________________
४५५
पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः । निक्षिपतो वा ४, अणवकंखवत्तिया इह-परलोकापायानपेक्षस्येति ५।
पेजवत्तिया रागप्रत्यया १, दोसवत्तिया द्वेषप्रत्यया २, प्रयोगक्रिया कायादिव्यापारा: ३, समुदानक्रिया कम्र्मोपादानम् ४, ईरियावहिया योगप्रत्ययो बन्ध: ५। एवं मणुस्साण वि, सेसाणं नत्थि ५ । इदं च प्रेमादिक्रियापञ्चकं सामान्यपदे, चतुर्विंशतिदण्डके तु मनुष्यपद एव सम्भवति, ईर्यापथक्रियाया उपशान्तमोहादित्रयस्यैव भावादित्याह एवमित्यादि । इहैकेन्द्रियादीनामविशेषेण क्रियोक्ता, सा च पूर्वभवापेक्षया सर्वापि सम्भवतीति भावनीयम्, द्विस्थानके द्वित्वेन क्रियाप्रकरणमुक्तमिह तु पञ्चकत्वेन नारकादिचतुर्विंशतिदण्डकाश्रयेण चेति विशेष:, क्रियाणां च विस्तरव्याख्यानं द्विस्थानकप्रथमोद्देशकाद् वाच्यमिति ।
[सू० ४२०] पंचविधा परिन्ना पन्नत्ता, तंजहा- उवहिपरिन्ना, उवस्सयपरिन्ना, कसायपरिन्ना, जोगपरिन्ना, भत्तपाणपरिन्ना ।
[टी०] अनन्तरं कर्मणो बन्धनिबन्धनभूताः क्रिया उक्ताः, अधुना तस्यैव निर्जरोपायभूतां परिज्ञामाह-पंचविहेत्यादि सुगमम्, नवरं परिज्ञानं परिज्ञा वस्तुस्वरूपस्य ज्ञानं तत्पूर्वकं प्रत्याख्यानं च, इयं च द्रव्यतो भावतश्च, तत्र द्रव्यतोऽनुपयुक्तस्य भावतस्तूपयुक्तस्येति, आह च- भावपरिन्ना जाणण पच्चक्खाणं च भावेणं [आचाराङ्गनि० ३७] ति, तत्रोपधी रजोहरणादिः, तस्यातिरिक्तस्याशुद्धस्य सर्वस्य वा परिज्ञा उपधिपरिज्ञा, एवं शेषपदान्यपि, नवरमुपाश्रीयते सेव्यते संयमात्मपालनायेत्युपाश्रयः ।
[सू० ४२१] पंचविधे ववहारे पन्नत्ते, तंजहा- आगमे, सुते, आणा, धारणा, जीते। जहा से तत्थ आगमे सिता आगमेणं ववहारं पट्ठवेज्जा १, णो से तत्थ आगमे सिया, जहा से तत्थ सुते सिता सुतेणं ववहारं पट्ठवेजा २, णो से तत्थ सुते सिता एवं जाव जधा से तत्थ जीते सिता जीतेणं ववहारं पट्टवेजा ५, इच्चेतेहिं पंचहिं ववहारं पट्ठवेजा, तंजहा- आगमेणं जाव जीतेणं। जधा जधा से तत्थ आगमे जाव जीते तहा तहा ववहारं पट्टवेजा। से किमाहु भंते ? आगमबलिया समणा निग्गंथा । इच्चेतं पंचविधं ववहारं जता जता जहिं जहिं तता तता तहिं तहिं अणिस्सितोवस्सितं सम्म