचेरगुत्तीओ, दसविधे समणधम्मे एवं जाव तेत्तीसमासातणाउ त्ति । से जधानामते अजो ! मते समणाणं निगंथाणं नग्गभावे मुंडभावे अण्हाणते अदंतवणते अच्छत्तए अणुवाहणते भूमिसेजा फलगसेजा कट्ठसेज्जा केसलोए बंभचेरवासे परघरपवेसे लद्धावलद्धवित्तीओ पण्णत्ताओ, एवामेव महापउमे वि अरहा समणाणं निग्गंथाणं णग्गभावं जाव लद्धावलद्धवित्ती पण्णवेहिती । से जहाणामए अजो ! मए समणाणं निग्गंथाणं आधाकम्मिए ति वा उद्देसिते ति वा मीसज्जाए ति वा अज्झोयरए ति वा पूतिए [ति वा] कीते [ति वा] पामिच्चे [ति वा] अच्छेज्जे [ति वा] अणिसटे [ति वा] अभिहडे ति वा कंतारभत्ते ति वा दुब्भिक्खभत्ते ति वा गिलाणभत्ते ति वा वदलिताभत्ते ति वा पाहुणगभत्ते ति वा मूलभोयणे ति वा कंदभोयणे ति वा फलभोयणे ति वा बीयभोयणे ति वा हरियभोयणे ति वा पडिसिद्धे, एवामेव महापउमे वि अरहा समणाणं निग्गंथाणं आधाकम्मितं वा जाव हरितभोयणं वा पडिसेधिस्सति । __ से जहाणामते अजो ! मए समणाणं पंचमहव्वतिते सपडिक्कमणे अचेलते धम्मे पण्णत्ते, एवामेव महापउमे वि अरहा समणाणं णिग्गंथाणं पंचमहव्वतितं जाव अचेलगं धम्मं पण्णवेहिती । से जधाणामते अज्जो ! मए समाणाणं णिग्गंथाणं| पंचाणुव्वतिते सत्तसिक्खावतिते दुवालसविधे सावगधम्मे पण्णत्ते, एवामेव महापउमे वि अरहा पंचाणुव्वतितं जाव सावगधम्मं पण्णवेस्सति । से जधानामए अज ! मए समणाणं निगंथाणं सेजातरपिंडे ति वा रायपिंडे ति वा पडिसिद्धे, एवामेव महापउमे वि अरहा समणाणं निग्गंथाणं Page #268 -------------------------------------------------------------------------- ________________ नवममध्ययनं नवस्थानकम् । सेज्जातरपिंडे ति वा रायपिंडे ति वा पडिसेधिस्सति । से जधाणामते अज्जो ! मम णव गणा एगारस गणधरा, एवामेव महापउमस्स वि अरहतो णव गणा एगारस गणधरा भविस्संति । ६६९ से जहाणामते अज्जो ! अहं तीसं वासाइं अगारवासमज्झे वसित्ता मुंडे भवित्ता जाव पव्वतिते दुवालस संवच्छराई तेरस पक्खा छउमत्थपरियागं पाउणित्ता तेरसहिं पक्खेहिं ऊणगाई तीसं वासाइं केवलिपरियागं पाउणित्ता बायालीसं वासाइं सामण्णपरियागं पाउणित्ता बावत्तरि वासाइं सव्वाउयं पालइत्ता सिज्झिस्सं जाव दुक्खाणमंतं करेस्सं, एवामेव महापउमे वि अरहा तीसं वासाई अगार जाव पव्वहिती, दुवालस संवच्छराई जाव बावत्तरिं वासाइं सव्वाउयं पालइत्ता सिज्झिहिती जाव सव्वदुक्खाणमंतं काहिती जस्सीलसमायारो, अरहा तित्थंकरो महावीरो । तस्सीलसमायारो, होति उ अरहा महापउमो ॥ १४८ ॥ [टी०] अनन्तरसूत्रोक्तस्य श्रेणिकस्य तीर्थकरत्वाभिधानायाह - एस णमित्यादि जस्सीलसमायारो इत्यादिगाथापर्यन्तं सूत्रम्, सुगमं चैतत्, नवरम् एषः अनन्तरोक्त आर्या इति श्रमणामन्त्रणम्, भिंभि त्ति ढक्का, सा सारो यस्य स तथा, किल ते कुमारत्वे प्रदीपनके जयढक्का गेहान्निष्काशिता ततः पित्रा भिंभिसार उक्त इति, सीमन्तके नरकेन्द्रके प्रथमप्रस्तटवर्त्तिनि चतुरशीतिवर्षसहस्रस्थितिषु नारकेषु मध्ये नारकत्वेनोत्पत्स्यते कालः स्वरूपेण, कालावभासः काल एवावभासते पश्यताम्, यावत्करणात् गंभीरलोमहरिसे, गम्भीरो महान् लोमहर्षो भयविकारो यस्य स तथा, भीमो विकरालः, उत्तासणओ उद्वेगजनकः, परमकिण्हे वन्नेणं ति प्रतीतम्, सच तत्र नरके वेदनां वेदयिष्यति, उज्ज्वलां विपक्षस्य लेशेनाप्यकलङ्कितां यावत्करणात् त्रीणि मनोवाक्कायबलानि उपरिमध्यमाधस्तनकायविभागान् वा तुलयति जयतीति त्रितुला, ताम्, क्वचिद्विपुलामिति पाठः, तत्र विपुला शरीरव्यापिनी, ताम्, तथा प्रगाढां प्रकर्षवतीम्, कटुकां कटुकरसोत्पादितां कर्कशां कर्कशस्पर्शसम्पादिताम्, चण्डां वेगवतीं झटित्येव मूर्च्छत्पादिकाम्, वेदना हि द्विविधा - सुखा दुःखा चेति, Page #269 -------------------------------------------------------------------------- ________________ ६७० सुखाव्यवच्छेदार्थं दुःखामित्याह, दुर्गा पर्वतादिदुर्गमिव कथमपि लङ्घयितुमशक्याम्, दिव्यां देव-निर्मिताम्, किं बहुना ? दुरधिसहां सोढुमशक्यामिति । इहैव जम्बूद्वीपे, नासङ्ख्येयतमे, पुमत्ताए त्ति पुंस्तया पच्चायाहिइ त्ति प्रत्याजनिष्यते, बहुपडिपुन्नाणं ति अतिपरिपूर्णानामर्द्धमष्टमं येषु तान्य ष्टमानि तेषु रात्रिन्दिवेषु अहोरात्रेषु व्यतिक्रान्तेषु, इह षष्ठी सप्तम्यर्थे, सुकुमारौ कोमलौ पाणी च पादौ च यस्य स सुकुमारपाणिपादः, तम्, प्रतिपूर्णानि स्वकीयस्वकीयप्रमाणत: पञ्च इन्द्रियाणि करणानि यस्मिंस्तत्तथा, अहीनमङ्गोपाङ्गप्रमाणत: प्रतिपूर्णपञ्चेन्द्रियं यस्य सोऽहीनप्रतिपूर्णपञ्चेन्द्रियशरीरः, तम्, तथा लक्षणं पुरुषलक्षणं शास्त्राभिहितम् अस्थिष्वर्थाः सुखं मांसे [ ] इत्यादि, मानोन्मानादिकं वा, व्यञ्जनं मष-तिलकादि, गुणा: सौभाग्यादयः, [अथवा लक्षण-व्यञ्जनयोर्ये गुणा]स्तैरुपेतो लक्षणव्यञ्जनगुणोपेतः, उववेओ त्ति तु प्राकृतत्वाद्वर्णागमत:, लक्षणव्यञ्जनगुणोपपेतः, तम् । माणुम्माणपमाणे त्ति, जलदोण १ मद्धभारं २ समुहाइं समुस्सिओ व जो नव उ ३ । माणुम्माणपमाणं तिविहं खलु लक्खणं एयं ॥ [ ] ति । ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि सुष्ठ जातानि सर्वाण्यङ्गानि शिर:प्रभृतीनि यस्मिंस्तत् तथाविधं सुन्दरमङ्गं शरीरं यस्य स तथा, तं मानोन्मानप्रमाणप्रतिपूर्णसुजातसर्वाङ्गसुन्दराङ्गम्, तथा शशिवत् सौम्याकारं कान्तं कमनीयं प्रियं प्रेमावहं दर्शनं यस्य स शशिसौम्याकारकान्तप्रियदर्शनः, तम्, अत एव सुरूपमिति दारकं प्रजनिष्यति भद्रेति सम्बन्धः । जं रयणिं च त्ति यस्यां च रजन्यां तं रयणिं च त्ति तस्यां रजन्यां पुनरिति, अर्द्धरात्र एव च तीर्थकरोत्पत्तिरिति रजनीग्रहणम् । से दारए पयाहिइ त्ति स दारकः प्रजनिष्यते उत्पत्स्यत इति, सभिंतरबाहिरए त्ति सहाभ्यन्तरेण बाह्यकेन च नगरभागेन यन्नगरं तत्र, सर्वत्र नगर इत्यर्थः, विंशत्या पलशतैर्भारो भवति अथवा पुरुषोत्क्षेपणीयो भारो भारक इति यः प्रसिद्धः, अग्रं परिमाणम्, ततो भार एवाग्रं भाराग्रम्, तेन भाराग्रेण भाराग्रशो भारपरिमाणत:, एवं कुम्भाग्रशः, नवरं कुम्भ आढकषष्ट्यादिप्रमाणः, पद्मवर्षश्च Page #270 -------------------------------------------------------------------------- ________________ नवममध्ययनं नवस्थानकम् । ६७१ रत्नवर्षश्च वर्षिष्यति भविष्यतीत्यर्थः, जाव त्ति करणात् निव्वत्ते असुइजायकम्मकरणे संपत्ते त्ति दृश्यम्, तत्र निर्वृत्ते निर्वर्तित इत्यर्थः, पाठान्तरत: निवत्ते वा निवृत्ते उपरते अशुचीनाम् अमेध्यानां जातकर्मणां प्रसवव्यापाराणां करणे विधाने, सम्प्राप्ते आगते बारसाहदिवसे त्ति द्वादशानां पूरणो द्वादश: स एवाख्या यस्य स द्वादशाख्य: स चासौ दिवसश्चेति विग्रह:, अयं ति इदं वक्ष्यमाणतया प्रत्यक्षासन्नम् एयारूवं ति एतदेव रूपं स्वभावो यस्य न मात्रयापि प्रकारान्तरापन्नमित्यर्थः, किं तत् ? नामधेयं प्रशस्तं नाम, किंविधम् ? गौणं न पारिभाषिकम्, गौणमित्यमुख्यमपि स्यादित्याहगुणनिप्फन्नति गुणानाश्रित्य पद्मवर्षादीन् निष्पन्नं गुणनिष्पन्नमित्यक्षरघटना, महापउमे महापउमे त्ति तत्पित्रो: पर्यालोचनाभिलापानुकरणम् । तए णं ति पर्यालोचनानन्तरं महापउम इति महापद्म इत्येवंरूपम् ।। साइरेगट्ठवासजायगं ति सातिरेकाणि साधिकान्यष्टौ वर्षाणि जातानि यस्य स तथा, तम् । रायवन्नओ त्ति राजवर्णको वक्तव्य:, स चायम्- महया हिमवंतमहंतमलय-मंदर-महिंदसारे इत्यादि सर्व औपपातिकादिग्रन्थादवसेयः। दो देवा महिड्डिया इत्यत्र यावत्करणात् महज्जुइया महाणुभागा महायसा महाबलेति दृश्यम्, सेणाकम्मं ति सेनायाः सैन्यस्य कर्म व्यापार: शत्रुसाधनलक्षण: सेनाविषयं वा कर्म इतिकर्तव्यतालक्षणं सेनाकर्म, पूर्णभद्रश्च दक्षिणयक्षनिकायेन्द्रः माणिभद्रश्च उत्तरयक्षनिकायेन्द्रः । बहवे राईसरेत्यादि, राजा महामाण्डलिकः, ईश्वरो युवराजो माण्डलिकोऽमात्यो वा, अन्ये तु व्याचक्षते- अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वर इति, तलवरः परितुष्टनरपतिप्रदत्तपट्टबन्धभूषितः, माडम्बिकः छिन्नमडम्बाधिप:, कौटुम्बिकः कतिपयकुटुम्बप्रभुः, इभ्य: अर्थवान्, स च किल यदीयपुञ्जीकृतद्रव्यराश्यन्तरितो हस्त्यपि नोपलभ्यत इत्येतावताऽर्थेनेति भावः, श्रेष्ठी श्रीदेवताध्यासितसौवर्णपट्टभूषितोत्तमाङ्गः पुरज्येष्ठो वणिक्, सेनापति: नृपतिनिरूपितो हस्त्यश्व-रथ-पदातिसमुदायलक्षणाया: सेनाया: प्रभुरित्यर्थः, सार्थवाहकः सार्थनायकः, एतेषां द्वन्द्वः, ततश्च राजादय: प्रभृति: आदिर्येषां ते तथा । देवसेणे त्ति देवावेव सेना यस्य देवाधिष्ठिता वा सेना यस्य स देवसेन इति, देवसेणातीति देवसेन इत्येवंरूपम्। Page #271 -------------------------------------------------------------------------- ________________ ६७२ सेतेत्यादि, श्रेयान् अतिप्रशस्यः श्वेतो वा कीदृगित्याह- शङ्खतलेन कम्बुरूपेण विमलेन पङ्कादिरहितेन सन्निकाशः सङ्काशः सदृशो यः स शङ्खतलविमलसन्निकाश:, दुरूढे त्ति आरूढः समाणे त्ति सन् अतियास्यति प्रवेक्ष्यति निर्यास्यति निर्गमिष्यतीति, क्वचिद्वर्त्तमाननिर्देशो दृश्यते स च तत्कालापेक्ष इति, एवं सर्वत्र । गुरुमयहरएहिं ति गुर्वोः मातापित्रोर्महत्तराः पूज्याः । पुणरवित्ति महत्तरा - भ्यनुज्ञानानन्तरं लोकान्ते लोकाग्रलक्षणे सिद्धस्थाने भवा लौकान्तिकाः, भाविनि भूतवदुपचारन्यायेन चैवं व्यपदेशः, अन्यथा ते कृष्णराजीमध्यवासिनः, लोकान्तभावित्वं च तेषामनन्तरभव एव सिद्धिगमनादिति । जीतकल्प: आचरितकल्पो जिनप्रतिबोधनलक्षणो विद्यते येषां ते जीतकल्पिकाः, आचरितमेव तेषामिदम्, न तु तैस्तीर्थकरः प्रतिबोध्यते, स्वयंबुद्धत्वाद्भगवत इति । ताहिं ति ताभिर्विवक्षिताभिः वग्गूहिं ति वाग्भिर्यकाभिरानन्द उत्पद्यत इति भाव:, इष्टाभिः इष्यन्ते स्म या:, कान्ताभिः कमनीयाभिः, प्रियाभि: प्रेमोत्पादिकाभि:, विरूपा अपि कारणवशात् प्रिया भवन्तीत्यत उच्यते - मनोज्ञाभि: शुभस्वरूपाभि:, मनोज्ञा अपि शब्दतोऽर्थतो न हृदयङ्गमा भवन्तीत्याह- मणामाहिं ति मनः अमन्ति गच्छन्ति यास्ताः तथा, ताभिः, उदारेण उदात्तेन स्वरेण प्रयुक्तत्वादर्थेन वा युक्तत्वादुदाराभिः, कल्यम् आरोग्यम् अणन्ति शब्दयन्तीति कल्याणाः, ताभिः, शिवस्य उपद्रवाभावस्य सूचकत्वाच्छिवाभि:, धनं लभन्ते धने वा साध्व्यो धन्याः, ताभिः, मङ्गले दुरितक्षये साध्व्यो मङ्गल्याः, ताभिः, सह श्रिया वचनार्थशोभया यास्ताः सश्रीकाः, ताभि:, वाग्भिरिति सम्बन्धितम्, अभिनन्द्यमानः समुल्लास्यमानः, बहिय त्ति नगराद् बहिस्तादिति । इतो वाचनान्तरमनुसृत्य लिख्यते - साइरेगाई ति अर्द्धसप्तमैर्मासैर्द्वादश वर्षाणि यावत् व्युत्सृष्टे काये परिकर्म्मवर्जनतः, त्यक्ते देहे परीषहादिसहनतः, तथा सक्ष्य उत्पत्स्यमानेषूपसर्गेषु भयाभावतः, क्षमिष्यत्युत्पन्नेषु क्रोधाभावतः, तितिक्षिष्यति दैन्याभावतः, अध्यासिष्यते अविचलतयेति, जाव गुत्ते त्ति करणादिदं दृश्यम्एसणासमिए, आयाणभंडमत्तनिक्खेवणासमिए इत्यादि, तथा अममे अविद्यमान Page #272 -------------------------------------------------------------------------- ________________ नवममध्ययनं नवस्थानकम् । ६७३ 'ममे'त्यभिलापो निरनुषङ्गत्वात्, अकिंचणे नास्ति किञ्चनं द्रव्यं यस्य स तथा, छिन्नगंथे छिन्नो ग्रन्थो धन-धान्यादिस्तत्प्रतिबन्धो वा येन स तथा, निरुवलेवे द्रव्यतो निर्मलदेहत्वात् भावतो बन्धहेत्वभावान्निर्गत उपलेपो यस्मादिति निरुपलेपः, एतदेवोपमानैरभिधीयते- कंसपातीव मुक्कतोये [कांस्यपात्रीव कांस्यभाजनविशेष इव मुक्तं त्यक्तं न लग्नमित्यर्थः, तोयमिव बन्धहेतुत्वात्तोयं स्नेहो येन स मुक्ततोय:,] यथा भावनायामाचाराङ्गद्वितीयश्रुतस्कन्धपञ्चदशाध्ययने तथा अयं वर्णको वाच्य इति भाव:, किय रं यावदित्याह- जाव सुहुयेत्यादि। ___अतिदिष्टपदानां सङ्ग्रहं गाथाभ्यामाह- कंसे गाहा, कुंजर गाहा, कंसे त्ति कंसपाईव मुक्कतोये, संखे त्ति संखे इव निरङ्गणे इत्यादि विस्तरो वृत्तौ। नत्थीत्यादि, नास्ति तस्य भगवतो महापद्मस्यायं पक्षः, यदुत कुत्रापि प्रतिबन्धः स्नेहो भविष्यतीति, अंडए इ व त्ति अण्डजो हंसादिः ममायमित्युल्लेखेन वा प्रतिबन्धो भवति, अथवा अण्डकं मयूर्यादीनामिदं रमणकं मयूरादेः कारणमिति प्रतिबन्ध: स्यादिति, अथवाऽण्डजं पट्टसूत्रजमिति वा, पोतजो हस्त्यादिरयमिति वा प्रतिबन्धः स्यात्, अथवा पोतको बालक इति वा, अथवा पोतकं वस्त्रमिति वा प्रतिबन्ध: स्यात्, आहारेऽपि च विशुद्ध सरागसंयमवत: प्रतिबन्ध: स्यादिति दर्शयति- उग्गहिए इ व त्ति अवगृहीतं परिवेषणार्थमुत्पाटितं प्रगृहीतं भोजनार्थमुत्पाटितमिति । जनं ति यां यां दिशं णमिति वाक्यालङ्कारे नुशब्दो वा अयं तदर्थ एव, इच्छति तदा विहर्तुमिति शेष:, तां तां दिशं स विहरिष्यतीति सम्बन्धः, सप्तम्यर्था वेयं द्वितीया तस्यां तस्यामित्यर्थः, शुचिभूतो भावशुद्धितो लघुभूतोऽनुपधित्वेन गौरवत्यागेन वा अणुप्पग्गंथे त्ति अनुरूपतया औचित्येन विरतेन त्वपुण्योदयादणुरपि वा सूक्ष्मोऽप्यल्पोऽपि प्रगतो ग्रन्थो धनादिर्यस्य यस्माद्वाऽसावनुप्रग्रन्थ: अपेर्तृत्त्यन्तर्भूतत्वादणुप्रग्रन्थो वा, अथवा अणुप्प त्ति अनर्ग्य: अनर्पणीयः अढौकनीयः परेषामाध्यात्मिकत्वात् ग्रन्थवत् द्रव्यवत् ग्रन्थो ज्ञानादिर्यस्य सोऽनर्ण्यग्रन्थ इति । भावेमाणे त्ति वासयन्नित्यर्थः । अणुत्तरेणं ति नास्त्युत्तरं प्रधानमस्मादित्यनुत्तरं तेन, एवमिति अनुत्तरेणेति विशेषणमुत्तरत्रापि सम्बन्धनीयमित्यर्थः, आलयेन वसत्या विहारेणैकरात्रादिना, Page #273 -------------------------------------------------------------------------- ________________ ६७४ आर्जवादय: क्रमेण माया-मान-गौरव-क्रोध-लोभनिग्रहाः, गुप्तिर्मन:प्रभृतीनाम्, तथा सत्यं च द्वितीयं महाव्रतं संयमश्च प्रथमं तपोगुणाश्च अनशनादय: सुचरितं सुष्ठवासेवितं सोयवियं ति प्राकृतत्वाच्छौचं च तृतीयं महाव्रतम्, अथवा विय त्ति विच्च विज्ञानमिति द्वन्द्वस्ततश्चैतान्येवैत एव वा फल त्ति फलप्रधान: परिनिर्वाणमार्गो निर्वृतिनगरीपथ: सत्यादिपरिनिर्वाणमार्गस्तेन । ध्यानयो: शुक्लध्यानद्वितीयतृतीयभेदलक्षणयोरन्तरं मध्यं ध्यानान्तरं तदेव ध्यानान्तरिका, तस्यां वर्तमानस्य, शुक्लस्य द्वितीयाद्रेदादुत्तीर्णस्य तृतीयमप्राप्तस्येत्यर्थः, अनन्तमनन्तविषयत्वात्, अनुत्तरं सर्वोत्तमत्वात्, निर्व्याघातं धरणीधरादिभिरप्रतिहतत्वात्, निरावरणं सर्वावरणापगमात्, कृत्स्नं सर्वार्थविषयत्वात्, प्रतिपूर्ण स्वरूपत: पौर्णमासीचन्द्रवत्, केवलमसहायमत एव वरं ज्ञानदर्शनं प्रतीतं केवलवरज्ञानदर्शनमिति । अरह त्ति अर्हन् अष्टविधमहाप्रातिहार्यरूपपूजायोगात्, जिनो रागादिजेतृत्वात्, केवली परिपूर्णज्ञानादित्रययोगात्, सर्वज्ञः सर्वविशेषार्थबोधात्, सर्वदर्शी सकलसामान्यार्थावबोधात्, ततश्च सह देवैश्च वैमानिक-ज्योतिष्कलक्षणैर्मत्यैश्च मनुजैरसुरैश्च भवनपति-व्यन्तरलक्षणैर्यः स सदेवमासुरस्तस्य, लोकः पञ्चास्तिकायात्मकस्तस्य, परियागं ति जातावेकवचनमिति पर्यायान् विचित्रपरिणामान् जाणइ पासइ त्ति ज्ञास्यति द्रक्ष्यति चेत्यर्थः, एतच्च देवादिग्रहणं प्रधानापेक्षमन्यथा सर्वजीवानां सर्वपर्यायान् ज्ञास्यति, अत एवाह- सव्वलोए इत्यादि । चयणं ति वैमानिकज्योतिष्कमरणम्, उपपातं नारक-देवानां जन्म, तर्क वितर्कं विमर्शम्, मन: चित्तम्, मनसि भवं मानसिकं चिन्तितं वस्तु, भुक्तमोदनादि, कृतं घटादि, प्रतिषेवितम् आसेवितं प्राणिवधादि, आविष्कर्म प्रकटक्रियाम्, रहःकर्म विजनव्यापारम्, ज्ञास्यतीत्यनुवर्तते, तथा अरहा न विद्यते रहो विजनं यस्य सर्वज्ञत्वादसावरहा:, अत एव रहस्यस्य प्रच्छन्नस्याभावोऽरहस्यम्, तद् भजत इत्यरहस्यभागी तं तं कालम् आश्रित्येति शेषः, सप्तमी वेयमतस्तस्मिंस्तस्मिन् काल इत्यर्थः, मणसवयसकाइए त्ति मानसश्च वाचसश्च कायिकश्च मानस-वाचस-कायिकं तत्र योगे व्यापारे, हस्वत्वं च प्राकृतत्वादिति, वर्तमानानाम्, व्यवस्थितानां सर्वभावान् सर्वपरिणामान् जानन् पश्यन् विहरिष्यति, अभिसमेच्च त्ति अभिसमेत्य अवगम्य, सभावणाई ति सह Page #274 -------------------------------------------------------------------------- ________________ नवममध्ययनं नवस्थानकम् । ६७५ भावनाभिः प्रतिव्रतं पञ्चभिरीर्यासमित्यादिभिर्यानि तानि सभावनानि, तासां च स्वरूपमावश्यकान्मन्तव्यम्, षड्जीवनिकायान् रक्षणीयतया, धम्मं ति एवंरूपं चारित्रात्मकं सुगतौ जीवस्य धारणाद् धर्मं श्रुतधर्मं च देशयन् प्ररूपयन्निति । अथ महापद्मस्यात्मनश्च सर्वज्ञत्वात् सर्वज्ञयोश्च मताभेदाद् भेदे चैकस्यायथावस्तुदर्शनेनासर्वज्ञताप्रसङ्गादित्युभयोर्भगवान् समां वस्तुप्ररूपणां दर्शयन्नाह–से जहेत्यादि, से इत्यथार्थो अथशब्दश्च वाक्योपन्यासार्थः, यथेत्युपमार्थः, नामए त्ति वाक्यालङ्कारे, अज्जो त्ति हे आर्या: ! शिष्यामन्त्रणम्, एगे आरंभट्ठाणे त्ति आरम्भ एव स्थानं वस्तु आरम्भस्थानमेकमेव तत् प्रमत्तयोगलक्षणत्वात् तस्य, यदाह- सव्वो पमत्तजोगो समणस्स उ होइ आरंभो [ ] इति, इत: शेषमावश्यके प्राय: प्रसिद्धमिति न लिखितम् । तथा फलकं प्रतलमायतम्, काष्ठं स्थूलमायतमेव, लब्धानि च सन्मानादिनाऽपलब्धानि च न्यक्कारपूर्वकतया यानि भक्तादीनि तैर्वृत्तयो निर्वाहा लब्धापलब्धवृत्तयः, आहाकम्मिए इ व त्ति आधाय आश्रित्य साधून कर्म सचेतनस्याचेतनीकरणलक्षणा अचेतनस्य वा पाकलक्षणा क्रिया यत्र भक्तादौ तदाधाकर्म, तदेवाधाकर्मिकम्, उक्तं च सच्चित्तं जमचित्तं साहूणऽट्ठाए कीरए जं च । अचित्तमेव पच्चई आहाकम्मं तयं भणियं ॥ [पञ्चा० १३।७] ति ॥ इह चकार: सर्वत्रागमिकः इतिशब्दो वाऽयमुपप्रदर्शनार्थपरः, वा विकल्पार्थः, उद्देसियं ति अर्थिन: पाषण्डिन: श्रमणानिर्ग्रन्थान् वोद्दिश्य दुर्भिक्षात्ययादौ यद्भक्तं वितीर्यते तदौद्देशिकमिति, [उद्देशे भवमौद्देशिकमिति शब्दार्थ:,] यद्वा तथैव यदुद्वरितं सद् दध्यादिभिर्विमिश्रय दीयते तापयित्वा वा तदपि तथैवेति, इहाभिहितम् उद्दिसिय साहुमाई ओमच्चय भिक्खवियरणं जं च । उव्वरियं मीसेउं तविउं उद्देसियं तं तु ॥ [पञ्चा० १३॥८] इति । मीसजाए व त्ति गृहि-संयतार्थमुपस्कृततया मिश्रं जातम् उत्पन्नं मिश्रजातम् । अज्झोयरए त्ति स्वार्थमूलाद्रहणे साध्वाद्यर्थं कणप्रक्षेपणमध्यवपूरकः। पूइए त्ति शुद्धमपि कर्माद्यवयवैरपवित्रीकृतं पूतिकम् । कीए त्ति द्रव्येण भावेन वा क्रीतं स्वीकृतं Page #275 -------------------------------------------------------------------------- ________________ ६७६ यत्तत् क्रीतमिति । पामिच्चं अपमित्यकं साध्वर्थमुद्धारगृहीतम् । आच्छेद्यं बलाद् भृत्यादिसत्कमाच्छिद्य यत् स्वामी साधवे ददाति । अनिसृष्टं साधारणं बहूनामेकादिना अननुज्ञातं दीयमानम्, आह च- अणिसटुं सामन्नं गोट्ठियमाईण दयउ एगस्स । [पञ्चा० १३।१५] इति । अभ्याहृतं स्वग्रामादिभ्य आहृत्य यद्ददाति । कान्तारभक्तादय आधाकादिभेदा एव, तत्र कान्तारम् अटवी, तत्र भक्तं भोजनं यत् साध्वाद्यर्थं तत्तथा, एवं शेषाण्यपि, नवरं ग्लानो रोगोपशान्तये यद्ददाति ग्लानेभ्यो वा यद् दीयते । तथा वईलिका मेघाडम्बरम्, तत्र हि वृष्ट्या भिक्षाभ्रमणाक्षमो भिक्षुकलोको भवतीति गृही तदर्थं विशेषतो भक्तं दानाय निरूपयतीति । प्राघुणका: आगन्तुका: भिक्षुका एव, तदर्थं यद्भक्तं तत्तथा। तथा मूलं पुनर्नवादीनाम्, तस्य भोजनं तदेव वा भोजनम्, भुज्यत इति भोजनमिति कृत्वा, कन्दः सूरणादिः, फलं त्रपुष्यादि, बीजं दाडिमादीनाम्, हरितं मधुरतृणादिविशेष:, जीववधनिमित्तत्वाच्चैषां प्रतिषेध इति। पंचमहव्वइए इत्यादि, प्रथम-पश्चिमतीर्थकराणां हि पञ्च महाव्रतानि शेषाणां महाविदेहजानां च चत्वारीति पञ्चमहाव्रतिकः, एवं सह प्रतिक्रमणेन उभयसन्ध्यमावश्यकेन य: स तथा, अन्येषां तु कारणजात एव प्रतिक्रमणमिति । तथा अविद्यमानानि जिनकल्पिकविशेषापेक्षया असत्त्वादेव, स्थविरकल्पिकापेक्षया तु जीर्ण-मलिन-खण्डित-श्वेता-ऽल्पत्वादिना, चेलानि वस्त्राणि यस्मिन् स तथा, धर्म: चारित्रम्, न च सति चेले अचेलता न लोके प्रतीता, यत उक्तम् जह जलमवगाहंतो बहुचेलो वि सिरवेढियकडिल्लो । भन्नइ नरो अचेलो तह मुणओ संतचेला वि ॥ [विशेषाव० २६००], अत:न च वस्त्रं संसक्ति-रागादिनिमित्ततया चारित्रविघाताय, अध्यात्मशुद्धेः, शरीराऽऽहारादिवदिति । जिनोदाहरणादचेलकत्वमेव श्रेय इति न वक्तव्यमेतत्, यतोऽभ्यधायिन परोवएसवसया न य छउमत्था परोवएस पि । दिति न य सीसवग्गं दिक्खंति जिणा जहा सव्वे ॥ तह सेसेहि य सव्वं कजं जइ तेहिं सव्वसाहम्मं । एवं च कओ तित्थं ? न चेदचेल त्ति को गाहो ? ॥ [विशेषाव० २५८८-८९] । Page #276 -------------------------------------------------------------------------- ________________ नवममध्ययनं नवस्थानकम् । ६७७ __ अपि च, उचितचेलसद्भावे चारित्रधर्मो भवत्येव तदुपकारित्वाच्छरीराऽऽहारादिवदिति । अथ कथं चेलस्य चारित्रोपकारितेति चेत्, उच्यते, शीतादित्राणतो जीवसंसक्तिनिमित्ततृणपरिहारादिहेतुत्वात्, उक्तं चतणगहणानलसेवानिवारणा धम्मसुक्कझाणट्ठा । दिळं कप्पग्गहणं गिलाणमरणट्ठया चेव ॥ [ओघनि० ७०६, पञ्चव० ८१३] इति । तथा सेज्जायरे त्ति शेरते यस्यां साधवः सा शय्या, तया तरति भवसागरमिति शय्यातरो वसतिदाता, तस्य पिण्डो भक्तादिः शय्यातरपिण्डः, स च अशनादि ४ र्वस्त्रादिः ४ सूच्यादि ४ श्चेति, तद्ग्रहणे दोषास्त्वमीतित्थंकरपडिकुट्ठो अन्नायं उग्गमो वि य न सुज्झे । अविमुत्ती अलाघवता दुल्लहसेजा विउच्छेओ॥ [पञ्चा०१७।१८, बृहत्कल्प०३५४०] इति। राज्ञः चक्रवर्त्तिवासुदेवादेः पिण्डो राजपिण्डः । इदानीमुभयोरपि जिनयो: समानतानिगमनार्थमाह- जस्सील गाहा, यौ शीलसमाचारौ स्वभावा-ऽनुष्ठाने यस्य स यच्छीलसमाचारः, तावेव शील-समाचारौ यस्य स तथेति । [सू० ६९४] णव नक्खत्ता पच्छंभागा पन्नत्ता, तंजहाअभिती समणो धणिट्ठा, रेवति अस्सोति मिगसिरं पूसो । हत्थो चित्ता य तधा, पच्छंभागा णव हवंति ॥१४९॥ [टी०] महापद्मजिनो हि महावीरवदुत्तरफाल्गुनीनक्षत्रजन्मादिव्यतिकर इति नक्षत्रसम्बन्धान्नक्षत्रसूत्रं कण्ठ्यं च, नवरं पच्छंभाग त्ति पश्चाद्भागश्चन्द्रेण भोगो येषां तानि पश्चाद्भागानि चन्द्रोऽतिक्रम्य यानि भुङ्क्ते, पृष्ठं दत्त्वेत्यर्थः, अभिई गाहा, अस्सोइ त्ति अश्विनी, मतान्तरं पुनरेवम् अस्सिणि भरणी समणो अणुराह धणिट्ठ रेवई पूसो । मियसिर हत्थो चित्ता पच्छिमजोगा मुणेयव्वा ॥ [ ] इति । [सू० ६९५] आणत-पाणत-आरण-ऽच्चुतेसु कप्पेसु विमाणा णव जोयणसताई उटुंउच्चत्तेणं पन्नत्ता ।। [टी०] नक्षत्रविमानव्यतिकर उक्त इति विमानविशेषव्यतिकरसूत्रं व्यक्तम् । Page #277 -------------------------------------------------------------------------- ________________ ६७८ [सू० ६९६] विमलवाहणे णं कुलकरे णव धणुसताई उड्डेउच्चत्तेणं होत्था। [सू० ६९७] उसभेणं अरहो कोसलितेणं इमीसे ओसप्पिणीए णवहिं सागरोवमकोडाकोडीहिं वितिक्कंताहिं तित्थे पवत्तिते । [सू० ६९८] घणदंत-लट्ठदंत-गूढदंत-सुद्धदंतदीवा णं दीवा णव णव जोयणसताई आयामविक्खंभेणं पण्णत्ता । [टी०] अनन्तरं विमानानामुच्चत्वमुक्तमिति कुलकरविशेषस्योच्चत्वसूत्रं कुलकरसम्बन्धाद् ऋषभकुलकरसूत्रम् ऋषभो मनुष्य इत्यन्तरद्वीपजमनुष्यक्षेत्र-विशेषप्रमाणसूत्रं च, सुगमानि चैतानि, नवरं घनदन्तादय: सप्तमा अन्तरद्वीपा: । [सू० ६९९] सुक्कस्स णं महागहस्स णव वीहीओ पन्नत्ताओ, तंजहाहयवीही, गतवीही, णागवीही, वसभवीही, गोवीही, जरग्गववीही, अयवीही, मितवीही, वेसाणरवीही । [टी०] नव योजनशतानीत्युक्तमिति समधरणीतलादुपरिष्टान्नवयोजनशताभ्यन्तरचारिणो ग्रहविशेषस्य व्यतिकरमाह- सुक्कस्सेत्यादि, शुक्रस्य महाग्रहस्य नव वीथय: क्षेत्रभागा: प्रायस्त्रिभिस्त्रिभिर्नक्षत्रैर्भवन्ति, तत्र हयसंज्ञा वीथी हयवीथीत्येवं सर्वत्र, संज्ञा च व्यवहारविशेषार्थम्, या चेह हयवीथी साऽन्यत्र नागवीथीति रूढा, नागवीथी चैरावणपदमिति, एतासां च लक्षणं भद्रबाहप्रसिद्धाभिरार्याभि: क्रमेण लिख्यते भरणी स्वात्याग्नेयं ३ नागाख्या १ वीथिरुत्तरे मार्गे । रोहिण्यादि ३ रिभाख्या २ चादित्यादिः ३ सुरगजाख्या ३ ॥१॥ [ ] आग्नेयं कृत्तिका, आदित्यं पुनर्वसुरिति । वृषभाख्या ४ पैत्रादिः ३ श्रवणादि ३ मध्यमे जरद्वाख्या ५ । प्रोष्ठपदादि ४ चतुष्के गोवीथि ६ स्तासु मध्यफलम् ॥२॥ [ ], पैत्रं मघा, मध्यमे इति मार्गे, प्रोष्ठपदा पूर्वभद्रपदा । अजवीथी ७ हस्तादि ४ मंगवीथी ८ चैन्द्रदेवतादि स्यात् । दक्षिणमार्गे वैश्वानर्याषाढद्वयं ब्राह्यम् ॥३॥ [ ], इन्द्रदेवता ज्येष्ठा, ब्राह्ममभिजिदिति । Page #278 -------------------------------------------------------------------------- ________________ नवममध्ययनं नवस्थानकम् । ६७९ एतासु भृगुर्विचरति नागगजैरावतीषु वीथिषु चेत् । बहु वर्षेत् पर्जन्य: सुलभौषधयोऽर्थवृद्धिश्च ॥४॥ पशुसंज्ञासु च ३ मध्यमसस्यफलादिर्यदा चरेद् भृगुजः । अजमृगवैश्वानरवीथिष्वर्घभयादितो लोकः ॥५॥ [ ] इति । [सू० ७००] नवविधे नोकसायवेयणिज्जे कम्मे पन्नत्ते, तंजहा-इत्थिवेदे, पुरिसवेदे, णपुंसगवेदे, हासे, रती, अरई, भये, सोगे, दुगुंछा । [टी०] वीथिविशेषचारेण च शुक्रादयो ग्रहा मनुजादीनामनुग्रहोपघातकारिणो भवन्ति द्रव्यादिसामग्र्या कर्मणामुदयादिसद्भावादिति सम्बन्धात् प्रस्तुताध्ययनावतारि कर्मस्वरूपमाह– नवविहेत्यादि, इह नोशब्द: साहचर्यार्थः, कषायैः क्रोधादिभिः सहचरा नोकषायाः, केवलानां नैषां प्राधान्यं किन्तु यैरनन्तानुबन्ध्यादिभिः सहोदयं यान्ति तद्विपाकसदृशमेव विपाकमादर्शयन्तीति बुधग्रहवदन्यसंसर्गमनुवर्त्तन्ते, एवं च नोकषायतया वेद्यते यत् कर्म तन्नोकषायवेदनीयमिति । तत्र यदुदयेन स्त्रिया: पुंस्यभिलाष: पित्तोदयेन मधुराभिलाषवत् स फुफुकाग्निसमान: स्त्रीवेदः, यदुदयेन पुंस: स्त्रियामभिलाष: श्लेष्मोदयादम्लाभिलाषवत् स दावाग्निज्वालासमान पुंवेदः, यदुदये नपुंसकस्य स्त्रीपुंसयोरुभयोरभिलाष: पित्त-श्लेष्मणोरुदये मजिताभिलाषवत् स महानगरदाहाग्निसमानो नपुंसकवेद इति । यदुदयेन सनिमित्तमनिमित्तं वा हसति तत् कर्म हास्यम्, यदुदयेन सचित्ताचित्तेषु बाह्यद्रव्येषु जीवस्य रतिरुत्पद्यते तद् रतिकर्म, यदुदयेन तेष्वेवारतिरुत्पद्यते तदरतिकर्म, यदुदयेन भयवर्जितस्यापि जीवस्येहलोकादिसप्तप्रकारं भयमुत्पद्यते तद् भयकर्म, यदुदयेन शोकरहितस्यापि जीवस्याक्रन्दनादिः शोको जायते तच्छोककर्मेति, यदुदयेन च विष्ठादिबीभत्सपदार्थेभ्यो जुगुप्सते तजुगुप्साकर्मेति । [सू० ७०१] चउरिंदियाणं णव जाइकुलकोडीजोणिपमुहसयसहस्सा पण्णत्ता। भुयगपरिसप्पथलचरपंचेंदियतिरिक्खजोणियाणं नव जाइकुलकोडीजोणिपमुहसयसहस्सा पण्णत्ता । [सू० ७०२] जीवा णं णवट्ठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा ३, [तंजहा-] पुढविकाइयनिव्वत्तिते जाव पंचेंदियनिव्वत्तिते । एवं Page #279 -------------------------------------------------------------------------- ________________ ६८० चिण उवचिण जाव णिज्जरा चेव । [सू० ७०३] णवपएसिता खंधा अणंता पण्णत्ता जाव णवगुणलुक्खा पोग्गला अणंता पण्णत्ता । [ टी० ] अनन्तरं कर्म्मोक्तम्, तद्वशवर्त्तिनश्च नानाकुलकोटीभाजो भवन्तीति कुलकोटिसूत्रे, तद्गताश्च कर्म्म चिन्वन्तीति चयादिसूत्रषट्कम्, कर्म्मपुद्गलप्रस्तावात् पुद्गलसूत्राणि च, सुगमानि चैतानि, नवरं नव जाईत्यादि, चतुरिन्द्रियाणां जातौ यानि कुलकोटीनां योनिप्रमुखाणां योनिद्वाराणां शतसहस्राणि तानि तथा भुजैर्गच्छन्तीति भुजगाः गोधादय इति । इति श्रीमत्तपागच्छाधिराजभट्टारकपुरन्दरसूरीश्वर श्रीविजयसेनसूरिराज्ये श्रीमत्तपागच्छश्रृंगारहारसूरीश्वर श्रीविजयदेवसूरियौवराज्ये पण्डितश्रीकुशलवर्धनगणिशिष्यनगर्षिगणिना स्ववाचनपरोपकारकृते कृतोद्धाररूपयां श्रीसकलवाचकशिरोमणिमहोपाध्यायश्रीविमलहर्षगणिभिः संशोधितायां सुखावबोधायां श्रीस्थानाङ्गदीपिकायां नवस्थानकाख्यं नवमममध्ययनं समाप्तम्। Page #280 -------------------------------------------------------------------------- ________________ अथ दशममध्ययनं दशस्थानकम् । [सू० ७०४] दसविधा लोगट्टिती पन्नत्ता, तंजहा-जण्णं जीवा उद्दाइत्ता उद्दाइत्ता तत्थेव तत्थेव भुजो भुजो पच्चायंति, एवं पेगा लोगट्ठिती पण्णत्ता १। जण्णं जीवाणं सता समिते पावे कम्मे कजति, एवं पेगा लोगट्टिती पण्णत्ता २१ जणं जीवाणं सता समितं मोहणिज्जे पावे कम्मे कज्जति. एवं पेगा लोगट्ठिती पण्णत्ता ३ । ण एतं भूतं वा भव्वं वा भविस्सति वा जं जीवा अजीवा भविस्संति अजीवा वा जीवा भविस्संति, एवं पेगा लोगट्टिती पण्णत्ता ४। ण एतं भूतं वा भव्वं वा भविस्सति वा जं तसा पाणा वोच्छिजिस्संति थावरा पाणा भविस्संति, थावरा वा पाणा वोच्छिजिस्संति तसा पाणा भविस्संति, एवं पेगा लोगट्ठिती पण्णत्ता ५ । ण एतं भूतं वा भव्वं वा भविस्सति वा जं लोगे अलोगे भविस्सति अलोगे वा लोगे भविस्सति, एवं पेगा लोगट्टिती पण्णत्ता ६ । ण एतं भूतं वा भव्वं वा भविस्सति वा जं लोए अलोए पविस्सति अलोए वा लोए पविस्सति, एवं पेगा लोगट्टिती [पण्णत्ता] ७ । जाव ताव लोगे ताव ताव जीवा, जाव ताव जीवा ताव ताव लोए, एवं पेगा लोगट्टिती [पण्णत्ता] ८ । जाव ताव जीवाण त पोग्गलाण त गतिपरिताते ताव ताव लोए, जाव ताव लोगे ताव ताव जीवाण य पोग्गलाण त गतिपरिताते, एवं पेगा लोगट्टिती [पण्णत्ता] ९ । सव्वेसु वि णं लोगंतेसु अबद्धपासपुट्ठा पोग्गला लुक्खत्ताते कजंति, जेणं जीवा त पोग्गला त नो संचायति बहिता लोगंता गमणताते, एवं पेगा लोगट्ठिती पण्णत्ता १० । [टी०] अथ सङ्ख्याविशेषसम्बद्धमेव दशस्थानकाध्ययनमारभ्यते, अस्य च पूर्वेण सहायमभिसम्बन्ध:- अनन्तराध्ययने जीवाजीवा नवत्वेन प्ररूपिता इह तु त एव दशत्वेन निरूप्यन्त इत्येवंसम्बन्धस्य चतुरनुयोगद्वारस्यास्येदमादिसूत्रम्- दसविहा लोगेत्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः- पूर्वं नवगुणरूक्षा: पुद्गला अनन्ता इत्युक्तं ते चासङ्ख्येयप्रदेशे लोके संमान्तीति लोकस्थितिरतः सैवेहोच्यते Page #281 -------------------------------------------------------------------------- ________________ ६८२ इत्येवंसम्बन्धस्यास्य व्याख्या, इहापि संहितादिचर्चः प्रथमाध्ययनवत्, केवलं लोकस्य पञ्चास्तिकायात्मकस्य स्थितिः स्वभाव: लोकस्थितिः, यदित्युद्देशे, णमिति वाक्यालङ्कारे, उद्दाइत्त त्ति अपद्राय मृत्वेत्यर्थः, तत्थेव त्ति लोकदेशे गतौ योनौ कुले वा सान्तरं निरन्तरं वौचित्येन भूयो भूयः पुन: पुन: प्रत्याजायन्ते प्रत्युत्पद्यन्त इत्येवमप्येका लोकस्थितिरिति १, अपिशब्द उत्तरवाक्यापेक्षया, अपि: क्वचिन्न दृश्यते। अथ द्वितीया- जन्नमित्यादि, सदा प्रवाहतोऽनाद्यपर्यवसितं कालं समियं ति निरन्तरं पापं कर्म ज्ञानावरणादिकं सर्व्वमपि मोक्षविबन्धकत्वेन सर्वस्यापि पापत्वादिति क्रियते बध्यते इत्येवमप्येका अन्येत्यर्थः, सततकर्मबन्धनमिति द्वितीया २ । मोहणिजे त्ति मोहनीयं प्रधानतया भेदेन निर्दिष्टमिति सततमोहनीयबन्धनं तृतीया ३। जीवा-ऽजीवानामजीव-जीवत्वाभावश्चतुर्थी ४। त्रसानां स्थावराणां चाव्यवच्छेदः पञ्चमी ५। लोका-ऽलोकयोरलोक-लोकत्वेनाभवनं षष्ठी ६। तयोरेवान्योन्याप्रवेश: सप्तमी ७। जाव ताव लोए ताव ताव जीव त्ति यावल्लोकस्तावज्जीवा:, यावति क्षेत्रे लोकव्यपदेशस्तावति जीवा इत्यर्थः । जाव ताव जीवा ताव ताव लोए त्ति, इह यावज्जीवास्तावत्तावल्लोकः, यावति यावति क्षेत्रे जीवास्तावत् क्षेत्रं लोक इति भावार्थ:, जाव तावेत्यादिवाक्यरचना तु भाषामात्रमित्यष्टमी ८ । यावज्जीवादीनां गतिपर्यायस्तावल्लोक इति नवमी ९।। ___ सर्वेषु लोकान्तेषु अबद्धपासपुट्ट त्ति बद्धा गाढश्लेषा:, पार्श्वस्पृष्टा: छुप्तमात्राः, ये न तथा तेऽबद्धपार्श्वस्पृष्टाः, रूक्षद्रव्यान्तरेणेति गम्यते, तत्सम्पर्कादजातरूक्षपरिणामाः सन्त इति भाव:, लोकान्ते स्वभावात् पुद्गला: रूक्षतया क्रियन्ते रूक्षतया परिणमन्ति, [अथवा लोकान्तस्वभावाद्या रूक्षता भवति तया ते पुद्गला अबद्धपार्श्वस्पृष्टाः परस्परमसम्बद्धाः क्रियन्ते, किं सर्वथा ?, नैवम्, अपि तु तेनेत्यस्य गम्यमानत्वात्तेन] रूपेण क्रियन्ते येन जीवा: सकर्मापुद्गला:, पुद्गलाश्च परमाण्वादयः, नो संचायंति त्ति न शक्नुवन्ति बहिस्ताल्लोकान्ताद् गमनतायै गन्तुमिति, छान्दसत्वेन तुमर्थे युट्प्रत्ययविधानादिति, एवमप्यन्या लोकस्थितिर्दशमी १०, शेषं कण्ठ्यमिति । Page #282 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । [सू० ७०५] दसविधे सद्दे पन्नत्ते, तंजहानीहारि पिंडिमे लुक्खे, भिन्ने जज्जरिते ति । हे रहस्से पुहुत्ते त, काकणी, खिंखिणिस्सरे ॥ १५० ॥ [टी०] लोकस्थितेरेव विशिष्टवक्तृनिसृष्टा अपि शब्दपुद्गला लोकान्त एव गच्छन्तीति प्रस्तावाच्छब्दभेदानाह– दसविहे इत्यादि, नीहारी सिलोगो, निर्हारी घोषवान् शब्दो घण्टाशब्दवत्, पिण्डेन निर्वृत्तः पिण्डिमो घोषवर्जितः ढक्कादिशब्दवत्, रूक्षः काकादिशब्दवत्, भिन्नः कुष्ठाद्युपहतशब्दवत्, झर्झरितो जर्जरितो वा सतन्त्रीककरटिकादिवाद्यशब्दवत्, दीर्घो दीर्घवर्णाश्रितो दूरश्रव्यो वा मेघादिशब्दवत्, ह्रस्वो ह्रस्ववर्णाश्रयो विवक्षया लघुर्वा वीणादिशब्दवत्, पुहत्ते यत्ति पृथक्त्वे अनेकत्वे, कोऽर्थः ? नानातूर्यादिद्रव्ययोगे यः स्वरो यमल - शङ्खादिशब्दवत् स पृथक्त्व इति, काकणीति सूक्ष्मकण्ठगीतध्वनिः काकलीति यो रूढः, खिंखिणीति किंकिणी क्षुद्रघण्टिका, तस्याः स्वरो ध्वनि: किङ्किणीस्वरः । [सू० ७०६] दस इंदियत्था तीता पण्णत्ता, तंजहा - देसेण वि एगे सद्दाई सुणिंसु, सव्वेण वि एगे सद्दाई सुणिंसु, देसेण वि एगे रूवाई पासिंसु, सव्वेण वि एगे रुवाई पासिंसु, एवं गंधाई रसाई फासाई जाव सव्वेण वि एगे फासाइं पडिसंवेदेंसु १ । दस इंदियत्था पडुप्पन्ना पन्नत्ता, तंजहा - देसेण वि एगे सद्दाई सुणेति, सव्वेण वि एगे सद्दानं सुणेति, एवं जाव फासाई २ | दस इंदियत्था अणागता पन्नत्ता, तंजहा - देसेण वि एगे सद्दाई सुणिस्सति, सव्वेण वि एगे सद्दानं सुणिस्सति, एवं जाव सव्वेण वि एगे फासाई पडिसंवेस्सति ३| [टी०] अनन्तरं शब्द उक्तः, स चेन्द्रियार्थ इति कालभेदेनेन्द्रियार्थान् प्ररूपयन् सूत्रत्रयमाह- दस इंदियेत्यादि कण्ठ्यम्, नवरं देसेण वि त्ति विवक्षितशब्दसमूहापेक्षया देशेन देशतः, कांश्चिदित्यर्थः, एकः कश्चिच्छ्रुतवानिति । सव्वेण वित्ति सर्वतया सर्वानित्यर्थः, इन्द्रियापेक्षया वा श्रोत्रेन्द्रियेण देशतः, सम्भिन्नश्रोतोलब्धियुक्तावस्थानां ६८३ Page #283 -------------------------------------------------------------------------- ________________ ६८४ सर्वेन्द्रियैः सर्वतः, अथवैककर्णेन देशत उभाभ्यां सर्वत:, एवं सर्वत्र । पडुप्पन्न त्ति प्रत्युत्पन्ना वर्तमानाः । [सू० ७०७] दसहिं ठाणेहिमच्छिन्ने पोग्गले चलेजा, तंजहा-आहारेजमाणे वा चलेजा, परिणामेज्जमाणे वा चलेज्जा, उस्ससिज्जमाणे वा चलेजा, निस्ससिजमाणे वा चलेजा, वेदेजमाणे वा चलेजा, णिजरिजमाणे वा चलेजा, विउव्विजमाणे वा चलेजा, परितारिज्जमाणे वा चलेजा, जक्खातिढे वा चलेजा, वातपरिगते वा चलेजा । [टी०] इन्द्रियार्थाश्च पुद्गलधर्मा इति पुद्गलस्वरूपमाह- दसहीत्यादि स्पष्टम्, नवरम् अच्छिन्ने त्ति अच्छिन्न: अपृथग्भूत: शरीरे विवक्षितस्कन्धे वा सम्बद्ध एव चलेत् स्थानान्तरं गच्छेत्, आहारेजमाणे त्ति आह्रियमाण: खाद्यमान: पुद्गल: आहारे वा अभ्यवह्रियमाणे सति पुद्गलश्चलेत्, परिणम्यमान: पुद्गल एवोदराग्निना खल-रसभावेन परिणम्यमाने वा भोजने, उच्छ्वस्यमान: उच्छासवायुपुद्गल: उच्छ्वस्यमाने वा उच्छ्वसिते क्रियमाणे, एवं निःश्वस्यमानो निःश्वस्यमाने वा, वेद्यमानो निर्जीर्यमाणश्च कर्मपुद्गलोऽथवा वेद्यमाने निर्जीर्यमाणे च कर्मणि, वैक्रियमाणो वैक्रियशरीरतया परिणम्यमान: वैक्रियमाणे वा शरीरे, परिचार्यमाणो मैथुनसंज्ञाया विषयीक्रियमाण: शुक्रपुद्गलादिः परिचार्यमाणे वा भुज्यमाने स्त्रीशरीरादौ शुक्रादिरेव, यक्षाविष्टो भूताद्यधिष्ठित: यक्षाविष्टे वा सति पुरुषे यक्षावेशे वा सति तच्छरीरलक्षण: पुद्गल:, वातपरिगतो देहगतवायुप्रेरित:, वातपरिगते वा देहे सति, बाह्यवातेन वोत्क्षिप्त इति। [सू० ७०८] दसहिं ठाणेहिं कोधुप्पत्ती सिया, तंजहा-मणुन्नाइं मे सद्दफरिस-रस-रूव-गंधाइमवहरिंसु १, अमणुन्नाई मे सद्द-फरिस-रस-रूवगंधाइं उवहरिंसु २, मणुण्णाइं मे सद्द-फरिस-रस-रूव-गंधाइं अवहरति ३, अमणुन्नाइं मे सद्दफरिस जाव गंधाइं उवहरति ४, मणुण्णाइं मे सद्द जाव अवहरिस्सति ५, अमणुण्णाई मे सद्द जाव उवहरिस्सति ६, मणुण्णाई मे सद्द जाव गंधाइं अवहरिंसु अवहरइ अवहरिस्सति ७, अमणुण्णाइं मे सद्द जाव रस-रूव-गंधाइं उवहरिंसु उवहरति उवहरिस्सति ८, मणुण्णामणुण्णाई Page #284 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । ६८५ मे सद्द जाव अवहरिंसु अवहरति अवहरिस्सति उवहरिंसु उवहरति उवहरिस्सति ९, अहं च णं आयरियउवज्झायाणं सम्मं वहामि ममं च णं आयरियउवज्झाया मिच्छं विप्पडिवन्ना १० । टी०] पुद्गलाधिकारादेव पुद्गलधर्मानिन्द्रियार्थानाश्रित्य यद्भवति तदाह- दसहीत्यादि गतार्थम्, नवरं स्थानविभागोऽयम्- तत्र मनोज्ञान् शब्दादीन् मेऽपहृतवानित्येवं भावयत: क्रोधोत्पत्तिः स्यादित्येकम्, एवम् अमनोज्ञानुपहृतवान् उपनीतवान्, इह चैकवचन-बहुवचनयोर्न विशेषः प्राकृतत्वादिति द्वितीयम्, एवं वर्तमाननिर्देशेनापि द्वयं भविष्यतापि द्वयमित्येवं षट्, तथा मनोज्ञानामपहारत: कालत्रयनिर्देशेन सप्तमः, एवममनोज्ञानामुपहारतोऽष्टमम्, मनोज्ञा-ऽमनोज्ञानामपहारोपहारत: कालत्रयनिर्देशेन नवमम्, अहं चेत्यादि दशमम्, मिच्छं ति वैपरीत्यं विशेषेण प्रतिपन्नौ विप्रतिपन्नाविति । [सू० ७०९] दसविधे संजमे पन्नत्ते, तंजहा-पुढविकाइयसंजमे आउकाइयसंजमे] तेउकाइयसंजमे] वाकाइयसंजमे] वणस्सति[काइयसंजमे] बेइंदितसंजमे तेंदितसंजमे चउरिंदितसंजमे पंचेंदितसंजमे अजीवकायसंजमे । दसविधे असंजमे पन्नत्ते, तंजहा-पुढविकाइयअसंजमे जाव अजीवकायअसंजमे । दसविधे संवरे पन्नत्ते, तंजहा-सोतिंदितसंवरे जाव फासेंदितसंवरे, मण[संवरे], वासंवरे], काय[संवरे], उवकरणसंवरे, सूचीकुसग्गसंवरे । दसविधे असंवरे पन्नत्ते, तंजहा-सोतिदितअसंवरे जाव सूचीकुसग्गअसंवरे। [टी०] क्रोधोत्पत्ति: संयमिनां नास्तीति संयमसूत्रम्, सूत्रचतुष्ट्यं समसूत्रम्। संयमविपक्षश्चासंयम इत्यसंयमसूत्रम्, असंयमविपक्ष: संवर इति संवरसूत्रम्, संवरविपरीतोऽसंवर इत्यसंवरसूत्रम्, सुगमानि चैतानि, नवरमुपकरणसंवरः अप्रतिनियताकल्पनीयवस्त्राद्यग्रहणरूपोऽथवा विप्रकीर्णस्य वस्त्राद्युपकरणस्य संवरणमुपकरणसंवरः, अयं चौघिकोपकरणापेक्षः, तथा शूच्या: कुशाग्राणां च शरीरोपघातकत्वाद्यत् संवरणं सङ्गोपनं स शूची-कुशाग्रसंवरः, एष तूपलक्षणत्वात् समस्तौपग्रहिकोपकरणापेक्षो द्रष्टव्यः, इह चान्त्यपदद्वयेन द्रव्यसंवरावुक्ताविति । Page #285 -------------------------------------------------------------------------- ________________ ६८६ [सू० ७१०] दसहिं ठाणेहिं अहमंती ति थंभिजा, तंजहा-जातिमतेण वा कुलमएण वा जाव इस्सरियमतेण वा ८, णागसुवन्ना वा मे अंतितं हव्वमागच्छंति ९, पुरिसधम्मातो वा मे उत्तरिते ओहोधिते णाणदंसणे समुप्पन्ने १० । [टी०] असंवरस्यैव विशेषमाह- दसहीत्यादि स्पष्टम्, नवरम् अहमंतीति अहम् अंती इति अन्तो जात्यादिप्रकर्षपर्यन्तोऽस्यास्तीत्यन्ती, अहमेव जात्यादिभिरुत्तमतया पर्यन्तवर्ती, अथवाऽनुस्वारः प्राकृततयेति अहम् अति: अतिशयवानिति एवंविधोल्लेखेन थंभिज त्ति स्तभ्नीयात् स्तब्धो भवेत्, माद्येदित्यर्थः, यावत्करणात् ‘बलमएण रूवमएण सुयमएण तवमएण लाभमएणेति दृश्यम्, तथा नागसुवन्न त्ति नागकुमारा: सुपर्णकुमाराश्च, वा विकल्पार्थः, मे मम अन्तिकं समीपं हव्वं शीघ्रमागच्छन्तीति, पुरुषाणां प्राकृतपुरुषाणां धर्मो ज्ञानपर्यायलक्षणस्तस्माद्वा सकाशात् उत्तरः प्रधान: स एवौत्तरिकः, आहोधिए त्ति नियतक्षेत्रविषयोऽवधिस्तद्रूपं ज्ञानदर्शनं प्रतीतमिति । [सू० ७११] दसविधा समाधी पन्नत्ता, तंजहा-पाणातिवायवेरमणे मुसा[वायवेरमणे] अदिना[दाणवेरमणे] मेहणावेरमणे] परिग्गहावेरमणे] रितासमिती भासासमिती एसणासमिती आताण[भंडमत्तणिक्खेवणासमिती] उच्चारपासवणखेलसिंघाणगपरिट्ठावणितासमिती ।। दसविधा असमाधी पन्नत्ता, तंजहा-पाणातिवाते जाव परिग्गहे. रिताऽसमिती जाव उच्चारपासवणखेलसिंघाणगपरिट्ठावणिताऽसमिती । [सू० ७१२] दसविधा पव्वज्जा पन्नत्ता, तंजहाछंदा रोसा परिजुन्ना, सुविणा पडिस्सुता चेव । सारणिता रोगिणिता, अणाढिता देवसन्नत्ती ॥१५१॥ वच्छाणुबंधिता । दसविधे समणधम्मे पन्नत्ते, तंजहा-खंती, मुत्ती, अजवे, मद्दवे, लाघवे, सच्चे, संजमे, तवे, चिताते, बंभचेरवासे । दसविधे वेयावच्चे पन्नत्ते, तंजहा-आयरियवेयावच्चे, उवज्झायवेयावच्चे, Page #286 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । ६८७ . थेर(वेयावच्चे], तवस्सि[वेयावच्चे], गिलाणवेयावच्चे], सेह[वेयावच्चे], कुलावेयावच्चे], गण[वेयावच्चे], संघवे यावच्चे], साधम्मियवेयावच्चे । [सू० ७१३] दसविधे जीवपरिणामे पन्नत्ते, तंजहा-गतिपरिणामे, इंदियपरिणामे, कसायपरिणामे, लेसा परिणामे] जोगपरिणामे], उवओग[परिणामे], णाण[परिणामे], दंसण[परिणामे], चरित्तपरिणामे, वेत[परिणामे। दसविधे अजीवपरिणामे पन्नत्ते, तंजहा-बंधणपरिणामे, गति[परिणामे], संठाणपरिणामे, भेदापरिणामे], वण्ण[परिणामे], रसापरिणामे], गंध[परिणामे], फास[परिणामे], अगुरुलहु[परिणामे], सद्दपरिणामे । [टी०] उक्तमदविलक्षण: समाधिरिति तत्सूत्रम्, एतद्विपक्षोऽसमाधिरिति तत्सूत्रम्, समाधीतरयोराश्रय: प्रव्रज्येति तत्सूत्रम्, प्रव्रज्यावतश्च श्रमणधर्मस्तद्विशेषश्च वैयावृत्यमिति तत्सूत्रे, जीवधर्माश्चैत इति जीवपरिणामसूत्रम्, एतद्विलक्षणत्वादजीवपरिणामसूत्रम्, सुगमानि चैतानि, नवरं समाहि त्ति समाधानं समाधि: समता, सामान्यतो रागाद्यभाव इत्यर्थः, स चोपाधिभेदाद्दशधेति । छंदा गाहा, छंद त्ति छन्दात् स्वकीयादभिप्रायविशेषाद् गोविन्दवाचकस्येव सुन्दरीनन्दस्येव वा, परकीयाद्वा भ्रातृवशभवदत्तस्येव या सा छंदा, रोसा य त्ति रोषात् शिवभूतेरिव या सा रोषा, परिजुण्ण त्ति परिघूना दारिद्र्यात् काष्ठहारकस्येव या सा परिघूना, सुविणेति स्वप्नात् पुष्पचूलाया इव या स्वप्ने वा या प्रतिपद्यते सा स्वप्ना, पडिसुत चेव त्ति प्रतिश्रुतात् प्रतिज्ञाताद् या सा प्रतिश्रुता शालिभद्रभगिनीपतिधन्यकस्येव, सारणिय त्ति स्मारणाद्या सा स्मारणिका मल्लिनाथस्मारितजन्मान्तराणां प्रतिबुद्ध्यादिराजानामिव, रोगिणिय त्ति रोग: आलम्बनतया विद्यते यस्यां सा रोगिणी, सैव रोगिणिका सनत्कुमारस्येव, अणाढिय त्ति अनादृता अनादराद्या सा अनादृता नन्दिषेणस्येव अनादृतस्य वा शिथिलस्य या सा तथा, देवसन्नत्ति त्ति देवसंज्ञप्ते: देवप्रतिबोधनाद्या सा तथा मेतार्यादेरिवेति, वच्छाणुबंधा य त्ति गाथातिरिक्तम्, वत्स: पुत्रस्तदनुबन्धो यस्यामस्ति सा वत्सानुबन्धिका, वैरस्वामिमातुरिवेति । Page #287 -------------------------------------------------------------------------- ________________ ६८८ श्रमणधर्मो व्याख्यात एव, नवरं चियाए त्ति त्यागो दानधर्म इति । व्यावृतो व्यापतो वा व्यापारपरस्तत्कर्म वैयावृत्यं वैयापत्यं वा भक्तपानादिभिरुपष्टम्भ इत्यर्थः, साहम्मिय त्ति समानो धर्मः सधर्मस्तेन चरन्तीति साधर्मिका: साधवः । परिणामेत्यादि, परिणमनं परिणामस्तद्भावगमनमित्यर्थः, यदाहपरिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाश: परिणामस्तद्विदामिष्टः ॥ [ ] द्रव्यार्थनयस्येति । जीवस्य परिणाम इति विग्रहः, स च प्रायोगिकः, तत्र गतिरेव परिणामो गतिपरिणाम:, एवं सर्वत्र, गतिश्चेह गतिनामकर्मोदयानारकादिव्यपदेशहेतु: तत्परिणामश्चाऽऽभवक्षयादिति, स च नरकगत्यादिश्चतुर्विधः, गतिपरिणामे च सत्येवेन्द्रियपरिणामो भवतीति तमाह- इंदियपरिणामे त्ति, स च श्रोत्रादिभेदात् पञ्चधेति, इन्द्रियपरिणतौ चेष्टानिष्टविषयसम्बन्धाद्रागद्वेषपरिणतिरिति तदनन्तरं कषायपरिणाम उक्तः, स च क्रोधादिभेदाच्चतुर्विधः । कषायपरिणामे च सति लेश्यापरिणतिर्न तु लेश्यापरिणतौ कषायपरिणति: येन क्षीणकषायस्यापि शुक्ललेश्यापरिणतिर्देशोनपूर्वकोटिं यावद् भवति । अतो लेश्यापरिणाम उक्तः, स च कृष्णादिभेदात् षोढेति । अयं च योगपरिणामे सति भवति, यस्मान्निरुद्धयोगस्य लेश्यापरिणामोऽपैति, यत: समुच्छिन्नक्रियं ध्यानमलेश्यस्य भवतीति लेश्यापरिणामानन्तरं योगपरिणाम उक्त:, स च मनोवाक्कायभेदात् विधेति । संसारिणां च योगपरिणतावुपयोगपरिणतिर्भवतीति तदनन्तरमुपयोगपरिणाम उक्तः, स च साकारानाकारभेदाद् द्विधा । सति चोपयोगपरिणामे ज्ञानपरिणामोऽतस्तदनन्तरमसावुक्तः, स चाभिनिबोधिकादिभेदात् पञ्चधा, तथा मिथ्यादृष्टानमप्यज्ञानमित्यज्ञानपरिणामो मत्यज्ञान-श्रुताज्ञान-विभङ्गज्ञानलक्षणस्त्रिविधोऽपि विशेषग्रहणसाधर्म्यात् ज्ञानपरिणामग्रहणेन गृहीतो द्रष्टव्य इति । ज्ञानाज्ञानपरिणामे च सति सम्यक्त्वादिपरिणतिरिति ततो दर्शनपरिणाम उक्तः, स च त्रिधा सम्यक्त्व-मिथ्यात्व-मिश्रभेदात् । सम्यक्त्वे सति चारित्रमिति ततस्तत्परिणाम उक्तः, स च सामायिकादिभेदात् पञ्चधेति । स्त्र्यादिवेदपरिणामे चारित्रपरिणामो न तु चारित्रपरिणाम वेदपरिणतिर्यस्मादवेदकस्यापि यथाख्यातचारित्रपरिणतिर्दृष्टे ति Page #288 -------------------------------------------------------------------------- ________________ ६८९ दशममध्ययनं दशस्थानकम् । चारित्रपरिणामानन्तरं वेदपरिणाम उक्तः, स च स्त्र्यादिभेदात् त्रिविध इति । अजीवेत्यादि, अजीवानां पुद्गलानां परिणामोऽजीवपरिणामः, तत्र बन्धनं पुद्गलानां परस्परं सम्बन्ध: संश्लेष इत्यर्थः, स एव परिणामो बन्धनपरिणाम:, एवं सर्वत्र, बन्धनपरिणामलक्षणं चैतत् समनिद्धयाए बंधो न होइ समलुक्खयाय वि न होइ । वेमायनिद्ध-लुक्खत्तणेण बंधो उ खंधाणं ॥ [प्रज्ञापना० १९९] एतदुक्तं भवति- समगुणस्निग्धस्य समगुणस्निग्धेन परमाण्वादिना बन्धो न भवति, समगुणरूक्षस्यापि समगुणरूक्षेणेति, यदा विषमा मात्रा तदा भवति बन्धः, विषममात्रानिरूपणार्थमुच्यते__ निद्धस्स निद्धेण दुयाहिएणं, लुक्खस्स लुक्खेण दुयाहिएणं । निद्धस्स लुक्खेण उवेइ बंधो, जहन्नवजो विसमो समो वा ॥ [प्रज्ञापना० २००] इति, गतिपरिणामो द्विविध: स्पृशद्गतिपरिणाम इतरश्च, तत्राद्यो येन प्रयत्नविशेषात् क्षेत्रप्रदेशान् स्पृशन् गच्छति, द्वितीयस्तु येनास्पृशन्नेव तान् गच्छति, न चायं न सम्भाव्यते, गतिमद्रव्याणां प्रयत्नभेदोपलब्धेः, तथाहि- अभ्रङ्कषहर्म्यतलगतविमुक्ताश्मपातकालभेद उपलभ्यते अनवरतगतिप्रवृत्तानां च देशान्तरप्राप्तिकालभेदश्चेत्यत: सम्भाव्यतेऽस्पृशद्गतिपरिणाम इति, अथवा दीर्घ-हस्वभेदात् द्विविधोऽयमिति, संस्थानपरिणामः परिमण्डल-वृत्त-त्र्यश्र-चतुरश्रा-ऽऽयतभेदात् पञ्चविधः, भेदपरिणाम: पञ्चधा, तत्र खण्डभेद: क्षिप्तमृत्पिण्डस्येव १, प्रतरभेदोऽभ्रपटलस्येव २, अनुतटभेदो वंशस्येव ३, चूर्णभेदः चूर्णनम् ४, उत्करिकाभेदः समुकीर्यमाणप्रस्थकस्येवेति, वर्णपरिणाम: पञ्चधा, गन्धपरिणामो द्विधा, रसपरिणाम: पञ्चधा, स्पर्शपरिणामोऽष्टधा, न गुरुकमधोगमनस्वभावं न लघुकमूर्ध्वगमनस्वभावं यद् द्रव्यं तदगुरुकलघुकम् अत्यन्तसूक्ष्म भाषा-मन:-कर्मद्रव्यादि तदेव परिणाम: परिणामतद्वतोरभेदात् अगुरुकलघुकपरिणाम: एतद्ग्रहणेनैतद्विपक्षोऽपि गृहीतो द्रष्टव्यः, तत्र गुरुकं च विवक्षया लघुकं च विवक्षयैव यद् द्रव्यं तद् गुरुकलघुकम् औदारिकादि स्थूलतरमित्यर्थः, इदमुक्तरूपं द्विविधं वस्तु निश्चयनयमतेन, व्यवहारतस्तु चतुर्द्धा, तत्र Page #289 -------------------------------------------------------------------------- ________________ ६९० गुरुकम् अधोगमनस्वभावं वज्रादि, लघुकम् ऊर्ध्वगमनस्वभावं धूमादि, गुरुकलघुकं तिर्यग्गामि वायु-ज्योतिष्कविमानादि, अगुरुलघुकम् आकाशादीति । शब्दपरिणामः शुभाशुभभेदाद् द्विधेति । [सू० ७१४] दसविधे अंतलिक्खिते असज्झाइए पन्नत्ते, तंजहा-उक्कावाते, दिसिदाघे, गज्जिते, विज्जुते, निग्धाते, जूवते, जक्खालित्तते, धूमिता, महिता, युग्घा । सविधे ओरालिते असज्झातिते पन्नत्ते, तंजहा - अट्ठि, मंसे, सोणिते, असुतिसामंते, सुसाणसामंते, चंदोवराते, सूरोवराते, पडणे, रायवुग्गहे, उवस्सस्स अंतो ओरालिते सरीरगे । [टी०] अजीवपरिणामाधिकारात् पुद्गललक्षणाजीवपरिणाममन्तरीक्षलक्षणाजीवपरिणामोपाधिकमस्वाध्यायिकव्यपदेश्यं दसविहेत्यादिना सूत्रेणाह - तत्र अंतलिक्खए त्ति अन्तरीक्षम् आकाशं तत्र भवमान्तरीक्षकम्, स्वाध्यायो वाचनादिः पञ्चविधो यथासम्भवं यस्मिन्नस्ति तत् स्वाध्यायिकम्, तदभावोऽस्वाध्यायिकम्, तत्रोल्का आकाशजा, तस्या: पात: उल्कापात:, तथा दिशो दिशि वा दाहो दिग्दाहः, इदमुक्तं भवति– एकतरदिग्विभागे महानगरप्रदीपनकमिव य उद्द्योतो भूमावप्रतिष्ठितो गगनतलवर्त्ती स दिग्दाह इति, गर्जितं जीमूतध्वनिः, विद्युत् तडित्, निर्घात: साभ्रे निरभ्रे वा गगने व्यन्तरकृतो महागर्जितध्वनिः, जूयए त्ति सन्ध्याप्रभा चन्द्रप्रभा च यद्युगपद् भवतस्तत् जूयगो त्ति भणितम्, सन्ध्याप्रभा - चन्द्रप्रभयोर्मिश्रत्वमिति भावः, तत्र चन्द्रप्रभाऽऽवृता सन्ध्या अपगच्छन्ती न ज्ञायते शुक्लपक्षप्रतिपदादिषु दिनेषु, सन्ध्याच्छेदे चाज्ञायमाने कालवेलां न जानन्त्यतस्त्रीणि दिनानि प्रादोषिकं कालं न गृह्णन्ति, ततः कालिकस्यास्वाध्यायः स्यादिति, उल्कादीनां चेदं स्वरूपम् दिसिदाहो छिन्नमूलो उक्क सरेहा पयासजुत्ता वा । संझाछेयावरणो जूयओ सुक्के दिणे तिन्नि || [ आव० नि० १३४९ ] जक्खालित्तं ति यक्षादीप्तमाकाशे भवति, एतेषु स्वाध्यायं कुर्वतां क्षुद्रदेवता छलनां करोति, धूमिका महिकाभेदो वर्णतो धूमिका धूमाकारा धूम्रेत्यर्थः, महिका प्रतीता, Page #290 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । ६९१ एतच्च द्वयमपि कार्तिकादिषु गर्भमासेषु भवति, तच्च पतनानन्तरमेव सूक्ष्मत्वात् सर्वमप्कायभावितं करोतीति, रयउग्घाए त्ति विश्रसापरिणामत: समन्ताद्रेणुपतनं रजउद्घातो भण्यते । अस्वाध्यायाधिकारादेवेदमाह- दसविहे ओरालिएत्यादि, औदारिकस्य मनुष्यतिर्यक्शरीरस्येदमौदारिकमस्वाध्यायिकम्, तत्रास्थि-मांस-शोणितानि प्रतीतानि, तत्र च पञ्चेन्द्रियतिरश्चामस्वाध्यायिकं द्रव्यतोऽस्थि-मांस-शोणितानि, ग्रन्थान्तरे चाप्यधीयते, यदाह- सोणिय मंसं चम्मं अट्ठी वि य होंति चत्तारि ॥ [आव० नि० १३६५] इति, क्षेत्रत: षष्टिहस्ताभ्यन्तरे, कालत: सम्भवकालाद्यावत्तृतीया पौरुषी, मार्जारादिभिसृषिकादिव्यापादने अहोरात्रं चेति, भावत: सूत्रं नन्द्यादिकं नाध्येतव्यमिति, मनुष्यसम्बन्ध्यप्येवमेव, नवरं क्षेत्रतो हस्तशतमध्ये कालतोऽहोरात्रं यावत्, आर्त्तवं दिनत्रयम्, स्त्रीजन्मनि दिनाष्टकम्, पुरुषजन्मनि दिनसप्तकम्, अस्थीनि तु जीवविमोक्षदिनादारभ्य हस्तशताभ्यन्तरस्थितानि द्वादश वर्षाणि यावदस्वाध्यायिकं भवति, चिताग्निना दग्धान्युदकवाहेन वा व्यूढान्यस्वाध्यायिकं न भवति, भूमिनिखातान्यस्वाध्यायिकमिति, तथा अशुचीनि अमेध्यानि मूत्र-पुरीषाणि तेषां सामन्तं समीपमशुचिसामन्तमस्वाध्यायिकं भवति, उक्तं च कालग्रहणमाश्रित्य- सोणियमुत्तपुरीसे घाणालोयं परिहरेज्जा [आव० नि० १४१४] इति । श्मशानसामन्तं शबस्थानसमीपम् । चन्द्रस्य चन्द्रविमानस्योपरागो राहुविमानतेजसोपरञ्जनं चन्द्रोपरागो ग्रहणमित्यर्थः, एवं सूरोपरागोऽपि, इह चेदं कालमानं यदि चन्द्रः सूर्यो वा ग्रहणे सति सग्रहोऽन्यथा वा निमज्जति तदा ग्रहणकालं तद्रात्रिशेषं तदहोरात्रशेषं च तत: परमहोरात्रं च वर्जयन्ति, आह च- चंदिमसूरुवरागे निग्घाए गुंजिए अहोरत्तं । [आव० नि० १३५१] ति, आचरितं तु यदि तत्रैव रात्रौ दिने वा मुक्तस्तदा चन्द्रग्रहणे तस्या एव रात्रे: शेष परिहरन्ति, सूर्यग्रहणे तु तद्दिनशेष परिहत्यानन्तरं रात्रिमपि परिहरन्तीति, चन्द्रसूर्योपरागयोश्चौदारिकत्वं तद्विमानपृथिवीकायिकापेक्षयाऽवसे यमान्तरीक्षकत्वं तु सदपि न विवक्षितम्, आन्तरीक्षत्वेनोक्तेभ्य आकस्मिकेभ्य उल्कादिभ्यश्चन्द्रादिविमानानां शाश्वतत्वेन Page #291 -------------------------------------------------------------------------- ________________ ६९२ विलक्षणत्वादिति । पडणे त्ति पतनं मरणं राजा-ऽमात्य-सेनापति-ग्रामभोगिकादीनाम्, तत्र यदा दण्डिकः कालगतो भवति राजा वाऽन्यो यावन्न भवति तदा सभये निर्भये वा स्वाध्यायं वर्जयन्ति, निर्भयश्रवणानन्तरमप्यहोरात्रं वर्जयन्तीति, ग्राममहत्तरेऽधिकारनियुक्ते बहुस्वजने वा शय्यातरे वा पुरुषान्तरे वा सप्तगृहाभ्यन्तरमृतेऽहोरात्रं स्वाध्यायं वर्जयन्ति शनैर्वा पठन्ति, निर्दुःखा एत इति गर्हां लोको मा कार्षीदिति । तथा रायवुग्गहे त्ति राज्ञां सङ्ग्राम उपलक्षणत्वात् सेनापति-ग्रामभोगिकमहत्तर-पुरुष-स्त्री-मल्लयुद्धान्यस्वाध्यायिकम्, एवं पांशु - पिष्टादिभण्डनान्यपि, यत ते प्रायो व्यन्तरबहुलास्तेषु प्रमत्तं देवता छलयेन्निर्दुःखा एत इत्युड्डाहो वाऽप्रीतिकं वा भवेदित्यतो यद्विग्रहादिकं यच्चिरकालं यस्मिन् क्षेत्रे भवति तत्र विग्रहादिके तावत्कालं तत्र क्षेत्रे स्वाध्यायं परिहरन्तीति । तथोपाश्रयस्य वसतेरन्तः मध्ये वर्त्तमानमौदारिकं मनुष्यादिसत्कं शरीरकं यद्युद्भिन्नं भवति तदा हस्तशताभ्यन्तरेऽस्वाध्यायिकं भवति, अथानुद्भिन्नं तथापि कुत्सितत्वादाचरितत्वाच्च हस्तशतं वर्ज्यते, परिष्ठापिते तु तत्र तत्स्थानं शुद्धं भवतीति। [सू० ७१५] पंचेंदिया णं जीवा असमारभमाणस्स दसविधे संजमे कज्जति, तंजहा- सोतामताओ सोक्खाओ अवरोवेत्ता भवति, सोतामतेणं दुक्खेणं असंजोगेत्ता भवति, एवं जाव फासामतेणं दुक्खेणं असंजोएत्ता भवति । एवं असंजमो वि भाणितव्वो । [टी०] पञ्चेन्द्रियशरीरमस्वाध्यायिकमित्यनन्तरमुक्तमिति पञ्चेन्द्रियाधिकारात् तदाश्रितसंयमा-ऽसंयमसूत्रे सुगमे । [सू० ७१६] दस सुहुमा पन्नत्ता, तंजहा - पाणसुहुमे, पणगसुहुमे जाव सिणेहसुहमे, गणितसुहमे, भंगसुहमे । [टी०] संयमासंयमाधिकारात् तद्विषयभूतानि सूक्ष्माणि प्ररूपयन्नाह – दस सुहुमेत्यादि, प्राणसूक्ष्मम् अनुद्धरितकुन्थुः, पनकसूक्ष्मम् उल्ली, यावत्करणादिदं द्रष्टव्यम्, बीजसूक्ष्मं व्रीह्यादीनां नखिका, हरितसूक्ष्मं भूमिसमवर्णं तृणम्, पुष्पसूक्ष्मं वटादिपुष्पाणि, Page #292 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । ६९३ अण्डसूक्ष्म कीटिकाद्यण्डकानि, लयनसूक्ष्मम् कीटिकानगरकादि, स्नेहसूक्ष्म अवश्यायादीत्यष्टस्थानकभणितमेव, इदमपरं गणितसूक्ष्मम्, गणितं सङ्कलनादि तदेव सूक्ष्मं सूक्ष्मबुद्धिगम्यत्वात्, श्रूयते च वज्रान्तं गणितमिति, भङ्गसूक्ष्मं भङ्गा भङ्गका वस्तुविकल्पाः, ते च द्विधा- स्थानभङ्गकाः क्रमभङ्गकाश्च, तत्राद्या यथा द्रव्यतो नामैका हिंसा न भावत: १, अन्या भावतो न द्रव्यत: २, अन्या भावतो द्रव्यतश्च ३, अन्या न भावतो नापि द्रव्यत: ४ इत्यादि । तल्लक्षणं सूक्ष्म भङ्गसूक्ष्मम्, सूक्ष्मता चास्य भजनीयपदबहुत्वे गहनभावेन सूक्ष्मबुद्धिगम्यत्वादिति। [सू० ७१७] जंबुमंदरदाहिणेणं गंगासिंधूओ महानदीओ दस महानदीओ समप्पेंति, तंजहा-जउणा, सरऊ, आती, कोसी, मही, सतद्, वितत्था, विभासा, एरावती, चंदभागा । जंबुमंदरउत्तरेणं रत्ता-रत्तवतीओ महानदीओ दस महानदीओ समप्पेंति, तंजहा-किण्हा, महाकिण्हा, नीला, महानीला, तीरा, महातीरा, इंदा जाव महाभोगा । [सू० ७१८] जंबुद्दीवे दीवे भरहे वासे दस रायहाणीओ पन्नत्ताओ, तंजहाचंपा महरा वाणारसी त सावत्थि तह त सातेतं । हत्थिणउर कंपिल्लं मिहिला कोसंबि रायगिहं ॥१५२॥ एतासु णं दससु रायहाणीसु दस रायाणो मुंडा भवेत्ता जाव पव्वतिता, तंजहा-भरहे, सगरे, मघवं, सणंकुमारे, संती, कुंथू, अरे, महापउमे, हरिसेणे, जयणामे । [सू० ७१९] जंबुद्दीवे दीवे मंदरे पव्वए दस जोयणसयाइं उव्वेहेणं, धरणितले दस जोयणसहस्साई विक्खंभेणं, उवरिं दस जोयणसयाई विक्खंभेणं, दस दसाई जोयणसहस्साइं सव्वग्गेणं पण्णत्ते । [सू० ७२०] जंबुद्दीवे दीवे मंदरस्स पव्वतस्स बहुमज्झदेसभागे इमीसे रयणप्पभाते पुढवीते उवरिमहेट्टिल्लेसु खुड्डगपतरेसु एत्थ णमट्ठपतेसिते रुयगे पण्णत्ते जओ णमिमातो दस दिसातो पवहंति, तंजहा-पुरत्थिमा, Page #293 -------------------------------------------------------------------------- ________________ ६९४ पुरथिमदाहिणा, दाहिणा, दाहिणपच्चत्थिमा, पच्चत्थिमा, पच्चत्थिमुत्तरा, उत्तरा, उत्तरपुरस्थिमा, उड्डा, अधा । एतासि णं दसण्हं दिसाणं दस नामधेज्जा पन्नत्ता, तंजहाइंदा अग्गेयी जम्मा त, णेरती वारुणी य वायव्वा । सोमा ईसाणी ता, विमला य तमा य बोद्धव्वा ॥१५३॥ - [सू० ७२१] लवणस्स णं समुद्दस्स दस जोयणसहस्साई गोतित्थविरहिते खेत्ते पन्नत्ते । लवणस्स णं समुद्दस्स दस जोयणसहस्साई उदगमाले पन्नत्ते । सव्वे वि णं महापाताला दस दसाइं जोयणसहस्साणमुव्वेहेणं पण्णत्ता, मूले दस जोयणसहस्साई विक्खंभेणं पन्नत्ता, बहुमज्झदेसभागे एगपएसिताते सेढीते दस दसाइं जोयणसहस्साणं विक्खंभेणं पन्नत्ता, उवरिं मुहमूले दस जोयणसहस्साइं विक्खंभेणं पण्णत्ता । तेसि णं महापातालाणं कुड्डा सव्ववइरामता सव्वत्थ समा दस जोयणसयाई बाहल्लेणं पन्नत्ता ।। सव्वे वि णं खुद्दापाताला दस जोयणसताई उव्वेहेणं पन्नत्ता, मूले दस दसाइं जोयणाणं विक्खंभेणं पन्नत्ता, बहुमज्झदेसभागे एगपएसिताते सेढीते दस जोयणसताई विक्खंभेणं पन्नत्ता, उवरिं मुहमूले दस दसाइं जोयणाणं विक्खंभेणं पन्नत्ता, तेसि णं खुद्दापातालाणं कुड्डा सव्ववइरामता सव्वत्थ समा दस जोयणाई बाहल्लेणं पण्णत्ता । [सू० ७२२] धायतिसंडगा णं मंदरा दस जोयणसयाई उव्वेधेणं, धरणितले देसूणाई दस जोयणसहस्साई विक्खंभेणं, उवरिं दस जोयणसयाई विक्खंभेणं पन्नत्ता । पुक्खरवरदीवड्ढगा णं मंदरा दस जोयण एवं चेव । [सू० ७२३] सव्वे वि णं वटवेयड्डपव्वता दस जोयणसयाई उटुंउच्चत्तेणं, दस गाउयसताइमुव्वेहेणं, सव्वत्थ समा पल्लगसंठिता, दस जोयणसताई विक्खंभेणं पन्नत्ता । [सू० ७२४] जंबुद्दीवे दीवे दस खेत्ता पण्णत्ता, तंजहा-भरहे, एरवते, Page #294 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । हेमवते, हेरन्नवते, हरिवस्से, रम्मगवस्से, पुव्वविदेहे, अवरविदेहे, देवकुरा, उत्तरकुरा । [सू० ७२५] माणुसुत्तरे णं पव्वते मूले दस बावीसे जोयणसते विक्खंभेणं पण्णत्ते । ६९५ सव्वे वि णमंजणगपव्वता दस जोयणसयाइमुव्वेहेणं, मूले दस जोयणसहस्साइं विक्खंभेणं, उवरिं दस जोयणसताइं विक्खंभेणं पण्णत्ता । सव्वे वि णं दहिमुहपव्वता दस जोयणसताइं उव्वेहेणं, सव्वत्थ समा, पल्लगसंठिता, दस जोयणसहस्साइं विक्खंभेणं पन्नत्ता । सव्वे विणं रतिकरगपव्वता दस जोयणसताई उड्डउच्चत्तेणं, दस गाउतसताई उव्वेहेणं, सव्वत्थ समा, झल्लरिसंठिता, दस जोयणसहस्साइं विक्खंभेणं पन्नत्ता । रुयगवरे णं पव्वते दस जोयणसयाइं उव्वेहेणं, मूले दस जोयणसहस्साइं विक्खंभेणं, उवरिं दस जोयणसताइं विक्खंभेणं पन्नत्ते । एवं कुंडलवरे वि [टी०] पूर्वं गणितसूक्ष्ममुक्तमिति तद्विषयविशेषभूतं प्रकृताध्ययनावतारितया जंबूदीवेत्यादि गङ्गासूत्रादिकं कुण्डलसूत्रावसानं क्षेत्रप्रकरणमाह, इदं प्रकरणं सुगमम्, नवरं गङ्गां समुपयान्ति दशानामाद्याः पञ्च इतरा: सिन्धुमिति, एवं रक्तासूत्रमपि, नवरं यावत्करणात् इंदसेणा वारिसेण त्ति द्रष्टव्यमिति । रायहाणीओ त्ति राजा विधीयते अभिषिच्यते यासु ता राजधान्यः जनपदानां मध्ये प्रधाननगर्यः, चंपा गाहा, चम्पानगरी अङ्गजनपदेषु, मथुरा सूरसेनदेशे, वाराणसी काश्याम्, श्रावस्ती कुणालायाम्, साकेतमयोध्येत्यर्थः कोशलेषु जनपदेषु, हत्थिणपुरं ति नागपुरं कुरुजनपदे, काम्पिल्यं पञ्चालेषु, मिथिला विदेहे, कौशाम्बी वत्सेषु, राजगृहं मगधेष्विति, एतासु किल साधवः उत्सर्गतो न प्रविशन्ति तरुणी - रमणीयपण्यादिदर्शनेन मनः क्षोभादिसम्भवात्, मासस्यान्तर्द्विस्त्रिर्वा प्रविशतां त्वाज्ञादयो दोषा इति, एताश्च दशस्थानकानुसारेणाभिहिता न तु दशैवैताः अर्द्धषड्विंशतावार्यजनपदेषु षड्वंशतेर्नगरीणामुक्तत्वादिति, अयं च न्यायोऽन्यत्र ग्रन्थे तेषु तेषु प्रायश्चित्तादिविचारेषु प्रसिद्ध एवेति, व्याख्यातं च Page #295 -------------------------------------------------------------------------- ________________ ६९६ दशराजधानीग्रहणे शेषाणामपि ग्रहणं निशीथभाष्ये, यदाहदसरायहाणिगहणा सेसाणं सूयणा कया हो । मासस्संतो दुग तिग ताओ अड़ंतम्मि आणाई || [निशीथभा० २५८८ ] एतास्विति अनन्तरोदितासु दशस्वार्यनगरीषु मध्ये अन्यतरासु कासुचिद्दश राजानः चक्रवर्त्तिनः प्रव्रजिता इत्येवं दशस्थानकेऽवतारस्तेषां कृतः, द्वौ च सुभूमब्रह्मदत्ताभिधानौ न प्रव्रजितौ नरकं च गताविति । तत्र भरत - सगरौ प्रथम- द्वितीय चक्रवर्त्तिराजौ साकेते नगरे विनीता - ऽयोध्यापर्याये जातौ प्रव्रजितौ च मघवान् श्रावस्त्याम्, सनत्कुमारादयश्चत्वारो हस्तिनागपुरे, महापद्मो वाराणस्याम्, हरिषेणः काम्पिल्ये, जयनामा राजगृहे इति, न चैतासु नगरीषु क्रमेणैते राजानो व्याख्येयाः, ग्रन्थविरोधात्, उक्तं च-- इत्यादि [वृत्तौ ] | मन्दरो मेरुः, उव्वेहेणं ति भूमाववगाहतः, विष्कम्भेण पृथुत्वेन, उपरि पण्डकवनप्रदेशे दश शतानि सहस्रमित्यर्थः । दश दशकानि शतमित्यर्थः, केषाम् ? योजनसहस्राणाम्, लक्षमित्यर्थः, ईदृशी च भणितिर्दशस्थानकानुरोधात्, सर्वाग्रेण सर्वपरिमाणत इति । उवरिमहेट्ठिल्लेसु त्ति उपरितनाधस्तनयोः क्षुल्लकप्रतरयोः, सर्वेषां मध्ये तयोरेव लघुत्वात्, तयोरध उपरि च प्रदेशान्तरवृद्ध्या वर्द्धमानतरत्वाल्लोकस्येति, अट्ठपएसिए त्ति अष्टौ प्रदेशा यस्मिन्नित्यष्टप्रदेशिकः, स्वार्थिकप्रत्ययविधानादिति, तत्र चोपरितने प्रतरे चत्वारः प्रदेशा गोस्तनवदितरत्रापि चत्वारस्तथैवेति, इमाउ त्ति वक्ष्यमाणाः त्ति चतस्रो द्विप्रदेशादयो द्व्युत्तराः शकटोर्द्धिसंस्थाना महादिशश्चतस्र एव एकप्रदेशादयोऽनुत्तरा मुक्तावलीकल्पा विदिशः, तथा द्वे चतुष्प्रदेशादिके अनुत्तरे ऊर्ध्वाधोदिशाविति, पवहंति त्ति प्रवहन्ति प्रभवन्तीत्यर्थः । इंदा गाहा, इन्द्रो देवता यस्या: सा ऐन्द्री, एवमाशेयी याम्येत्यादि, विमला वितिमिरत्वादूर्ध्वदिशो नामधेयम्, तमा अन्धकारयुक्तत्वेन रात्रितुल्यत्वादधोदिशश्चेति। लवणेत्यादि, गवां तीर्थं तडागादाववतारमार्गे गोतीर्थम्, ततो गोतीर्थमिव गोतीर्थम् अवतारवती भूमि:, तद्विरहितं सममित्यर्थः, एतच्च पञ्चनवतियोजनसहस्राण्यर्वाग्भागतः Page #296 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । परभागतश्च गोतीर्थरूपां भूमिं विहाय मध्ये भवतीति, उदकमाला उदकशिखा वेलेत्यर्थः, दश योजनसहस्राणि विष्कम्भतः, उच्चैस्त्वेन तु षोडश सहस्राणीति, समुद्रमध्यभागादेवोत्थितेति, सव्वे वीत्यादि, सर्वेऽपीति पूर्वादिदिक्षु तद्भावाच्चत्वारोऽपि महापाताला: पातालकलशाः वलयामुख - केयूर - जूयक- ईश्वरनामानश्चतुः - स्थानकाभिहिताः, क्षुल्लकपातालकलशव्यवच्छेदार्थं महाग्रहणम्, दश दशकानि शतं योजनसहस्राणां लक्षमित्यर्थः, उद्वेधेन गाधेनेत्यर्थ:, मूले बुध्ने दश सहस्राणि मध्ये लक्षम्, कथम् ?, मूलविष्कम्भादुभयत एकैकप्रदेशवृद्ध्या विस्तरं गच्छतां या एक प्रदेशिका श्रेणी भवति तया, अनेन प्रदेशवृद्धिरुपदर्शिता, सर्वेऽपीति सप्त सहस्राण्यष्टशतानि चतुरशीत्यधिकानीत्येवं-सङ्ख्या:, क्षुल्लका महदपेक्षया, उद्वेधेन मध्यविष्कम्भेण च सहस्रम्, मूले मुखे च विष्कम्भेण शतम्, कुड्यबाहल्येन च दश । धायईत्यादि, मंदर त्ति पूर्वापरौ मेरू, तत्स्वरूपं सूत्रतः सिद्धम् । सर्वेऽपि वृत्तवैताढ्यपर्वताः विंशति: प्रत्येकं पञ्चसु हैमवतैरण्यवत - हरिवर्ष- रम्यकेष्वेषां शब्दावती-विकटावती-गन्धावती-मालवत्पर्यायाख्यानां भावादिति, वृत्तग्रहणं दीर्घवैताढ्यव्यवच्छेदार्थमिति, मानुषोत्तरश्चक्रवालपर्वतः प्रतीतः, अञ्जनकाश्चत्वारो नन्दीश्वरद्वीपवर्त्तिनः, दधिमुखाः प्रत्येकमञ्जनकानां दिक्चतुष्टयव्यवस्थित-पुष्करिणीमध्यवर्त्तिनः षोडशेति, रतिकरा नन्दीश्वरद्वीपे विदिग्व्यवस्थिताः चत्वारश्चतुः- स्थानकाभिहितस्वरूपाः । रुचको रुचकाभिधानस्त्रयोदशद्वीपवर्त्ती चक्रवालपर्वतः । कुण्डलाभिधान एकादशद्वीपवर्त्ती चक्रवालपर्वतः एव, एवं कुण्डलवरे वीत्यनेनेह कुण्डलवर उद्वेध - मूलविष्कम्भोपरिविष्कम्भै रुचकवरपर्वतसमान उक्तः, द्वीपसागरप्रज्ञप्त्यां त्वेवमुक्त: दस चेव जोयणसए बावीसे वित्थडो उ मूलम्मि । चत्तारि जोयणसए चउवीसे वित्थडो सिहरे || [द्वीपसागर० ७४] त्ति । ६९७ [ अत्र तुल्यं ] रुचकस्यापि तत्रायं विशेष उक्त :- मूलविष्कम्भो दश सहस्राणि द्वाविंशत्यधिकानि शिखरे तु चत्वारि सहस्राणि चतुर्विंशत्यधिकानीति । [सू० ७२६] दसविधे दवियाणुओगे पन्नत्ते, तंजहा -दवियाणुओगे, माउयाणुओगे, एगट्ठियाणुओगे, करणाणुओगे, अप्पिताणप्पिते, भाविता Page #297 -------------------------------------------------------------------------- ________________ ६९८ भाविते, बाहिराबाहिरे, सासतासासते, तधणाणे, अतधणाणे । [टी०] अनन्तरं गणितानुयोग उक्तः, अथ द्रव्यानुयोगस्वरूपं भेदत आह– दसविहे दवियेत्यादि, अनुयोजनं सूत्रस्यार्थेन सम्बन्धनम्, अनुरूपोऽनुकूलो वा योग: सूत्रस्याभिधेयार्थं प्रति व्यापारोऽनुयोग:, व्याख्यानमिति भावः, स च चतुर्द्धा व्याख्येयभेदात्, तद्यथा- चरणकरणानुयोगो धर्मकथानुयोगो गणितानुयोगो द्रव्यानुयोगश्च, तत्र द्रव्यस्य जीवादेरनुयोगो विचारो द्रव्यानुयोगः, स च दशधा, तत्र दवियाणुओगे त्ति यज्जीवादेव्यत्वं विचार्यते स द्रव्यानुयोगः, यथा द्रवति गच्छति तांस्तान् पर्यायान् द्रूयते वा तैस्तै: पर्यायैरिति द्रव्यं गुण-पर्यायवानर्थः, तत्र सन्ति जीवे ज्ञानादयः सहभावित्वलक्षणा गुणाः, न हि तद्वियुक्तो जीव: कदाचनापि संभवति जीवत्वहानेः, तथा पर्याया अपि मानुषत्व-बाल्यादयः कालकृतावस्थालक्षणाः तत्र सन्त्येवेत्यतो भवत्यसौ गुण-पर्यायवत्त्वात् द्रव्यमित्यादिः द्रव्यानुयोग: १, तथा माउयाणुओगे त्ति, इह मातृकेव मातृका प्रवचनपुरुषस्योत्पाद-व्यय-ध्रौव्यलक्षणा पदत्रयी, तस्या अनुयोगो यथा उत्पादवज्जीवद्रव्यं बाल्यादिपर्यायाणामनुक्षणमुत्पत्तिदर्शनाद् अनुत्पादे च वृद्धाद्यवस्थानामप्राप्तिप्रसङ्गादसमञ्जसापत्तेः, तथा व्ययवज्जीवद्रव्यं प्रतिक्षणं बाल्याद्यवस्थानां व्ययदर्शनादव्ययत्वे च सर्वदा बाल्यादिप्राप्तेरसमञ्जसमेव, तथा यदि सर्वथाऽप्युत्पादव्ययवदेव तत् न केनापि प्रकारेण ध्रुवं स्यात्तदा अकृताभ्यागम-कृतविप्रणाशप्राप्त्या पूर्वदृष्टानुस्मरणा-ऽभिलाषादिभावानामभावप्रसङ्गेन च सकलेहलोक-परलोकालम्बनानुष्ठानानामभावतोऽसमञ्जसमेव, ततो द्रव्यतयाऽस्य ध्रौव्यमित्युत्पाद-व्यय-ध्रौव्ययुक्तमतो द्रव्यमित्यादिः मातृकापदानुयोग: २, तथा एगट्ठियाणुओगे त्ति, एकश्चासावर्थश्च अभिधेयो जीवादिः स येषामस्ति त एकार्थिका: शब्दास्तैरनुयोगस्तत्कथनमित्यर्थः, [एकार्थिकानुयोगो यथा जीवद्रव्यं प्रति जीव: प्राणी भूत: सत्त्वः, एकार्थिकानां वाऽनुयोगो यथा] जीवनात् प्राणधारणाजीव:, प्राणानाम् उच्छ्वासादीनामस्तित्वात् प्राणी, सर्वदा भवनाद्भूतः, सदा सत्त्वात् सत्त्व: इत्यादिः ३, तथा करणाणुओगे त्ति क्रियते एभिरिति करणानि तेषामनुयोग: करणानुयोगः, तथाहि- जीवद्रव्यस्य कर्तुर्विचित्रक्रियासु साधकतमानि काल-स्वभाव-नियति-पूर्वकृतानि, नैकाकी जीव: किञ्चन कर्तुमलमिति, Page #298 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । मृद्रव्यं वा कुलाल-चक्र-चीवर-दण्डादिकं करणकलापमन्तरेण न घटलक्षणं कार्यं प्रति घटत इति तस्य तानि करणानीति द्रव्यस्य करणानुयोग इति ४, तथा अप्पियाणप्पिए त्ति द्रव्यं ह्यर्पितं विशेषितं यथा जीवद्रव्यं किंविधम् ? संसारीति, संसार्यपि त्रसरूपम्, त्रसरूपमपि पञ्चेन्द्रियम्, तदपि नररूपमित्यादि, अनर्पितम् अविशेषितमेव, यथा जीवद्रव्यमिति, ततश्चार्पितं च तदनर्पितं चेत्यर्पितानर्पितं द्रव्यं भवतीति द्रव्यानुयोग: ५, तथा भावियाभाविए त्ति भावितं वासितं द्रव्यान्तरसंसर्गत: अभावितमन्यथैव यत्, यथा जीवद्रव्यं भावितं किञ्चित्, तच्च प्रशस्तभावितमितरभावितं च, तत्र प्रशस्तभावितं संविग्नभावितमप्रशस्तभावितं चेतरभावितम्, तत् द्विविधमपि वामनीयमवामनीयं च, तत्र वामनीयं यत् संसर्गजं गुणं दोषं वा संसर्गान्तरेण वमति, अवामनीयं त्वन्यथा, अभावितं त्वसंसर्गप्राप्तं प्राप्तसंसर्ग वा वज्रतन्दुलकल्पं न वासयितुं शक्यमिति, एवं घटादि द्रव्यमपि, ततश्च भावितं च अभावितं च भाविताभावितम्, एवंभूतो विचारो द्रव्यानुयोग इति ६, तथा बाहिराबाहिरे त्ति बाह्याबाह्यम्, तत्र जीवद्रव्यं बाह्यं चैतन्यधर्मेणाकाशास्तिकायादिभ्यो विलक्षणत्वात् तदेवाबाह्यममूर्त्तत्वादिना धर्मेण अमूर्त्तत्वादुभयेषामपि, चैतन्येन वा अबाह्यं जीवास्तिकायाच्चैतन्यलक्षणत्वादुभयोरपि ७, तथा सासयासासए त्ति शाश्वताशाश्वतम्, तत्र जीवद्रव्यमनादिनिधनत्वात् शाश्वतं तदेवापरापरपर्याय-प्राप्तितोऽशाश्वतमित्येवमन्यो द्रव्यानुयोग इति ८, तथा तहनाणे त्ति यथा वस्तु तथा ज्ञानं यस्य तत्तथाज्ञानं सम्यग्दृष्टिजीवद्रव्यं तस्यैवावितथज्ञानत्वात्, इत्येवमन्यो द्रव्यानुयोग इति ९, अतहणाणे त्ति अतथाज्ञानं मिथ्यादृष्टिजीवद्रव्यमलातद्रव्यं वा चक्रतयाऽवभासमानमेकान्तवाद्यभ्युपगतं वा वस्तु, तथाहि- एकान्तेन नित्यमनित्यं वा वस्तु तैरभ्युपगतं प्रतिभाति च तत् परिणामितयेति तदतथाज्ञानमित्येवमन्यो द्रव्यानुयोग इति १०। _[सू० ७२७] चमरस्स णं असुरिंदस्स असुरकुमाररन्नो तिगिंच्छिकूडे उप्पातपव्वते मूले दस बावीसे जोयणसते विक्खंभेणं पन्नत्ते । चमरस्स णं असुरिंदस्स असुरकुमाररण्णो सोमस्स महारण्णो सोमप्पभे उप्पातपव्वते दस जोयणसताई उडुंउच्चत्तेणं, दस गाउयसताइं उव्वेहेणं, मूले Page #299 -------------------------------------------------------------------------- ________________ ७०० दस जोयणसयाइं विक्खंभेणं पण्णत्ते । चमरस्स णमसुरिंदस्स असुरकुमाररण्णो जमस्स महारन्नो जमप्पभे उप्पातपव्वते एवं चेव, एवं वरुणस्स वि, एवं वेसमणस्स वि । बलिस णं वइरोयणिंदस्स वइरोयणरण्णो रुयगिंदे उप्पातपव्वते मूले दस बावीसे जोयणसते विक्खंभेणं पण्णत्ते । बलिस्स णं वइरोयणिंदस्स वइरोयणरण्णो सोमस्स एवं चेव, जधा चमरस्स लोगपालाणं तं चेव बलिस्स वि । धरणस्स णं णागकुमारिंदस्स नागकुमाररण्णो धरणप्पभे उप्पातपव्वते दस जोयणसयाई उड्डउच्चत्तेणं, दस गाउयसताइं उव्वेहेणं, मूले दस जोयणसताइं विक्खंभेणं । धरणस्स णं नागकुमारिंदस्स नागकुमाररण्णो कालवालस्स महारण्णो काल[वाल]प्पभे उप्पातपव्वते दस जोयणसताई उड्डुं एवं चेव, एवं जाव संखवालस्स । एवं भूताणंदस्स वि, एवं लोगपालाणं पि से जधा धरणस्स । एवं जाव थणितकुमाराणं सलोगपालाणं भाणितव्वं, सव्वेसिं उप्पायपव्वता भाणियव्वा सरिणामगा । सक्क्स्स णं देविंदस्स देवरण्णो सक्कप्पभे उप्पातपव्वते दस जोयणसहस्साइं उड्डउच्चत्तेणं, दस गाउतसहस्साइं उव्वेहेणं, मूले दस जोयणसहस्साइं विक्खंभेणं पण्णत्ते । सक्क्स्स णं देविंदस्स देवरण्णो सोमस्स महारन्नो जधा सक्क्स्स तथा सव्वेसिं लोगपालाणं सव्वेसिं च इंदाणं जाव अच्चुतस्स त्ति, सव्वेसिं पमाणमेगं । [टी०] पुनर्गणितानुयोगमेवाधिकृत्योत्पातपर्व्वताधिकारमच्युतसूत्रं यावदाह– चमरस्सेत्यादि सुगमम्, नवरं तिगिंच्छिकूडे त्ति तिगिंच्छी किंजल्कः, तत्प्रधानकूटत्वात्तिगिंच्छिकूटः, तत्प्रधानत्वं च कमलबहुलत्वात्, संज्ञा चेयम्, उप्पायपव्वए त्ति उत्पतनम् ऊर्ध्वगमनमुत्पातस्तेनोपलक्षितः पर्वत उत्पातपर्वत:, स च रुचकवराभिधानात् त्रयोदशात् समुद्राद्दक्षिणतोऽसङ्ख्येयान् द्वीप- समुद्रानतिलङ्घ्य यावदरुणवरद्वीपाऽरुणवरसमुद्रौ तयोररुणवरसमुद्रं दक्षिणतो द्विचत्वारिंशतं योजनसहस्राण्यवगाह्य भवति । Page #300 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । ७०१ [स च रत्नमय: पद्मवरवेदिकया वनखण्डेन च परिक्षिप्तः, तस्य च मध्येऽशोकावतंसको देवप्रासाद इति ।] चमरस्सेत्यादि, महारनो त्ति लोकपालस्य सोमप्रभ उत्पातपर्वत: अरुणोदसमुद्र एव भवति, एवं यम-वरुण-वैश्रमणसूत्राणि नेयानीति । बलिस्सेत्यादि, रुचकेन्द्र उत्पातपर्वतोऽरुणोदसमुद्रे एव भवति । बलिस्सेत्यादि, वतीत्यादि सूत्रसूचा, एवं च दृश्यं वइरोयणिंदस्स वइरोयणरन्नो सोमस्स य महारन्नो एवं चेव त्ति अतिदेश:, एतद्भावना- जहेत्यादि, यथा यत्प्रकार चमरस्य लोकपालानामुत्पातपर्वतप्रमाणं प्रत्येकं चतुर्भि: सूत्रैरुक्तं तं चेव त्ति तत्प्रकारमेव चतुर्भि: सूत्रैः बलिनोऽपि वैरोचनेन्द्रस्यापि वक्तव्यम्, समानत्वादिति । ___धरणस्सेत्यादि, धरणस्योत्पातपर्वतोऽरुण एव समुद्रे भवति, धरणस्सेत्यादि प्रथमलोकपालसूत्रे एवं चेव त्ति करणात् उच्चत्तेणं दस गाउयसयाई उव्वेहेणमित्यादि सूत्रमतिदिष्टम् । एवं जाव संखवालस्स त्ति करणात् शेषाणां त्रयाणां लोकपालानां कालवाल-सेलवाल-संखवालाभिधानानामुत्पातपर्वताभिधायीनि त्रीण्यन्यानि सूत्राणि दर्शयति । एवं भूयाणंदस्स वि त्ति भूतानन्दस्यापि औदीच्यनागराजस्यापि उत्पातपर्वतस्तस्य नाम प्रमाणं च वाच्यम्, यथा धरणस्येत्यर्थः, भूतानन्द-प्रभश्चोत्पातपर्वतोऽरुणोद एव भवति, केवलमुत्तरत:, एवं लोगपालाण वि से त्ति से तस्य भूतानन्दस्य लोकपालानामपि, एवमुत्पातपर्वतप्रमाणं यथा धरणलोकपालानामिति भावः, नवरं तन्नामानि चतु:स्थानकानुसारेण ज्ञातव्यानीति, जहा धरणस्सेति यथा धरणस्य । एवमिति तथा [सुपर्ण]विद्युत्कुमारादीनां ये इन्द्रास्तेषामुत्पातपर्वतप्रमाणं भणितव्यम्, किंपर्यन्तानां तेषामित्यत आह– जाव थणियकुमाराणं ति प्रकटम्, किमिन्द्राणामेव ? नेत्याह-सलोगपालाणं ति, तल्लोकपालानामपीत्यर्थः, सव्वेसिमित्यादि, सर्वेषामिन्द्राणां तल्लोकपालानां चोत्पातपर्वता: सदृग्नामानो भणितव्याः, यथा धरणस्य धरणप्रभ:, प्रथमतल्लोकपालस्य कालवालस्य कालवालप्रभ इत्येवं सर्वत्र, ते च पर्वता: स्थानमङ्गीकृत्यैवं भवन्ति Page #301 -------------------------------------------------------------------------- ________________ ७०२ असुराणं नागाणं उदहिकुमाराण होंति आवासा । अरुणोदए समुद्दे तत्थेव य तेसि उप्पाया ॥ [दीवदिसाअग्गीणं थणियकुमाराण होंति आवासा । अरुणवरे दीवम्मि उ तत्थेव य तेसि उप्पाया ॥ [द्वीपसागर० २२०-२२१] इति ।] सक्कस्सेत्यादि, कुण्डलवरे द्वीपे कुण्डलपर्वतस्याभ्यन्तरे दक्षिणतः षोडश राजधान्यः सन्ति, तासां चतसृणां चतसृणां मध्ये सोमप्रभ-यमप्रभ-वरुणप्रभ-वैश्रमणप्रभाख्या उत्पातपर्वता: सोमादीनां शक्रलोकपालानां भवन्ति, उत्तरपार्श्वे तु एवमेवेशानलोकपालानामिति, यथा शक्रस्य तथाऽच्युतान्तानामिन्द्राणां लोकपालानां चोत्पातपर्वता वाच्याः, यत: सर्वेषामेकं प्रमाणम्, नवरं स्थानविशेषो विशेषसूत्रादवगन्तव्यः । [सू० ७२८] बादरवणस्सतिकातिताणं उक्कोसेणं दस जोयणसताई सरीरोगाहणा पण्णत्ता १॥ जलचरपंचेंदियतिरिक्खजोणिताणं उक्कोसेणं दस जोयणसताई सरीरोगाहणा पन्नत्ता २॥ उरपरिसप्पथलचरपंचेंदिततिरिक्खजोणिताणं उक्कोसेणं एवं चेव ३॥ टी०] योजनसहस्राधिकारादेव योजनसाहसिकावगाहनासूत्रत्रयम्- बादरेत्यादि कण्ठ्यम्, नवरं बादर त्ति बादराणामेव न सूक्ष्माणां तेषामङ्गुलासङ्ख्येयभागमात्रावगाहनत्वात्, एवं जघन्यतोऽपि मा भूदत: उक्कोसेणं त्यभिहितम्, दश योजनशतानि उत्सेधयोजनेन, न तु प्रमाणयोजनेन, उस्सेहपमाणउ मिणे देहं [बृहत्सं० ३४९] ति वचनात्, शरीरस्यावगाहना येषु प्रदेशेषु शरीरमवगाढं सा शरीरावगाहना, सा च तथाविधनद्यादिपद्मनालविषया द्रष्टव्येति । जलचरेत्यादि, इह जलचरा मत्स्याः गर्भजा इतरे च दृश्या:, मच्छजुयले सहस्सं [बृहत्सं० ३०७] ति वचनात्, एते च किल स्वयम्भूरमण एव भवन्तीति । उरेत्यादि, उर:परिसर्पा इह गर्भजा महोरगा दृश्या:, उरगेसु य गब्भजाईसु ॥ [बृहत्सं० ३०७] त्ति वचनात्, एते किल बाह्यद्वीपेषु जलनिश्रिता भवन्ति, एवं चेव त्ति दस जोयणसयाई सरीरोगाहणा पत्नत्त त्ति सूत्रं वाच्यमित्यर्थः। [सू० ७२९] संभवाओ णमरहातो अभिणंदणे अरहा दसहिं सागरोवमकोडिसतसहस्सेहिं वीतिकंतेहिं समुप्पन्ने । Page #302 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । ७०३ [टी०] एवंविधाश्चार्था जिनैर्दर्शिता इति प्रकृताध्ययनावतारि जिनान्तरसूत्रं संभवेत्यादि सुगमम् । [सू० ७३०] दसविहे अणंतते पण्णत्ते, तंजहा-णामाणंतते, ठवणाणंतते, दव्वाणंतते, गणणाणंतते, पएसाणंतते, एगतोणंतते, दुहतोणंतते, देसवित्थाराणंतते, सव्ववित्थाराणंतते, सासताणंतते । [टी०] अभिहितप्रमाणाश्चावगाहनादयोऽन्येऽपि पदार्था जिनैरनन्ता दृष्टा इत्यनन्तकं भेदत आह– दसविहेत्यादि, नामानन्तकम् अनन्तकमित्येषा नामभूता वर्णानुपूर्वी यस्य वा सचेतनादेर्वस्तुनोऽनन्तकमिति नाम तन्नामानन्तकम्, स्थापनानन्तकं यदक्षादावनन्तकमिति स्थाप्यते, द्रव्यानन्तकं जीवद्रव्याणां पुद्गलद्रव्याणां वा यदनन्तत्वम्, गणनानन्तकं यदेको द्वौ त्रय इत्येवं सङ्ख्याता असङ्ख्याता अनन्ता इति, प्रदेशानन्तकम् आकाशप्रदेशानां यदानन्त्यमिति, एकतोऽनन्तकमतीताद्धा अनागताद्धा वा, द्विधाऽनन्तकं सर्वाद्धा, देशविस्तारानन्तकम् एक आकाशप्रतर:, सर्वविस्तारानन्तकं सर्वाकाशास्तिकाय इति, शाश्वतानन्तकमक्षयं जीवादिद्रव्यमिति । [सू० ७३१] उप्पायपुव्वस्स णं दस वत्थू पण्णत्ता १। अत्थिणत्थिप्पवातपुव्वस्स णं दस चूलवत्थू पण्णत्ता २॥ [टी०] एवंविधार्थाभिधायकं पूर्वगतश्रुतमिति पूर्वश्रुतविशेषमिहावतारयन् सूत्रद्वयमाहउप्पायेत्यादि, उत्पादपूर्वं प्रथमं तस्य दश वस्तूनि अध्यायविशेषाः, अस्तिनास्तिप्रवादपूर्वं चतुर्थं तस्य मूलवस्तूनामुपरि चूलारूपाणि वस्तूनि चूलावस्तूनि। [सू० ७३२] दसविधा पडिसेवणा पण्णत्ता, तंजहादप्प-प्पमाद-ऽणाभोगे, आउरे आवतीसु त । संकिते सहसक्कारे, भय प्पयोसा य वीमंसा ॥१५४॥ दस आलोयणादोसा पण्णत्ता, तंजहाआकंपइत्ता अणुमाणइत्ता, जं दिटुं बायरं व सुहुमं वा । छन्नं सद्दाउलगं, बहुजण अव्वत्त तस्सेवी ॥१५५॥ दसहिं ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसमालोएत्तते, तंजहा Page #303 -------------------------------------------------------------------------- ________________ ७०४ जातिसंपन्ने, कुलसंपन्ने, एवं जधा अट्ठट्ठाणे जाव खंते, दंते, अमाती, अपच्छाणुतावी । दसहि ठाणेहिं संपन्ने अणगारे अरिहति आलोयणं पडिच्छित्तते, तंजहाआयारवं, आहारवं जाव अवातदंसी, पितधम्मे, दढधम्मे । [टी०] पूर्वगतादिश्रुतनिषिद्धवस्तूनां साधोर्यद्विधा प्रतिषेवा भवति तद्विधां तां दर्शयन्नाह- दसविहेत्यादि, प्रतिषेवणा प्राणातिपाताद्यासेवनम् । दप्प सिलोगो, दो वल्गनादिः, दप्पो पुण होइ वग्गणाईओ [ ] इति वचनात्, तस्मादागमप्रतिषिद्धप्राणातिपाताद्यासेवा या सा दर्पप्रतिषेवणेति, एवमुत्तरपदान्यपि नेयानि, नवरं प्रमादः परिहास-विकथादिः, कंदप्पाइ पमाओ [ ] इति वचनाद्, विधेयेष्वप्रयत्नो वा, अनाभोगो विस्मृति:, एषां समाहारद्वन्द्वस्तत्र, तथा आतुरे ग्लाने सति तत्प्रतिजागरणार्थमिति भावः, अथवा आत्मन एवातुरत्वे सति, लुप्तभावप्रत्ययत्वात्, अयमर्थ:- क्षुत्-पिपासा-व्याधिभिरभिभूत: सन् यां करोति, उक्तं च– पढमबीयहुओ वाहिओ व जं सेव आउरा एसा [ ] इति, तथा आपत्सु द्रव्यादिभेदेन चतुर्विधासु, तत्र द्रव्यत: प्रासुकद्रव्यं दुर्लभं क्षेत्रतोऽध्वप्रतिपन्नता कालतो दुर्भिक्षं भावतो ग्लानत्वमिति, उक्तं च- दव्वाइअलंभे पुण चउव्विहा आवया होइ [ ] इति, तथा शङ्किते एषणीयेऽप्यनेषणीयतया, जं संके तं समावजे [ ] इति वचनात्, सहसाकारे अकस्मात् करणे सति, सहसाकारलक्षणं चेदम् पुव्वं अपासिऊणं पाए छूढम्मि जं पुणो पासे । न चएइ नियत्तेउं पायं सहसाकरणमेयं ॥ [निशीथभा० ९७] ति । भयं च भीति: नृप-चौरादिभ्य: प्रद्वेषश्च मात्सर्यं भयप्रद्वेषं तस्माच्च प्रतिषेवा भवति, यथा राजाद्यभियोगान्मार्गादि दर्शयति सिंहादिभयाद्वा वृक्षमारोहति, उक्तं चभयमभिउग्गेण सीहमाई व [ ] त्ति, इह प्रद्वेषग्रहणेन कषाया विवक्षिताः, आह चकोहाईओ पओसो [ ] त्ति, तथा विमर्श: शिक्षकादिपरीक्षा, आह च- वीमंसा सेहमाईणं [ ] ति, ततोऽपि प्रतिषेवा पृथिव्यादिसङ्घट्टादिरूपा भवतीति । प्रतिषेवायां चालोचना विधेया, तत्र च ये दोषास्ते परिहार्या इति दर्शनायाह Page #304 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । ७०५ दसेत्यादि, आकंप गाहा, आकम्प्य आवयेत्यर्थः, यदुक्तम्वेयावच्चाईहिं पुव्वं आगंपइत्तु आयरिए। आलोएइ कहं मे थोवं वियरिज पच्छित्तं ? ॥ [ ] ति । अणुमाणइत्ता अनुमानं कृत्वा, किमयं मृदुदण्ड उतोग्रदण्ड इति ज्ञात्वेत्यर्थः, अयमभिप्रायोऽस्य- यद्ययं मृदुदण्डस्ततो दास्याम्यालोचनामन्यथा नेति । जं दिळं ति यदेव दृष्टमाचार्यादिना दोषजातं तदेवालोचयति नान्यत्, दोषश्चायम्, आचार्यरञ्जनमात्रपरत्वेनासंविग्नत्वादस्येति । बायरं व त्ति बादरमेवातिचारजातमालोचयति न सूक्ष्ममिति, सुहमं व त्ति सूक्ष्ममेव वाऽतिचारमालोचयति, य: किल सूक्ष्ममालोचयति स कथं बादरं सन्तं नालोचयत्येवंरूपभावसम्पादनायाऽऽचार्यस्येति । छण्णं ति प्रच्छन्नमालोचयति यथाऽऽत्मनैव शृणोति नाचार्यः । सद्दाउलयं ति शब्देनाकुलं शब्दाकुलं बृहच्छब्दम्, तथा महता शब्देनालोचयति यथाऽन्येऽप्यगीतार्थास्ते शृण्वन्तीति । बहुजणं ति बहवो जना आलोचनाचार्या: यस्मिन्नालोचने तद् बहुजनम्, अयमभिप्राय: एक्कस्सालोएत्ता जो आलोए पुणो वि अन्नस्स । ते चेव य अवराहे तं होइ बहुजणं नाम ॥ [ ] त्ति ।। अव्वत्तं ति अव्यक्तस्य अगीतार्थस्य गुरोः सकाशे यदालोचनं तत् तत्सम्बन्धादव्यक्तमुच्यते । तस्सेवि त्ति ये दोषा आलोचयितव्यास्तत्सेवी यो गुरुस्तस्य पुरतो यदालोचनं स तत्सेविलक्षण आलोचनादोषः, तत्र चायमभिप्राय: आलोचयितु: जह एसो मत्तुल्लो न दाही गुरुगमेव पच्छित्तं । इय जो किलिट्ठचित्तो दिन्ना आलोयणा तेणं ॥ [ ] ति । एतद्दोषपरिहारिणाऽपि गुणवतैवालोचना देयेति तद्गुणानाह– दसहि ठाणेहीत्यादि, एवं ति अनेन क्रमेण यथाऽष्टस्थानके तथा इदं सूत्रं पठनीयमित्यर्थः, कियद्दरम् ? यावत् खंते दंते त्ति पदे, तथाहि-विणयसंपन्ने नाणसंपन्ने दंसणसंपन्ने चरणसंपन्ने त्ति, अमायी अपच्छाणुतावीति पदद्वयमिहाधिकं प्रकटं च, नवरं ग्रन्थान्तरोक्तं तत्स्वरूपमिदम्- नो पलिउंचे अमायी अपच्छयावी न परितप्पे [ ] त्ति । एवंभूतगुणवताऽपि दीयमानाऽऽलोचना गुणवतैव प्रत्येष्टव्येति तद्गुणानाह Page #305 -------------------------------------------------------------------------- ________________ ७०६ [दसहीत्यादि, आयारवं ति ज्ञानाद्याचारवान् १, अवहारवं ति अवधारणावान् २,] जावकरणात् ववहारवं आगमादिपञ्चप्रकारव्यवहारवान् ३, उव्वीलए अपव्रीडक: लज्जापनोदको यथा पर: सुखमालोचयतीति ४, पकुव्वी आलोचिते शुद्धिकरणसमर्थः ५, निजवए यस्तथा प्रायश्चित्तं दत्ते यथा परो निर्वोढुमलं भवतीति ६, अपरिस्सावी आलोचकदोषानुपश्रुत्य यो नोगिरति ७, अवायदंसी सातिचारस्य पारलौकिकापायदर्शीति पूर्वोक्तमेव ८, पियधम्मे ९, दढधम्मे १० त्ति अधिकमिह, प्रियधर्मा धर्मप्रिय:, दृढधा य आपद्यपि धर्मान्न चलतीति । [सू० ७३३] दसविधे पायच्छित्ते पन्नत्ते, तंजहा-आलोयणारिहे जाव अणवठ्ठप्पारिहे, पारंचितारिहे । [टी०] आलोचितदोषाय प्रायश्चित्तं देयमतस्तत्प्ररूपणसूत्रं दसविहेत्यादि, आलोचना गुरुनिवेदनम्, तयैव यच्छुद्ध्यत्यतिचारजातं तत्तदर्हत्वादालोचनार्हम्, तच्छुद्ध्यर्थं यत् प्रायश्चित्तं तदप्यालोचनार्हम्, तच्चालोचनैवेत्येवं सर्वत्र, यावत्करणात् पडिक्कमणारिहे प्रतिक्रमणं मिथ्यादुष्कृतं तदर्हम्, तदुभयारिहे आलोचना-प्रतिक्रमणार्हमित्यर्थः, विवेगारिहे परित्यागशोध्यम्, विउसग्गारिहे कायोत्सर्गार्हम्, तवारिहे निर्विकृतिकादितप:शोध्यम्, छेदारिहे पर्यायच्छेदयोग्यम्, मूलारिहे व्रतोपस्थापनार्हम्, अणवठ्ठप्पारिहे यस्मिन्नासेविते कञ्चन कालं व्रतेष्वनवस्थाप्यं कृत्वा पश्चाच्चीर्णतपास्तद्दोषोपरतो व्रतेषु स्थाप्यते तदनवस्थाप्यार्हम्, पारंचियारिहे एतदधिकमिह, तत्र यस्मिन् प्रतिषेविते लिङ्ग-क्षेत्र-काल-तपोभि: पाराञ्चिको बहिर्भूत: क्रियते तत् पाराञ्चिकम्, तदर्हमिति । [सू० ७३४] दसविधे मिच्छत्ते पण्णत्ते, तंजहा-अधम्मे धम्मसण्णा, धम्मे अधम्मसण्णा, उम्मग्गे मग्गसण्णा, मग्गे उम्मग्गसण्णा, अजीवेसु जीवसण्णा, जीवेसु अजीवसण्णा, असाधूसु साधुसण्णा, साधूसु असाधुसण्णा, अमुत्तेसु मुत्तसण्णा, मुत्तेसु अमुत्तसण्णा । टी०] पाराञ्चिको मिथ्यात्वमप्यनुभवेदतो मिथ्यात्वनिरूपणाय सूत्रम्, तत्र अधर्मे श्रुतलक्षणविहीनत्वादनागमे अपौरुषेयादौ धर्मसंज्ञा आगमबुद्धिर्मिथ्यात्वम्, विपर्यस्तत्वादिति १, धर्मे कष-च्छेदादिशुद्धे सम्यक्श्रुते आप्तवचनलक्षणेऽधर्मसंज्ञा, Page #306 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । ७०७ सर्व एव पुरुषा रागादिमन्तोऽसर्वज्ञाश्च पुरुषत्वादहमिवेत्यादिप्रमाणतोऽनाप्तास्तदभावान्न तदुपदिष्टं शास्त्रं धर्म इत्यादिकुविकल्पवशादनागमबुद्धिरिति २, तथा उन्मार्गो निर्वृतिपुरी प्रति अपन्थाः वस्तुतत्त्वापेक्षया विपरीतश्रद्धान-ज्ञाना-ऽनुष्ठानरूपस्तत्र मार्गसंज्ञा कुवासनातो मार्गबुद्धिः ३, तथा मार्गेऽमार्गसंज्ञेति प्रतीतम् ४, तथा अजीवेषु आकाश-परमाण्वादिषु जीवसंज्ञा पुरुष एवेदमित्याद्यभ्युपगमादिति, तथा क्षिति-जल-पवन-हुताशन-यजमाना-ऽऽकाश-चन्द्र-सूर्याख्या: । इति मूर्तयो महेश्वरसम्बन्धिन्यो भवन्त्यष्टौ ॥ [ ] इति ५, तथा जीवेषु पृथिव्यादिष्वजीवसंज्ञा यथा न भवन्ति पृथिव्यादयो जीवा उच्छ्वासादीनां प्राणिधर्माणामनुपलम्भाद् घटवदिति ६, तथाऽसाधुषु षड्जीवनिकायवधानिवृत्तेष्वौद्देशिकादिभोजिष्वब्रह्मचारिषु साधुसंज्ञा, यथा साधव एते सर्वपापप्रवृत्ता अपि ब्रह्ममुद्राधारित्वादित्यादिविकल्परूपेति ७, तथा साधुषु ब्रह्मचर्यादिगुणान्वितेषु असाधुसंज्ञा, ‘एते हि कुमारप्रव्रजिताः, नास्त्येषां गतिरपुत्रत्वात् स्नानादिविरहितत्वाद्वा' इत्यादिविकल्पात्मिकेति ८, तथाऽमुक्तेषु सकर्मसु लोकव्यापारप्रवृत्तेषु मुक्तसंज्ञा, यथा अणिमाद्यष्टविधं प्राप्यैश्वर्यं कृतिन: सदा । मोदन्ते निर्वृतात्मानस्तीर्णाः परमदुस्तरम् ॥ [ ] इत्यादिविकल्पात्मिकेति ९, तथा मुक्तेषु सकलकर्मकृतविकारविरहितेष्वनन्तज्ञानदर्शन-सुख-वीर्ययुक्तेषु अमुक्तसंज्ञा, न सन्त्येवेदृशा मुक्ताः, अनादिकर्मयोगस्य निवर्तयितुमशक्यत्वादनादित्वादेव आकाशा-ऽऽत्मयोगस्येवेति, न सन्ति वा मुक्ताः मुक्तस्य विध्यातदीपकल्पत्वादात्मन एव वा नास्तित्वादित्यादिविकल्परूपेति १० । [सू० ७३५] चंदप्पभे णं अरहा दस पुव्वसतसहस्साइं सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे १। धम्मे णमरहा दस वाससयसहस्साई सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणेश णमी णमरहा दस वाससहस्साई सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे३। Page #307 -------------------------------------------------------------------------- ________________ ७०८ पुरिससी णं वासुदेवे दस वाससयसहस्साइं सव्वाउयं पालइत्ता छट्ठाते तमाए पुढवीए नेरतितत्ताते ववन्ने १। मी णं अरहा दस धणूई उड्डउच्चत्तेणं दस य वाससताइं सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे २ | कहे णं वासुदेवे दस धणूई उड्डउच्चत्तेणं दस य वाससयाइं सव्वाउयं पालइत्ता तच्चाते वालुयप्पभाते पुढवीते नेरतितत्ताते ववन्ने ३ | [टी०] अनन्तरं मिथ्यात्वविषयतया मुक्ता उक्ताः, इदानीं तदधिकारात्तीर्थकरत्रयस्य दशस्थानकानुपातेन मुक्तत्वमभिधीयते - चंदप्पभे णं इत्यादि सूत्रत्रयमपि कण्ठ्यम्। उक्ततीर्थकराश्च महापुरुषा इति तत्सम्बन्धि पुरिससीहेत्यादिसूत्रत्रयं कण्ठ्यम् । [सू० ७३६ ] दसविधा भवणवासी देवा पण्णत्ता, तंजहा-असुरकुमारा जाव थणितकुमारा १। एतेसि णं दसविधाणं भवणवासीणं देवाणं दस चेतितरुक्खा पन्नत्ता, तंजहा अस्सत्थ सत्तिवन्ने, सामलि उंबर सिरीस दहि | वंजुल पलास वप्पो [ वग्घो ? ] तते त कणिताररुक्खे त २।। १५६ ।। [0] नैरकिति प्रागुक्तम्, नारकासन्नाश्च क्षेत्रतो भवनवासिन इति तद्गतं सूत्रद्वयं कण्ठ्यम्, नवरम् - अनेन क्रमेणाश्वत्थादयश्चैत्यवृक्षा ये सिद्धायतनादिद्वारेषु श्रूयत इति । [सू० ७३७] दसविधे सोक्खे पन्नत्ते, तंजहाआरोग्ग दीहमाउं, अड्डेज्जं काम भोग संतोसो । अत्थि सुभोग निक्खम्ममेव तत्तो अणाबाधे ॥ १५७ ॥ [टी०] प्राग्भवनवासिनो देवा उक्तास्तेषां च किल सुखं भवतीति सुखं सामान्यत आह- दसविहेत्यादि, आरोग गाहा, आरोग्यं नीरोगता १, दीर्घमायुः चिरं जीवितम्, शुभमितीह विशेषणं दृश्यमिति २, अड्डेज्जं ति आढ्यत्वं धनपतित्वं सुखकारणत्वात् सुखम् ३, काम त्ति कामौ शब्द-रूपे सुखकारणत्वात् सुखम् ४, Page #308 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । ७०९ एवं भोगे त्ति भोगा: गन्ध-रस-स्पर्शा: ५, तथा सन्तोष: अल्पेच्छता, तत् सुखमेव आनन्दरूपत्वात् सन्तोषस्य, उक्तं च आरोगसारियं माणुसत्तणं सच्चसारिओ धम्मो । विजा निच्छयसारा सुहाई संतोससाराई ॥ [ ] ति ६ । अत्थि त्ति येन येन यदा यदा प्रयोजनं तत्तत्तदा तदाऽस्ति भवति जायते इति सुखमानन्दहेतुत्वादिति ७, सुहभोग त्ति शुभः अनिन्दितो भोगो विषयेषु भोगक्रियेति, स सुखमेव सातोदयसम्पाद्यत्वात् तस्येति ८, निक्खम्ममेव त्ति निष्क्रमणं निष्क्रम: अविरतिजम्बालादिति गम्यते, प्रव्रज्येत्यर्थः, इह च द्विर्भावो नपुंसकता च प्राकृतत्वात्, एवकारोऽवधारणे, अयमर्थ:- निष्क्रमणमेव भवस्थानां सुखम्, निराबाधस्वायत्तानन्दरूपत्वात्, अत एवोच्यते- दुवालसमासपरियाए समणे निग्गंथे अणुत्तराणं देवाणं तेउल्लेसं वीतीवयति [भगवती० १४।९।१७] त्ति तथा नैवास्ति राजराजस्य तत् सुखं नैव देवराजस्य । यत् सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥ [प्रशम० गा० १२८] इति, शेषसुखानि हि दुःखप्रतीकारमात्रत्वात् सुखाभिमानमात्रजनकत्वाच्च तत्त्वतो न सुखं भवन्तीति ९, तत्तो अणाबाहे त्ति ततो निष्क्रमणसुखानन्तरम् अनाबाधं न विद्यते आबाधा जन्म-जरामरण-क्षुत्-पिपासादिका यत्र तदनाबाधं मोक्षसुखमित्यर्थः, एतदेव च सर्वोत्तमम्, यत उक्तम् नवि अत्थि माणुसाणं तं सोक्खं नवि य सव्वदेवाणं । जं सिद्धाणं सोक्खं अव्वाबाहं उवगयाणं ॥ [आव० नि० ९८०] ति १०। [सू० ७३८] दसविधे उवघाते पन्नत्ते, तंजहा-उग्गमोवघाते, उप्पायणोवघाते जधा पंचट्ठाणे जाव परिहरणोवघाते, णाणोवघाते, दंसणोवघाते, चरित्तोवघाते, अचियत्तोवघाते, सारक्खणोवघाते । दसविधा विसोधी पण्णत्ता, तंजहा-उग्गमविसोही, उप्पायणविसोही जाव सारक्खणविसोही । [टी०] निष्क्रमणसुखं चारित्रसुखमुक्तम्, तच्चानुपहतमनाबाधसुखायेत्यत Page #309 -------------------------------------------------------------------------- ________________ ७१० श्चारित्रस्यैतत्साधनस्य भक्तादेर्ज्ञानादेश्चोपघातनिरूपणसूत्रम्, तत्र यदुद्गमेन आधाकर्म्मादिना षोडशविधेनोपहननं विराधनं चारित्रस्याकल्प्यता वा भक्तादेः स उद्गमोपघातः १, एवमुत्पादनया धात्र्यादिदोषलक्षणया य: स उत्पादनोपघातः, जहा पंचट्ठाणे ि भणनात् तत् सूत्रमिह दृश्यम्, तच्चेदम् - एसणोवघाए एषणया शङ्कितादिभेदया यः स एषणोपघातः, परिकम्मोवघाए परिकर्म्म वस्त्र - पात्रादिसमारचनं तेनोपघातः स्वाध्यायस्य, श्रमादिना शरीरस्य संयमस्य वोपघातः परिकर्मोपघातः, परिहरणोवघाए परिहरणा अलाक्षणिकस्याकल्प्यस्य वोपकरणस्य सेवा तया यः परिहरणोपघातः, तथा ज्ञानोपघातः श्रुतज्ञानापेक्षया प्रमादतः, दर्शनोपघातः शङ्कादिभि:, चारित्रोपघातः समितिभङ्गादिभिः, अचियत्तोवघाए ति अचियत्तम् अप्रीतिकं तेनोपघातो विनयादेः, सारक्खणोवघाए त्ति संरक्षणेन शरीरादिविषये मूर्च्छया उपघातः परिग्रहविरतेरिति संरक्षणोपघात इति । उपघातविपक्षभूतविशुद्धिनिरूपणाय सूत्रम्, तत्रोद्गमादिविशुद्धिर्भक्तादेर्निरवद्यता, किरणात् सत्यादि वाच्यमित्यर्थः, तत्र परिकर्म्मणा वसत्यादिसारवणलक्षणेन क्रियमाणेन विशुद्धिर्या संयमस्य सा परिकर्मविशुद्धिः, परिहरणया वस्त्रादेः शास्त्रीयया सेवनया विशुद्धिः परिहरणाविशुद्धिः, ज्ञानादित्रयविशुद्धयस्तदाचारपरिपालनतः, अचियत्तस्य अप्रीतिकस्य विशोधिस्तन्निवर्त्तनादचियत्तविशोधिः, संरक्षणं संयमार्थम् उपध्यादेस्तेन विशुद्धिश्चारित्रस्येति संरक्षणविशुद्धिः । [सू० ७३९] दसविधे संकिले से पन्नत्ते, तंजहा - उवहिसं किले से, उवस्सयसंकिलेसे, कसायसंकिलेसे, भत्तपाणसंकिलेसे, मणसंकिलेसे, वतिसंकिलेसे, कायसंकिलेसे, णाणसंकिलेसे, दंसणसंकिलेसे, चरित - संकिलेसे। दसविधे असंकिलेसे पन्नत्ते, तंजहा - उवहिअसंकिलेसे जाव चरित - असंकिलेसे । [टी०] इदानीं चारित्रस्यैव [चित्तस्यैव ] विशुद्धिविपक्षभूतमुपध्याद्युपाधिकं सङ्क्लेशमभिधातुमुपक्रमते, तत्र सूत्रम् - दसेत्यादि, सङ्क्लेश: असमाधिः, उपधीयते Page #310 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । ७११ उपष्टभ्यते संयम: संयमशरीरं वा येन स उपधिः वस्त्रादिस्तद्विषय: सङ्क्लेशः उपधिसङ्क्लेश:, एवमन्यत्रापि, नवरम् उवस्सय त्ति उपाश्रयो वसतिः, तथा कषाया एव कषायैर्वा सङ्क्लेश: कषायसङ्क्लेशः, तथा भक्त-पानाश्रित: सङ्क्लेशो भक्तपानसङ्क्लेशः, तथा मनसो मनसि वा सङ्क्लेशः, वाचा सङ्क्लेशः, कायमाश्रित्य सङ्क्लेश इति विग्रहः, तथा ज्ञानस्य सङ्क्लेश: अविशुद्ध्यमानता स ज्ञानसङ्क्लेश:, एवं दर्शन-चारित्रयोरपीति । एतद्विपक्षोऽसङ्क्लेशस्तमधुनाऽऽह- दसेत्यादि, कण्ठ्यम् । [सू० ७४०] दसविधे बले पन्नत्ते, तंजहा-सोतिंदितबले जाव फासिंदितबले, णाणबले, दंसणबले, चरित्तबले, तवबले, वीरितबले । [टी०] असङ्क्लेशश्च विशिष्टे जीवस्य वीर्यबले सति भवतीति सामान्यतो बलनिरूपणायाह- दसेत्यादि, श्रोत्रेन्द्रियादीनां पञ्चानां बलं स्वार्थग्रहणसामर्थ्यम्, जाव त्ति चक्षुरिन्द्रियबलादि वाच्यमित्यर्थः, ज्ञानबलमतीतादिवस्तुपरिच्छेदसामर्थ्य चारित्रसाधनतया मोक्षसामर्थ्य वा, दर्शनबलं सर्ववेदिवचनप्रामाण्याद-तीन्द्रियायुक्तिगम्यपदार्थरोचनलक्षणम्, चारित्रबलं यद् दुष्करमपि सकलसङ्गवियोगं करोत्यात्मा यच्चानन्तमनाबाधमैकान्तिकमात्यन्तिकमात्मायत्तमानन्दमाप्नोति, तपोबलं यदनेकभवावर्जितमनेकदुःखकारणं निकाचितकर्मग्रन्थिं क्षपयति, वीर्यमेव बलं वीर्यबलम्, यतो गमनागमनादिकासु विचित्रासु क्रियासु वर्त्तते, यच्चापनीय सकलकलुषपटलमनवरतानन्दभाजनं भवतीति । [सू० ७४१] दसविधे सच्चे पण्णत्ते, तंजहाजणवय सम्मुति ठवणा, नामे रूवे पडुच्चसच्चे य । ववहार भाव जोगे, दसमे ओवम्मसच्चे य ॥१५८॥ दसविधे मोसे पन्नत्ते, तंजहाकोधे माणे माया, लोभे पेजे तहेव दोसे य । हास भते अक्खातित, उवघाते निस्सिते दसमे ॥१५९॥ दसविधे सच्चामोसे पन्नत्ते, तंजहा-उप्पन्नमीसते, विगतमीसते, Page #311 -------------------------------------------------------------------------- ________________ ७१२ उप्पन्नविगतमीसते, जीवमीसए, अजीवमीसए, जीवाजीवमीसए, अणंतमीसए, परित्तमीसए, अद्धामीसते, अद्धद्धामीसते । [टी०] चारित्रबलयुक्तः सत्यमेव भाषत इति तन्निरूपणायाह- दसविहेत्यादि, सन्तः प्राणिन: पदार्था मुनयो वा तेभ्यो हितं सत्यं दशविधं तत् प्रज्ञप्तम्, तद्यथाजणवय गाहा, जणवय त्ति सत्यशब्द: प्रत्येकमभिसम्बन्धनीयः, ततश्च जनपदेषु देशेषु यद्यदर्थवाचकतया रूढं देशान्तरेऽपि तत्तदर्थवाचकतया प्रयुज्यमानं सत्यमवितथमिति जनपदसत्यम्, यथा कोकणादिषु पय: पिच्चं नीरमुदकमित्यादि, सत्यत्वं चास्यादुष्टविवक्षाहेतुत्वान्नानाजनपदेष्विष्टार्थप्रतिपत्तिजनकत्वाद् व्यवहारप्रवृत्तेः, एवं शेषेष्वपि भावना कार्येति, संमुइ त्ति संमतं च तत् सत्यं चेति सम्मतसत्यम्, तथाहिकुमुद-कुवलयोत्पल-तामरसानां समाने पङ्कसम्भवे गोपालादीनामपि सम्मतमरविन्दमेव पङ्कजमिति अतस्तत्र [संमततया पङ्कजशब्द: सत्य: कुवलयादावसत्योऽसंमतत्वादिति], ठवण त्ति स्थाप्यत इति स्थापना यल्लेप्यादिकार्हदादिविकल्पेन स्थाप्यते तद्विषये सत्यं स्थापनासत्यम्, यथा अजिनोऽपि जिनोऽयमनाचार्योऽप्याचार्योऽयमिति, नामे त्ति नाम अभिधानं तत् सत्यं नामसत्यम्, यथा कुलमवर्द्धयन्नपि कुलवर्द्धन उच्यते एवं धनवर्द्धन इति, रूवे त्ति रूपापेक्षया सत्यं रूपसत्यम्, यथा प्रपञ्चयति: प्रव्रजितरूपं धारयन् प्रव्रजित उच्यते न चासत्यताऽस्येति, पडुच्चसच्चे य त्ति प्रतीत्य आश्रित्य वस्त्वन्तरं सत्यं प्रतीत्यसत्यम्, यथा अनामिकाया दीर्घत्वं हस्वत्वं चेति, ववहार त्ति व्यवहारेण सत्यं व्यवहारसत्यम्, यथा दह्यते गिरिः, गलति भाजनम्, अयं च गिरिगततृणादिदाहे व्यवहार: प्रवर्त्तते, उदके च गलति सतीति, भाव त्ति भावभूयिष्ठशुक्लादिपर्यायमाश्रित्य सत्यं भावसत्यम्, यथा शुक्ला बलाके ति, सत्यपि हि पञ्चवर्णसम्भवे शुक्लवर्णोत्कटत्वात् शुक्लेति, जोगे त्ति योगत: संबन्धत: सत्यं योगसत्यम्, यथा दण्डयोगाद् दण्ड: छत्रयोगाच्छत्र एवोच्यत इति, दशममौपम्यसत्यमिति उपमैवौपम्यं तेन सत्यमौपम्यसत्यं यथा समुद्रवत्तडागं देवोऽयं सिंहस्त्वमिति, सर्वत्रैकार: प्रथमैकवचनार्थो द्रष्टव्य इति । सत्यविपक्षं मृषाह– दसेत्यादि, मोसे त्ति प्राकृतत्वात् मृषाऽनृतमित्यर्थः, कोहे Page #312 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । गाहा, कोहे त्ति क्रोधे निश्रितमिति सम्बन्धात् क्रोधाश्रितं कोपाश्रितं मृषेत्यर्थः, तच्च यथा क्रोधाभिभूतः अदासमपि दासमभिधत्त इति, माने निश्रितं यथा मानाध्मातः कश्चित् केनचिदल्पधनोऽपि पृष्टः सन्नाह महाधनोऽहमिति, मायत्ति मायायां निश्रितं यथा मायाकारप्रभृतय आहुः– नष्टो गोलक: इति, लोभे त्ति लोभे निश्रितं वणिक्प्रभृतीनामन्यथाक्रीतमेवेत्थं क्रीतमित्यादि, पिज्जत्ति प्रेमणि निश्रितम् अतिरक्तानां दासोऽहं तवेत्यादि, तहेव दोसे यत्ति द्वेषे निश्रितम्, मत्सरिणां गुणवत्यपि निर्गुणोऽयमित्यादि, हासे त्ति हासे निश्रितं यथा कन्दर्पिकाणां कस्मिंश्चित् कस्यचित् सम्बन्धिनि गृहीते पृष्टानां न दृष्टमित्यादि, भये त्ति भयनिश्रितं तस्करादिगृहीतानां तथा तथा असमञ्जसाभिधानम्, अक्खाइय त्ति आख्यायिकानिश्रितं तत्प्रतिबद्धोऽसत्प्रलापः, उवघये निस्सियेत्ति उपघाते प्राणिवधे निश्रितम् आश्रितं दशमं मृषा, अचौरे चौरोऽयमित्यभ्याख्यानवचनम्, मृषाशब्दस्त्वव्यय इति । सत्यासत्ययोगे मिश्रं वचनं भवतीति तदाह- दसेत्यादि, सत्यं च तन्मृषा चेति प्राकृतत्वात् सच्चामोसं ति, उप्पन्नमीसए त्ति उत्पन्नविषयं मिश्रं सत्यमृषा उत्पन्नमिश्रं तदेवोत्पन्नमिश्रकम्, यथैकं नगरमधिकृत्यास्मिन्नद्य दश दारका उत्पन्ना इत्यभिदधतस्तन्न्यूनाधिकभावे व्यवहारतोऽस्य सत्यमृषात्वात्, श्वस्ते शतं दास्यामीत्यभिधाय पञ्चाशत्यपि दत्तायां लोके मृषात्वादर्शनात्, अनुत्पन्नेष्वेवाऽदत्तेष्वेव वा मृषात्वसिद्धेः, सर्वथा क्रिया[S]भावेन सर्वथा व्यत्ययाद्, एवं विगतादिष्वपि भावनीयमिति, १, विगतमीसए त्ति विगतविषयं मिश्रकं विगतमिश्रकम्, यथैकं ग्राममधिकृत्यास्मिन्नद्य दश वृद्धा विगता इत्यभिदधतो न्यूनाधिकभावे मिश्रमिति २, [ उप्पन्नविगयमीसए त्ति उत्पन्नं च विगतं च उत्पन्नविगते, तद्विषयं मिश्रकम् उत्पन्नविगतमिश्रकम्, यथैकं पत्तनमधिकृत्यास्मिन्नद्य दश दारका जाता: दश च वृद्धा विगता इत्यभिदधतस्तन्न्यूनाधिकभाव इति ३,] जीवमीसए त्ति जीवविषयं सत्यासत्यं जीवमिश्रम्, यथा जीवन्मृतकृमिराशौ जीवराशिरिति ४, अजीवमीसए त्ति अजीवानाश्रित्य मिश्रमजीवमिश्रम्, यथा तस्मिन्नेव च प्रभूतमृतकृमिराशावजीवराशिरिति ५, जीवाजीवमिस्सए त्ति जीवाजीवविषयं मिश्रकं जीवाजीवमिश्रकं यथा तस्मिन्नेव ७१३ Page #313 -------------------------------------------------------------------------- ________________ ७१४ जीवन्मृतकृमिराशौ प्रमाणनियमेनैतावन्तो जीवन्त्येतावन्तश्च मृता इत्यभिदधतस्तन्यूनाधिकत्वे ६, अणंतमीसए त्ति अनन्तविषयं मिश्रकमनन्तमिश्रकं यथा मूलकन्दादौ परीत्तपत्रादिमत्यनन्तकायोऽयमित्यभिदधत: ७, परित्तमिस्सए त्ति परीत्तविषयं मिश्रकं परीत्तमिश्रकं यथा अनन्तकायलेशवति परीत्ते परीत्तोऽयमित्यभिदधतः ८, अद्धामिस्सए त्ति कालविषयं सत्यासत्यं यथा कश्चित कस्मिंश्चित प्रयोजने सहायांस्त्वरयन परिणतप्राये वासरे एव रजनी वर्त्तत इति ब्रवीति ९, अद्धद्धामीसए त्ति अद्धा दिवसो रजनी वा, तदेकदेश: प्रहरादिः अद्धाद्धा, तद्विषयं मिश्रकं सत्यासत्यं अद्धाद्धामिश्रकम्, यथा कश्चित् कस्मिंश्चित् प्रयोजने प्रहरमात्र एव मध्याह्न इत्याह। - [सू० ७४२] दिट्टिवातस्स णं दस नामधेजा पन्नत्ता, तंजहा-दिट्टिवाते ति वा, हेउवाते ति वा, भूतवाते ति वा, तच्चावाते ति वा, सम्मावाते ति वा, धम्मावाते ति वा, भासाविजते ति वा, पुव्वगते ति वा, अणुजोगगते ति वा, सव्वपाण-भूत-जीव-सत्तसुहावहे ति वा ।। [टी०] भाषाधिकारात् सकलभाषणीयार्थव्यापकं सत्यभाषारूपं दृष्टिवादं पर्यायतो दशधाऽऽह- दिट्ठीत्यादि, दृष्टयो दर्शनानि, वदनं वादः, दृष्टीनां वादो दृष्टिवाद: दृष्टीनां वा पातो यस्मिन्नसौ दृष्टिपात:, सर्वनयदृष्टय इहाख्यायन्त इत्यर्थः, तस्य दश नामधेयानि नामानीत्यर्थः, तद्यथा- दृष्टिवाद इति प्रतिपादितमेव, इतिशब्द उपप्रदर्शने, वाशब्दो विकल्पे, तथा हिनोति गमयति जिज्ञासितमर्थमिति हेतुः अनुमानोत्थापकं लिङ्गमुपचारादनुमानमेव वा, तद्वादो हेतुवादः, तथा भूताः सद्भूता: पदार्थास्तेषां वादो भूतवादः, तथा तत्त्वानि वस्तूनामैदम्पर्याणि, तेषां वादस्तत्त्ववादः, तथ्यो वा सत्यो वादस्तथ्यवादः, तथा सम्यग् अविपरीतो वाद: सम्यग्वादः, तथा धर्माणां वस्तुपर्यायाणां धर्मस्य वा चारित्रस्य वादो धर्मवादः, तथा भाषा सत्यादिका तस्या विचयो निर्णयो भाषाविचयः, भाषाया वा वाचो विजयः समृद्धिर्यस्मिन् स भाषाविजयः, तथा सर्वश्रुतात् पूर्वं क्रियन्त इति पूर्वाणि उत्पादपूर्वादीनि चतुर्दश, तेषु गत: अभ्यन्तरीभूतस्तत्स्वभाव इत्यर्थ इति पूर्वगतः, तथाऽनुयोग: प्रथमानुयोगस्तीर्थकरादिपूर्वभवादिव्याख्यानग्रन्थः, गण्डिकानुयोगश्च भरतनरपतिवंशजानां Page #314 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । ७१५ निर्वाणगमनानुत्तरविमानवक्तव्यताख्यानग्रन्थ इति द्विरूपेऽनुयोगे गतोऽनुयोगगतः, एतौ च पूर्वगता-ऽनुयोगगतौ दृष्टिवादांशावपि दृष्टिवादतयोक्तौ अवयवे समुदायोपचारादिति, तथा सर्वे विश्वे ते च ते प्राणाश्च द्वीन्द्रियादयो भूताश्च तरवः जीवाश्च पञ्चेन्द्रियाः सत्त्वाश्च पृथिव्यादयः इति द्वन्द्वे सति कर्मधारयः, ततस्तेषां सुखं शुभं वा आवहतीति सर्वप्राण-भूत-जीव-सत्त्वसुखावहः, सुखावहत्वं च संयमप्रतिपादकत्वात् सत्त्वानां निर्वाणहेतुत्वाच्चेति । [सू० ७४३] दसविधे सत्थे पण्णत्ते, तंजहासत्थमग्गी विसं लोणं, सिणेहो खारमंबिलं । दुप्पउत्तो मणो वाया, कायो भावो त अविरती ॥१६०॥ _ [टी०] प्राणादीनां सुखावहो दृष्टिवादोऽशस्त्ररूपत्वात्, शस्त्रमेव हि दुःखावहमिति शस्त्रप्ररूपणायाह- दसेत्यादि, शस्यते हिंस्यते अनेनेति शस्त्रम् । सत्थं सिलोगो, शस्त्रं हिंसकं वस्तु, तच्च द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतस्तावदुच्यते- अग्निः अनलः, स च विसदृशानलापेक्षया स्वकायशस्त्रं भवति, पृथिव्याद्यपेक्षया तु परकायशस्त्रम् १, विषं स्थावर-जङ्गमभेदम् २, लवणं प्रतीतम् ३, स्नेहः तैल-घृतादिः ४, क्षारो भस्मादिः ५, अम्लं काञ्जिकम् ६, भावो य त्ति इह द्रष्टव्यम्, तेन भावो भावरूपं शस्त्रम्, किं तदित्याह- दुष्प्रयुक्तम् अकुशलं मनो मानसम् ७, वाग् वचनं दुष्प्रयुक्ता ८, कायश्च शरीरं दुष्प्रयुक्त एव ९, इह च कायस्य हिंसाप्रवृत्तौ खड्गादेरुपकरणत्वात् कायग्रहणेनैव तद्ग्रहणं द्रष्टव्यमिति, अविरतिश्च अप्रत्याख्यानमथवा अविरतिरूपो भावः शस्त्रमिति १० । [सू० ७४४] दसविधे दोसे पन्नत्ते, तंजहातज्जातदोसे मतिभंगदोसे, पसत्थारदोसे परिहरणदोसे । सलक्खण-कारण-हेउदोसे, संकामणं निग्गह वत्थुदोसे ॥१६१॥ १॥ दसविधे विसेसे पन्नत्ते, तंजहावत्थु-तजातदोसे त, दोसे एगट्टिते ति त । कारणे त पडुप्पन्ने, दोसे निच्चे [5]हिअट्ठमे ॥ Page #315 -------------------------------------------------------------------------- ________________ अत्तणा उवणीते त, विसेसे तित ते दस ॥ १६२ || २ | दसविधे सुद्धावाताणुओगे पन्नत्ते, तंजहा- चंकारे, मंकारे, पिंकारे, सेतंकारे, सातंकारे, एगत्ते, पुधत्ते, संजूहे, संकामिते, भन्ने ३। [टी०] अविरत्यादयो दोषाः शस्त्रमित्युक्तमिति दोषप्रस्तावाद्दोषविशेषनिरूपणायाहदसविहेत्यादि । तज्जायेत्यादि वृत्तम्, एते हि गुरु-शिष्ययोर्वादि-प्रतिवादिनोर्वा वादाश्रया इव लक्ष्यन्ते, तत्र तस्य गुर्वादेर्जातं जातिः प्रकारो वा जन्म-मर्मकर्मादिलक्षणः तज्जातं तदेव दूषणमिति कृत्वा दोषस्तज्जातदोष:, तथाविधकुलादिना दूषणमित्यर्थः १ । तथा स्वस्यैव मतेः बुद्धेर्भङ्गो विनाशो मतिभङ्गो विस्मृत्यादिलक्षणो दोषो मतिभङ्गदोषः २ । तथा प्रशास्ता अनुशासको मर्यादाकारी सभानायकः सभ्यो वा तस्माद् द्विष्टादुपेक्षकाद्वा दोषः प्रतिवादिनो जयदानलक्षणो विस्मृतप्रमेयप्रतिवादिनः प्रमेयस्मारणादिलक्षणो वा प्रशास्तृदोष:, इह त्थाशब्दो लघुश्रुतिरिति ३। तथा परिहरणम् आसेवा स्वदर्शनस्थित्या लोकरूढ्या वा अनासेव्यस्य, तदेव दोषः परिहरणदोषः, यथा बौद्धेनोक्तमनित्यः शब्दः कृतकत्वाद् घटवदित्यादि ४ । तथा लक्ष्यते तदन्यव्यपोहेनावधार्यते वस्त्वनेनेति लक्षणम्, स्वं च तल्लक्षणं च स्वलक्षणम्, यथा जीवस्योपयोगो यथा वा प्रमाणस्य स्वपरावभासकज्ञानत्वम् ५। तथा करो कारणं परोक्षार्थनिर्णयनिमित्तमुपपत्तिमात्रम्, यथा निरुपमसुखः सिद्धो ज्ञानानाबाधप्रकर्षात्, नात्र किल सकललोकप्रतीतः साध्यसाधनधर्म्मानुगतो दृष्टान्तोऽस्तीत्युपपत्तिमात्रता, दृष्टान्तसद्भावेऽस्यैव हेतुव्यपदेशः स्यात् ६ । तथा हिनोति गमयतीति हेतुः साध्यसद्भावभाव-तदभावाभावलक्षणः, ततश्च स्वलक्षणादीनां द्वन्द्वः, तेषां दोषः स्वलक्षणकारण- - हेतुदोष:, इह काशब्दः छन्दोऽर्थं द्विर्बद्धो ध्येयः, अथवा सह लक्षणेन यौ - हेतू तयोर्दोष इति विग्रहः, तत्र लक्षणदोषोऽव्याप्तिरतिव्याप्तिर्वा, तत्राव्याप्तिर्यथा यस्यार्थस्य सन्निधाना-ऽसन्निधानाभ्यां ज्ञानप्रतिभासभेदस्तत् स्वलक्षणमिति, इदं स्वलक्षणलक्षणम्, इदं चेन्द्रियप्रत्यक्षमेवाश्रित्य स्यात् न योगिज्ञानम्, योगिज्ञाने हि न सन्निधाना-ऽसन्निधानाभ्यां प्रतिभासभेदो -ऽस्तीत्यतस्तदपेक्षया न किञ्चित् स्वलक्षणं स्यादिति, अतिव्याप्तिर्यथा अर्थोपलब्धिहेतुः प्रमाणमिति प्रमाणलक्षणम्, इह कारण Page #316 -------------------------------------------------------------------------- ________________ ७१७ दशममध्ययनं दशस्थानकम् । चार्थोपलब्धिहेतुभूतानां चक्षुर्दध्योदनभोजनादीनामानन्त्येन प्रमाणेयत्ता न स्यात्, अथवा दार्टान्तिकोऽर्थो लक्ष्यतेऽनेनेति लक्षणं दृष्टान्तः, तद्दोषः साध्यविकलत्वादिः, तत्र साध्यविकलता यथा नित्यः शब्दो मूर्त्तत्वाद् घटवद्, इह घटे नित्यत्वं नास्तीति । कारणदोषः साध्यं प्रति तद्व्यभिचारो यथा अपौरुषेयो वेदो वेदकारणस्याश्रूयमाणत्वादित्यादि वृत्तौ ७ । [तथा सङ्क्रामणं प्रस्तुतप्रमेयेऽप्रस्तुतप्रमेयस्य प्रवेशनं प्रमेयान्तरगमनमित्यर्थः, तदेव दोष इति ८। तथा निग्रहः छलादिना पराजयस्थानम्, स एव दोषो निग्रहदोष इति ९। तथा वसतः साध्यधर्म-साधनधावत्रेति वस्तु प्रकरणात् पक्षस्तस्य दोषः प्रत्यक्षनिराकृतत्वादिः, यथा अश्रावणः शब्दः, शब्दे ह्यश्रावणत्वं प्रत्यक्षनिराकृतमिति १० । __एतेषामेव तज्जातादिदोषाणां सामान्यतोऽभिहितानां तदन्येषां चार्थानां सामान्यविशेषरूपाणां सतां विशेषाभिधानायाह- दसेत्यादि, विशेषो भेदो व्यक्तिरित्यनर्थान्तरम्, वत्थु इत्यादिः सार्द्धः श्लोकः, वस्त्विति प्राक्तनसूत्रस्यान्तोक्तो यः पक्षः, तज्जातमिति तस्यैवादावुक्तं प्रतिवाद्यादेर्जात्यादि, तद्विषयो दोषो वस्तु-तज्जातदोषः, तत्र वस्तुदोष: पक्षदोषस्तजातदोषश्च जात्यादिहीलनमेतौ च विशेषौ दोषसामान्यापेक्षया, इत्यादिरनेकविधः १-२, चकारः समुच्चये,] तथा दोसे त्ति पूर्वोक्तसूत्रे ये शेषा मतिभङ्गादयो दोषा अष्टावुक्तास्ते दोषशब्देनेह सङ्ग्रहीताः, ते च दोषसामान्यापेक्षया विशेषा भवन्त्येवेति दोषो विशेषः, अथवा दोसे त्ति दोषेषु शेषदोषविषये विशेषो भेदः, स चानेकविधः स्वयमूह्यः ३, एगट्ठिए इय त्ति एकश्चासावर्थश्च अभिधेयः एकार्थः, स यस्यास्ति स एकार्थिकः एकार्थवाचक इत्यर्थः, इतिः उपप्रदर्शने, चः समुच्चये, स च शब्दसामान्यापेक्षयैकार्थिको नाम शब्दविशेषो भवति, यथा घट इति, तथा अनेकार्थिको यथा गौः, यथोक्तम् दिशि १ दृशि २ वाचि ३ जले ४ भुवि ५ दिवि ६ वजे ७ ऽशौ ८ पशौ ९ च गोशब्दः इत्यादि [इति चायमपि च दोषः सामान्यापेक्षया विशेष इति ४, तथा कार्यकारणात्मके वस्तुसमूहे कारणमिति विशेषः, कार्यमपि विशेषो भवति, न चेहोक्तः, दशस्थानकानुवृत्तेः, अथवा कारणे कारणविषये विशेषो भेदो यथा परिणामिकारणं मृत्पिण्डः, अपेक्षाकारणं Page #317 -------------------------------------------------------------------------- ________________ ७१८ दिग्-देश-काला-ऽऽकाश-पुरुष-चक्रादि, अथवोपादानकारणं मृदादि, निमित्तकारणं कुलालादि, सहकारिकारणं चक्र-चीवरादीत्यनेकधा कारणम्, अथवा दोषशब्दसम्बन्धात् पूर्वव्याख्यातः कारणदोषो दोषसामान्यापेक्षया विशेष इति,] चः समुच्चये ५, तथा प्रत्युत्पन्नो वार्त्तमानिकः अभूतपूर्व इत्यर्थः, दोषः गुणेतरः, स चातीतादिदोषसामान्यापेक्षया विशेषः, इत्यादि ६, तथा नित्यो यो दोषोऽभव्यानां मिथ्यात्वादिरनाद्यपर्यवसितत्वात् स दोषसामान्यापेक्षया विशेषः, अथवा सर्वथा नित्ये वस्तुन्यभ्युपगते यो दोषो बाल-कुमाराद्यवस्थाऽभावापत्तिलक्षणः स दोषसामान्यापेक्षया दोषविशेष इति ७, तथा हिअट्ठमे त्ति अकारप्रश्लेषादधिकं वादकाले यत् परप्रत्यायनं प्रत्यतिरिक्तं दृष्टान्त-निगमनादि तद्दोषः, तदन्तरेणैव प्रतिपाद्यप्रतीतेस्तदभिधानस्यानर्थकत्वादित्यादि ८, अत्तण त्ति आत्मना कृतमिति शेषः, तथा उपनीतं प्रापितं परेणेति शेषः. वस्तुसामान्या-पेक्षयाऽऽत्मकृतं च विशेषः, परोपनीतं चापरो विशेष इति भावः ९, चकारयोविशेष-शब्दस्य च प्रयोगो भावनावाक्ये दर्शितः, अथवा दोषशब्दानुवृत्तेरात्मना कृतो दोषः परोपनीतश्च दोष इति, दोषसामान्यापेक्षया विशेषावेतौ इति, एवं ते विशेषा दश भवन्तीति, इहादर्शपुस्तकेषु निव्वे हिअट्ठमे त्ति दृष्टम्, न च तथाऽष्टौ पूर्यन्त इति, निच्चे इति व्याख्यातम् । इहोक्तरूपा विशेषादयो भावा अनुयोगगम्याः, अनुयोगश्चार्थतो वचनतश्च, तत्रार्थतो यथा- अहिंसा संजमो तवो [दशवै० १।१] इत्यत्राहिंसादीनां स्वरूपभेदप्रतिपादनम्, वचनानुयोगस्त्वेषामेव शब्दाश्रितो विचार इति, तदिह वचनानुयोगं भेदत आहदसेत्यादि, शुद्धा अनपेक्षितवाक्यार्था या वाक् वचनं सूत्रमित्यर्थः तस्या अनुयोगो विचारः शुद्धवागनुयोगः, सूत्रे च अपुंवद्भावः प्राकृतत्वात्, तत्र चकारादिकायाः शुद्धवाचो योऽनुयोगः स चकारादिरेव व्यपदेश्यः, तत्र चंकारे त्ति अत्रानुस्वारोऽलाक्षणिको, ततश्चकार इत्यर्थः, तस्य चानुयोगो, यथा चशब्दः समाहारेतरेतरयोगसमुच्चया-ऽन्वाचया-ऽवधारण-पादपूरणा-ऽधिकवचनादिषु [ ] इति, तत्र इत्थीओ सयणाणि य [दशवै० २।२] इति, इह सूत्रे चकारः समुच्चयार्थः स्त्रीणां शयनानां चापरिभोग्यतातुल्यत्वप्रतिपादनार्थः १, मंकारे त्ति मामा]कारानुयोगो यथा समणं व Page #318 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । ७१९ माहणं वा [स्थानाङ्ग० १३३] इति सूत्रे माशब्दो निषेधे, अथवा जेणामेव समणे भगवं महावीरे तेणामेव [ ] इत्यत्र सूत्रे जेणामेव इह मकार आगमिक एव येनैवेत्यनेनैव विवक्षितप्रतीतेरिति २, पिंकारे त्ति अकारलोपदर्शनेनानुस्वारागमेन च अपिशब्द उक्तः, तदनुयोगो यथा अपिः सम्भावनानिवृत्त्यपेक्षासमुच्चयगर्हाशिष्यामर्षणभूषणप्रश्नेषु ]इति, तत्र एवं पि एगे आसासे [स्थानाङ्ग० ३१४] इत्यत्र सूत्रे एवमपि अन्यथाऽपीति प्रकारान्तरसमुच्चयार्थोऽपिशब्द इति ३, सेयंकारे त्ति इहाप्यंकारोऽलाक्षणिकस्तेन सेकार इति, तदनुयोगो यथा से भिक्खू वा [ दशवै० ४।१०] इत्यत्र सूत्रे सेशब्दोऽथार्थः, अथशब्दश्च प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेषु[ ] इत्यानन्तर्यार्थः, [ इत्यादि ] ४, सायंकारे त्ति सायमिति निपातः सत्यार्थस्तस्माद् 'वर्णात् कारः' इत्यनेन छान्दसत्वात् कारप्रत्ययः करणं वा कारस्ततः सायंकार इति, तदनुयोगो यथा सत्यं तथावचनसद्भावप्रश्नेषु[ ]इति, एते च चकारादयो निपातास्तेषामनुयोगभणनं शेषनिपातादिशब्दानुयोगोपलक्षणार्थमिति ५, गत्ते त्ति एकत्वमेकवचनं तदनुयोगो यथा सम्यग्दर्शनज्ञान-चारित्राणि मोक्षमार्गः [ तत्त्वार्थ० १।१] इत्यत्रैकवचनं सम्यग्दर्शनादीनां समुदितानामेवैकमोक्षमार्गत्वख्यापनार्थम्, असमुदितत्वे त्वमोक्षमार्गतेति प्रतिपादनार्थमिति ६, पुहत् पृथक्त्वं भेदो द्विवचनबहुवचने इत्यर्थः, तदनुयोगो यथा धम्मत्थिकाये धम्मत्थिकायदेसे धम्मत्थिकायप्पदेसा [ प्रज्ञापना० १५] इह सूत्रे धर्मास्तिकायप्रदेशा इत्येतद् बहुवचनं तेषामसङ्ख्यातत्वख्यापनार्थमिति ७, संजू ति सङ्गतं युक्तार्थं यूथं पदानां पदयोर्वा समूहः संयूथम्, समास इत्यर्थः, तदनुयोगो यथा सम्यग्दर्शनशुद्धम् [तत्त्वार्थका १] सम्यग्दर्शनेन सम्यग्दर्शनाय सम्यग्दर्शनाद्वा शुद्धं सम्यग्दर्शनशुद्धमित्यादिरनेकधा ८, संकामियं ति सङ्क्रामितं विभक्तिवचनादि विभक्ति-वचनाद्यन्तरतया परिणामितं तदनुयोगो यथा साहूणं वंदणेणं नासति पावं असंकिया भावा [ ] इह साधूनामित्येतस्याः षष्ठ्याः साधुभ्यः सकाशादित्येवं लक्षणं पञ्चमीत्वेन विपरिणामं कृत्वा अशङ्किता भाव भवन्तीत्येतत् पदं सम्बन्धनीयम्, तथा अच्छंदा जे न भुंजति न चाई ति वच्च । [दशवै० २।२] इत्यत्र सूत्रे न स त्यागी इति उच्यते इत्येकवचनस्य बहुवचनतया परिणामं कृत्वा न ते त्यागिन उच्यन्त इत्येवं पदघटना कार्येति ९, भिन्नमिति क्रम - कालभेदादिभिर्भिन्नं Page #319 -------------------------------------------------------------------------- ________________ ७२० विसदृशं तदनुयोगो यथा-तिविहं तिविहेणमिति सङ्ग्रहमुक्त्वा पुन: मणेणमित्यादिना तिविहेणं ति विवृतमिति क्रमभिन्नम्, क्रमेण हि तिविहमित्येतन्न करोमीत्यादिना विवृत्य ततस्त्रिविधेनेति विवरणीयं भवतीति, अस्य च क्रमभिन्नस्यानुयोगोऽयं यथा क्रमविवरणे हि यथासङ्ख्यदोषः स्यादिति तत्परिहारार्थं क्रमभेदः, तथा हि न करोमि मनसा न कारयामि वाचा कुर्वन्तं नानुजानामि कायेनेति प्रसज्यते, अनिष्टं चैतत् प्रत्येकपक्षस्यैवेष्टत्वात्, तथाहि- मन:प्रभृतिभिर्न करोमि तैरेव न कारयामि नानुजानामीति, तथा कालभेदोऽतीतादिनिर्देशे प्राप्ते वर्तमानादिनिर्देशो यथा जम्बूद्वीपप्रज्ञप्त्यादिषु ऋषभस्वामिनमाश्रित्य सक्के देविंदे देवराया वंदइ नमसइ [जम्बूद्वीप० २।३५] त्ति सूत्रे, तदनुयोगश्चायं वर्तमाननिर्देश-स्त्रिकालभाविष्वपि तीर्थकरेष्वेतन्न्यायप्रदर्शनार्थ इति, इदं च दोषादिसूत्रत्रयमन्यथापि विमर्शनीयम्, गम्भीरत्वादस्येति । [सू० ७४५] दसविहे दाणे पण्णत्ते, तंजहाअणुकंपा संगहे चेव, भया कालुणिते ति त । लजाते गारवेणं च, अहम्मे उण सत्तमे ।। धम्मे त अट्ठमे वुत्ते, काही ति त कतं ति त ॥१६३॥ दसविधा गती पन्नत्ता, तंजहा-निरयगती, निरयविग्गहगती, तिरियगती, तिरियविग्गहगई, एवं जाव सिद्धिगती, सिद्धिविग्गहगती । [टी०] वागनुयोगतस्त्वर्थानुयोग: प्रवर्त्तत इति दानलक्षणस्यार्थस्य भेदानामनुयोगमाहदसेत्यादि, अणुकंपेत्यादि श्लोक: सार्द्धः, अनुकंप त्ति दानशब्दसम्बन्धादनुकम्पया कृपया दानं दीनानाथविषयमनुकम्पादानमथवा अनुकम्पातो यद्दानं तदनुकम्पैवोपचारात्, उक्तं च वाचकमुख्यैरुमास्वातिपूज्यपादै: कृपणेऽनाथ-दरिद्रे व्यसनप्राप्ते च रोग-शोकहते । यद्दीयते कृपार्थादनुकम्पा तद्भवेद्दानम् ॥ [ ] १ । सङ्ग्रहणं सङ्ग्रहः व्यसनादौ सहायकरणम्, तदर्थं दानं सङ्ग्रहदानम्, अथवा अभेदाद्दानमपि सङ्ग्रह उच्यते, आह च Page #320 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । ७२१ अभ्युदये व्यसने वा यत् किञ्चिद्दीयते सहायार्थम् । तत् सङ्ग्रहतोऽभिमतं मुनिभिर्दानं न मोक्षाय ॥ [ ] इति २ । तथा भयात् यद्दानं तत् भयदानम्, भयनिमित्तत्वाद्वा दानमपि भयमुपचाराद् इति, उक्तं च– राजा-ऽऽरक्ष-पुरोहित-मधुमुख-माचल्ल-दण्डपाशिषु च।। यद्दीयते भयार्थात्तद् भयदानं बुधैर्जेयम् ॥ [ ] इति ३ । कालुणिए इ य त्ति कारुण्यं शोकः, तेन पुत्रवियोगादिजनितेन तदीयस्यैव तल्पादे: स जन्मान्तरे सुखितो भवत्विति वासनातोऽन्यस्य भोज्यस्य वा यद्दानं तत् कारुण्यदानम्, कारुण्यजन्यत्वाद्वा दानमपि कारुण्यमुक्तमुपचारादिति ४ । तथा लज्जया हिया दानं यत्तल्लज्जादानमुच्यते, उक्तं चअभ्यर्थितः परेण तु यद्दानं जनसमूहमध्यगत: । परचित्तरक्षणार्थं लजायास्तद्भवेद्दानम् ॥ [ ] इति ५ । गारवेणं च त्ति गौरवेण गर्वेण यद्दीयते तद् गौरवदानमिति, उक्तं चनट-नर्त-मुष्टिकेभ्यो दानं सम्बन्धि-बन्धु-मित्रेभ्यः । यद्दीयते यशोऽर्थं गर्वेण तु तद्भवेद्दानम् ॥ [ ] ६ । अधर्मपोषकं दानमधर्मदानम्, अधर्मकारणत्वाद्वा अधर्म एवेति, उक्तं चहिंसा-ऽनृत-चौर्योद्यत-परदार-परिग्रहप्रसक्तेभ्यः । यद्दीयते हि तेषां तज्जानीयादधर्माय ॥ [ ] इति ७ । धर्मकारणं यत्तद्धर्मदानं धर्म एव वा, उक्तं चसमतृण-मणि-मुक्तेभ्यो यद्दानं दीयते सुपात्रेभ्यः । अक्षयमतुलमनन्तं तद्दानं भवति धर्माय ॥ [ ] इति ८ । काही इ य त्ति करिष्यति कञ्चनोपकारं ममायमिति बुद्ध्या यद्दानं तत् करिष्यतीति दानमुच्यते ९। तथा कृतं ममानेन तत् प्रयोजनमिति प्रत्युपकारार्थं यद्दानं तत् कृतमिति, उक्तं चशतश: कृतोपकारो दत्तं च सहस्रशो ममानेन । अहमपि ददामि किञ्चित् प्रत्युपकाराय तद्दानम् ॥ [ ] इति १० । उक्तलक्षणाद्दानाच्छुभाशुभा गतिर्भवतीति सामान्यतो गतिनिरूपणायाह-दसेत्यादि, Page #321 -------------------------------------------------------------------------- ________________ ७२२ निरयगति त्ति निर्गता अयात् शुभादिति निरया नारकाः, तेषां गतिर्गम्यमानत्वान्नरकः, तद्गतिनामकर्मोदयसम्पाद्यो नारकत्वलक्षण: पर्यायविशेषो वेति निरयगतिः, तथा निरयाणां नारकाणां विग्रहान् क्षेत्रविभागानतिक्रम्य गति: गमनं निरयविग्रहगति: स्थितिनिवृत्तिलक्षणा ऋजुवक्ररूपा विहायोगतिकापाद्या वेति, एवं तिर्यङ्-नरनाकिनामपीति, सिद्धिगइ त्ति सिध्यन्ति निष्ठितार्था भवन्ति यस्यां सा सिद्धिः, सा चासौ गम्यमानत्वाद् गतिश्चेति सिद्धिगति: लोकाग्रलक्षणा, तथा सिद्धविग्गहगइ त्ति सिद्धस्य मुक्तस्य विग्रहस्य आकाशविभागस्यातिक्रमणे गति: लोकान्तप्राप्ति: सिद्धविग्रहगतिरिति, विग्रहगतिर्वक्रगतिरप्युच्यते परं सिद्धस्य सा नास्तीति तत्साहचर्यान्नारकादीनामप्यसौ न व्याख्यातेति, अथवा द्वितीयपदैर्नारकादीनां वक्रगतिरुक्ता, प्रथमैस्तु निर्विशेषणतया पारिशेष्यात् ऋजुगतिः, सिद्धिगइ त्ति सिद्धौ गमनम्, निर्विशेषणत्वाच्च अनेन सामान्या सिद्धिगतिरुक्ता, सिद्धाऽविग्गहगइ त्ति सिद्धावविग्रहेण अवक्रेण गमनं सिद्ध्यविग्रहगतिः, अनेन च विशेषणापेक्षायां विशिष्टा सिद्धिगतिरुक्ता, सामान्यविशेषविवक्षया चानयोर्भेद इति । [सू० ७४६] दस मुंडा पन्नत्ता, तंजहा-सोतिंदितमुंडे जाव फासिंदितमुंडे, कोहमुंडे जाव लोभमुंडे, सिरमुंडे । [टी०] सिद्धिगतिर्मुण्डानामेव भवतीति मुण्डनिरूपणायाह- दसेत्यादि, मुण्डयति अपनयतीति मुण्डः, स च श्रोत्रेन्द्रियादिभेदाद् दशधेति, शेषं सुगमम् । [सू० ७४७] दसविधे संखाणे पन्नत्ते, तंजहापरिकम्मं ववहारो, रज्जू रासी कलासवन्ने य । जावंताव ति वग्गो, घणो त तह वग्गवग्गो वि ॥१६४॥ कप्पो त । [टी०] मुण्डा दशेति सङ्ख्यानमतस्तद्विधय उच्यन्ते, दसेत्यादि, परिकम्मं गाहा, परिकर्म संकलनाद्यनेकविधं गणितज्ञप्रसिद्धम्, तेन यत् सङ्ख्येयस्य सङ्ख्यानं परिगणनं तदपि परिकम्र्मेत्युच्यते, एवं सर्वत्रेति १, व्यवहारः श्रेणीव्यवहारादि: पाटीगणितप्रसिद्धोऽनेकधा २, रज्जु त्ति, रज्ज्वा यत् सङ्ख्यानं तद्रज्जुरभिधीयते, तच्च Page #322 -------------------------------------------------------------------------- ________________ ७२३ दशममध्ययनं दशस्थानकम् । क्षेत्रगणितम् ३, रासि त्ति धान्यादेरुत्करस्तद्विषयं सङ्ख्यानं राशि:, स च पाट्यां राशिव्यवहार इति प्रसिद्ध: ४, कलासवन्ने य त्ति कलानाम् अंशानां सवर्णनं सवर्ण: सदृशीकरणं यस्मिन् सङ्ख्याने तत् कलासवर्णम् ५, जावंताव इ त्ति जावं ताव त्ति वा गुणकारो त्ति वा एगट्ठ [ ] इति वचनाद् गुणकारस्तेन यत् सङ्ख्यानं तत्तथैवोच्यते, तच्च प्रत्युत्पन्नमिति लोकरूढम्, अथवा यावत: कुतोऽपि तावत एव गुणकाराद् यादृच्छिकादित्यर्थः, यत्र विवक्षितं सङ्कलनादिकमानीयते तद् यावत्तावत्सङ्ख्यानमिति, तत्रोदाहरणम् गच्छो वाञ्छाभ्यस्तो वाञ्छयुतो गच्छसगुण: कार्यः । द्विगुणीकृतवाञ्छहते वदन्ति सङ्कलितमाचार्याः ॥ [ ] अत्र किल गच्छो दश १०, ते च वाञ्छया यादृच्छिकगुणकारेणाष्टकेनाभ्यस्ता: जाताऽशीति: ८०, ततो वाञ्छयुतास्ते अष्टाशीति: ८८, पुनर्गच्छेन दशभिः सङ्गुणिता अष्टौ शतान्यशीत्यधिकानि जातानि ८८०, ततो द्विगुणीकृतेन यादृच्छिकगुणकारेण षोडशभिर्भागे हृते यल्लभ्यते तद् दशानां संकलितमिति ५५, इदं च पाटीगणितं श्रूयते इति ६, तथा वर्गः संख्यानम्, यथा द्वयोर्वर्गश्चत्वारः सदृशद्विराशिघात: [त्रिशती) इति वचनात् ७, घणो यत्ति घन: सङ्ख्यानं यथा द्वयोर्घनोऽष्टौ समत्रिराशिहतिः [त्रिशती] इति वचनात् ८, वग्गवग्गो त्ति वर्गस्य वर्गो वर्गवर्ग:, स च सङ्ख्यानम्, यथा द्वयोर्वर्गश्चत्वारश्चतुर्णां वर्ग: षोडशेति, अपिशब्द: समुच्चये ९, कप्पो यत्ति गाथाधिकम्, तत्र कल्प: छेदः, क्रकचेन काष्ठस्य, तद्विषयं सङ्ख्यानं कल्प एव यत् पाट्यां क्राकचव्यवहार इति प्रसिद्धमिति, इह च परिकादीनां केषाञ्चिदुदाहरणानि मन्दबुद्धीनां दुरवगमानि भविष्यन्त्यतो न प्रदर्शितानीति १० । [सू० ७४८] दसविधे पच्चक्खाणे पण्णत्ते, तंजहाअणागतमतिकंतं, कोडीसहितं नियंटितं चेव । सागारमणागारं, परिमाणकडं निरवसेसं । सएयगं चेव अद्धाए, पच्चक्खाणं दसविहं तु ॥१६५॥ [टी०] दश मुण्डा उक्तास्ते च प्रत्याख्यानतो भवन्तीति प्रत्याख्याननिरूपणायाह Page #323 -------------------------------------------------------------------------- ________________ ७२४ दसविहेत्यादि, प्रतिकूलतया आ मर्यादया ख्यानं कथनं प्रत्याख्यानं निवृत्तिरित्यर्थः। अणागय गाहा सार्द्धा, अणागय त्ति अनागतकरणादनागतं पर्युषणादावाचार्यादिवैयावृत्यकरणान्तरायसद्भावादारत एव तत्तप:करणमित्यर्थः १ । अइक्वंतं ति एवमेवातीते पर्युषणादौ करणादतिक्रान्तम् २। कोडीसहियं ति कोटीभ्याम् एकस्य चतुर्थादेरन्तविभागोऽपरस्य चतुर्थादेरेवारम्भविभाग इत्येवंलक्षणाभ्यां सहितं मिलितं युक्तं कोटीसहितं मिलितोभयप्रत्याख्यानकोटेश्चतुर्थादेः करणमित्यर्थः ३ । नियंटियं ति नितरां यन्त्रितं प्रतिज्ञातदिनादौ ग्लानत्वाद्यन्तरायभावेऽपि नियमात् कर्त्तव्यमिति हृदयम्, एतच्च प्रथमसंहननानामेवेति ४ । सागारं ति आक्रियन्त इत्याकारा: प्रत्याख्यानापवादहेतवोऽनाभोगाद्यास्तैराकारैः सहेति साकारम् ५ । अणागारं ति अविद्यमाना आकारा महत्तराकारादयो निश्छिन्नप्रयोजनत्वात् प्रतिपत्तुर्यस्मिंस्तदनाकारम्, तत्रापि अनाभोग-सहसाकारावाकारौ स्याताम्, मुखेऽङ्गुल्यादिप्रक्षेपसम्भवादिति ६ । परिमाणं सङ्ख्यानं दत्ति-कवल-गृह-भिक्षादीनां कृतं यस्मिंस्तत् परिमाणकृतमिति ७ । निरवसेसं ति निर्गतमवशेषमपि अल्पाल्पमप्यशनाद्याहारजातं यस्मात् तन्निरवशेषम्, निरवशेषं वा सर्वमशनादि तद्विषयत्वाद् निरवशेषमिति ८ । सएययं चेव त्ति केतनं केत: चिह्नमङ्गुष्ठ-मुष्टि-ग्रन्थि-गृहादिकं स एव केतकः, सह केतकेन सकेतकं ग्रन्थ्यादिसहितमित्यर्थ: ९ । अद्धाए त्ति अद्धाया: कालस्य, पौरुष्यादिकालमानमाश्रित्येत्यर्थः १० । पच्चक्खाणं दसविधं तु त्ति प्रत्याख्यानशब्दः सर्वत्रानागतादौ सम्बध्यते, तुशब्द एवकारार्थः, ततो दशविधमेवेति, इहोपाधिभेदात् स्पष्ट एव भेद इति न पौनरुक्त्यमाशङ्कनीयमिति । [सू० ७४९] दसविधा सामायारी पण्णत्ता, तंजहाइच्छा मिच्छा तहक्कारो, आवस्सिता य निसीहिता । आपुच्छणा य पडिपुच्छा, छंदणा य निमंतणा । उवसंपता य काले, सामायारी दसविधा उ ॥१६६॥ [टी०] प्रत्याख्यानं हि साधुसामाचारीति तदधिकारादन्यामपि सामाचारी निरूपयन्नाह Page #324 -------------------------------------------------------------------------- ________________ ७२५ दशममध्ययनं दशस्थानकम् । दसेत्यादि, समाचरणं समाचारः, तद्भाव: सामाचार्यम्, तदेव सामाचारी संव्यवहार इत्यर्थः, इच्छेत्यादि सार्द्धः श्लोकः, इच्छ त्ति एषणमिच्छा, करणं कारः, तत्र कारशब्द: प्रत्येकमभिसम्बन्धनीयः, इच्छया बलाभियोगमन्तरेण कार इच्छाकारः, इच्छाक्रियेत्यर्थः, तथा चेच्छाकारेण ममेदं कुरु, इच्छाप्रधानक्रियया न बलाभियोगपूर्विकयेति भावार्थः, अस्य च प्रयोग: स्वार्थं परार्थं वा चिकीर्षन् यदा परमभ्यर्थयते, उक्तं च जइ अब्भत्थेज परं कारणजाए करेज व से कोइ । तत्थ उ इच्छाकारो न कप्पइ बलाभिओगो उ ॥ [आव० नि० ६६८] त्ति । तथा मिथ्या वितथमनृतमिति पर्याया:, मिथ्या करणं मिथ्याकारः, मिथ्याक्रियेत्यर्थः, तथा च संयमयोगे विदितजिनवचनसारा: साधवस्तक्रियावैतथ्यदर्शनाय मिथ्याकारं कुर्वते, मिथ्याक्रियेयमिति हृदयम्, भणितं च संजमजोगे अब्भुट्ठियस्स जं किंचि वितहमायरियं । मिच्छा एयं ति वियाणिऊण मिच्छ त्ति कायव्वं ॥ [पञ्चा० १२।१०] ति । तथा करणं तथाकारः, स च सूत्रप्रश्नादिगोचरः, यथा भवद्भिरुक्तं तथैवेदमित्येवंस्वरूप:, गदितं चवायणपडिसुणणाए उवएसे सुत्तअत्थकहणाए । अवितहमेयं ति तहा पडिसुणणाए तहक्कारो ॥ [पञ्चा० १२।१५] त्ति, अयं च पुरुषविशेषविषय एव प्रयोक्तव्य इति, अगादि चकप्पाकप्पे परिनिट्ठियस्स ठाणेसु पंचसु ठियस्स । संजम-तवडगस्स उ अविगप्पेणं तहक्कारो ॥ [पञ्चा० १२।१४] त्ति । आवस्सिया यत्ति अवश्यकर्त्तव्यैर्योगैर्निष्पन्नाऽऽवश्यकी, च: समुच्चये, एतत्प्रयोग आश्रयान्निर्गच्छत: आवश्यकयोगयुक्तस्य साधोर्भवति, आह हिकजे गच्छंतस्स उ गुरुनिद्देसेण सुत्तनीईए । आवस्सिय त्ति नेया सुद्धा अन्नत्थजोगाओ ॥ [पञ्चा० १२।१८] अन्वर्थयोगादित्यर्थः । तथा निषेधेन निर्वृत्ता नैषेधिकी व्यापारान्तरनिषेधरूपा, प्रयोगश्चास्या आश्रये प्रविशत इति, यत आह Page #325 -------------------------------------------------------------------------- ________________ ७२६ एवोग्गहप्पवेसे निसीहिया तह निसिद्धजोगस्स । एयस्सेसा उचिया इयरस्स अनिषिद्धयोगस्य न चेव नत्थि त्ति ।। [पञ्चा० १२।२२] अन्वर्थो नास्तीति कृत्वेत्यर्थः । तथा आप्रच्छनमापृच्छा, सा विहारभूमिगमनादिषु प्रयोजनेषु गुरोः कार्या, चशब्दः पूर्ववत् । तथा प्रतिपृच्छा प्रतिप्रश्नः, सा च प्राग्नियुक्तेनापि करणकाले कार्या, पूर्वनिषिद्धेन वा प्रयोजनतस्तदेव कर्तुकामेनेति । तथा छन्दना च प्राग्गृहीतेनाशनादिना कार्या, इहावाचिपुव्वगहिएण छंदण गुरुआणाए जहारिहं होइ, इत्यादि। तथा निमन्त्रणा अगृहीतेनैवाशनादिना भवदर्थमहमशनादिकमानयाम्येवंभूता, इहार्थे अभ्यधायि सज्झाया उव्वाओ श्रान्तः गुरुकिच्चे सेसगे असंतम्मि । तं पुच्छिऊण कजे सेसाण निमंतणं कुज ॥ [पञ्चा० १२॥३८] त्ति । तथा उवसंपय त्ति उपसंपत् इतो भवदीयोऽहमित्यभ्युपगमः, सा च ज्ञान-दर्शनचारित्रार्थत्वात् त्रिधा, तत्र ज्ञानोपसम्पत् सूत्रार्थयो: पूर्वगृहीतयोः स्थिरीकरणार्थं तथा वित्रुटितसन्धानार्थं तथा प्रथमतो ग्रहणार्थमुपसम्पद्यते, दर्शनोपसम्पदप्येवम्, नवरं दर्शनप्रभावकसम्मत्यादिशास्त्रविषया, चारित्रोपसम्पच्च वैयावृत्यकरणार्थं क्षपणार्थं वोपसम्पद्यमानस्येति, भणितं हि उवसंपया य तिविहा नाणे तह दंसणे चरित्ते य । दसण-नाणे तिविहा दुविहा य चरित्तअट्ठाए ॥ वत्तणसंधणगहणे सुत्तत्थोभयगया उ एस त्ति । वेयावच्चे खमणे काले पुण आवकहियाइ ॥ [पञ्चा० १२।४२-४३] त्ति । काले त्ति उपक्रमणकाले आवश्यकोपोद्घातनिर्युक्त्यभिहिते, सामाचारी दशविधा भवति । [सू० ७५०] समणे भगवं महावीरे छउमत्थकालिताते अंतिमरातितंसि इमे दस महासुमिणे पासित्ताणं पडिबुद्धे, तंजहा Page #326 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । ७२७ एगं च णं महाघोररूवदित्तधरं तालपिसायं सुमिणे पराजितं पासित्ताणं पडिबुद्धे १ । एगं च णं महं सुक्किलपक्खगं पूसकोइलगं सुमिणे पासित्ताणं पडिबुद्धे २ । एगं च णं महं चित्तविचित्तपक्खगं पूसकोइलं सुविणे पासित्ताणं पडिबुद्धे ३ । एगं च णं महं दामदुगं सव्वरतणामयं सुमिणे पासित्ताणं पडिबुद्धे ४। एगं च णं महं सेतं गोवग्गं सुमिणे पासित्ताणं पडिबुद्धे ५ । एगं च णं महं पउमसरं सव्वतो समंता कुसुमितं सुमिणे पासित्ताणं पडिबुद्धे ६ । ___ एगं च णं महासागरं उम्मीवीचिसहस्सकलितं भुयाहिं तिण्णं सुमिणे पासित्ताणं पडिबुद्धे ७ । एगं च णं महं दिणकरं तेयसा जलंतं सुमिणे पासित्ताणं पडिबुद्धे ८॥ ___एगं च णं महं हरिवेरुलितवन्नाभेणं नियतेणमंतेणं माणुसुत्तरं पव्वतं सव्वतो समंता आवेढियपरिवेढियं सुमिणे पासित्ताणं पडिबुद्धे ९ । एगं च णं महं मंदरे पव्वते मंदरचूलिताते उवरिं सीहासणवरगतमत्ताणं सुमिणे पासित्ताणं पडिबुद्धे १० । जं णं समणे भगवं महावीरे एगं महं घोररूवदित्तधरं तालपिसातं सुमिणे परातितं पासित्ताणं पडिबुद्धे तं णं समणेणं भगवता महावीरेणं मोहणिज्जे कम्मे मूलओ उग्घातिते १ । ____जं णं समणे भगवं महावीरे एगं महं सुक्किलपक्खगं जाव पडिबुद्धे तं णं समणे भगवं महावीरे सुक्कज्झाणोवगते विहरइ २ ।। ___ जं णं समणे भगवं महावीरे एगं महं चित्तविचित्तपक्खगं जाव पडिबुद्धे तं णं समणे भगवं महावीरे ससमयपरसमयियं चित्तविचित्तं दुवालसंगं गणिपिडगं आघवेति पण्णवेति परूवेति दंसेति निदंसेति उवदंसेति, तंजहाआयारं जाव दिट्ठिवातं ३ । जं णं समणे भगवं [महावीरे एगं] महं दामदुगं सव्वरतणा जाव पडिबुद्धे Page #327 -------------------------------------------------------------------------- ________________ ७२८ तं णं समणे भगवं महावीरे दुविहं धम्मं पण्णवेति, तंजहा-अगारधम्मं च अणगारधम्मं च ४ । जं णं समणे भगवं महावीरे एगं महं सेतं गोवग्गं सुमिणे जाव पडिबुद्धे तं णं समणस्स भगवओ महावीरस्स चाउवण्णाइण्णे संघे, तंजहा- समणा समणीओ सावगा साविगाओ ५ । जं णं समणे भगवं महावीरे एगं महं पउमसरं जाव पडिबुद्धे तं णं समणे भगवं महावीरे चउव्विहे देवे पण्णवेति, तंजहा-भवणवासी वाणमंतरे जोतिसिते वेमाणिते ६ । जं णं समणे भगवं महावीरे एगं महं उम्मीवीची जाव पडिबुद्धे तं णं समणेणं भगवता महावीरेणं अणातीते अणवदग्गे दीहमद्धे चाउरंते संसारकंतारे तिन्ने ७ । जं णं समणे भगवं महावीरे एगं महं दिणकरं जाव पडिबुद्धे तन्नं समणस्स भगवतो महावीरस्स अणंते अणुत्तरे जाव समुप्पन्ने ८ । जं णं समणे भगवं महावीरे एगेणं च महं हरिवेरुलित जाव पडिबद्ध तं णं समणस्स भगवतो महावीरस्स सदेवमणुयासुरे लोगे उराला कित्तिवन्नसद्दसिलोगा परिगुवंति ‘इति खलु समणे भगवं महावीरे, इति खलु समणे भगवं महावीरे' ९ । ___ जं णं समणे भगवं महावीरे मंदरे पव्वते मंदरचूलिताए उवरिं जाव पडिबुद्धे तं णं समणे भगवं महावीरे सदेवमणुयासुराते परिसाते मज्झगते केवलिपन्नत्तं धम्मं आघवेति पण्णवेति जाव उवदंसेति १० । [टी०] इयं च सामाचारी महावीरेणेह प्रज्ञापिता अतो भगवन्तमेवोररीकृत्य दशस्थानकमाह- समणेत्यादि सुगमम्, नवरं छउमत्थकालियाए त्ति प्राकृतत्वात् छद्मस्थकाले यदा किल भगवान् त्रिक-चतुष्क-चत्वर-चतुर्मुख-महापथादिषु पटुपटहप्रतिरवोद्घोषणापूर्वं यथाकाममुपहतसकलजनदारिद्र्यमनवच्छिन्नमब्दं यावन्महादानं दत्त्वा सदेव-मनुजा-ऽसुरपरिषदा परिवृत: इत्यादि वृत्तौ। शूलपाणियक्षायतने शूलपाणिना Page #328 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । ७२९ कदर्थितः स्वामी देशोनांश्चतुरो यामान् प्रभातसमये मुहूर्तमानं निद्राप्रमादमुपगतवान् तत्रावसरे इत्यर्थः, अथवा छद्मस्थकाले भवा अवस्था छाद्मस्थकालिकी तस्याम् अंतिमराइयंसि त्ति अन्तिमा अन्तिमभागरूपा अवयवे समुदायोपचारात् सा चासौ रात्रिका चान्तिमरात्रिका तस्याम्, रात्रेरवसान इत्यर्थः, महान्तः प्रशस्ता: स्वप्ना निद्राविकृतविज्ञानप्रतिभातार्थविशेषास्ते च ते ते चेति महास्वप्नास्तान् ।। __ स्वप्ने स्वापक्रियायाम्, एगं च त्ति चकार उत्तरस्वप्नापेक्षया समुच्चयार्थः, महाघोरम् अतिरौद्र रूपम् आकारं दीप्तं ज्वलितं दप्तं वा दर्पवद्धारयतीति महाघोररूपदीप्तधरो तालो वृक्षविशेषस्तदाकारो दीर्घत्वादिसाधात् पिशाचो राक्षसस्तालपिशाचस्तम्, पराजितं निराकृतमात्मना १, एगं च त्ति अन्यं च पुंसकोकिलगं ति पुमांश्चासौ कोकिलश्च परपुष्टः पुंस्कोकिलकः, स च किल कृष्णो भवतीति शुक्लपक्ष इति विशेषित: २, चित्तविचित्तपक्खं ति चित्रेणेव चित्रकर्मणा विचित्रौ विविधवर्णविशेषवन्तौ पक्षौ यस्य स तथा ३, दामदुगं ति मालाद्वयम् ४, गोवग्गं ति गोरूपाणि ५, पउमसरं ति पद्मानि यत्रोत्पद्यन्ते सरसि तत् पद्मसर: सर्वतः सर्वासु दिक्षु समन्तात् विदिक्षु च कुसुमानि पद्मलक्षणानि जातानि यत्र तत् कुसुमितम् ६, उम्मीवीचिसहस्सकलियं ति ऊर्मय: कल्लोला:, तल्लक्षणा या वीचयस्ता ऊर्मिवीचय: ७, तथा दिनकरम् ८, एकेन च, णमित्यलङ्कारे महं ति महता छान्दसत्वात, हरिवेरुलियवन्नाभेणं ति हरिः पिङ्गो वर्ण: वैडूर्यं मणिविशेषस्तस्य वर्णो नीलो वैडूर्यवर्णः, ततो द्वन्द्वः तद्वदाभाति यत्तद्धरिवैडूर्यवर्णाभम्, तेन, निजकेन आत्मीयेनाऽन्त्रेण उदरमध्यावयवविशेषेण, आवेढियं ति सकृदावेष्टितम्, परिवेढियं ति असकृदिति ९, एगं च णं महं ति आत्मनो विशेषणं सिंहासणवरगयं ति सिंहासनानां मध्ये यद्वरं तत् सिंहासनवरम्, तत्र गतो व्यवस्थितो यस्तमिति १०। एतेषामेव दशानां महास्वप्नानां फलप्रतिपादनायाह- जन्नमित्यादि सुगमम्, नवरं मूलओ त्ति आदित:, सर्वथैवेत्यर्थः, उग्घाइए उद्घातितं विनाशितं विनाशयिष्यमाणत्वेनोपचारात्, सूत्रकारापेक्षया त्वयमतीतनिर्देश एवेत्येवमन्यत्रापि । ससमयपरसमइयं ति स्वसिद्धान्त-परसिद्धान्तौ यत्र स्त इत्यर्थः, गणिन: आचार्यस्य Page #329 -------------------------------------------------------------------------- ________________ ७३० पिटकमिव पिटकं वणिज इव सर्वस्वस्थानं गणिपिटकम्, आघवेइ त्ति आख्यापयति सामान्यविशेषरूपतः, प्रज्ञापयति सामान्यत:, प्ररूपयति प्रतिसूत्रमर्थकथनेन, दर्शयति तदभिधेयप्रत्युपेक्षणादिक्रियादर्शनेन, इयं क्रियेभिरक्षरैरुपात्ता इत्थं क्रियत इति भावना, दिंसेइ त्ति कथञ्चिदगृह्णत: परानुकम्पया निश्चयेन पुन: पुनदर्शयति निदर्शयति, उवदंसेइ त्ति सकलनययुक्तिभिरिति ३, चाउव्वण्णाइण्णे त्ति चत्वारो वर्णाः श्रमणादय: समाहृता इति चतुर्वर्णम्, तदेव चातुर्वर्ण्यम्, तेनाकीर्ण: आकुलश्चातुर्वर्णाकीर्णः, चउव्विहे देवे पन्नवेइ त्ति वन्दनकुतूहलादिप्रयोजनेनागतान् प्रज्ञापयति जीवाजीवादीन् पदार्थान् बोधयति सम्यक्त्वं ग्राहयति शिष्यीकरोतीति यावत्, लोकेभ्यो वा तान् प्रकाशयति । अणंते इत्यादौ सूत्रे यावत्करणात् निव्वाघाए निरावरणे [कसिणे पडिपुण्णे केवलवरनाणदंसणे त्ति] दृश्यमिति । सदेवेत्यादि, सह देवै: वैमानिक-ज्योतिष्कैर्मनुजैः नरैरसुरैश्च भवनपति-व्यन्तरैर्वर्तत इति सदेवमनुजासुरस्तत्र लोके त्रिलोकरूपे उराल त्ति प्रधाना:, कीर्तिः सर्वदिग्व्यापी साधुवादः, वर्ण एकदिग्व्यापी, शब्दः अर्द्धदिग्व्यापी, श्लोकः तत्तत्स्थान एव श्लाघा, एषां द्वन्द्वः, तत एते परिगुवंति परिगुप्यन्ति व्याकुला भवन्ति सततं भ्रमन्तीत्यर्थः, कथमित्याह- इति खल्वित्यादि, इति: एवंप्रकारार्थः, खलुक्यालङ्कारे ततश्चैवंप्रकारो भगवान् सर्वज्ञानी सर्वदर्शी सर्वसंशयव्यवच्छेदी सर्वबोधकभाषाभाषी सर्वजगज्जीववत्सलः सर्वगुणिगणचक्रवर्ती सर्वनर-नाकिनायकनिकायसेवितचरणयुग इत्यर्थः, महावीर इति नाम, एतदेवावर्त्यते श्लाघाकारिणामादरख्यापनार्थमनेकत्व-ख्यापनार्थं चेति, आघवेईत्यादि पूर्ववत् । [सू० ७५१] दसविधे सरागसम्मइंसणे पन्नत्ते, तंजहानिसग्गुवतेसरुती आणारुती सुत्त-बीतरुतिमेव । अभिगम-वित्थाररुती किरिया-संखेव-धम्मरुती ॥१६७॥ [टी०] स्वप्नदर्शनकाले भगवान् सरागसम्यग्दर्शनीति सरागसम्यग्दर्शनं निरूपयन्नाहदसविहेत्यादि, सरागस्य अनुपशान्ताक्षीणमोहस्य यत् सम्यग्दर्शनं तत्त्वार्थश्रद्धानं तत्तथा, तद्दशधाह निसग्ग गाहा, रुचिशब्द: प्रत्येकं योज्यते, ततो निसर्ग: स्वभावस्तेन रुचि: तत्त्वाभिलाषरूपाऽस्येति निसर्गरुचि, यो हि जातिस्मरण-प्रतिभादिरूपया Page #330 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । ७३१ स्वमत्याऽवगतान् सद्भूतान् जीवादीन् पदार्थान् श्रद्दधाति स निसर्गरुचिरिति भावः । तथोपदेशो गुदिना कथनम्, तेन रुचिर्यस्येत्युपदेशरुचिः, तत्पुरुषपक्ष: स्वयमूह्यः सर्वत्रेति, यो हि जिनोक्तानेव जीवादीनर्थान् तीर्थकर-तच्छिष्यादिनोपदिष्टान् श्रद्धत्ते स उपदेशरुचिरिति भावः । तथाऽऽज्ञा सर्वज्ञवचनात्मिका, तया रुचिर्यस्य स तथा, यो हि प्रतनुराग-द्वेष-मिथ्याज्ञानतयाऽऽचार्यादीनामाज्ञयैव कुग्रहाभावाज्जीवादि तथेति रोचते माषतुषादिवत् स आज्ञारुचिरिति भावः । सुत्तबीयरुईमेव त्ति इहापि रुचिशब्दस्य प्रत्येकमभिसम्बन्धात् सूत्रेण आगमेन रुचिर्यस्य स सूत्ररुचिः, यो हि सूत्रागममधीयानस्तेनैवाङ्गप्रविष्टादिना सम्यक्त्वं लभते गोविन्दवाचकवत् स सूत्ररुचिरिति भावः । तथा बीजमिव बीजम्, यदेकमप्यनेकार्थप्रतिबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः, यस्य टेकेनापि जीवादिना पदेनावगतेनाऽनेकेषु पदार्थेषु रुचिरुपैति स बीजरुचिरिति भाव: । एवेति समुच्चये । तथा अभिगम-वित्थाररुइ त्ति, इहापि प्रत्येकं रुचिशब्दः सम्बन्धनीय:, तत्राऽभिगमो ज्ञानं ततो रुचिर्यस्य सोऽभिगमरुचिः, येन ह्याचारादिकं श्रुतमर्थतोऽधिगतं भवति सोऽभिगमरुचिः, अभिगमपूर्वकत्वात्तद्रुचेरिति भावः, गाथाऽत्र सो होइ अभिगमरुई सुअनाणं जस्स अत्थओ दिढें । एक्कारस अंगाई पइन्नयं दिट्ठिवाओ य ॥ [उत्तरा० २८।२३] त्ति । तथा विस्तारो व्यासस्ततो रुचिर्यस्य स तथेति, येन हि धर्मास्तिकायादिद्रव्याणां सर्वपर्यायाः सर्वैर्नय-प्रमाणैर्शाता भवन्ति स विस्ताररुचिः, ज्ञानानुसारिरुचित्वादिति । तथा क्रिया अनुष्ठानम्, रुचिशब्दयोगात् तत्र रुचिर्यस्य स क्रियारुचिः, इदमुक्तं भवति- दर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्ति स क्रियारुचिरिति । तथा सक्षेपः सङ्ग्रहस्तत्र रुचिरस्येति सङ्क्षेपरुचि:, यो ह्यप्रतिपन्नकपिलादिदर्शनो जिनप्रवचनानभिज्ञश्च सक्षेपेणैव चिलातिपुत्रवदुपशमादिपदत्रयेण तत्त्वरुचिमवाप्नोति स सक्षेपरुचिरिति भावः । तथा धर्मे श्रुतादौ रुचिर्यस्य स तथा, यो हि धर्मास्तिकायं श्रुतधर्मं चारित्रधर्म च जिनोक्तं श्रद्धत्ते स धर्मरुचिरिति ज्ञेयः । Page #331 -------------------------------------------------------------------------- ________________ ७३२ [सू०७५२] दस सण्णाओ पन्नत्ताओ, तंजहा - आहारसण्णा जाव परिग्गहसण्णा ४, कोधसण्णा जाव लोभसण्णा ८, लोगसण्णा ९, ओहसणा १० । नेरतिताणं दस सण्णातो एवं चेव, एवं निरंतरं जाव वेमाणियाणं । [टी०] अयं च सम्यग्दृष्टिर्दशानामपि संज्ञानां क्रमेण व्यवच्छेदं करोतीति ता आहसुगमम्, संज्ञानं संज्ञा आभोग इत्यर्थः, मनोविज्ञानमित्यन्ये, संज्ञायते वा आहाराद्यर्थी जीवोऽनयेति संज्ञा वेदनीय - मोहनीयोदयाश्रयाज्ञान- दर्शनावरणक्षयोपशमाश्रया च विचित्रा आहारादिप्राप्तये क्रियैवेत्यर्थः, सा चोपाधिभेदाद् भिद्यमाना दशप्रकारा भवतीति, तत्र क्षुद्वेदनीयोदयात् कवलाद्याहारार्थं पुद्गलोपादानक्रियैव संज्ञायतेऽनयेत्याहारसंज्ञा, तथा भयवेदनीयोदयाद् भयोद्भ्रान्तस्य दृष्टि - वदनविकार - रोमाञ्चोद्भेदादिक्रियैव संज्ञायतेऽनयेति भयसंज्ञा, तथा पुंवेदोदयाद् मैथुनाय स्त्र्यङ्गालोकन-प्रसन्नवदन-संस्तम्भितोरुवेपथुप्रभृतिलक्षणा च क्रियैव संज्ञायतेऽनयेति मैथुनसंज्ञा, तथा लोभोदयात् प्रधानभवकारणाभिष्वङ्गपूर्विका सचित्तेतरद्रव्योपादानक्रिया च संज्ञायतेऽनयेति परिग्रहसंज्ञा, तथा क्रोधोदयात्तदावेशगर्भा प्ररूक्षमुख-नयन-दन्तच्छदचेष्टैव संज्ञायतेऽनयेति क्रोधसंज्ञा, तथा मानोदयादहङ्कारात्मिकोत्सेकादिपरिणतिरेव संज्ञायतेऽनयेति मानसंज्ञा, तथा मायोदयेनाशुभसंक्लेशादनृतसम्भाषणादिक्रियैव संज्ञायतेऽनयेति मायासंज्ञा, तथा लोभोदयाल्लालसत्वान्वितात् सचित्तेतरद्रव्यप्रार्थनैव संज्ञायतेऽनयेति लोभसंज्ञा, तथा मतिज्ञानाद्यावरणक्षयोपशमाच्छब्दाद्यर्थगोचरा सामान्यावबोधक्रियैव संज्ञायतेऽनयेत्योघसंज्ञा, तथा तद्विशेषावबोधक्रियैव संज्ञायते ऽनयेति लोकसंज्ञा १०, ततश्चौघसंज्ञा दर्शनोपयोगः लोकसंज्ञा ज्ञानोपयोग इति, व्यत्ययमन्ये, अन्ये पुनरित्थमभिदधति सामान्यप्रवृत्तिरोघसंज्ञा लोकदृष्टिर्लोकसंज्ञा, एताश्च सुखप्रतिपत्तये स्पष्टरूपा: पञ्चेन्द्रियानधिकृत्योक्ताः, एकेन्द्रियादीनां तु प्रायो यथोक्तक्रियानिबन्धनकर्मोदयादिपरिणामरूपा एवावगन्तव्या:, यावच्छब्दौ व्याख्यातार्थौ । एता एव सर्वजीवेषु चतुर्विंशतिदण्डकेन निरूपयति- नेरइयेत्यादि, एवं चेव त्ि यथा सामान्यसूत्रे एवमेव नारकसूत्रेऽपीत्यर्थः, एवं निरंतरमिति यथा नारकसूत्रे संज्ञास्तथा शेषेष्वपि वैमानिकान्तेष्वित्यर्थः । Page #332 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । ७३३ [सू० ७५३] नेरइया णं दसविधं वेयणं पच्चणुभवमाणा विहरंति, तंजासीतं, उसिणं, खुधं, पिवासं, कंडु, परज्झं, भयं, सोगं, जरं, वाहिं । अनन्तरसूत्रे वैमानिका उक्ताः, ते च सुखवेदना अनुभवन्ति, तद्विपर्यस्तास्तु नारका या वेदना अनुभवन्ति ता दर्शयति-- नेरइया इत्यादि कण्ठ्यम्, नवरं वेदनां पीडाम्, तत्र शीतस्पर्शजनिता शीता, ताम्, सा च चतुर्थ्यादिनरकपृथ्वीष्विति, एवमुष्णां प्रथमादिषु, क्षुधं बुभुक्षां पिपासां तृषं कण्डूं खर्जू परज्झं ति परतन्त्रतां भयं भीतिं शोकं दैन्यं जरां वृद्धत्वं व्याधिं ज्वरर-कुष्ठादिकमिति । [सू० ७५४] दस ठाणाइं छउमत्थे णं सव्वभावेणं न जाणति ण पासति, तंजहा-धम्मत्थिगातं जाव वातं, अयं जिणे भविस्सति वा ण वा भविस्सति, अयं सव्वदुक्खाणमंतं करेस्सति वा ण वा कस्स । एताणि चेव उप्पन्ननाणदंसणधरे अरहा जाव अयं सव्वदुक्खाणमंतं करेस्सति वा ण वा करेस्सति । [टी०] अमुं वेदनादिकममूर्त्तमर्थं जिन एव जानाति न छद्मस्थो यत आह- दसेत्यादि गतार्थम्, नवरं छद्मस्थ इह निरतिशय एव द्रष्टव्योऽन्यथाऽवधिज्ञानी परमाण्वादि जानात्येव, सव्वभावेणं ति सर्वप्रकारेण स्पर्श-रस- गन्ध - रूपज्ञानेन घटमिवेत्यर्थः, धर्म्मास्तिकायं यावत्करणादधर्म्मास्तिकायम् आकाशास्तिकायं जीवमशरीरप्रतिबद्धं परमाणुपुद्गलं शब्दं गन्धमिति, अयमित्यादि द्वयमधिकमिह, तत्रायमिति प्रत्यक्षज्ञानसाक्षात्कृतो जिनः केवली भविष्यति वा न वा भविष्यतीति नवमम्, तथाऽयं सव्वेत्यादि प्रकटं दशममिति । एतान्येव छद्मस्थानवबोध्यानि सातिशयज्ञानादित्वाज्जिनो जानातीति, आह चएयाइं इत्यादि, यावत्करणात् 'जिणे अरहा केवली सव्वण्णू सव्वभावेण जाणइ पासइ, तंजहा– धम्मत्थिकाय ' मित्यादि यावद्दशमं स्थानम्, तच्चोक्तमेवेति । [सू० ७५५] दस दसाओ पन्नत्ताओ, तंजहा- कम्मविवागदसाओ, उवासगदसाओ, अंतगडदसाओ, अणुत्तरोववातियदसाओ, आयारदसाओ, पण्हावागरणदसाओ, बंधदसाओ, दोगिद्धिदसाओ, दीहदसाओ, Page #333 -------------------------------------------------------------------------- ________________ ७३४ संखेवितदसाओ । कम्मविवागदसाणं दस अज्झयणा पन्नत्ता, तंजहामियापुत्ते त गोत्तासे, अंडे सगडे ति यावरे । माहणे णंदिसेणे त, सोरिय त्ति उदुंबरे । - सहस्सुद्दाहे आमलते, कुमारे लेच्छती [ति त ॥१६८॥ २॥ उवासगदसाणं दस अज्झयणा पन्नत्ता, तंजहाआणंदे कामदेवे त, गाहावति चुलणीपिता । सुरादेवे चुल्लसतते, गाहावति कुंडकोलिते ।। सद्दालपुत्ते महासतते, णंदिणीपिता लेतितापिता ॥१६९॥ ३॥ अंतकडदसाणं दस अज्झयणा पन्नत्ता, तंजहाणमि मातंगे सोमिले, रामगुत्ते सुंदसणे चेव । जमाली त भगाली त, किंकसेविल्लते ति त ॥ फाले अंबट्टपुत्ते त, एमेते दस आहिता ॥१७०॥ ४॥ अणुत्तरोववातितदसाणं दस अज्झयणा पन्नत्ता, तंजहाइसिदासे य धण्णे त, सुणक्खत्ते कत्तिते ति त । संठाणे सालिभद्दे त, आणंदे तेतली ति त ॥ दसन्नभद्दे अतिमुत्ते, एमेते दस आहिया ॥१७१॥ ५। आयारदसाणं दस अज्झयणा पन्नत्ता, तंजहा-वीसं असमाधिट्ठाणा, एगवीसं सबला, तेत्तीसं आसायणातो, अट्ठविधा गणिसंपता, दस चित्तसमाधिट्टाणा, एगारस उवासगपडिमातो, बारस भिक्खुपडिमातो, पज्जोसवणाकप्पो, तीसं मोहणिजट्ठाणा, आजाइट्ठाणं ६। पण्हावागरणदसाणं दस अज्झयणा पन्नत्ता, तंजहा-उवमा, संखा, इसिभासियाई, आयरियभासिताई, महावीरभासिताई, खोमपसिणाई, कोमलपसिणाई, अदागपसिणाइं, अंगुट्ठपसिणाइं, बाहुपसिणाई ७। बंधदसाणं दस अज्झयणा पन्नत्ता, तंजहा-बंधे य, मोक्खे य, देविड्डि, Page #334 -------------------------------------------------------------------------- ________________ ७३५ दशममध्ययनं दशस्थानकम् । दसारमंडले ति त, आयरियविप्पडिवत्ती, उवज्झातविप्पडिवत्ती, भावणा, विमुत्ती, सातो, कम्मे ८। दोगेहिदसाणं दस अज्झयणा पन्नत्ता, तंजहा-वाते, विवाते, उववाते, सुखेत्ते, कसिणे, बायालीसं सुमिणा, तीसं महासुमिणा, बावत्तरि सव्वसुमिणा, हारे, रामगुत्ते त, एमेते दस आहिता ९।। दीहदसाणं दस अज्झयणा पन्नत्ता, तंजहा-चंदे, सूरे त, सुक्के त, सिरिदेवी, पभावती, दीवसमुद्दोववत्ती, बहुपुत्ती मंदरे ति त, थेरे संभूतविजते, थेरे पम्ह, ऊसासनीसासे १०॥ संखेवितदसाणं दस अज्झयणा पन्नत्ता, तंजहा-खुड्डिया विमाणपविभत्ती, महल्लिया विमाणपविभत्ती, अंगचूलिया, वग्गचूलिया, वियाहचूलिया, अरुणोववाते, वरुणोववाए, गरुलोववाते, वेलंधरोववाते, वेसमणोववाते ११। [टी०] सर्वज्ञत्वादेव यान् जिनोऽतीन्द्रियार्थप्रदर्शकान् श्रुतविशेषान् प्रणीतवांस्तान् दशस्थानकानुपातिनो दर्शयन्नाह- दस दसेत्यायेकादश सूत्राणि, तत्र दस त्ति दशसङ्ख्या दसाओ त्ति दशाधिकाराभिधायकत्वाद्दशा इति बहुवचनान्तं स्त्रीलिङ्ग शास्त्रस्याभिधानमिति, कर्मण: अशुभस्य विपाकः फलं कर्मविपाक: तत्प्रतिपादिका दशाध्ययनात्मकत्वाद्दशा: कर्मविपाकदशाः, विपाकश्रुताख्यस्यैकादशाङ्गस्य प्रथमश्रुतस्कन्धः, द्वितीयश्रुतस्कन्धोऽप्यस्य दशाध्ययनात्मक एव, न चासाविहाभिमतः, उत्तरत्राविवरिष्यमाणत्वादिति । __ तथा साधून् उपासते सेवन्त इत्युपासका: श्रावकाः, तद्गतक्रियाकलापप्रतिबद्धाः दशा दशाध्ययनोपलक्षिता उपासकदशा: सप्तममङ्गमिति । तथा अन्तो विनाश:, स च कर्मणस्तत्फलभूतस्य वा संसारस्य कृतो यैस्तेऽन्तकृतः, ते च तीर्थकरादयः, तेषां दशा: अन्तकृद्दशा:, इह चाष्टमाङ्गस्य प्रथमवर्गे दशाध्ययनानीति तत्सङ्ख्ययोपलक्षितत्वादन्तकृद्दशा इत्यभिधानेनाष्टममङ्गमभिहितम् । तथा उत्तरः प्रधान:, नास्योत्तरो विद्यत इत्यनुत्तर: उपपतनमुपपातो जन्मेत्यर्थः, अनुत्तरश्चासावुपपातश्चेत्यनुत्तरोपपातः, सोऽस्ति येषां तेऽनुत्तरोपपातिका: सर्वार्थसिद्धादिविमानपञ्चकोपपातिन इत्यर्थः, Page #335 -------------------------------------------------------------------------- ________________ ७३६ तद्वक्तव्यताप्रतिबद्धा दशा दशाध्ययनोपलक्षिता अनुत्तरोप- पातिकदशाः नवममङ्गमिति। तथा आचरणमाचारो ज्ञानादिविषयः पञ्चधा, आचारप्रतिपादनपरा दशा दशाध्ययनात्मिका आचारदशाः, दशाश्रुतस्कन्ध इति या रूढाः । तथा प्रश्नाश्च पृच्छा: व्याकरणानि च निर्वचनानि प्रश्नव्याकरणानि, तत्प्रतिपादिका दशा: दशाध्ययनात्मिकाः प्रश्नव्याकरणदशा: दशममङ्गमिति । तथा बन्धदशाः द्विगृद्धिदशाः दीर्घदशाः सङ्क्षेपिकदशाश्चास्माकमप्रतीता इति । कर्म्मविपाकदशानामध्ययनविभागमाह- कम्मेत्यादि, मिगेत्यादि श्लोकः सार्द्ध:, मृगा मृगग्रामाभिधाननगरराजस्य विजयनाम्नो भार्या, तस्याः पुत्रो मृगापुत्रः, तत्र किल नगरे महावीरो गौतमेन समवसरणागतं जात्यन्धनरमवलोक्य पृष्टो भदन्त ! अन्योऽपीहास्ति जात्यन्धः ?, भगवांस्तं मृगापुत्रं जात्यन्धमुपदिदेश, इत्यादि सूत्रादेः, तद्वक्तव्यताप्रतिपादकं प्रथममध्ययनं मृगापुत्रमुक्तमिति १। गोत्तासे त्ति गोस्त्रासितवानिति गोत्रासः, अयं हि हस्तिनागपुरे भीमाभिधानकूटग्राहस्योत्पलाभिधानायाः भार्यायाः पुत्रोऽभूत्, प्रसवकाले चानेन महापापसत्त्वेनाराट्या गावस्त्रासिताः, इत्यादि गोत्रासवक्तव्यताप्रतिबद्धं द्वितीयमध्ययनं गोत्रासमुच्यते, इदमेव चोज्झितकनाम्ना विपाकश्रुते उज्झितकमुच्यते २ | अंडे ति पुरिमतालनगरवास्तव्यस्य कुक्कुटाद्यनेकविधाण्डकभाण्डव्यवहारिणो वाणिजकस्य निन्नकाभिधानस्य पापविपाकप्रतिपादकमण्डमिति, इत्यादि विपाकश्रुते चाऽभग्नसेन इतीदमध्ययनमुच्यते ३। सगडे त्ति यावरे, शकटमिति चापरमध्ययनम्, तत्र शाखांजन्यां नगर्यां सुभद्राख्यसार्थवाह-भद्राभिधानतद्भार्ययोः पुत्रः शकटः, स च सुसेनाभिधानामात्येन सुदर्शनाभिधानगणिकाव्यतिकरे सगणिको मांसच्छेदादिनाऽत्यन्तं कदर्थयित्वा विनाशितः, स च जन्मान्तरे छगलपुरे नगरे छन्निकाभिधानः छागलिको मांसप्रिय आसीदित्येतदर्थप्रतिबद्धं चतुर्थमिति ४। माहणे त्ति कौशाम्ब्यां बृहस्पतिदत्तनामा ब्राह्मण:, स चान्तःपुरव्यतिकरे उदयनेन राज्ञा तथैव कदर्थयित्वा मारितः, जन्मान्तरे चासावासीत् महेश्वरदत्तनामा पुरोहितः, Page #336 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । ७३७ स च जितशत्रो राज्ञः शत्रुजयार्थं ब्राह्मणादिभिर्होमं चकार, तत्र प्रतिदिनमेकैकं चातुर्वर्ण्यदारकमष्टम्यादिषु द्वौ द्वौ चतुर्मास्यां चतुरश्चतुरः षण्मास्यामष्टावष्टौ संवत्सरे षोडश परचक्रागमे अष्टशतमष्टशतम्, परचक्रं च जीयते, तदेवं मृत्वाऽसौ नरकं जगामेत्येवं ब्राह्मणवक्तव्यतानिबद्धं पञ्चममिति ५ । ___ नन्दिसेणे य त्ति मथुरायां श्रीदामराजसुतो नन्दिषेणो युवराजो विपाकश्रुते च नन्दिवर्द्धनः श्रूयते, स च राजद्रोहव्यतिकरे राज्ञा नगरचत्वरे तप्तस्य लोहस्य द्रवेण स्नानं तद्विधसिंहासनोपवेशनं इत्येवमर्थं षष्ठमिति ६ । सोरिय त्ति शौरिकनगरे शौरिकदत्तो नाम मत्स्यबन्धपुत्र:, स च मत्स्यमांसप्रियो गलविलग्नमत्स्यकण्टको महाकष्टमनुभूय मृत्वा नरकं गतः, इत्यादि सप्तमम्, इदं चाध्ययनं विपाकश्रुतेऽष्टममधीतम् ७ ।। उदुम्बरे त्ति पाटलीषण्डे नगरे सागरदत्तसार्थवाहसुत: उदुम्बरदत्तो नाम्नाऽभूत्, स च षोडशभिर्रागैरेकदाभिभूतो महाकष्टमनुभूय मृत:, इत्यादि वक्तव्यता प्रतिबद्धमष्टमम् ८ । ___ सहसुद्दाहे त्ति सहसा अकस्मादुद्दाहः प्रकृष्टो दाहः सहसोद्दाहः, सहस्राणां वा लोकस्योद्दाहः सहस्रोद्दाहः, आमलए त्ति रश्रुतेर्लश्रुतिरित्यामरक: सामस्त्येन मारि:, एवमर्थप्रतिबद्धं नवमम्, तत्र किल सुप्रतिष्ठे नगरे सिंहसेनो राजा श्यामाभिधानदेव्यामनुरक्तः तद्वचनादेव एकोनानि पञ्च शतानि देवीनां तां मिमारयिषूणि ज्ञात्वा कुपितः सन् तन्मातॄणामेकोनपञ्चशतानि उपनिमन्त्र्य महति अगारे आवासं दत्त्वा भक्तादिभिः संपूज्य विश्रब्धानि सदेवीकानि सपरिवाराणि सर्वतो द्वारबन्धनपूर्वकमग्निप्रदानेन दग्धवान्, इत्यादि वक्तव्यता प्रतिबद्धं विपाकश्रुते देवदत्ताभिधानं नवममिति ९। तथा कुमारे लेच्छई इय त्ति कुमारा राज्यार्हाः, अथवा कुमारा: प्रथमवयस्थास्तान् लेच्छई इ य त्ति लिप्सूंश्च वणिज आश्रित्य दशममध्ययनमितिशब्दश्च परिसमाप्तौ भिन्नक्रमश्च, अयमत्र भावार्थ:- यदुत इन्द्रपुरे नगरे पृथिवीश्रीनामगणिकाऽभूत्, सा च बहून् राजकुमार-वणिक्पुत्रादीन् मन्त्र-चूर्णादिभिर्वशीकृत्योदारान् भोगान् भुक्तवती, षष्ठ्यां च गत्वा वर्द्धमाननगरे धनदेवसार्थवाहदुहिता अचूरित्य[भिधाना जाता, सा Page #337 -------------------------------------------------------------------------- ________________ ७३८ च विजयराजपरिणीता योनिशूलेन कृच्छ्रे जीवित्वा नरकं गतेति,] अत एव विपाकश्रुते अञ्जू इति दशममध्ययनमुच्यत इति १० । उपासकदशा विवृण्वन्नाह– दसेत्यादि, आनंदे सार्ध: श्लोकः, आनंदे इत्यादि सर्वमुपासकदशासूत्रतोऽवसेयमिति। अथान्तकृद्दशानामध्ययनविवरणमाह-अंतगडेत्यादि, इह चाष्टौ वर्गास्तत्र प्रथमवर्गे दशाध्ययनानि, तानि चामूनि-नमीत्यादि सार्द्ध रूपकम्, एतानि च नमीत्यादिकान्यन्तकृत्साधुनामानि अन्तकृद्दशाङ्गप्रथमवर्गेऽध्ययनसङ्ग्रहे नोपलभ्यन्ते, यतस्तत्राभिधीयतेगोयम १ समुद्द २ सागर ३ गंभीरे ४ चेव होइ थिमिए ५ य । अयले ६ कंपिल्ले ७ खलु अक्खोभ ८ पसेणई ९ विण्हू १० ॥ [अन्तकृद्दशा] इति । ततो वाचनान्तरापेक्षाणीमानीति सम्भावयाम:, न च जन्मान्तरनामापेक्षयैतानि भविष्यन्तीति वाच्यम्, जन्मान्तराणां तत्रानभिधीयमानत्वादिति । अधुनानुत्तरोपपातिकदशानामध्ययनविभागमाह- अणुत्तरो इत्यादि, इह च त्रयो वर्गास्तत्र तृतीयवर्गे दृश्यमानाध्ययनैः कैश्चित् सह साम्यमस्ति न सर्वैः, यत इहोक्तम्इसिदासेत्यादि, तत्र तु दृश्यते धन्ने य सुनक्खत्ते, इसिदासे य आहिए। पेल्लए रामपुत्ते य, चंदिमा पुट्टिके इय ॥ पेढालपुत्ते अणगारे, अणगारे पोट्टिले इय । विहले दसमे वुत्ते, एमेए दस आहिया ॥ [अनुत्तरोपपातिकदशा ] इति । ___ तदेवमिहापि वाचनान्तरापेक्षयाऽध्ययनविभाग उक्तो न पुनरुपलभ्यमानवाचनापेक्षयेति, तत्र धन्यक-सुनक्षत्रकथानके एवम्- काकन्द्यां नगर्यां भद्रासार्थवाहीसुतो धन्यको नाम महावीरसमीपे धर्ममनुश्रुत्य महाविभूत्या प्रव्रजित: षष्ठोपवासी उज्झिताहारीत्यादि वक्तव्यता निबद्धं एवं सुनक्षत्रोऽपीति । कार्तिक इति हस्तिनागपुरे श्रेष्ठी इभ्यसहस्रप्रथमासनिकः श्रमणोपासको जितशत्रुराजस्याभियोगात् परिव्राजकस्य मासक्षपणपारणके भोजनं परिवेषितवान् तमेव निर्वेदं कृत्वा मुनिसुव्रतस्वामिसमीपे प्रव्रज्यां प्रतिपन्नवान्, इत्येवं यो भगवत्यां श्रूयते सोऽन्य एव, अयं पुनरन्योऽनुत्तरेषूपपन्न इति । शालिभद्र इति य: पूर्वभवे सङ्गमनामा वत्सपालोऽभूदि Page #338 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । त्यादिवक्तव्यता ज्ञेया। पादपोपगमनविधिनाऽनुत्तरसुरेषूत्पन्नवानिति सोऽयमिह सम्भाव्यते, केवलमनुत्तरोपपातिकाङ्गे नाधीत इति । तेतली ति य त्ति तेतलिसुत इति यो ज्ञाताध्ययनेषु श्रूयते स नायम्, तस्य सिद्धिगमनश्रवणात् । ____ तथा दशार्णभद्रो दशार्णपुरनगरवासी समवसृतश्रीमहावीरजिनवंदनाधिकारे, इत्यादि विस्तरो [वृत्तौ]। इन्द्रर्द्धिगजेन्द्रविभूतिमालोक्यागत वैराग्यः प्रवव्रजा, सोऽयं दशार्णभद्रः सम्भाव्यते, परमनुत्तरोपपातिकाङ्गे नाधीत:, क्वचित् सिद्धश्च श्रूयत इति । ___ तथा अतिमुक्तः एवं श्रूयते अन्तकृद्दशाङ्गे- पोलासपुरे नगरे विजयस्य राज्ञः श्रीनाम्न्या देव्या अतिमुक्तको नाम पुत्र: षड्वार्षिको गौतमं गोचरगतं दृष्ट्वा एवमवादीत्के यूयं किं वा अटथ ?, ततो गौतमोऽवादीत्- इत्यादि विस्तरो वृत्तौ भगवत्यां च यावत्प्रव्रज्य सिद्ध इति, इह त्वयमनुत्तरोपपातिकेषु दशमाध्ययनतयोक्तस्तदपर एवायं भविष्यतीति । दस आहिय त्ति दशाध्ययनान्याख्यातानीत्यर्थः । आचारदशानामध्ययनविभागमाह- आयारेत्यादि, असमाधि: ज्ञानादिभावप्रतिषेधोऽप्रशस्तो भाव इत्यर्थः तस्य स्थानानि पदानि असमाधिस्थानानि, यैरासेवितैरात्मपरोभयानामिह परत्रोभयत्र वा असमाधिरुत्पद्यते तानीति भावः, तानि च विंशति: द्रुतचारित्वादीनि तत एवावगम्यानीति, तत्प्रतिपादकमध्ययनमसमाधिस्थानानीति प्रथमम्, तथा एकविंशति: शबला: शबलं कर्बुर द्रव्यत: पटादि भावत: सातिचारं चारित्रम्, इह च शबलचारित्रयोगाच्छबलास्साधवस्ते च करकर्मप्रकारान्तरमैथुनादीन्येकविंशतिपदानि तत्रैवोक्तरूपाणि सेवमाना उपाधित एकविंशतिर्भवन्ति, तदर्थमध्ययनम् एकविंशतिशबला इत्यभिधीयते २ । तेत्तीसमासायणाउ त्ति ज्ञानादिगुणा आ सामस्त्येन शात्यन्ते अपध्वस्यन्ते यकाभिस्ता आशातना रत्नाधिकविषयाविनयरूपा: पुरतोगमनादिकास्तत्प्रसिद्धास्त्रयस्त्रिंशद्भेदा यत्राभिधीयन्ते तदध्ययनमपि तथोच्यत इति ३ । अद्वेत्यादि, अष्टविधा गणिसम्पत् आचार-श्रुत-शरीर-वचनादिका आचार्यगुणद्धिरष्टस्थानकोक्तरूपा यत्राभिधीयते तदध्ययनमपि तथोच्यत इति ४ । दसेत्यादि, दश चित्तसमाधिस्थानानि येषु सत्सु चित्तस्य प्रशस्तपरिणतिर्जायते तानि तथा, असमुत्पन्नपूर्वकधर्मचिन्तोत्पादादीनि तत्रैव Page #339 -------------------------------------------------------------------------- ________________ ७४० द्रव्य प्रसिद्धान्यभिधीयन्ते यत्र तत्तथैवोच्यत इति ५ । एक्कारेत्यादि, एकादशोपासकानां श्रावकाणां प्रतिमाः प्रतिपत्तिविशेषाः दर्शन - व्रत - सामायिकादिविषयाः प्रतिपाद्यन्ते यत्र तत्तथैवोच्यत इति ६ । बारसेत्यादि, द्वादश भिक्षूणां प्रतिमा: अभिग्रहा मासिकीद्विमासिकीप्रभृतयो यत्राभिधीयन्ते तत्तथोच्यते ७ । पज्जो इत्यादि, पर्याया ऋतुबद्धिकाः - क्षेत्र - काल - भावसम्बन्धिन उत्सृज्यन्ते उज्झ्यन्ते यस्यां सा निरुक्तविधिना पर्योसवना, अथवा परीति सर्वतः क्रोधादिभावेभ्यः उपशम्यते यस्यां सा पर्युपशमना, अथवा परिः सर्वथा एकक्षेत्रे जघन्यतः सप्ततिं दिनानि उत्कृष्टतः षण्भासान् वसनं निरुक्तादेव पर्युषणा, तस्याः कल्प आचारो मर्यादेत्यर्थः पर्योसवनाकल्पः पर्युपशमनाकल्पः पर्युषणाकल्पो वेति, स च सक्कोसजोयणं विगड़नवय [ ]मित्यादिकस्तत्रैव प्रसिद्धस्तदर्थमध्ययनं स एवोच्यत इति ८ । तीसमित्यादि, त्रिंशन्मोहनीय कर्म्मणो बन्धस्थानानि बन्धकारणानि वारिमज्झेऽवगाहित्ता, तसे पाणे विहिंसई [ आव० सं०] त्यादिकानि तत्रैव प्रसिद्धानि मोहनीयस्थानानि तत्प्रतिपादकमध्ययनं तथैवोच्यत इति ९। आजाइट्ठाणमिति आजननमाजाति: सम्मूर्च्छन- गर्भोपपाततो जन्म तस्याः स्थानं संसारस्तत् सनिदानस्य भवतीत्येवमर्थप्रतिपादनपरमाजातिस्थानमुच्यत इति १० । प्रश्नव्याकरणदशा इहोक्तरूपा न दृश्यन्ते, दृश्यमानास्तु पञ्चाश्रव-पञ्चसंवरात्मिका इति, इहोक्तानां तूपमादीनामध्ययनानामक्षरार्थः प्रतीयमान एवेति, नवरं पसिणाई ति प्रश्नविद्या: यकाभिः क्षौमकादिषु देवतावतारः क्रियत इति, तत्र क्षौमं वस्त्रम्, अद्दागो आदर्शः, अङ्गुष्ठो हस्तावयवः, बाहवो भुजा इति । बन्धदशानामपि बन्धाद्यध्ययनादि श्रौतेनार्थेन व्याख्यातव्यानि । द्विगृद्धिदशाश्च स्वरूपतोऽप्यनवसिताः । दीर्घदशाः स्वरूपतोऽनवगता एव, तदध्ययनानि तु कानिचिन्नरकावलिकाश्रुतस्कन्धे उपलभ्यन्ते, तत्र चन्द्रवक्तव्यताप्रतिबद्धं चन्द्रमध्ययनम्, तथाहि-- राजगृहे महावीरस्य चन्द्रो ज्योतिष्कराजो वन्दनं कृत्वा नाट्यविधिं चोपदर्श्य प्रतिगतः, गौतमश्च भगवन्तं तद्वक्तव्यतां पप्रच्छ, भगवांश्चोवाच - श्रावस्त्यामङ्गजिन्नामा अयं गृहपतिरभूत् पार्श्वनाथसमीपे च प्रव्रजितो विराध्य च मनाक् श्रामण्यं चन्द्रतयोत्पन्नो महाविदेहे च Page #340 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । नवरं सेत्यस्यतीति । तथा सूरवक्तव्यताप्रतिबद्धं सूरम्, सूरवक्तव्यता च चन्द्रवत्, सुप्रतिष्ठो नाम्ना बभूवेति । शुक्रो ग्रहस्तद्वक्तव्यता चैवम् - राजगृहे भगवन्तं वन्दित्वा शुक्रे प्रतिगते गौतमस्य तथैव भगवानुवाच - वाराणस्यां सोमिलनामा ब्राह्मणोऽयमभवत्, पार्श्वनाथं चापृच्छत् ते भंते ! जवणिज्जं ?, तथा सरिसवा मासा य ते भोज्जा ? तथा एगे भवं दुवे भवं [पुप्फिया] इत्यादि, भगवता चैतेषु विभक्तेष्वाक्षिप्तः श्रावको भूत्वा पुनर्विपर्यासादारामादिलौकिकधर्म्मस्थानानि कारयित्वा दिक्प्रोक्षकतापसत्वेन प्रव्रज्य प्रतिषष्ठपारणकं क्रमेण पूर्वादिदिग्भ्य आनीय कन्दादिकमभ्यवजहार, अन्यदाऽसौ यत्र क्वचन गर्त्तादौ पतिष्यामि तत्रैव प्राणांस्त्यक्ष्यामीत्यभिग्रहमभिगृह्य काष्ठमुद्रया मुखं बद्ध्वा उत्तराभिमुखः प्रतस्थौ, तत्र प्रथमदिवसेऽपराह्नसमयेऽशोकतरोरधो होमादिकर्म्म कृत्वोवास, तत्र देवेन केनाप्युक्तः अहो सोमिलब्राह्मणमहर्षे ! दुष्प्रव्रजितं ते, पुनर्द्वितीयेऽहनि तथैव सप्तपर्णस्याध उषित उक्तः, तृतीयादिषु दिनेष्वश्वत्थवटोदुम्बराणामध उषितः भणितो देवेन, ततः पञ्चमदिनेऽवादीदसौ कथं नु नाम मे दुष्प्रव्रजितम् ?, देवोऽवोचत् त्वं पार्श्वनाथस्य भगवतः समीपेऽणुव्रतादिकं श्रावकधर्म्यं प्रतिपद्याधुना अन्यथा वर्त्तस इति दुष्प्रव्रजितं तव, ततोऽद्यापि तमेवाणुव्रतादिकं धर्मं प्रतिपद्यस्व येन सुप्रव्रजितं तव भवतीत्येवमुक्तस्तथैव चकार ततः श्रावकत्वं प्रतिपाल्यानालोचितप्रतिक्रान्तः कालं कृत्वा शुक्रावतंसके विमाने शुक्रत्वेनोत्पन्न इति । तथा श्रीदेवीसमाश्रयमध्ययनं श्रीदेवीति, तथाहि-- सा राजगृहे महावीरवन्दनाय सौधर्म्मादाजगाम, नाट्यं दर्शयित्वा प्रतिजगाम च, गौतमस्तत्पूर्वभवं पप्रच्छ, भगवांस्तं जगाद - राजगृहे सुदर्शन श्रेष्ठी बभूव, प्रियाभिधाना च तद्भार्या तयोः सुता भूता नाम बृहत्कुमारिका पार्श्वनाथसमीपे प्रव्रजिता शरीरबकुशा जाता सातिचारा च मृत्वा दिवं गता महाविदेहे च सेत्स्यतीति । ७४१ तथा प्रभावती चेटकदुहिता वीतभयनगरनायको दायनमहाराजभार्या यया जिनबिम्बपूजार्थस्नानानन्तरं इत्यादि । एवंलक्षणप्रभावतीचरितयुक्तमध्ययनं प्रभावतीति सम्भाव्यते, न चेदं निरयावलिकाश्रुतस्कन्धे दृश्यत इति पञ्चमम् । तथा बहुपुत्रिकादेवीप्रतिबद्धं सैवाध्ययनमुच्यते, तथाहि-- राजगृहे महावीरवन्दनार्थं Page #341 -------------------------------------------------------------------------- ________________ ७४२ सौधर्माद् बहुपुत्रिकाभिधाना देवी समवततार, वन्दित्वा च प्रतिजगाम, केयमिति पृष्टे गौतमेन भगवानवादीत्– वाराणस्यां नगर्यां भद्राभिधानस्य सार्थवाहस्य सुभद्राभिधाना भार्येयं बभूव, सा च वन्ध्या पुत्रार्थिनी भिक्षार्थमागतमार्यासंघाटकं पुत्रलाभं पप्रच्छ, स च धर्म्ममचकथत् प्राव्राजीच्च, सा बहुजनापत्येषु प्रीत्याऽभ्यङ्गोद्वर्त्तनापरायणा सातिचारा मृत्वा सौधर्म्ममगमत्, ततश्च्युता च विभेले सन्निवेशे ब्राह्मणीत्वेनोत्पत्स्यते, तत: पितृभागिनेयभार्या भविष्यति युगलप्रसवा च, सा षोडशभिर्वर्षै: द्वात्रिंशदपत्यानि जनयिष्यति, ततोऽसौ तन्निर्वेदादार्या: प्रक्ष्यति ताश्च धर्म्यं कथयिष्यन्ति श्रावकत्वं च सा प्रतिपत्स्यते, कालान्तरे प्रव्रजिष्यति, सौधर्मे चेन्द्रसामानिकतयोत्पद्य महाविदेहे सेत्स्यतीति । तथा स्थविरः सम्भूतविजयो भद्रबाहुस्वामिनो गुरुभ्राता स्थूलभद्रस्य सगडालपुत्रस्य दीक्षादाता, तद्वक्तव्यताप्रतिबद्धमध्ययनं स एवोच्यत इति नवमम्, शेषाणि त्रीण्यप्रतीतानीति । संक्षेपिकदशा अप्यनवगतस्वरूपा एव, तदध्ययनानां पुनरयमर्थ:- खुड्डिएत्यादि, इहावलिकाप्रविष्टेतरविमानप्रविभजनं यत्राध्ययने तद्विमानप्रविभक्तिः, तच्चैकमल्पग्रन्थार्थं तथाऽन्यन्महाग्रन्थार्थमतः क्षुल्लिकाविमानप्रविभक्तिर्महतीविमानप्रविभक्तिरिति, अङ्गस्य आचारादेश्चूलिका यथाऽऽचारस्यानेकविधा, इहोक्तानुक्तार्थसङ्ग्राहिका चूलिका । वग्गचूलियत इह वर्गः अध्ययनादिसमूहः, यथा अन्तकृद्दशास्वष्टौ वर्गाः, तस्य चूलिका वर्गचूलिका । विवाहचूलिय त्ति व्याख्या भगवती, तस्याश्चलिका व्याख्याचूलिका । अरुणोपपात इति इहारुणो नाम देवस्तत्समयनिबद्धो ग्रन्थस्तदुपपातहेतुररुणोपपातः, यदा तदध्ययनमुपयुक्तः सन् श्रमणः परिवर्त्तयति तदाऽसावरुणो देव: स्वसमयनिबद्धत्वाच्चलितासनः सम्भ्रमोभ्रान्तलोचनः प्रयुक्तावधिस्तद्विज्ञाय हृष्टप्रहृष्टश्चलचपलकुण्डलधरो दिव्यया त्या दिव्यया विभूत्या दिव्यया गत्या यत्रैवासौ भगवान् श्रमणस्तत्रैवोपागच्छति, उपागत्य च भक्तिभरावनतवदनो विमुक्तवरकुसुमवृष्टिरवपतति, अवपत्य च तदा तस्य श्रमणस्य पुरतः स्थित्वा अन्तर्हितः कृताञ्जलिक उपयुक्तः संवेगविशुद्ध्यमानाध्यवसानः शृण्वंस्तिष्ठति, समाप्ते च भणति - सुस्वाध्यायितं Page #342 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । ७४३ सुस्वाध्यायितमिति, वरं वृण्विति । ततोऽसाविहलोकनिष्पिपास: समतृण-मणि-मुक्तालेष्ट-काञ्चन: सिद्धिवधूनिर्भरानुगतचित्त: श्रमण: प्रतिभणति- न मे वरेणार्थ इति । ततोऽसावरुणो देवोऽधिकतरजातसंवेग: प्रदक्षिणां कृत्वा वन्दित्वा नमस्यित्वा प्रतिगच्छति, एवं वरुणोपपातादिष्वपि भणितव्यमिति । इत्येकादशसूत्रार्थलेशः। [सू० ७५६] दस सागरोवमकोडोकोडीओ कालो ओसप्पिणीए । दस सागरोवमकोडाकोडीओ कालो उस्सप्पिणीए । [टी०] एवंभूतं च श्रुतं कालविशेष एव भवतीति दशस्थानकावतारि तत्स्वरूपमाहदसेत्यादि सूत्रद्वयं सुगमम् । [सू० ७५७] दसविधा नेरइया पन्नत्ता, तंजहा-अणंतरोववन्ना, परंपरोववन्ना, अणंतरोगाढा, परंपरोगाढा, अणंतराहारगा, परंपराहारगा, अणंतरपज्जत्ता, परंपरपज्जत्ता, चरिमा, अचरिमा । एवं निरंतरं जाव वेमाणिया । चउत्थीते णं पंकप्पभाते पुढवीते दस निरतावाससतसहस्सा पन्नत्ता १। रयणप्पभाते पुढवीते जहन्नेणं णेरतिताणं दस वाससहस्साई ठिती पन्नत्ता चउत्थीते णं पंकप्पभाते पुढवीते उक्कोसेणं णेरतिताणं दस सागरोवमाई ठिती पण्णत्ता ३ । पंचमाते णं धूमप्पभाते पुढवीते जहन्नेणं नेरइयाणं दस सागरोवमाइं ठिती पण्णत्ता ४ । असुरकुमाराणं जहन्नेणं दस वाससहस्साइं ठिती पण्णत्ता, एवं जाव थणियकुमाराणं १४ । बादरवणस्सतिकातिताणं उक्कोसेणं दस वाससहस्साइं ठिती पन्नत्ता १५। वाणमंतराणं देवाणं जहन्नेणं दस वाससहस्साई ठिती पन्नत्ता १६ । बंभलोगे कप्पे उक्कोसेणं देवाणं दस सागरोवमाइं ठिती पन्नत्ता १७ । लंतते कप्पे देवाणं जहन्नेणं दस सागरोवमाई ठिती पन्नत्ता १८ । Page #343 -------------------------------------------------------------------------- ________________ ७४४ [टी०] यथोपाधिवशात् कालद्रव्यं भेदवत्तथा नारकादिजीवद्रव्याण्यपीत्याहदसविहेत्यादिसूत्राणि चतुर्विंशतिः, न विद्यते अन्तरं व्यवधानमस्येत्यनन्तरो वर्तमान: समय: तत्रोपपन्नका अनन्तरोपपन्नका: येषामुत्पन्नानामेकोऽपि समयो नातिक्रान्तस्त एत इति, येषां तूत्पन्नानां व्यादय: समया जातास्ते परम्परोपपन्नका: परम्परसमयेषूपपन्नत्वात् तेषामित्ययं कालविशेषोपाधिकृतो भेदः, तथा विवक्षितप्रदेशापेक्षया अनन्तरप्रदेशेष्ववगाढा: अवस्थिता अनन्तरावगाढाः, अथवा प्रथमसमयावगाढा अनन्तरावगाढाः, एतद्विलक्षणाः परम्परावगाढाः, अयं क्षेत्रतो भेदः, तथा अनन्तरान् अव्यवहितान् जीवप्रदेशैराक्रान्ततया स्पृष्टतया वा पुद्गलानाहारयन्तीत्यनन्तराहारकाः, ये तु पूर्वं व्यवहितान् सत: पुद्गलान् स्वक्षेत्रमागतानाहारयन्ति ते परम्पराहारकाः, अथवा प्रथमसमयाहारका अनन्तराहारका: इतरे त्वितरे, अयं तु द्रव्यकृतो भेद इति । न विद्यते पर्याप्तत्वेऽन्तरं येषां ते अनन्तराः, ते च ते पर्याप्तकाश्चेति अनन्तरपर्याप्तकाः प्रथमसमयपर्याप्तका इत्यर्थः, इतरे तु परम्परपर्याप्तकाः, अयं भावकृतो भेदः, पर्याप्तेर्भावत्वादिति, चरमनारक-भवयुक्तत्वाच्चरमाः न पुनर्नारका भविष्यन्ति ये इति भावः, तद्विपरीता अचरमा:, अयमपि भावकृत एव भेदः, चरमाचरमत्वयोर्जीवपर्यायत्वादिति । एवमित्यादि नारकवद्दशप्रकारत्वमिदं नैरन्तर्येण चतुर्विंशतिदण्डकोक्तानां वैमानिकान्तानामपि योजनीयमिति । दण्डकस्यादौ दशधा नारका उक्ताः, अथ तदाधारान् नारकादिस्थितिं च दशस्थानानुपाततो निरूपयन् चउत्थीयेत्यादिसूत्राष्टादशकमाह, सुगमम् ।। [सू० ७५८] दसहिं ठाणेहिं जीवा आगमेसिभद्दगत्ताए कम्मं पकरेंति, तंजहा-अणिदाणताते, दिट्ठिसंपन्नताते, जोगवाहियताते, खंतिखमणताते, जितिंदियताते, अमाइल्लताते, अपासत्थयाए, सुसामण्णताते, पवयणवच्छल्लयाते, पवयणउब्भावणताए । [टी०] अनन्तरं लान्तकदेवा उक्तास्ते च लब्धभद्रा इति भद्रकारिकर्मकारणान्याहदसहीत्यादि, आगमिष्यद् आगामिभवान्तरभावि भद्रं कल्याणं सुदेवत्वलक्षणमनन्तरं सुमानुषत्वप्राप्त्या मोक्षप्राप्तिलक्षणं च येषां ते आगमिष्यद्भद्रास्तेषां भाव आगमिष्य Page #344 -------------------------------------------------------------------------- ________________ दशममध्ययन दशस्थानकम् । ७४५ द्भद्रता, तस्यै आगमिष्यद्भद्रतायै, तदर्थमित्यर्थः, आगमिष्यद्भद्रतया वा कर्म शुभप्रकृतिरूपं प्रकुर्वते बध्नन्ति, तद्यथा- निदायते लूयते ज्ञानाद्याराधनालता आनन्दरसोपेतमोक्षफला येन पशुनेव देवेन्द्रादिगुणद्धिप्रार्थनाध्यवसानेन तन्निदानम्, अविद्यमानं तद्यस्य सोऽनिदानः, तद्भावस्तत्ता, तया हेतुभूतया, निरुत्सुकतयेत्यर्थ: १। दृष्टिसम्पन्नतया सम्यग्दृष्टितया २ । योगवाहितया श्रुतोपधानकारितया योगेन वा समाधिना [सर्वत्रानुत्सुकत्वलक्षणेन वहतीत्येवंशीलो योगवाही, तद्भावस्तत्ता, तया] ३। क्षान्त्या क्षमत इति क्षान्तिक्षमणः, क्षान्तिग्रहणमसमर्थताव्यवच्छे दार्थं यतोऽसमर्थोऽपि क्षमत इति, क्षान्तिक्षमणस्य भावस्तत्ता, तया ४ । जितेन्द्रियतया करणनिग्रहेण ५। अमाइल्लयाए त्ति, माइल्लो मायावांस्तत्प्रतिषेधेनामायावान्, तद्भावस्तत्ता, तया ६ । पार्श्वे बहिर्ज्ञानादीनां देशत: सर्वतो वा तिष्ठतीति पार्श्वस्थः, उक्तं च सो पासत्थो दुविहो इत्यादि । पार्श्वस्थस्य भाव: पार्श्वस्थता, न साऽपार्श्वस्थता, तया ७ । तथा शोभनः पार्श्वस्थादिदोषवर्जिततया मूलोत्तरगुणसम्पन्नतया च स चासौ श्रमणश्च साधुः सुश्रमणः, तद्भावस्तत्ता, तया ८ । तथा प्रकृष्ट प्रशस्त प्रगतं वा वचनम् आगम: प्रवचनं द्वादशाङ्ग तदाधारो वा सङ्घः, तस्य वत्सलता हितकारिता प्रत्यनीकत्वादिनिरासेनेति प्रवचनवत्सलता, तया ९ । तथा प्रवचनस्य द्वादशाङ्गस्योद्भावनं प्रभावनं प्रावचनिकत्वधर्मकथा-वादादिलब्धिभिर्वर्णवादजननं प्रवचनोद्भावनम्, तदेव प्रवचनोद्भावनता, तयेति १० । [सू० ७५९] दसविहे आससप्पओगे पन्नत्ते, तंजहा-इहलोगासंसप्पओगे, परलोगासंसप्पओगे, दुहतो लोगासंसप्पओगे, जीवितासंसप्पओगे, मरणासंसप्पओगे, कामासंसप्पओगे, भोगासंसप्पओगे, लाभासंसप्पओगे, पूयासंसप्पओगे, सक्कारासंसप्पओगे । टी०] एतानि चागमिष्यद्भद्रताकारणानि कुर्वता आशंसाप्रयोगो न विधेय इति तत्स्वरूपमाह- दसेत्यादि, आशंसनमाशंसा इच्छा, तस्याः प्रयोगो व्यापारणं करणम्, आशंसैव वा प्रयोगो व्यापार: आशंसाप्रयोग:, सूत्रे च प्राकृतत्वात् आससप्पओगे Page #345 -------------------------------------------------------------------------- ________________ ७४६ त्ति भणितम्, तत्र इह अस्मिन् प्रज्ञापकमनुष्यापेक्षया मानुषत्वपर्याये वर्त्तते लोकः प्राणिवर्गः स इहलोकः, तद्व्यतिरिक्तस्तु परलोकः, तत्रेहलोकं प्रति आशंसाप्रयोगो यथा भवेयमहमितस्तपश्चरणाच्चक्रवर्त्यादिरितीहलोकाशंसाप्रयोगः, एवमन्यत्रापि विग्रह: कार्य: १, परलोकाशंसाप्रयोगो यथा भवेयमहमितस्तपश्चरणादिन्द्र इन्द्रसामानिको वा २, द्विधालोकाशंसाप्रयोगो यथा भवेयमहमिन्द्रस्ततश्चक्रवर्ती ३ । एतत् त्रयं सामान्यमतोऽन्ये तद्विशेषा एव, अस्ति च सामान्यविशेषयोर्विवक्षया भेद इत्याशंसाप्रयोगाणां दशधात्वं न विरुध्यते, तथा जीवितं प्रत्याशंसा चिरं मे जीवितं भवत्विति जीविताशंसाप्रयोगः ४ । तथा मरणं प्रत्याशंसा शीघ्रं मे मरणमस्त्विति मरणाशंसाप्रयोगः ५ । तथा कामौ शब्दरूपे तौ मनोज्ञौ मे भूयास्तामिति कामाशंसाप्रयोग: ६ । तथा भोगा गन्ध-रस-स्पर्शास्ते मनोज्ञा मे भूयासुरिति भोगाशंसाप्रयोग: ७ । तथा कीर्ति-श्रुतादिलाभो भूयादिति लाभाशंसाप्रयोगः ८ । तथा पूजा पुष्पादिपूजनं मे स्यादिति पूजाशंसाप्रयोग: ९ । सत्कारः प्रवरवस्त्रादिभिः पूजनम्, तन्मे स्यादिति सत्काराशंसाप्रयोग इति १०। __[सू० ७६०] दसविधे धम्मे पन्नत्ते, तंजहा-गामधम्मे, नगरधम्मे, रट्ठधम्मे, पासंडधम्मे, कुलधम्मे, गणधम्मे, संघधम्मे, सुतधम्मे, चरित्तधम्मे, अत्थिकायधम्मे । [टी०] उक्तलक्षणादप्याशंसाप्रयोगात् केचिद् धर्ममाचरन्तीति धर्मं सामान्येन निरूपयन्नाह– दसेत्यादि, ग्रामा जनपदाश्रयाः, तेषां तेषु वा धर्म: समाचारो व्यवस्थेति ग्रामधर्म:, स च प्रतिग्रामं भिन्न इति, अथवा ग्राम: इन्द्रियग्रामो रूढेः, तद्धर्मो विषयाभिलाष: १, नगरधर्मो नगराचार:, सोऽपि प्रतिनगरं प्रायो भिन्न एव २, राष्ट्रधर्मो देशाचार: ३, पाषण्डधर्म: पाषण्डिनामाचार: ४, कुलधर्म: उग्रादिकुलाचारः, अथवा कुलं चन्द्रादिकमार्हतानां गच्छसमूहात्मकम्, तस्य धर्म: सामाचारी ५, गणधर्मो मल्लादिगणव्यवस्था, जैनानां वा कुलसमुदायो गण: कोटिकादिस्तद्धर्मः तत्सामाचारी ६, सङ्घधर्मो गोष्ठीसमाचार: आर्हतानां वा गणसमुदायरूपश्चतुर्वर्णो वा सङ्घस्तद्धर्मः तत्समाचार: ७, श्रुतमेव आचारादिकं दुर्गतिप्रपतज्जीवधारणात् Page #346 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । धर्मः श्रुतधर्म्मः ८, चयरिक्तीकरणाच्चरित्रम्, तदेव धर्म्मश्चरित्रधर्म्मः ९, अस्तयः प्रदेशाः, तेषां कायो राशिरस्तिकाय:, स एव धर्मो गतिपर्याये जीव- पुद्गलयोर्द्धार - णादित्यस्तिकायधर्म्मः १० । ७४७ [सू० ७६१] दस थेरा पन्नत्ता, तंजहा - गामथेरा, नगरथेरा, रट्ठथेरा, पसत्थारथेरा, कुलथेरा, गणथेरा, संघथेरा, जातिथेरा, सुतथेरा, परितागथेरा। [टी०] अयं च ग्रामधर्मादिर्धर्मः स्थविरैः कृतो भवतीति स्थविरान्निरूपयतिदसेत्यादि, स्थापयन्ति दुर्व्यवस्थितं जनं सन्मार्गे स्थिरीकुर्वन्तीति स्थविरा:, तत्र ये ग्राम-नगर-राष्ट्रेषु व्यवस्थाकारिणो बुद्धिमन्त आदेयाः प्रभविष्णवस्ते तत्तत्स्थविरा इति १-२-३, प्रशासति शिक्षयन्ति ये ते प्रशास्तारः धर्मोपदेशकास्ते च ते स्थिरीकरणात् स्थविराश्चेति प्रशास्तृस्थविरा: ४, ये कुलस्य गणस्य सङ्घस्य च लौकिकस्य लोकोत्तरस्य च व्यवस्थाकारिणस्तद्भश्च निग्राहकास्ते तथोच्यन्ते ५६-७, जातिस्थविरा: षष्टिवर्षप्रमाणजन्मपर्यायाः ८, श्रुतस्थविरा: समवायाद्यङ्गधारिणः ९, पर्यायस्थविरा विंशतिवर्षप्रमाणप्रव्रज्यापर्यायवन्त इति १० । [सू० ७६२] दस पुत्ता पन्नत्ता, तंजहा - अत्तते, खेत्तते, दिन्नते, विन्नते, ओरसे, मोहरे, सोडीरे, संवुड्ढे, ओववातिते, धम्मंतेवासी । [टी०] स्थविराश्च पुत्रवदाश्रितान् परिपालयन्तीति पुत्रनिरूपणायाह- दस पुत्तेत्यादि, पुनाति पितरं पाति वा पितृमर्यादामिति पुत्रः सूनुः, तत्र आत्मनः पितृशरीराज्जातः आत्मज:, यथा भरतस्यादित्ययशाः १, क्षेत्रं भार्या, तस्या जातः क्षेत्रजः, यथा पण्डोः पाण्डवाः, लोकरूढ्या तद्भार्यायाः कुन्त्या एव तेषां पुत्रत्वात् न तु पण्डो: धर्मादिभिर्जनितत्वादिति २, दिन्नए त्ति दत्तकः पुत्रतया वितीर्णो यथा बाहुबलिनो - ऽनिलवेग: श्रूयते, स च पुत्रवत् पुत्रः, एवं सर्वत्र ३, विण्णए त्ति विनयितः शिक्षां ग्राहित: ४, उरसो त्ति उपगतो जातो रसः पुत्रस्नेहलक्षणो यस्मिन् पितृस्नेहलक्षणो वा यस्यासावुपरस:, उरसि वा हृदये स्नेहाद्वर्त्तते य: स: औरस: ५, मुखर एव मौखरो मुखरतया चाटुकरणतो य आत्मानं पुत्रतया अभ्युपगमयति स मौखर इति भाव: ६, शौडीरो यः शौर्यवता शूर एव रणकरणेन वशीकृतः पुत्रतया प्रतिपद्यते यथा Page #347 -------------------------------------------------------------------------- ________________ ७४८ कुवलयमालाकथायां महेन्द्रसिंहाभिधानो राजसुतः श्रूयते ७, संवुड्ढे त्ति संवर्द्धितो भोजनदानादिना अनाथपुत्रक: ८, ओववाइय त्ति उपयाचिते देवताराधने भव: औपयाचितकः, अथवा अवपात: सेवा सा प्रयोजनमस्येत्यावपातिक: सेवक इति ९, तथा अन्ते समीपे वस्तुं शीलमस्येत्यन्तेवासी, धर्मार्थमन्तेवासी धर्मान्तेवासी, शिष्य इत्यर्थः १०। [सू० ७६३] केवलिस्स णं दस अणुत्तरा पन्नत्ता, तंजहा-अणुत्तरे णाणे, अणुत्तरे दंसणे, अणुत्तरे चरित्ते, अणुत्तरे तवे, अणुत्तरे वीरिते, अणुत्तरा खंती, अणुत्तरा मुत्ती, अणुत्तरे अजवे, अणुत्तरे मद्दवे, अणुत्तरे लाघवे । धर्मान्तेवासित्वं च छद्मस्थस्यैव न केवलिनोऽनुत्तरज्ञानादित्वात्, कानि कियन्ति च तस्यानुत्तराणीत्याह- दसेत्यादि, नास्त्युत्तरं प्रधानतरं येभ्यस्तान्यनुत्तराणि, तत्र ज्ञानावरणक्षयात् ज्ञानमनुत्तरम्, एवं दर्शनावरणक्षयाद्दर्शनमोहनीयक्षयाद्वा दर्शनम्, चारित्रमोहनीयक्षयाच्चारित्रम्, चारित्रमोहक्षयादनन्तवीर्यत्वाच्च तपः शुक्लध्यानादिरूपम्, वीर्यान्तरायक्षयाद् वीर्यम्, इह च तप:-क्षान्ति-मुक्त्यार्जव-मार्दव-लाघवानि चारित्रभेदा एवेति चारित्रमोहनीयक्षयादेव भवन्ति, सामान्य-विशेषयोश्च कथञ्चिद्भेदाद् भेदेनोपात्तानीति। [सू० ७६४] समतखेत्ते णं दस कुरातो पत्नत्ताओ, तंजहा-पंच देवकुरातो पंच उत्तरकुरातो १०। तत्थ णं दस महतिमहालया महादुमा पन्नत्ता, तंजहा-जंबू सुंदसणा, धाततिरुक्खे, महाधाततिरुक्खे, पउमरुक्खे, महापउमरुक्खे, पंच कूडसामलीओ १०॥ तत्थ णं दस देवा महिड्डिता जाव परिवसंति, तंजहा-अणाढिते जंबुद्दीवाधिपती, सुदंसणे, पियदंसणे, पोंडरीते, महापोंडरीते, पंच गरुला वेणुदेवा १०। [सू० ७६५] दसहिं ठाणेहिं ओगाढं दुस्समं जाणेजा, तंजहा-अकाले वरिसति, काले ण वरिसति, असाधू पुजंति, साधू ण पुजंति, गुरुसु जणो मिच्छं पडिवन्नो, अमणुण्णा सद्दा जाव फासा १०। Page #348 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । दसहिं ठाणेहिं ओगाढं सुसमं जाणेज्जा, तंजहा - अकाले ण वरिसति, तं चेव विवरीतं जाव मणुण्णा फासा । ७४९ [सू० ७६६] सुसमसुसमाए णं समाए दसविधा रुक्खा उवभोगत्ताए हव्वमागच्छंति, तंजहा मत्तंगता त भिंगा, तुडितंगा दीव - जोति - चित्तंगा | चित्तरसा मणिगंगा, गेहागारा अणितणा त ।। १७२ ।। [सू० ७६७ ] जंबूदीवे दीवे भरहे वासे तीताते उसप्पिणीते दस कुलगरा होत्था, तंजहा सयज्जले सताऊ य अणंतसेणे त अजितसेणे त । कक्कसेणे भीमसेणे महाभीमसेणे त सत्तमे ॥ १७३ ॥ दढरहे दसरहे सतरहे । जंबूदीवे दीवे भरहे वासे आगमेसाते उसप्पिणीए दस कुलगरा भविस्संति, तंजहा-सीमंकरे, सीमंधरे, खेमंकरे, खेमंधरे, विमलवाहणे, संमुती, पडिसुते, दढधणू, दसधणू, सतधणू । [सू० ७६८] जंबूदीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं सीताते महानतीते उभतो कुले दस वक्खारपव्वता पन्नत्ता, तंजहा - मालवंते, चित्तकूडे, बंभकूडे जाव सोमणसे । जंबुमंदरपच्छत्थिमेणं सीतोताते महानतीते उभतो कूले दस वक्खारपव्वता पन्नत्ता, तंजहा-विज्जुप्पभे जाव गंधमातणे । एवं धायइसंडपुरत्थिमद्धे वि वक्खारा भाणियव्वा जाव पुक्खरवरदीवड्डपच्चत्थिमद्धे [वि] । [टी०] केवली च मनुष्यक्षेत्र एव भवतीति दशस्थानकानुपातिपदार्थं समयेत्यादिकं पुक्खरवरदीवड्डपच्चत्थिमद्धे वीत्येतदन्तं समयक्षेत्रप्रकरणमाह, कण्ठ्यं चैतत्, नवरं मत्तंगेत्यादि गाथा, मत्तं मदः, तस्याङ्गं कारणं मदिरा, तद् ददतीति मत्ताङ्गदाः, चः समुच्चये, भिंग त्ति भृतं भरणं पूरणम्, तत्राङ्गानि कारणानि भृताङ्गानि भाजनानि, न हि भरणक्रिया भरणीयं भाजनं विना भवतीति तत्सम्पादकत्वाद् वृक्षा: अप Page #349 -------------------------------------------------------------------------- ________________ ७५० भृताङ्गाः, प्राकृतत्वाच्च भिंगा उच्यन्ते, त्रुटितानि तूर्याणि, [तत्कारणत्वात त्रुटिताङ्गाः तूर्यदायिन:, दीव-जोइ-चित्तंगा इति इहाङ्गशब्दः प्रत्येकमभिसम्बध्यते, ततो दीप: प्रकाशकं वस्तु, तत्कारणत्वाद्दीपाङ्गाः, ज्योति: अग्निस्तत्र च सुषमसुषमायामग्नेरभावाज्ज्योतिरिव यद्वस्तु सोष्मप्रकाशमिति भावः, तत्कारणत्वात् ज्योतिरङ्गाः, तथा चित्रस्य अनेकविधस्य विवक्षाप्राधान्यान्माल्यस्य कारणत्वाच्चित्राङ्गाः, तथा चित्रा विविधा मनोज्ञा रसा मधुरादयो येभ्यस्ते चित्ररसा भोजनाङ्गा इति भावः, मणीनां मणिमयाभरणानां कारणत्वान्मण्यङ्गाः आभरणहेतवः, गेहं गृहम्, तद्वदाकारो येषां ते गेहाकाराः, अणियय त्ति वस्त्रदायिनः ।। __कालाधिकारादेव कालविशेषभाविकुलकरवक्तव्यतामाह- जंबूदीवेत्यादि सूत्रद्वयं कण्ठ्यम्, नवरं तीयाए त्ति अतीतायाम् उस्सप्पिणीए त्ति उत्सर्पिण्याम्, कुलकरणशीला: कुलकरा विशिष्टबुद्धयो लोकव्यवस्थाकारिण: पुरुषविशेषाः, आगमिस्साए त्ति आगमिष्यन्त्याम्, वर्तमाना तु अवसर्पिणी, सा च नोक्ता, तत्र हि सप्तैव कुलकरा: क्वचित् पञ्चदशापि दृश्यन्त इति । [सू० ७६९] दस कप्पा इंदाहिट्ठिया पन्नत्ता, तंजहा-सोहम्मे जाव सहस्सारे, पाणते, अच्चुए । एतेसु णं दससु कप्पेसु दस इंदा पन्नत्ता, तंजहा-सक्के, ईसाणे जाव अच्चुते। एतेसि णं दसण्हं इंदाणं दस परिजाणिता विमाणा पन्नत्ता, तंजहा-पालते, पुप्फते जाव विमले, वरे, सव्वतोभद्दे । [टी०] पुष्करार्द्धक्षेत्रस्वरूपमभिहितं प्रागतः क्षेत्राधिकारादेव कल्पानाश्रित्य दशकमाहदसेत्यादि, सौधर्मादीनामिन्द्राधिष्ठितत्वमेतेष्विन्द्राणां निवासात्, आनतारणयोस्तु तदनधिष्ठितत्वं तनिवासाभावात्, स्वामितया तु तावप्यधिष्ठितावेवेति मन्तव्यम्, यावत्करणात् 'ईसाणे २, सणंकुमारे ३, माहिदे ४, बंभलोए ५, लंतगे ६, सुक्के ७' त्ति दृश्यमिति, यत एवैतेषु इन्द्रा अधिष्ठिता अत एवैतेषु दशेन्द्रा भवन्तीति दर्शयितुमाहएएसु इत्यादि, शक्रः सौधर्मेन्द्रः, शेषा देवलोकसमाननामान:, शेषं सुगममिति । Page #350 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । ७५१ इन्द्राधिकारादेव तद्विमानान्याह -- एते इत्यादि, परियानं देशान्तरगमनम्, तत् प्रयोजनं येषां तानि पारियानिकानि गमनप्रयोजनानीत्यर्थः, यानं शिबिकादि तदाकाराणि विमानानि देवाश्रया यानविमानानि, न तु शाश्वतानि, नगराकाराणीत्यर्थः, पालए इत्यादीनि शक्रादीनां क्रमेणावगन्तव्यानि, [ यावत्करणात् 'सोमणसे ३ सिरिवच्छे ४ नंदियावत्ते ५ कामकमे ६ पीइगमे ७ मणोरमे ८' इति द्रष्टव्यमिति, ] आभियोगिकाश्चैते देवा विमानीभवन्तीति । [सू० ७७०] दसदसमिता णं भिक्खुपडिमा एगेणं रातिंदियसतेणं अद्धछट्ठेहिं य भिक्खासतेहिं अधासुत्ता जाव आराधिता व भवति । [टी०] एवंविधविमानयायिनश्चेन्द्राः प्रतिमादिकात् तपसो भवन्तीति दशकानुपातिनीं प्रतिमां स्वरूपत आह- दसेत्यादि, दश दशमानि दिनानि यस्यां सा दशदशमिका दशदशकनिष्पन्नेत्यर्थः, भिक्षूणां प्रतिमा प्रतिज्ञा भिक्षुप्रतिमा, एकेनेत्यादि, दशदशकानि दिनानां शतं भवतीति, प्रथमे दशके दश भिक्षा द्वितीये विंशतिरेवं दशमे शतं सर्वमीलने पञ्च शतानि पञ्चाशदधिकानि भवन्तीति, अहासुत्तमित्यादि, अहासुत्तं इत्यादि प्रागिव । [सू० ७७१] दसविधा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा-पढमसमयएगेंदिता, अपढमसमयएगेंदिता एवं जाव अपढमसमयपंचेंदिता १ । दसविधा सव्वजीवा पन्नत्ता, तंजहा - पुढविकातिता जाव वणस्सतिकातिता, बेतिंदिता जाव पंचेंदिता, अणिंदिता २। अधवा दसविधा सव्वजीवा पन्नत्ता, तंजहा - पढमसमयनेरतिता, अपढमसमयनेरतिता जाव अपढमसमयदेवा, पढमसमयसिद्धा, अपढमसमयसिद्धा ३। [टी०] प्रतिमाभ्यासः संसारक्षयार्थं संसारिभिः क्रियत इति संसारिणो जीवान् जीवाधिकारात् सर्वजीवांश्च दसेत्यादिना सूत्रत्रयेणाह, तच्च सुगमम्, नवरं प्रथमः समयो येषामेकेन्द्रियत्वस्य ते प्रथमसमयास्ते च ते एकेन्द्रियाश्चेति विग्रह:, विपरीतास्त्वितरे, एवं द्वि-त्रि-चतुः-पञ्चेन्द्रिया वाच्या:, एवं जावेत्यादि, अणिदिय त्ति अनिन्द्रियाः सिद्धाः अपर्याप्तका उपयोगतः केवलिनश्चेति । Page #351 -------------------------------------------------------------------------- ________________ ७५२ [सू० ७७२] वाससताउयस्स णं पुरिसस्स दस दसाओ पन्नत्ताओ, तंजहाबाला किड्डा मंदा, बला पन्ना य हायणी । पवंचा पब्भारा, मुंमुही सातणी तधा ॥१७४॥ संसारिपर्यायविशेषप्रतिपादनायैवाह-वासेत्यादि, वर्षशतमायुर्यत्र काले मनुष्याणां स वर्षशतायुष्कः कालः, तत्र य: पुरुष: सोऽप्युपचाराद् वर्षशतायुष्कः, मुख्यवृत्त्या वर्षशतायुषि पुरुषे गृह्यमाणे पूर्वकोट्यायुष्कपुरुषकाले वर्षशतायुष: पुरुषस्य कस्यचित् कुमारत्वेऽपि बालादिदशादशकसमाप्ति: स्यात्, न चैवम्, तत उपचार एव युक्त इति। दशेति संख्या, दसाउ त्ति वर्षदशकप्रमाणा: कालकृता अवस्था:, इह च वर्षशतायुग्रहणं विशिष्टतरदशस्थानकानुरोधात्, विशिष्टतरत्वं च दशस्थानकस्यैवम्, वर्षशतप्रमाणा दशा दशेति, अन्यथा पूर्वकोट्यायुषोऽपि बालाद्या दशावस्था भवन्त्येव, केवलं दशवर्षप्रमाणा न भवन्ति, बहुवर्षा वा अल्पवर्षा वा स्युरिति भावः, तत्र बालस्येयमवस्था धर्म-धर्मिणोरभेदाद् बाला, स्वरूपं चास्या: जायमेत्तस्स जंतुस्स जा सा पढमिया दसा । न तत्थ सुहदुक्खाइं बहुं जाणंति बालया ॥ [तन्दुल० प्रकी० ३२] इति १। तथा क्रीडाप्रधाना दशा क्रीडा २ । तथा मन्दो विशिष्टबल-बुद्धिकार्योपदर्शनासमर्थो भोगानुभूतावेव च समर्थो यस्यामवस्थायां सा मन्दा ३। तथा यस्यामवस्थायां पुरुषस्य बलं भवति सा बलयोगाद् बला ४। तथा प्रज्ञा बुद्धिरीप्सितार्थसम्पादनविषया कुटुम्बकाभिवृद्धिविषया च, तद्योगाद्दशापि प्रज्ञा, प्रकर्षेण जानातीति वा प्रज्ञा दशा तस्या एव कर्तृत्वविवक्षयेति ५ । तथा हापयति पुरुषमिन्द्रियेष्विति इन्द्रियाणि मनाक् स्वार्थग्रहणापटूनि करोतीति हापनी प्राकृतत्वेन च हायणि त्ति ६ । तथा प्रपञ्चते व्यक्तीकरोति प्रपञ्चयति वा विस्तारयति खेलकासादि या सा प्रपञ्चा, प्रपञ्चयति वा संसयति आरोग्यादिति प्रपञ्चा ७ । तथा प्राग्भारमीषदवनतमुच्यते, तदेवंभूतं गात्रं यस्यां भवति सा प्राग्भारा ८ । तथा मोचनं मुक्, जराराक्षसीसमाक्रान्तशरीरगृहस्य जीवस्य मुचं प्रति मुखम् आभिमुख्यं यस्यां सा मुमुखीति, तत्स्वरूपं चेदम् नवमी मुंमुही नाम जं नरो दसमस्सिओ । जराघरे विणस्संते जीवो वसइ अकामओ ॥ [तन्दुल० प्रकी० ४०] त्ति । Page #352 -------------------------------------------------------------------------- ________________ दशममध्ययन दशस्थानकम् । ७५३ जीवे त्ति जीविते, जीवो त्ति वा नरलक्षणो जीव इत्यर्थः] ९ । तथा शाययति स्वापयति निद्रावन्तं करोति या शेते वा यस्यां सा शायनी शयनी वा, तथेति समुच्चये ति १०। [सू० ७७३] दसविधा तणवणस्सतिकातिता पन्नत्ता, तंजहा-मूले, कंदे जाव पुप्फे, फले, बीये । [टी०] अनन्तरं पुरुषदशा उक्ताः, अथ पुरुषसमानधर्मकाणां वनस्पतीनां ताः प्रकारान्तरत आह- दसेत्यादि । तृणवद् वनस्पतयः तृणवनस्पतयः, तृणसाधर्म्य च बादरत्वेन, तेन सूक्ष्माणां न दशविधत्वमिति । मूलं जटा, कन्दः स्कन्धाधोवर्ती, यावत्करणात् खंधेत्यादीनि पञ्च द्रष्टव्यानि, तत्र स्कन्धः स्थुडमिति यत् प्रतीतम्, त्वक् [शाला, प्रवालम्, पत्रम्] शेषं प्रागिव । [सू० ७७४] सव्वातो वि णं विजाहरसेढीओ दस दस जोयणाई विक्खंभेणं पण्णत्तातो १॥ सव्वातो वि णं अभिओगसेढीओ दस दस जोयणाई विक्खंभेणं पण्णत्तातो। [टी०] दशस्थानकाधिकार एव इदमपरमाह- सव्वेत्यादि सूत्रद्वयम्, सर्वाः सर्वदीर्घवैताढ्यसम्भवाः विद्याधरश्रेणयः विद्याधरनगरश्रेणयः, दीर्घवैताढ्या हि पञ्चविंशतिर्योजनान्युच्चस्त्वेन पञ्चाशच्च मूले विष्कम्भेण, तत्र दश योजनानि धरणीतलादतिक्रम्य दशयोजनविष्कम्भा दक्षिणत उत्तरतश्च श्रेणयो भवन्ति, तत्र दक्षिणतः पञ्चाशन्नगराणि, उत्तरतस्तु षष्टिरिति भरतेषु, ऐरवतेषु तदेव व्यत्ययेन, विजयेषु तु पञ्चपञ्चाशत् पञ्चपञ्चाशदिति । ___ तथा विद्याधरश्रेणीनामुपरि दश योजनान्यतिक्रम्य दशयोजनविष्कम्भा उभयत आभियोगिकदेवश्रेणयो भवन्ति, तत्राभियोगः आज्ञा, तया चरन्तीत्याभियोगिका देवाः, शक्रादिसम्बन्धिनां लोकपालानां सोम-यम-वरुण-वैश्रमणानां सम्बन्धिनो व्यन्तरा इति, तच्छ्रेणीनामुपरि पर्वतः पञ्च योजनान्युच्चतया दश विष्कम्भत इति । [सू० ७७५] गेवेजगविमाणा णं दस जोयणसयाई उड्उच्चत्तेणं पण्णत्ता। Page #353 -------------------------------------------------------------------------- ________________ ७५४ [टी०] आभियोगिकश्रेणयो हि देवावासा इत्यधुना तद्विशेषानाह- गेवेज्जेत्यादि कण्ठ्य म् । [सू० ७७६] दसहिं ठाणेहिं सह तेतसा भासं कुज्जा, तंजहा केति तहारूवं समणं वा माहणं वा अच्चासातेज्जा, से य अच्चासातिते समाणे परिकुविते तस्स तेतं निसिरेजा, से तं परितावेति, से तं परितावेत्ता तामेव सह तेतसा भासं कुजा १ । केति तधारूवं समणं वा माहणं वा अच्चासातेजा, से य अच्चासातिते समाणे देवे परिकुविए तस्स तेयं निसिरेजा, से तं परितावेति, से तं परितावेत्ता तामेव सह तेतसा भासं कुज्जा २ । केति तहारूवं समणं वा माहणं वा अच्चासातेजा, से य अच्चासातिते समाणे परिकुविते, देवे वि त परिकुविते, दुहतो पडिण्णा तस्स तेतं निसिरेजा, ते तं परितावेत्ता तामेव सह तेतसा भासं कुजा ३ ।। केति तहारूवं समणं वा माहणं वा अच्चासादेजा, से य अच्चासातिते परिकुविते तस्स तेतं निसिरेजा, तत्थ फोडा संमुच्छंति, ते फोडा भिजंति, ते फोडा भिन्ना समाणा तामेव सह तेतसा भासं कुज्जा ४ । __केति तहारूवं समणं वा माहणं वा अच्चासातेजा, से य अच्चासातिते देवे परिकुविते तस्स तेतं निसिरेज्जा, तत्थ फोडा तहेव जाव तामेव सह तेतसा भासं कुजा ५ । ___ केति तहारूवं समणं वा माहणं वा अच्चासाएज्जा, से त अच्चासातिते परिकुविए देवे य परिकुविए, ते दुहतो पडिण्णा, ते तस्स तेतं निसिरेजा, तत्थ फोडा संमुच्छंति, सेसं तहेव जाव भासं कुज्जा ६ । __ केति तहारूवं समणं वा माहणं वा अच्चासातेज्जा, से त अच्चासातिते परिकुविते तस्स तेतं निसिरेजा, तत्थ फोडा संमुच्छंति, ते फोडा भिजंति, तत्थ पुला संमुच्छंति, ते पुला भिजंति, ते पुला भिन्ना समाणा तामेव सह तेयसा भासं कुज्जा ७ । एते तिण्णि आलावगा भाणितव्वा ९ । Page #354 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । केति तहारूवं समणं वा माहणं वा अच्चासातेमाणे तेतं निसिरेजा, से त तत्थ णो कमति णो पक्कमति, अंचिंअंचिं(अंचिअंचि ?) करेति, करेत्ता आताहिणपयाहिणं करेति, करेत्ता उ8 वेहासं उप्पतति, उप्पतेत्ता से णं ततो पडिहते पडिणियत्तति, पडिणियत्तेत्ता तमेव सरीरगमणुदहमाणे अणुदहमाणे सह तेतसा भासं कुज्जा जहा वा गोसालस्स मंखलिपुत्तस्स तवे तेते १०॥ [टी०] प्राग्देवानामावासा उक्ताः, देवाश्च महर्द्धिका भवन्त्यतो देवानां मुनीनां च महर्द्धिकतोपवर्णनाय तेजोनिसर्गप्रकारप्रतिपादनायाह- दसहीत्यादि, दशभिः स्थानैः प्रकारैः सह सार्द्ध तेजसा तेजोलेश्यया वर्तमानमनार्यं भासं ति भस्मेव भस्मवत् कुर्यात् विनाशयेदित्यर्थः, श्रमण इति गम्यते, तद्यथा- केइ त्ति कश्चिदनार्यकर्मकारी पापात्मा तथारूपं तेजोलब्धिप्राप्तं श्रमणं तपोयुक्तं माहनं ‘मा हन, मा विनाशय' इत्येवंप्ररूपणाकारिणम्, वाशब्दौ विशेषणसमुच्चयार्थी, अत्याशातयेद् आत्यन्तिकीमाशातनां तस्य कुर्यात्, से य त्ति स च श्रमणोऽत्याशातित: उपसर्गितः परिकुपित: सर्वथा क्रुद्धः सन् तस्स त्ति उपसर्गकर्तुरुपरि तेजः तेजोलेश्यारूपं निसृजेत् क्षिपेत्, से त्ति स श्रमण: तमित्युपसर्गकारिणं परितापयति पीडयति, तं परिताप्य तामेव त्ति तमेव तेजसा परितापितम्, दीर्घत्वं प्राकृतत्वात्, सह अपेर्गम्यमानत्वात् तेजसापि, तेजोलेश्यायुक्तमपीत्यर्थः बलवत्त्वात् साधुतेजस इति, भासं कुज त्ति प्रसिद्धमित्येकम् । शेषाणि नवापि सुगमानि, नवरं से य अच्चासाइयत्ति स च मुनिरत्याशातितस्तदनन्तरमेव च तत्पक्षपाती देवः परिकुपितः सन् तं भस्म कुर्यादिति द्वितीयम्, उभावपि परिकुपितौ ते दुहओ त्ति तौ द्वौ मुनि-देवौ पडिन्न त्ति उपसर्गकारिणो भस्मकरणं प्रति प्रतिज्ञायोगात् प्रतिज्ञौ कृतप्रतिज्ञौ हन्तव्योऽयमित्यभ्युपगताविति यावदिति तृतीयम्, चतुर्थे श्रमणस्तेजोनिसर्गं कुर्यात्, पञ्चमे देवः, षष्ठे उभाविति, केवलमयं विशेष:- तत्रेति उपसर्गकारिणि स्फोटा: स्फोटकाः समुत्पद्येरन् अग्निदग्धे इव, ते च स्फोटकाः भिद्यन्ते स्फुटन्ति, ततस्ते भिन्नाः सन्तस्तमेवोपसर्गकारिणं सह तेजसा तेजोलेश्यावन्तमपि श्रमण-देवतेजसोर्बलवत्त्वात् तत्तेजसोपहननीयत्वाद् भस्म कुर्युः निपातयेयुरिति । सप्तमाष्टमनवमेष्वपि तथैव, नवरं तत्र स्फोटाः सम्मूर्च्छन्ति भिद्यन्ते च, ततस्तत्र Page #355 -------------------------------------------------------------------------- ________________ ७५६ पुला: पुलाकिका लघुतरस्फोटिकाः सम्मूर्च्छन्ति ततो भिद्यन्ते, ते च पुलाः भिन्नाः सन्तस्तमेवोपसर्गकारिणं सहैव तेजसा भस्म कुर्युरित्येतानि नव स्थानानि साधुदेवकोपाश्रयाणि, दशमं तु वीतरागाश्रयम्, तत्र अच्चासाएमाणे त्ति उपसर्गं कुर्वन् गोशालकवत् तेजो निसृजेत्, से य तत्थ त्ति तच्च तेजस्तत्र श्रमणे निसृष्टं महावीर इव नो क्रमते ईषत्, नो प्रक्रमते प्रकर्षेण न प्रभवतीत्यर्थः, केवलम् अंचिंअंचिं इति उत्पतनिपतां पार्श्वतः करोति, ततश्चा दक्षिणतः पार्थात् प्रदक्षिणा पार्श्वभ्रमणमादक्षिणप्रदक्षिणा, तां करोति, ततश्चोर्ध्वम् उपरि दिशि वेहासं ति विहाय आकाशमित्यर्थः उत्पतति, उत्पत्य च से त्ति तत्तेजः ततः श्रमणशरीरसन्निधेस्तन्माहात्म्यप्रतिहतं सत् प्रतिनिवर्त्तते, प्रतिनिवृत्य च तदेव शरीरकमुपसर्गकारिसम्बन्धि यतस्तन्निर्गतमनुदहत् निसर्गानन्तरमुपतापयत्, किंभूतं शरीरकम् ? सह तेजसा वर्तमानं तेजोलब्धिमत्, भस्म कुर्यादिति, अयमकोपस्यापि वीतरागस्य प्रभावो यत् परतेजो न प्रभवति, अत्रार्थे दृष्टान्तमाह- जहा वा यथैव गोशालकस्य भगवच्छिष्याभासस्य मङ्खल्यभिधानमङ्खपुत्रस्य, इत्यादि विस्तरो वृत्तौ[तेः] भगवत्यां[त्याः] च ज्ञेय इति। [सू० ७७७] दस अच्छेरगा पन्नत्ता, तंजहाउवसग्ग गन्भहरणं, इत्थीतित्थं अभव्विया परिसा । कण्हस्स अवरकंका, ओतरणं चंदसूराणं ॥१७५॥ हरिवंसकुलुप्पत्ती, चमरुप्पातो व अट्ठसतसिद्धा । अस्संजतेसु पूआ, दस वि अणंतेण कालेणं ॥१७६॥ [टी०] महावीरस्य भगवतो नमन्निखिलनर-नाकिनिकायनायकस्यापि जघन्यतोऽपि कोटीसङ्ख्यभक्तिभरनिर्भरामरषट्पदपटलजुष्टपदपद्मस्याप्यनुत्तरपुण्यसम्भारस्यापि यद् गोशालकेन मनुष्यमात्रेणापि चिरपरिचितेनापि शिष्यकल्पेनाप्युपसर्गः क्रियते तदाश्चर्यमिति । आश्चर्याधिकारादिदमाह-दसेत्यादि, आ विस्मयतश्चर्यन्ते अवगम्यन्त इत्याश्चर्याणि अद्भुतानि, इह च सकारः कारस्करादित्वादिति । उवसग्गेत्यादि गाथाद्वयम्, उपसृज्यते क्षिप्यते च्याव्यते प्राणी धर्मादेभिरित्युपसर्गा देवादिकृतोपद्रवाः, ते च भगवतो महावीरस्य छद्मस्थकाले केवलिकाले च नरा-ऽमर-तिर्यक्कृता अभूवन्, इदं च किल न कदाचिद् Page #356 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । ७५७ भूतपूर्वम्, तीर्थकरा हि अनुत्तरपुण्यसम्भारतया नोपसर्गभाजनमपि तु सकलनराऽमर-तिरश्चां सत्कारादिस्थानमेवेत्यनन्तकालभाव्ययमों लोकेऽद्भुतभूत इति १ । ___तथा गर्भस्य उदरसत्त्वस्य हरणम् उदरान्तरसङ्क्रामणं गर्भहरणम्, एतदपि तीर्थकरापेक्षयाऽभूतपूर्वं सद्भगवतो महावीरस्य जातम्, २। तथा स्त्री योषित्तस्यास्तीर्थकरत्वेनोत्पन्नायाः तीर्थं द्वादशाङ्ग सङ्घो वा स्त्रीतीर्थम्, तीर्थं हि पुरुषसिंहाः पुरुषवरगन्धहस्तिनस्त्रिभुवनेऽप्यव्याहतप्रभुभावाः प्रवर्त्तयन्ति, इह त्ववसर्पिण्यां मिथिलानगरीपतेः कुम्भकमहाराजस्य दुहिता मल्लयभिधाना एकोनविंशतितमतीर्थकरस्थानोत्पन्ना तीर्थं प्रवर्तितवतीत्यनन्तकालजातत्वादस्य भावस्याश्चर्यतेति ३ । ___ तथा अभव्या अयोग्या चारित्रधर्मस्य पर्षत् तीर्थकरसमवसरणश्रोतृलोकः, श्रूयते हि भगवतो वर्द्धमानस्योत्पन्नकेवलस्य तदनन्तरं मिलितचतुर्विधदेवनिकायविरचितसमवसरणस्य भक्तिकुतूहलाकृष्टसमायातानेकनरा-ऽमर-तिरश्चां स्वस्वभाषानुसारिणाऽतिमनोहारिणा महाध्वनिना कल्पपरिपालनायैव धर्मकथा बभूव, यतो न केनापि तत्र विरतिः प्रतिपन्ना, न चैतत्तीर्थकृतः कस्यापि भूतपूर्वमितीदमाश्चर्यमिति ४ । ___ तथा कृष्णस्य नवमवासुदेवस्य अवरकङ्का राजधानी गतिविषया जातेत्यप्यजातपूर्वत्वादाश्चर्यम् ५ । __ तथा भगवतो महावीरस्य वन्दनार्थमवतरणमाकाशात् समवसरणभूम्यां चन्द्रसूर्ययोः शाश्वतविमानोपेतयोर्बभूवेदमप्याश्चर्यमेवेति ६ । ___ तथा हरेः पुरुषविशेषस्य वंश: पुत्र-पौत्रादिपरम्परा हरिवंशस्तल्लक्षणं यत् कुलं तस्योत्पत्तिः हरिवंशकुलोत्पत्तिः, कुलं ह्यनेकधा, अतो हरिवंशेन विशिष्यते, एतदप्याश्चर्यमेवेति ७ । तथा चमरस्य असुरकुमारराजस्योत्पतनम् ऊर्ध्वगमनं चमरोत्पातः, सोऽप्याकस्मिकत्वादाश्चर्यमिति प्रसिद्धम् ८ । तथाऽष्टाभिरधिकं शतमष्टशतम्, अष्टशतं च ते सिद्धाश्च निर्वृताः अष्टशतसिद्धाः, इदमप्यनन्तकालजातमित्याश्चर्यमिति ९ । Page #357 -------------------------------------------------------------------------- ________________ ७५८ तथा असंयता: असंयमवन्त आरम्भ-परिग्रहप्रसक्ता अब्रह्मचारिणः, तेषु पूजा सत्कारः असंयतपूजा, सर्वदा हि किल संयता एव पूजार्हाः , अस्यां त्ववसर्पिण्यां विपरीतं जातमित्याश्चर्यम्, अत एवाह- दशाप्येतानि अनन्तेन कालेन अनन्तकालात् संवृत्तानि अस्यामवसर्पिण्यामिति । __[सू० ७७८] इमीसे णं रयणप्पभाते पुढवीते रतणे कंडे दस जोयणसताई बाहल्लेणं पन्नत्ते । इमीसे णं रयणप्पभाते पुढवीते वतिरे कंडे दस जोयणसताई बाहल्लेणं पण्णत्ते । ___ एवं वेरुलिते १, लोहितक्खे २, मसारगल्ले ३, हंसगब्भे ४, पुलते ५, सोगंधिते ६, जोतिरसे ७, अंजणे ८, अंजणपुलते ९, रतते १०, जातरूवे ११, अंके १२, फलिहे १३, रिढे १४ । जहा रयणे तहा सोलसविधा वि भाणितव्वा । [टी०] अनन्तरसूत्रे चमरोत्पात उक्तः, स च रत्नप्रभायाः सञ्जात इति रत्नप्रभावक्तव्यतामाह- इमीसे णमित्यादि, येयं रज्जुरायामविष्कम्भाभ्यामशीतिसहस्राधिकं योजनलक्षं बाहल्यत: उपरि मध्येऽधस्ताच्च यस्याः खरकाण्ड-पङ्कबहुलकाण्डजलबहुलकाण्डाभिधाना: क्रमेण षोडशचतुरशीत्यशीतियोजनसहस्रबाहल्या विभागा: सन्ति इमीसे त्ति एतस्याः प्रत्यक्षासन्नाया: रत्नानां प्रभा यस्यां रत्नैर्वा प्रभाति शोभते या सा रत्नप्रभा तस्या: पृथिव्या भूमेर्यत्तत् खरकाण्डं तत् षोडशविधरत्नात्मकत्वात् षोडशविधम्, तत्र यः प्रथमो भागो रत्नकाण्डं नाम तद् दश योजनशतानि बाहल्येन, सहस्रमेकं स्थूलतयेत्यर्थः, एवमन्यानि पञ्चदशापि सूत्राणि वाच्यानि, नवरं प्रथम सामान्यरत्नात्मकं शेषाणि तद्विशेषमयानि, चतुर्दशानामतिदेशमाह-एवमित्यादि, एवमिति पूर्वाभिलापेन सर्वाणि वाच्यानि, वेरुलिय त्ति वैडूर्यकाण्डम्, एवं लोहिताक्षकाण्ड मसारगल्लकाण्डं हंसगर्भकाण्डमेवं सर्वाणि, नवरं रजतं रूप्यं जातरूपं सुवर्णमेते अपि रत्ने एवेति । [सू० ७७९] सव्वे वि णं दीव-समुद्दा दस जोयणसताइं उव्वेहेणं पण्णत्ता। Page #358 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । सव्वे वि णं महादहा दस जोयणाई उव्वेहेणं पण्णत्ता २। सव्वे वि णं सलिलकुंडा दस जोयणाई उव्वेहेणं पण्णत्ता ३॥ सीतासीतोतातो णं महाणतीतो मुहमूले दस दस जोयणाई उव्वेहेणं पण्णत्ताओ ४। ___ [टी०] रत्नप्रभाप्रस्तावात् तदाधेयद्वीपादिवक्तव्यतां सूत्रचतुष्टयेनाह- सव्वेत्यादि सुगमम्, नवरमुद्वेध: उंडत्तं ति भणियं होइ, द्वीपानाम् उंडत्तणाभावे वि अधोदिशि सहस्रं यावद् द्वीपव्यपदेशः, जम्बूद्वीपे तु पश्चिमविदेहे जगतीप्रत्यासत्तौ उंडत्तमवि अत्थि त्ति। महाहदा: हिमवदादिषु पद्मादय: । सलिलकुंड त्ति सलिलानां गङ्गादिनदीनां कुण्डानि प्रपातकुण्डानि प्रभवकुण्डानि च सलिलाकुण्डानीति, मुहमूले त्ति समुद्रप्रवेशे। [सू० ७८०] कत्तियाणक्खत्ते सव्वबहिरातो मंडलातो दसमे मंडले चार चरति १॥ अणुराधानक्खत्ते सव्वन्भंतरातो मंडलातो दसमे मंडले चारं चरति २। [सू० ७८१] दस णक्खत्ता णाणस्स विद्धिकरा पण्णत्ता, तंजहामगसिरमद्दा पुस्सो, तिनि य पुव्वाइं मूलमस्सेसा । हत्थो चित्ता य तधा, दस विढिकराइं णाणस्स ॥१७७॥ ३॥ [टी०] द्वीप-समुद्राधिकारात् तद्वर्तिनक्षत्रसूत्रत्रयमाह- कित्तियेत्यादि, इह किल सूर्यस्य चतुरशीत्यधिकं मण्डलशतं भवति, चन्द्रस्य पञ्चदश, नक्षत्राणां त्वष्टौ, मण्डलं च मार्ग उच्यते, तच्च यथास्वं सूर्यादिविमानतुल्यविष्कम्भम्, तत्र जम्बूद्वीपस्याशीत्यधिके योजनशते पञ्चषष्टिः सूर्यस्य मण्डलानि भवन्ति, चन्द्रस्य पञ्च, नक्षत्राणां [द्वे, तथा लवणसमुद्रं त्रीणि त्रिंशदधिकानि योजनशतान्यवगाह्य एकोनविंशत्यधिकं सूर्यस्य मण्डलशतं भवति, चन्द्रस्य दश, नक्षत्राणां च] षट्, एतेषां च सर्वबाह्यं सुमेरो: पञ्चचत्वारिंशति योजनानां सहस्रेषु त्रिंशदधिकेषु च त्रिषु शतेषु भवति, सर्वाभ्यन्तरं च चतुश्चत्वारिंशति सहस्रेषु अष्टासु च विंशत्यधिकेषु शतेषु भवतीति, एवं च कृत्तिकानक्षत्रं सर्वबाह्यात् मण्डलाउ त्ति चन्द्रमण्डलाद्दशमे चन्द्रमण्डले सर्वाभ्यन्तरात् Page #359 -------------------------------------------------------------------------- ________________ ७६० षष्ठ इत्यर्थः, चारं चरति भ्रमणमाचरति, अनुराधानक्षत्रं सर्वाभ्यन्तरात् चन्द्रस्य मण्डलात् दशमे चन्द्रमण्डले सर्वबाह्यात् षष्ठ इत्यर्थः, चारं चरतीति व्याख्यातमेवेति । विद्धिकराई ति एतन्नक्षत्रयुक्ते चन्द्रमसि सति ज्ञानस्य श्रुतज्ञानस्योद्देशादिर्यदा क्रियते तदा ज्ञानं समृद्धिमुपयाति अविघ्नेनाधीयते श्रूयते व्याख्यायते धार्यते चेति, भवति च कालविशेषस्तथाविधकार्येषु कारणम्, क्षयोपशमादिहेतुत्वात्तस्य, यदाहउदयक्खयखओवसमोवसमा जं च कम्मणो भणिया । दव्वं खेत्तं कालं भवं च भावं च संपप्प ॥ [विशेषाव० ५७५] इति । तद्यथा- मगसिर गाहा कण्ठ्या ।। [सू० ७८२] चउप्पयथलचरपंचेंदियतिरिक्खजोणिताणं दस जातिकुलकोडिजोणिपमुहसतसहस्सा पण्णत्ता १। उरपरिसप्पथलचरपंचेंदियतिरिक्खजोणिताणं दस जातिकुलकोडिजोणिपमुहसतसहस्सा पण्णत्ता २। [टी०] द्वीप-समुद्राधिकारादेव द्वीपचारिजीववक्तव्यतां सूत्रद्वयेनाह– चउप्पयेत्यादि, चत्वारि पदानि पादा येषां ते चतुष्पदास्ते च ते स्थले चरन्तीति स्थलचराश्चेति चतुष्पदस्थलचरास्ते च ते पञ्चेन्द्रियाश्चेति विग्रहः, पुनस्तिर्यग्योनिकाश्चेति कर्मधारयः, तेषां दशेति दशैव, जातौ पञ्चेन्द्रियजातौ यानि कुलकोटीनां जातिविशेषलक्षशतानां योनिप्रमुखाणि उत्पत्तिस्थानद्वारकाणि शतसहस्राणि लक्षाणि तानि तथा, प्रज्ञप्तानि सर्वविदा, तत्र योनिर्यथा गोमयो द्वीन्द्रियाणामुत्पत्तिस्थानम्, कुलानि तत्रैकत्रापि द्वीन्द्रियाणां कृम्याद्यनेकाकाराणि प्रतीतानीति, तथा उरसा वक्षसा परिसर्पन्ति सञ्चरन्तीत्युरःपरिसास्ते च ते स्थलचराश्चेत्यादि तथैव । - [सू० ७८३] जीवा णं दसठाणनिव्वत्तिते पोग्गले पावकम्मत्ताए चिणिंसु वा चिणंति वा चिणस्संति वा, तंजहा-पढमसमयएगिदियनिव्वत्तिए जाव अपढमसमयपंचेंदियनिव्वत्तिए। एवंचिण उवचिण बंध उदीर वेय तह णिज्जरा चेव । दसपतेसिता खंधा अणंता पण्णत्ता, दसपतेसोगाढा पोग्गला अणंता Page #360 -------------------------------------------------------------------------- ________________ दशममध्ययनं दशस्थानकम् । ७६१ पण्णता, दससमतद्वितीता पोग्गला अणंता पण्णत्ता, दसगुणकालगा पोग्गला अणंता पण्णत्ता, एवं वन्नेहिं गंधेहिं रसेहिं फासेहिं, दसगुणलुक्खा पोग्गला अणंता पण्णत्ता ॥ दसट्ठाणं समत्तं ॥छ। समत्तं च ठाणमिति ॥ __ [टी०] जीवविषयं दशस्थानकमभिधायाधुनाऽजीवस्वरूपपुद्गलविषयं तदाह- जीवा णमित्यादि, अथवा जाति-योनि-कुलादिविशेषा जीवानां कर्मणश्चयोपचयादिभ्यो भवन्तीति त्रिकालभाविनो दशस्थानकानुपातेन कर्मणश्चयादीनाह– इति अस्य व्याख्या जीवा णमित्यादि, जीवा जीवनधर्माणः, न सिद्धा इति भाव:, णमिति वाक्यालङ्कारे, दशभिः स्थानैः प्रथमसमयैकेन्द्रियत्वादिभि: पर्याय: हेतुभिर्ये निर्वर्तिता बन्धयोग्यतया निष्पादितास्ते तथा, दशभिः स्थानै निर्वृत्तिर्वा येषां ते तथा, तान् पुद्गलान् कर्मवर्गणारूपान्, पापं घातिकर्म सर्व्वमेव वा कर्म तच्च तत् क्रियमाणत्वात् कर्म च पापकर्म, तद्भावस्तत्ता, तया पापकर्मतया चिणिंसु त्ति चितवन्तो गृहीतवन्त: चिन्वन्ति गृह्णन्ति चेष्यन्ति ग्रहीष्यन्त्यनेनात्मनां त्रिकालान्वयित्वमाह, सर्वथा अनन्वयित्वेऽकृताभ्यागम-कृतविप्रणाशप्रसङ्गादिति, वाशब्दा विकल्पार्थाः, तद्यथाप्रथम: समयो येषामेकेन्द्रियत्वस्य ते तथा, ते च ते एकेन्द्रियाश्चेति प्रथमसमयैकेन्द्रियास्तै: [सद्भिर्ये निर्वर्तिताः कर्मतयाऽऽपादिता अविशेषतो गृहीतास्ते तथा, तान्, एवं तद्विपरीतैरप्रथमसमयैकेन्द्रियै] निर्वर्तिता ये ते तथा, तान्, एवं द्विभेदता द्वित्रिचतुष्पञ्चेन्द्रियाणां प्रत्येकं वाच्येति, एतदेवातिदेशेनाह- जावेत्यादि, यथा चितवन्त इत्यादि कालत्रयनिर्देशेन सूत्रमुक्तमेवमुपचितवन्त इत्यादीन्यपि पञ्च वक्तव्यानीत्येतदेवाहएवं चिणेत्यादि, इह चैवमक्षरघटना-चिण त्ति यथा चयनं कालत्रयविशेषितमुक्तमेवमुपचयो बन्ध उदीरणा वेदना निर्जरा च वाच्या:, चेव त्ति समुच्चये, नवरं चयनादीनामयं विशेष:-चयनं नाम कषायादिपरिणतस्य कर्मापुद्गलोपादानमात्रम्, उपचयनं गृहीतानां ज्ञानावरणादिभावेन निषेचनम्, बन्धनं निकाचनम्, उदीरणा करणत उदये प्रवेशनम्, वेदनम् अनुभवनम्, निर्जरा जीवप्रदेशेभ्य परिशटनमिति । पुद्गलाधिकार एवेदमाह- दसेत्यादि सूत्रवृन्दं सुगमं च, नवरं दश प्रदेशा येषां ते Page #361 -------------------------------------------------------------------------- ________________ ७६२ तथा, त एव दशप्रदेशिका दशाणुका: स्कन्धा: समुच्चया इति द्रव्यत: पुद्गलचिन्ता, तथा दशसु प्रदेशेष्वाकाशस्यावगाढा आश्रिता दशप्रदेशावगाढा इति क्षेत्रतः, तथा दश समयान स्थितिर्येषां ते तथेति कालतः, तथा दशगुण: एकगुणकालापेक्षया दशाभ्यस्तः कालो वर्णविशेषो येषां ते दशगुणकालकाः, एवमन्यैश्चतुर्भिर्वीभ्यां गन्धाभ्यां पञ्चभी रसैरष्टाभि: स्पर्शः विशेषिता: पुद्गला: अनन्ता वाच्या:, अत एवाहएवमित्यादि, जाव दसगुणलुक्खा पोग्गला अणंता पन्नत्तेत्यनेन भावत: पुद्गलचिन्तायां विंशतितम आलापको दर्शितः । इह चाऽनन्तशब्दोपादानेन वृद्ध्यादिशब्देनेवान्तमङ्गलमभिहितम्, अयं चाऽनन्तशब्द इह सर्वाध्ययनानामन्ते पठित इति सर्वेष्वप्यन्तमङ्गलतया बोद्धव्य इति । तदेवं निगमितमनुगमद्वारांशभूतं सूत्रस्पर्शकनियुक्तिद्वारम्, शेषद्वाराणि तु सर्वाध्ययनेषु प्रथमाध्ययनवदनुगमनीयानीति ॥ इति श्रीमत्तपागच्छाधिराजभट्टारकपुरन्दरसूरीश्वरश्रीविजयसेनसूरिराज्ये श्रीमत्तपागच्छश्रृंगारहारसूरीश्वरश्रीविजयदेवसूरियौवराज्ये पण्डितश्रीकुशलवर्धनगणिशिष्यनगर्षिगणिना स्ववाचनपरोपकारकृते कृतोद्धाररूपयां श्रीसकलवाचकशिरोमणिमहोपाध्यायश्रीविमलहर्षगणिभिः संशोधितायां सुखावबोधायां श्रीस्थानाङ्गदीपिकायां दशस्थानकाख्यं दशमममध्ययनं समाप्तम्। Page #362 -------------------------------------------------------------------------- ________________ ७६३ प्रशस्ती सौधर्मादिगणाधिपट्टालङ्कारधारिणोऽभूवन् । लब्धतपाख्याः क्रमशो लसज्जगच्चन्द्रसूरीशाः॥१।। तत्पट्टपरम्परया सकलजनानन्दकारिणोऽभूवन्। श्रीआनन्दविमलगुरुसूरीशा जगति विख्याताः॥२॥ श्रीविजयदानसूरीश्वरा अभूवन् महाप्रतापधराः। तत्पट्टविमलजलनिधिवृद्धौ सम्पूर्णचन्द्राभाः॥३॥ श्रीहीरविजयसूरीश्वरा मनोहारिशान्तिमूर्तिधराः। तेषां निर्मलपट्टोदयाचले नूतनार्कनिभाः॥४॥ कुमतिमतङ्गजसिंहा साहिसभालब्धसाधुवादभराः। श्रीविजयसेनसूरिश्वरा जयन्तीह जगतितले॥५॥ तेषां विराजमाने राज्ये श्रीविजयदेवसूरिवरे । तेषां गच्छे विबुधोदयवर्धनगणिप्रधानानाम्॥६॥ तच्छिष्यपण्डितोत्तमकुशलवर्धनगणिप्रसादेन । शिशुना नगर्षिणेयं समुद्धता दीपिका रम्या।।७।। श्रीस्थानाङ्गसुवृत्तेः सूत्रार्थतदुभयं यदिहाशुद्धम्। लिखितं मया तदखिलं शोध्यं विज्ञैः प्रसादपरैः ।।८।। श्रीमत्पत्तननगरे शशधररसबाणमुनिप्रमितवर्षे । वैशाखसितदशम्यां शुक्रे हर्षर्णविमलयोगे॥९॥ श्रीमत्तपगणगगनाङ्गणतरणिनिभैरनेकगुणसदनैः। श्रीविजयसेनसूरीश्वरैः प्रसादीकृताद्वाक्यात्॥१०॥ वाचकशिरोऽवतंसैः श्रीमद्भिर्विमलहर्षगणिवृषभैः। संशोधितेयमर्थप्रदीपिका दीपिका रम्या॥११॥ सहस्राणि चतुर्दश शताधिकानीत्यनुष्टुपां सङ्ख्या। ज्ञेयात्र वाच्यमाना हसविधुं नन्दतु चिरं सा॥१२॥ ॥ इति श्रीस्थानाङ्गदीपिका समाप्ता ।। १. विजयति सतीति शेषः। २. १६५७ वर्षे । ३. ज्योतिर्ग्रन्थप्रसिद्धयोगविशेषः। ४. यावद् सूर्याचन्द्रमसावित्यर्थः। ५. पं.श्रीकमलवर्धनगणिना मुक्ता चित्कोशे इति हस्तादर्श पुष्पिका। Page #363 -------------------------------------------------------------------------- ________________ अथ प्रशस्तिः (शार्दूलविक्रीडितम्) पादाङ्गुष्ठसुचालितामरगिरि-हस्तास्तदेवस्मयः, जिह्वाखण्डितशक्रसंशयचयो, वाड्नष्टहालाहलः । सर्वागीणमहोपसर्गदकृपा-नेत्राम्बुदत्ताञ्जलिः, दाढादारितदिव्ययुत्समवतात्-श्रीवर्धमानो जिनः ।।१।। (उपजातिः) श्रीगौतमस्वामि-सुधर्मदेव-जम्बूप्रभु-श्रीप्रभवप्रमुख्याः । सुरीशपूजापदसूरिदेवा, भवन्तु ते श्रीगुरवः प्रसन्नाः ।।२।। (वसन्ततिलका) एतन्महर्षिशुचिपट्टपरम्पराजान्-आनन्दसूरिकमलाभिधसूरिपादान् । संविग्नसन्ततिसदीशपदान् प्रणम्य, श्रीवीरदानचरणांश्च गुरून् स्तविष्ये ।।३।। श्रीदानसूरिवरशिष्यमतल्लिका स, श्री प्रेमसूरिभगवान् क्षमया क्षमाभः । सिद्धान्तवारिवरवारिनिधिः पुनातु, चारित्रचन्दनसुगन्धिशरीरशाली ।।४।। (शार्दूलविक्रीडितम्) प्रत्यग्रत्रिशतर्षिसन्ततिसरित्-स्रष्टा क्षमाभृद्महान्, गीतार्थप्रवरो वरश्रुतयुतः सर्वागमानां गृहम् । तर्के तर्कविशुद्धबुद्धिविभवः सोऽभूत् स्वकीयेऽप्यहो, गच्छे संयमशुद्धितत्परमतिः प्रज्ञावतामग्रणीः ।।५।। तत्कालीनकरग्रहग्रहविधा-वब्दे ह्यभूद् वैक्रमे, तिथ्याराधनकारणेन करुणो भेदस्तपागच्छजः । कारुण्यैकरसेन तेन गुरुणा सत्पट्टकादात्मनो, बवंशेन निवारितः खकरखौ-ष्ठे पिण्डवाडापुरे ।।६।। (वसन्ततिलका) तत्पट्टभृद् भुवनभान्वभिधश्च सूरिः, श्रीवर्धमानतपसां निधिरुग्रशीलः । न्याये विशारद इतीह जगत्प्रसिद्धो, जातोऽतिवाक्पतिमति-र्मतिमच्छरण्यः ।।७।। तस्याद्यशिष्यलघुबन्धुरथाब्जबन्धु-तेजास्तपाश्रुतसमर्पणतेजसा सः । पन्न्यासपद्मविजयो गणिराट् श्रियेऽस्तु, क्षान्त्येकसायकविदीर्णमहोपसर्गः ।।८।। सर्वाधिकश्रमणसार्थपतिर्मतीशः पाता चतुःशतमितर्षिगणस्य शस्याः । गच्छाधिनाथपदभृज्जयघोषसूरिः 'सिद्धान्तसूर्य' - यशसा जयतीह चोच्चैः ।।९।। सदबुद्धिनीरधिविबोधनबद्धकक्षो, वैराग्यदेशनविधौ परिपूर्णदक्षः । सीमन्धरप्रभुकृपापरपात्रमस्तु, श्रीहेमचन्द्रभगवान् सततं प्रसन्नः ।।१०।। कारुण्यकम्रालयानां महनीयमुख्यानां महोमालिना लोकोपकारचतुराणां वैराग्यदेशनादक्षाचार्यदेव-श्रीमद्विजयहेमचन्द्रसूरीश्वराणां सदुपदेशेन श्रीजिनशासन-आराधनाट्रस्ट-विहिते श्रुतसमुद्धारकार्यान्वये प्रकाशितमिदं ग्रन्थरत्नं श्रुतभक्तितः ।। समतासागरपंन्यासश्रीपद्मविजयपुण्यस्मृती पाचीनतर NYYYI मएसप्ततितम प्रतितमं पद्याम Page #364 -------------------------------------------------------------------------- ________________ - सुकृत अनुमोदना : जिनशासन सुकृत मुख्य आधारस्तंभ - (१) श्री नयनबाळा बाबुभाई जरीवाला परिवार ह. लीनाबेन चंद्रकुमारभाई जरीवाला - मुंबई (२) श्री मूळीबेन अंबालाल शाह परिवार ह. रमाबेन पुंडरीकभाई शाह, खंभात - मुंबई (३) श्री नयनबाळा बाबुभाई जरीवाला परिवार ह. शोभनाबेन मनीशभाई जरीवाला - मुंबई (४) श्री सायरकंवर यादवसिंहजी कोठारी परिवार ह. मीनाबेन विनयचन्द कोठारी, जोधपुर - मुंबई (५) श्री हसमुखभाई केसरीचंद चूडगर - इन्टास, अमदावाद (६) शेठश्री कांतिलाल लल्लुभाई झवेरी परिवार न जिनशासन सुकृत आधारस्तंभ . (१) श्री कमळाबेन कांतिलाल शाह परिवार ह. बीनाबेन कीर्तिभाई शाह (घाटकोपर-संघाणी) (२) श्री जागृतिबेन कौशिकभाई बावीसी, डालीनी जयकुमार महेता, म्हेंक (प्रेरक : प.पू.आ. श्रीमद्विजय हेमचंद्रसूरीश्वरजी महाराजा) व श्रुतोद्धार मुख्य आधारस्तंभ - (१) श्री माटुंगा श्वेताम्बर मूर्तिपूजक तपागच्छ संघ - मुंबई (२) श्री अठवालाईन्स श्वेतांबर मूर्तिपूजक जैन संघ अने श्री फूलचंद कल्याणचंद झवेरी ट्रस्ट, सुरत. श्री गोवालिया टेन्क जैन संघ - मुंबई श्री नवजीवन श्वेताम्बर मूर्तिपूजक जैन संघ - मुंबई श्री यशोविजय जैन संस्कृत पाठशाला तथा श्री जैन श्रेयस्कर मंडल, महेसाणा श्री दादर जैन पौषधशाला ट्रस्ट संचालित ॐ श्री दादर आराधना भवन जैन श्वे. मू. तपा. संघ श्री मुलुन्ड श्वे. मू. जैन संघ, मुंबई (प्रेरक : प.पू.आ. श्रीमद्विजय हेमचंद्रसूरीश्वरजी महाराजा) श्री शंखेश्वर पार्श्वनाथ श्वे. मू. तपा. जैन संघ, घाटकोपर (ई), मुंबई (प्रेरक : प.पू. गच्छाधिपति आ.श्रीमद्विजय जयघोषसूरीश्वरजी महाराजा) (९) श्री सहसावन कल्याणक भूमि तीर्थोद्धार समिति, जूनागढ (पू.पं. चंद्रशेखर वि. म.ना शिष्य पू. मुनिश्री धर्मरक्षित वि. तथा पू. मुनिश्री हेमवल्लभ वि.नी पंन्यास पदवी निमित्ते.) श्री जवाहरनगर श्वे. मू. जैन संघ, गोरेगाव, मुंबई. (प्रेरक : प्रेम - भुवनभानुसुरि समुदायना राजप्रभावक प.पू.आ.श्री रत्नसुंदरसूरीश्वरजी महाराजा) ल 9 (१०) Page #365 -------------------------------------------------------------------------- ________________ III श्रुतोद्धार आधारस्तंभ श्री के.पी. संघवी चेरिटेबल ट्रस्ट - संचालित श्री पावापुरी तीर्थ जीवमैत्री धाम (प्रेरक: प.पू. आ. श्रीमद्विजय कल्याणबोधिसूरि म.सा. ) श्री हेमचंद्राचार्य जैन ज्ञान मंदिर, पाटण श्री मनफरा श्वेताम्बर मूर्तिपूजक जैन संघ मनफरा (प्रेरक : प.पू. आ. श्रीमद्विजय कलाप्रभसूरीश्वरजी महाराजा) (४) श्री नडियाद श्वेताम्बर मूर्तिपूजक जैन संघ - (५) (६) (७) (१) (२) (३) - नडियाद (प्रेरक : प.पू.आ. श्रीमद्विजय हेमचंद्रसूरीश्वरजी महाराजा) श्री बाबुभाई सी. जरीवाला चेरिटेबल ट्रस्ट, ह. श्री आदिनाथ जैन संघ, वडोदरा (प्रेरक : प.पू. आ. श्रीमद्विजय हेमचंद्रसूरीश्वरजी महाराजा) श्री जैन श्वेताम्बर मूर्तिपूजक संघ, सायन (शिव) मुंबई श्री रिद्धि-सिद्धि वर्धमान हाईट्स श्वे. मू. जैन संघ, भायखला, मुंबई ( प्रेरक : प.पू. मुनिश्री जिनप्रेमवि. म. सा. ) (ट) श्री आदिनाथ सोसायटी जैन टेम्पल ट्रस्ट, पूना ( प्रेरक : प.पू.पं. अपराजित वि. गणिवर्य ) (९) श्री मुलुन्ड श्वे. मू. तपागच्छ समाज, मुंबई (प्रेरक : प.पू.पं. हिरण्यबोधि वि.म.सा., प. पू. मुनिश्री हेमदर्शन वि. म. सा. ) (१०) श्री विक्रोली संभवनाथ जैन श्वे.मू.संघ, विक्रोली (ई.), मुंबई (प्रेरक : प.पू. मुनि यशकल्याण वि.म., प.पू. मुनि तीर्थप्रेम वि.म.) (११) श्री विश्वनंदीकर जैन संघ, भगवान नगरनो टेकरो, अमदावाद (प्रेरक : प.पू. आ. श्रीमद्विजय जगच्चंद्रसूरीश्वरजी म.सा. ) (१२) श्री आदीश्वरजी महाराज मंदिर ट्रस्ट, श्री दशा ओसवाल सिरोहीया साथ गोटीवाला धडा, पूना ( प्रेरक : पू. मुनिश्री अभयरत्न वि. म. सा.) (१३) श्री गोडी पार्श्वनाथजी टेम्पल ट्रस्ट, पूना (प्रेरक : प.पू. आ. श्रीमद्विजय कल्याणबोधिसूरीश्वरजी म.सा. ) (१४) श्री कस्तूरधाम, पालीताणा, प.पू. आ. श्री हेमप्रभसूरीश्वरजी म. सा. नी आचार्यपदवी निमित्ते (प्रेरक : प.पू.पं. श्री वज्रसेन वि. गणिवर्य ) (१५) श्री शाहीबाग गीरधरनगर जैन श्वेताम्बर मूर्तिपूजक संघ, अमदावाद. (प्रेरक : प.पू. आ. श्रीमद्विजय कल्याणबोधिसूरि म.सा. ) (१६) श्री कस्तुरधाम - पालीताणा (प्रेरक : प.पू.पं. श्री भद्रंकरविजयजी शिष्य आ. श्रीकुंदकुंदसूरिशिष्य - प.पू.पं. श्रीवज्रसेनविजयजी म. सा. ) (१७) श्री साबरमती श्वे. मू.जैन संघ, रामनगर, अमदावाद (प्रेरक : : प.पू. आ. श्रीमद्विजय कल्याणबोधिसूरीश्वरजी म.सा. ) (१८) श्री गांधीनगर श्वे. मू. जैन संघ (प्रेरक : प.पू. मुनिश्री अभयरत्न वि.म., मुनिश्री रत्नबोधि वि. म. प.पू. मुनिश्री मुक्तिप्रेम वि. म. ) (१९) श्री भवानीपुर वे.मू. संघ, कलकत्ता (२०) श्री कल्याणजी सौभागचंदजी जैन पेढी, पींडवाडा. (प्रेरक : प.पू. आ. श्री हेमचंद्रसूरीश्वरजी म. प.पू. आ. श्री कल्याणबोधिसूरि म. ) (२१) श्री महेसाणा उपनगर जैन संघ (प्रेरक : प.पू. आ. श्री हेमचंद्रसूरीश्वरजी म. सा.) (२२) श्री पार्श्वनाथ श्वे. मू. जैन संघ, संघाणी, घाटकोपर, मुंबई. (प्रेरक : प.पू. आ. श्री हेमचंद्रसूरीश्वरजी म. प.पू. आ. श्री कल्याणबोधिसूरि म. ) Page #366 -------------------------------------------------------------------------- ________________ क्रम पद्म १ २ ३ ४ ६ ७ ८ ९ १० a a m x I w o van oa x m x z w ११ १३ १४ १९ २० २२ समतासागरपंन्यासश्रीपद्मविजयपुण्यसमृतौ प्राचीन श्रुतसमुद्धारपद्ममालायां प्रकाशितग्रन्थाः (अकारादिक्रमेण ) प्रकाशक : श्री जिनशासन आराधना ट्रस्ट १२ ६३ २३ २४ ४० ४१ २५ १५० २६ १८ १९ १७ २० १८ २१ ४७ ४८ १४७ श्री अध्यात्मसार: ५३ ५४ २१ ४९ ३५ १३८ श्री अनेकान्तव्यवस्थाप्रकरणम् श्री अन्तकृद्दशाङ्गम्-अनुत्तरोपपातिकदशाङ्गम् - विपाकसूत्रम् २७ १५६ श्री अष्टकप्रकरणम् १२९ श्री अष्टसहस्रीतात्पर्यविवरणम् श्री आचाराङ्गदीपिका ( भाग - १) श्री आचाराङ्गसूत्रम् (प्रथमः श्रुतस्कन्धः ) श्री आचाराङ्गसूत्रम् (द्वितीयः श्रुतस्कन्धः ) २०९ श्री आरंभसिद्धिः ६४ ६५ ६६ ग्रन्थ श्री अङ्गचूलिका ( भाग - १ ) श्री अङ्गचूलिका (भाग-२) श्री अध्यात्मकल्पद्रुमः ६७ १३ श्री अनुयोगद्वारसूत्रम् (भाग - १) २२ श्री अनुयोगद्वारसूत्रम् (भाग - २) श्री आवश्यकसूत्रम् ( भाग - १ ) श्री आवश्यकसूत्रम् (भाग - २) श्री आवश्यकसूत्रम् (भाग-३) श्री आवश्यकसूत्रम् ( भाग - ४ ) श्री आवश्यकनिर्युक्तिदीपिका ( भाग - १ ) श्री आवश्यक निर्युक्तिदीपिका (भाग-२) श्री आवश्यक निर्युक्तिदीपिका (भाग-३) श्री आवश्यकसूत्रम् (भाग - १) श्री आवश्यकसूत्रम् (भाग - २) श्री आवश्यकसूत्रम् (भाग-३) श्री उत्तराध्ययनसूत्रम् (भाग - १) श्री उत्तराध्ययनसूत्रम् (भाग - १) मूलकर्ता श्री पूर्वाचार्य श्री पूर्वाचार्य श्री मुनिसुंदरसूरि श्री यशोविजय महो. श्री स्थविरभगवंत श्री स्थविरभगवंत श्री यशोविजय महो. श्री सुधर्मास्वामी श्री हरिभद्रसूरि श्री यशोविजय महो. श्री सुधर्मास्वामी श्री सुधर्मास्वामी श्री सुधर्मास्वामी श्री उदयप्रभसूर श्री सुधर्मास्वामी श्री सुधर्मास्वामी श्री सुधर्मास्वामी श्री सुधर्मास्वामी श्री भद्रबाहु स्वामी श्री भद्रबाहुस्वामी श्री भद्रबाहुस्वामी श्री सुधर्मास्वामी श्री सुधर्मास्वामी श्री सुधर्मास्वामी श्री स्थविरभगवंत श्री स्थविरभगवंत टीकाकार पू. आ. कल्याणबोधिसूरि पू. आ. कल्याणबोधिसूरि पू. धनविजयजी उपा., पू. रत्नचंद्रगणि उपा. पू. गंभीर वि. चूर्णि - पू. जिनदासगणिमहत्तर टीका - पू. आ. हरिभद्रसूरि, पू. आ. मलधारि हेमचन्द्रसूरि चूर्णि - पू. जिनदासगणिमहत्तर टीका - पू. आ. हरिभद्रसूरि, पू. आ. मलधारि हेमचन्द्रसूरि पू. आ. अभयदेवसूरि पू.आ. जिनचंद्रसूरि स्वोपज्ञ पू. आ. अजितदेवसूरि पू. शीलाङ्काचार्य पू. शीलाङ्काचार्य वार्तिक - पू. आ. हरिभद्रसूरि पू. आ. हरिभद्रसूरि पू. हेमहंसगणि पू. आ. हरिभद्रसूरि पू. आ. हरिभद्रसूरि पू. आ. माणिक्यशेखरसूरि पू. आ. माणिक्यशेखरसूरि पू. आ. माणिक्यशेखरसूरि पू. आ. मलयगिरिसूरि पू. आ. मलयगिरिसूरि IV पू. आ. मलयगिरिसूरि पू. भावविजयजी पू. आ. शान्तिसूरि Page #367 -------------------------------------------------------------------------- ________________ मूलकर्ता टीकाकार Vक्रम पद्म ग्रन्थ २७ १४ श्री उत्तराध्ययनसूत्रम् (भाग-२) २३ श्री उत्तराध्ययनसूत्रम् (भाग-२) १५ श्री उत्तराध्ययनसूत्रम् (भाग-३) २४ श्री उत्तराध्ययनसूत्रम् (भाग-३) ३१ १६७ श्री उत्पादादिसिद्धिः १४१ श्री उपदेशपदमहाग्रन्थः (भाग-१) १४२ श्री उपदेशपदमहाग्रन्थः (भाग-२) ११२ श्री उपदेशमाला २१६ श्री उपदेशरत्नाकरः १३७ श्री उपदेशरहस्यम् १३२ श्री उपदेशसप्ततिका २०६ श्री उपमितिसारसमुच्चयः ७ श्री उपासकदशाङ्गसूत्रम् ४० ४३ श्री ऋषिभाषितसूत्रम् (भाग-१) ४४ श्री ऋषिभाषितसूत्रम् (भाग-२) ३१ श्री ओघनियुक्तिः १६ श्री औपपातिकसूत्रम् ४४ १९८ श्री कर्मग्रन्थः (१-४) २१२ श्री कर्मग्रन्थः (५-६) २१४ श्री कर्मग्रंथषट्कावचूरिः १७१ श्री कर्मप्रकृतिः (भाग-१) १७२ श्री कर्मप्रकृतिः (भाग-२) १७३ श्री कर्मप्रकृतिः (भाग-३) ) ७७ श्री कल्पसूत्रप्रदीपिका ३४ श्री कल्पसूत्रम् १३३ श्री क्षपकश्रेणिः ७० श्री गच्छाचारप्रकीर्णकम् ७२ श्री गच्छाचारप्रकीर्णकम् ५५ १६८ श्री गुरुगुणषट्त्रिंशत्षट्त्रिंशिका १३० श्री गौतमीयकाव्यम् १५९ श्री चंद्रकेवलिचरित्रम् ५८ ५९ श्री चंद्रप्रज्ञप्तिः (भाग:-१) ५९ ६० श्री चंद्रप्रज्ञप्तिः (भाग:-१) २०५ श्री चंद्रप्रभचरित्रम् २८ श्री जम्बूद्वीपप्रज्ञप्तिः (भाग-१) २९ श्री जम्बूद्वीपप्रज्ञप्तिः (भाग-२) ११९ श्री जम्बूद्वीपसङ्ग्रहणी+ संसारदावानलस्तुतिः श्री स्थविरभगवंत पू.भावविजयजी श्री स्थविरभगवंत पू.आ.शान्तिसूरि श्री स्थविरभगवंत पू.भावविजयजी श्री स्थविरभगवंत पू.आ.शान्तिसूरि श्री चंद्रसेनसूरि श्री हरिभद्रसूरि पू.आ.मुनिचंद्रसूरि श्री हरिभद्रसूरि पू.आ.मुनिचंद्रसूरि श्री धर्मदासगणि पू.सिद्धर्षिगणि श्री मुनिसुंदरसूरि श्री यशोविजय महो. स्वोपज्ञ श्री सोमधर्मगणि श्री वर्धमानसूरि श्री सुधर्मास्वामी पू.आ.अभयदेवसूरि श्री प्रत्येकबुद्धमहर्षिओ पू.आ.कल्याणबोधिसूरि श्री प्रत्येकबुद्धमहर्षिओ पू.आ.कल्याणबोधिसूरि श्री भद्रबाहुस्वामी पू.द्रोणाचार्यजी श्री स्थविरभगवंत पू.आ.अभयदेवसूरि श्री देवेन्द्रसूरि पू.आ.देवेन्द्रसूरि श्री देवेन्द्रसूरि पू.आ.मलयगिरिसूरि श्री गुणरत्नसूरि श्री शिवशर्मसूरि पू.आ.मलयगिरिसूरि, श्री शिवशर्मसूरि पू.यशोविजय महो. श्री शिवशर्मसूरि श्री भद्रबाहुस्वामी पू.संघविजयगणि श्री भद्रबाहुस्वामी पू.विनयविजय उपा. श्री जयघोष-धर्मानंद-हेमचंद्र वि. सं.पू.रत्नबोधिविजय श्री पूर्वाचार्य पू. वानरर्षि श्री पूर्वाचार्य पू. विमलविजयगणि श्री रत्नशेखरसूरि स्वोपज्ञ श्री रूपचन्द्रगणि पू. क्षमाकल्याणगणि वि. श्री सिद्धर्षि श्री स्थविरभगवंत पू.आ.मलयगिरिसूरि श्री स्थविरभगवंत पू.आ.मलयगिरिसूरि श्री देवेन्द्रसूरि श्री स्थविरभगवंत पू.शान्तिचंद्रजी महो. श्री स्थविरभगवंत पू.शान्तिचंद्रजी महो. श्री हरिभद्रसूरि पू.आ.प्रभानंदसूरि, पू.आ.ज्ञानविमलसूरि Page #368 -------------------------------------------------------------------------- ________________ क्रम पग ग्रन्थ मूलकर्ता टीकाकार ६४ १६९ श्री जम्बूस्वामी चरित्रम् श्री जयशेखरसूरि ६५ १७० श्री जयानंदकेवलीचरित्रम् श्री पद्मविजयगणि ६६ ३ श्री जीवाजीवाभिगमसूत्रम् (भाग-१) श्री स्थविरभगवंत पू.आ.मलयगिरिसूरि ६७ ४ श्री जीवाजीवाभिगमसूत्रम् (भाग-२) श्री स्थविरभगवंत पू.आ.मलयगिरिसूरि ६८ ६ श्री ज्ञाताधर्मकथाङ्गसूत्रम् श्री सुधर्मास्वामी पू.आ.अभयदेवसूरि ६९ २२० श्री ज्ञानसारः श्री यशोविजयजी महो. पू.देवचंद्र उपा. ७० २०४ श्री ज्ञानार्णवम्-ज्ञानबिंदुः श्री यशोविजयजी महो. स्वोपज्ञ ७१ ७६ श्री ज्योतिषकरण्डकम् श्री पादलिप्तसूरि ७२ ७५ श्री तंदुलवैचारिकसूत्रम्+चतुःशरणप्रकीर्णकम् श्री पूर्वाचार्य, श्री वीरभद्रमुनि अव.-पू.विजयविमलमुनि ७३ १२३ श्री तत्त्वार्थसूत्रम् श्री उमास्वाति म. पू.आ. हरिभद्रसूरि ७४ ११८ श्री तत्त्वार्थसूत्रम् (प्रथमोऽध्यायः) श्री उमास्वाति म. पू.यशोविजय महो. ७५ १ श्री दशवैकालिकसूत्रम् श्री शय्यंभवसूरि पू.आ.हरिभद्रसूरि ७६ ५२ श्री दशवैकालिकसूत्रम् श्री शय्यंभवसूरि पू. समयसुंदरगणि उपा. ७७ १७४ श्री दर्शनरत्नरत्नाकरः (भाग-१) श्री सिद्धान्तसारविजय १७५ श्री दर्शनरत्नरत्नाकरः (भाग-२) श्री सिद्धान्तसारविजय १७६ श्री दर्शनरत्नरत्नाकरः (भाग-३) श्री सिद्धान्तसारविजय ८० १११ श्री द्वात्रिंशत् द्वात्रिंशिका (पूर्वार्धः) श्री यशोविजय महो. पू.यशोविजय महो. ८१ ११३ श्री द्वात्रिंशत् द्वात्रिंशिका (उत्तरार्धः) श्री यशोविजय महो. पू.यशोविजय महो. ८२ २१९ श्री धन्यचरित्रम् श्री ज्ञानसागरगणिशिष्य १८३ श्री धर्मपरीक्षा श्री यशोविजय महो. ११४ श्री धर्मबिन्दुप्रकरणम् श्री हरिभद्रसूरि पू.आ.मुनिचन्द्रसूरि ८५ १८५ श्री धर्मरत्नप्रकरणम् (भाग-१) श्री शान्तिसूरि पू.आ.देवेन्द्रसूरि ८३ १८६ श्री धर्मरत्नप्रकरणम् (भाग-२) श्री शान्तिसूरि पू.आ.देवेन्द्रसूरि १८२ श्री धर्मविधिप्रकरणम् श्री प्रभसूरि ८८ १२७ श्री धर्मसङ्ग्रहः (भाग-१) श्री मानविजय उपा. स्वोपज्ञ ८९ १२८ श्री धर्मसङ्ग्रहः (भाग-२) श्री मानविजय उपा. स्वोपज्ञ १५३ श्री धर्मसङ्ग्रहणिः श्री हरिभद्रसूरि पू.आ.मलयगिरिसूरि ९१ ५० श्री नन्दीसूत्रम् श्री देववाचकगणि पू.आ.मलयगिरिसूरि ९२ ५७ श्री नन्दीसूत्रम् (टीकाचूर्णिः) श्री देववाचकगणि चू.-पू.जिनदासगणि,टी. -पू.हरिभद्रसूरि ९३ २५ श्री नन्दीसूत्रम् (मूलम्) श्री देववाचकगणि ९४ ११६ श्री नमस्कारस्वाध्यायः (प्राकृत) श्री पूर्वाचार्यो सं.-पू.तत्त्वानंद वि.म. ९५ ११५ श्री नमस्कारस्वाध्यायः (संस्कृत) श्री पूर्वाचार्यो सं.-पू.तत्त्वानंद वि.म. ९६ १४८ श्री नयरहस्यम् + मार्गपरिशुद्धिः श्री यशोविजय महो. १४४ श्री नयोपदेशः श्री यशोविजय महो. स्वोपज्ञ ३२ श्री निरयावलिका श्री स्थविरभगवंत पू.आ.चन्द्रसूरि निक्षेपविंशिका पू.आ.अभयशेखरसूरि दिव्यदर्शन प्रकाशित Page #369 -------------------------------------------------------------------------- ________________ मूलकर्ता VII क्रम पग्र ग्रन्थ टीकाकार ९९ १३१ श्री नेमिनिर्वाण: कवि वाग्भट्ट सं.-काशीनाथ वर्मा, शिवदत्त शर्मा १०० १०६ श्री न्यायप्रवेशः बौद्धाचार्य दिङ्नाग पू.आ.हरिभद्रसूरि १०१ १५७ श्री न्यायालोकः श्री यशोविजय महो. १०२ १४० श्री पंचवस्तुकप्रकरणम् श्री हरिभद्रसूरि स्वोपज्ञ १०३ २०० श्री पंचसूत्रम् श्री चिरंतनाचार्य पू.आ.हरिभद्रसूरि १०४ १६२ श्री पउमचरियं (भाग:-१) श्री विमलसूरि संस्कृत छायाकार-पू.पार्श्वरत्नविजय १०५ १६३ श्री पउमचरियं (भागः-२) श्री विमलसूरि संस्कृत छायाकार-पू.पार्श्वरत्नविजय १०६ १६४ श्री पउमचरियं (भागः-३) श्री विमलसूरि संस्कृत छायाकार-पू.पार्श्वरत्नविजय १०७ ६८ श्री पञ्चनिर्ग्रन्थी+प्रज्ञापनातृतीयपदसङ्ग्रहणी श्री अभयदेवसूरि पू.आ.अभयदेवसूरि १०८ १६५ श्री पञ्चसंङ्ग्रहः (भाग:-१) श्री चन्द्रमहर्षि स्वोपज्ञ, पू.आ.मलयगिरिसूरि १०९ १६६ श्री पञ्चसंग्रहः (भाग:-२) श्री चन्द्रमहर्षि स्वोपज्ञ, पू.आ.मलयगिरिसूरि ११० १२६ श्री पञ्चाशकप्रकरणम् श्री हरिभद्रसूरि पू.आ. अभयेदवसूरि म. १११ १३९ श्री परिणाममाला श्री सिद्धर्षिगणि स्वोपज्ञ ११२ १८४ श्री पाक्षिकसूत्रम् श्री गणधरभगवंत पू.आ.यशोदेवसूरि ११३ १९३ श्री पाण्डवचरित्रमहाकाव्यम् (भाग-१) श्री देवप्रभसूरि ११४ १९४ श्री पाण्डवचरित्रमहाकाव्यम् (भाग-२) श्री देवप्रभसूरि ११५ १९७ श्री पार्श्वनाथचरित्रम् श्री उदयवीरगणि ११६ २११ श्री पार्श्वनाथचरित्रम् श्री भावदेवसूरि ११७ ५ श्री पिण्डनियुक्तिः श्री भद्रबाहुस्वामी पू.आ.मलयगिरिसूरि ११८ १८७ श्री पुष्पमाला श्री मलधारि हेमचंद्रसूरि स्वोपज्ञ ११९ ३३ श्री प्रकीर्णकसूत्राणि श्री पूर्वाचार्यो १२० ८ श्री प्रज्ञापनासूत्रम् (भाग-१) श्री श्यामाचार्य पू.आ.मलयगिरिसूरि १२१ ४५ श्री प्रज्ञापनासूत्रम् (भाग-१) श्री श्यामाचार्य पू.आ. हरिभद्रसूरि १२२ ९ श्री प्रज्ञापनासूत्रम् (भाग-२) श्री श्यामाचार्य पू.आ.मलयगिरिसूरि १२३ ४६ श्री प्रज्ञापनासूत्रम् (भाग-२) श्री श्यामाचार्य पू.आ. हरिभद्रसूरि १२४ २०३ श्री प्रतिक्रमणसूत्रपदविवृत्तिः १२५ १३६ श्री प्रतिमाशतकम् श्री यशोविजय महो. स्वोपज्ञ १२६ १२२ श्री प्रमाणमीमांसा श्री कलिकालसर्वज्ञ हेमचन्द्रसूरि स्वोपज्ञ १२७ १९५ श्री प्रवचनसारोद्धारः (भाग-१) श्री नेमिचंद्रसूरि १२८ १९६ श्री प्रवचनसारोद्धारः (भाग-२) श्री नेमिचंद्रसूरि १२९ १६१ श्री प्रव्रज्याविधानकुलकम् श्री पूर्वाचार्य पू.आ.प्रद्युम्नसूरि १३० १५५ श्री प्रशमरतिप्रकरणम् श्री उमास्वाति म. पू.आ.हरिभद्रसूरि १३१ २ श्री प्रश्नव्याकरणसूत्रम् श्री सुधर्मास्वामी पू.आ.अभयदेवसूरि १३२ ५१ श्री प्रश्नव्याकरणसूत्रम् श्री सुधर्मास्वामी पू.आ.ज्ञानविमलसूरि १३३ २१३ श्री बंधशतकचूर्णिः श्री चिरंतनाचार्य टि-पू.आ.मुनिचंद्रसूरि, पू.आ.उदयप्रभसूरि १३४ १९९ श्री बंधशतकलघुभाष्यम् सटीकम् श्री शिवशर्मसूरि भा.-पू.चक्रेश्वरसूरि, टी.-पू. हेमचंद्रसूरि Page #370 -------------------------------------------------------------------------- ________________ VIII क्रम पद्म ग्रन्थ मूलकर्ता टीकाकार पू.आ.मलयगिरिसूरि पू.आ.मलयगिरिसूरि चूर्णि-पू.मतिसागरजी स्वोपज्ञ स्वोपज्ञ स्वोपज्ञ पू.आ.मलयगिरिसूरि पू.आ.मलयगिरिसूरि १३५ १७८ श्री बन्धहेतूदयत्रिभङ्गीप्रकरणम् १३६ २२१ श्री बृहत्क्षेत्रसमासः १३७ २१८ श्री बृहत्संग्रहणी १३८ १३४ श्री भवभावना (भाग-१) १३९ १३५ श्री भवभावना (भाग-२) १४० १५८ श्री महावीरचरियम् १४१ २२३ श्री मुनिसुव्रतस्वामिचरित्रम् १४२ २०८ श्री यतिदिनचर्या १४३ १०१ श्री योगशास्त्रम् (भाग-१) १४४ १०२ श्री योगशास्त्रम् (भाग-२) १४५ १०३ श्री योगशास्त्रम् (भाग-३) १४६ १७ श्री राजप्रश्नीयसूत्रम् १४७ १५१ श्री ललितविस्तरा+हिंसाष्टकम् १४८ १०७ श्री लोकप्रकाशः (भाग-१) १४९ १०८ श्री लोकप्रकाशः (भाग-२) १५० १०९ श्री लोकप्रकाशः (भाग-३) १५१ ११० श्री लोकप्रकाशः (भाग-४) १५२ ४२ श्री वर्गचूलिका १५३ २२२ श्री वर्धमानदेशना १५४ २०७ श्री वस्तुपालचरित्रम् १५५ ७३ श्री विशेषावश्यकभाष्यः (भाग-१) १५६ ७४ श्री विशेषावश्यकभाष्यः (भाग-२) १५७ १५२ श्री विंशतिविंशिका १५८ १७७ श्री वैराग्यकल्पलता १५९ १० श्री व्याख्याप्रज्ञप्तिसूत्रम् (भाग-१) १६० ११ श्री व्याख्याप्रज्ञप्तिसूत्रम् (भाग-२) १६१ १२ श्री व्याख्याप्रज्ञप्तिसूत्रम् (भाग-३) १६२ १४३ श्री शांतसुधारसः १६३ २१० श्री श्राद्धदिनकृत्यम् १६४ १९१ श्री श्राद्धप्रतिक्रमणसूत्रम् १६५ १९२ श्री श्राद्धप्रतिक्रमणसूत्रम् १६६ १२४ श्री श्रावकधर्मविधिप्रकरणम् १६७ १२० श्री षोडशकप्रकरणम् श्री हर्षकुलगणि श्री जिनभद्रगणिक्षमाश्रमण श्री जिनभद्रगणिक्षमाश्रमण श्री मलधारि हेमचन्द्रसूरि श्री मलधारि हेमचन्द्रसूरि श्री नेमिचन्द्रसूरि श्री विनयचंद्रसूरि श्री भावदेवसूरि श्री कलिकालसर्वज्ञ हेमचंद्रसूरि श्री कलिकालसर्वज्ञ हेमचंद्रसूरि श्री कलिकालसर्वज्ञ हेमचंद्रसूरि श्री स्थविरभगवंत श्री हरिभद्रसूरि श्री विनयविजयजी उपा. श्री विनयविजयजी उपा. श्री विनयविजयजी उपा. श्री विनयविजयजी उपा. श्री पूर्वाचार्य श्री राजकीर्तिगणि श्री जिनहर्षगणि श्री जिनभद्रगणिक्षमाश्रमण श्री जिनभद्रगणिक्षमाश्रमण श्री हरिभद्रसूरि श्री यशोविजय महो. श्री सुधर्मास्वामी श्री सुधर्मास्वामी श्री सुधर्मास्वामी श्री विनयविजयजी श्री देवेन्द्रसूरि पू.आ.कल्याणबोधिसूरि पू. मलधारि हेमचन्द्रसूरि पू. मलधारि हेमचन्द्रसूरि पू.आ.अभयदेवसूरि पू.आ.अभयदेवसूरि पू.आ.अभयदेवसूरि पू.गंभीरविजय स्वोपज्ञ पू.आ.रत्नशेखरसूरि पू.आ.चन्द्रसूरि पू.आ.मानदेवसूरि पू.आ.यशोभद्रसूरि, श्री हरिभद्रसूरि श्री हरिभद्रसूरि पू.यशोविजय महो. श्री जिनचंद्रसूरि श्री जिनचंद्रसूरि श्री अभयदेवसूरि १६८ २०१ श्री संवेगरङ्गशाला (भाग-१) १६९ २०२ श्री संवेगरङ्गशाला (भाग-२) १७० १४९ श्री सप्ततिकाभाष्यम् पू.मेरुतुङ्गाचार्य Page #371 -------------------------------------------------------------------------- ________________ IX क्रम पन ग्रन्थ मूलका टीकाकार पू.आ.अभयदेवसूरि पू. संघतिलकाचार्य १७१ १४५ श्री समराइच्चकहा (भाग:-१) १७२ १४६ श्री समराइच्चकहा (भाग-२) १७३ २६ श्री समवायाङ्गसूत्रम् १७४ १७९ श्री सम्यक्त्वकौमुदिः १७५ १२५ श्री सम्यक्त्वसप्ततिः १७६ १८१ श्री सामाचारी १७७ १२१ श्री सामाचारी-आराधकविराधकचतुर्भङ्गी १७८ १८० श्री सामाचारीप्रकरणम् १७९ १६० श्री सिद्धप्राभृतः १८० २१७ श्री सिरिवालकहा १८१ १८८ श्री सुपार्श्वनाथचरित्रम् (भाग-१) १८२ १८९ श्री सुपार्श्वनाथचरित्रम् (भाग-२) १८३ ७१ श्री सूत्रकृताङ्गचूर्णिः १८४ ३९ श्री सूत्रकृताङ्गदीपिका (भाग-२) १८५ ५५ श्री सूत्रकृताङ्गदीपिका (भाग-१) १८६ ५६ श्री सूत्रकृताङ्गदीपिका (भाग-२) १८७ ६१ श्री सूत्रकृताङ्गम् (भाग-१) १८८ ६२ श्री सूत्रकृताङ्गम् (भाग-२) १८९ ३० श्री सूर्यप्रज्ञप्तिः १९० ११७ श्री सेनप्रश्न: १९१ ६९ श्री स्थानाङ्गदीपिका (भाग-१) १९२ ३६ श्री स्थानाङ्गसूत्रम् (भाग-१) १९३ ३७ श्री स्थानाङ्गसूत्रम् (भाग-२) १९४ ३८ श्री स्थानाङ्गसूत्रम् (भाग-३) १९५ ५८ श्री हारिभद्रीयावश्यकवृत्तिटिप्पनकम् १९६ १५४ श्री हीरप्रश्न: १९७ १०४ श्री हेमप्रकाशमहाव्याकरणम् (भाग-१) १९८ १०५ श्री हेमप्रकाशमहाव्याकरणम् (भाग-२) श्री हरिभद्रसूरि श्री हरिभद्रसूरि श्री सुधर्मास्वामी श्री जिनहर्षगणि श्री हरिभद्रसूरि श्री पूर्वाचार्य श्री यशोविजय महो. श्री तिलकाचार्य श्री पूर्वाचार्य श्री रत्नशेखरसूरि श्री लक्षमणविजय श्री लक्षमणविजय श्री सुधर्मास्वामी श्री सुधर्मास्वामी श्री सुधर्मास्वामी श्री सुधर्मास्वामी श्री सुधर्मास्वामी श्री सुधर्मास्वामी श्री स्थविरभगवंत श्री सेनसूरि श्री सुधर्मास्वामी श्री सुधर्मास्वामी श्री सुधर्मास्वामी श्री सुधर्मास्वामी श्री मलधारि हेमचंद्रसूरि श्री हीरसूरि श्री विनयविजयजी उपा. श्री विनयविजयजी उपा. चू.-पू. जिनदासगणिमहत्तर पू. हर्षकुलगणि दी.-पू.साधुरङ्गगणि दी.-पू.साधुरङ्गगणि पू. शीलाङ्काचार्य पू. शीलाङ्काचार्य पू.आ. मलयगिरिसूरि सङ्कलन-पू.शुभविजयगणि पू. नगर्षिगणि पू.आ.अभयदेवसूरि पू.आ.अभयदेवसूरि पू.आ.अभयदेवसूरि सङ्कलन-पू.कीर्त्तिविजयगणि स्वोपज्ञ स्वोपज्ञ Page #372 -------------------------------------------------------------------------- _