________________
४५६
ववहरमाणे समणे णिग्गंथे आणाते आराधते भवति ।
[टी०] परिज्ञा च व्यवहारवतां भवतीति व्यवहारं प्ररूपयन्नाह– पंचेत्यादि, व्यवहरणं व्यवहारः, व्यवहारो मुमुक्षुप्रवृत्ति-निवृत्तिरूपः, इह तु तन्निबन्धनत्वात् ज्ञानविशेषोऽपि व्यवहारः, तत्र आगम्यन्ते परिच्छिद्यन्ते अर्था अनेनेत्यागम: केवल-मन:पर्यायाऽवधि-पूर्वचतुर्दशक-दशक-नवकरूप: १, तथा शेषं श्रुतम् आचारप्रकल्पादि श्रुतम्, नवादिपूर्वाणां श्रुतत्वेऽप्यतीन्द्रियार्थज्ञानहेतुत्वेन सातिशयत्वादागमव्यपदेश: केवलवदिति २, यदगीतार्थस्य पुरतो गूढार्थपदैर्देशान्तरस्थगीतार्थनिवेदनायातिचारालोचनमितरस्यापि तथैव शुद्धिदानं साऽऽज्ञा ३, गीतार्थसंविग्नेन द्रव्याद्यपेक्षया यत्रापराधे यथा या विशुद्धिः कृता तामवधार्य यदन्यस्तत्रैव तथैव तामेव प्रयुङ्क्ते सा धारणा, वैयावृत्यकरादेर्वा गच्छोपग्रहकारिणोऽशेषानुचितस्योचितप्रायश्चित्तपदानां प्रदर्शितानां धरणं धारणेति ४, तथा द्रव्य-क्षेत्र-काल-भाव-पुरुषप्रतिषेवानुवृत्त्या संहनन-धृत्यादिपरिहाणिमपेक्ष्य यत् प्रायश्चित्तदानं यो वा यत्र गच्छे सूत्रातिरिक्त: कारणत: प्रायश्चित्तव्यवहारः प्रवर्तितो बहुभिरन्यैश्चानुवर्त्तितस्तजीतमिति, अत्र गाथा:- इत्यादि वृत्तौ।
[जीतम् आचरितम्, इदं चास्य लक्षणम्असढेण समाइन्नं जं कत्थइ केणई असावजं । न निवारियमन्नेहिं बहुमणुमयमेयमायरियं ॥ [बृहत्कल्प० ४४९९] इति ।]
आगमादीनां व्यापारणे उत्सर्गा-ऽपवादावाह- यथेति यत्प्रकार: केवलादीनामन्यतमः से तस्य व्यवहर्तुः स वा उक्तलक्षणः, तत्र तेषु पञ्चसु व्यवहारेषु मध्ये तस्मिन् वा प्रायश्चित्तदानादिव्यवहारकाले व्यवहर्त्तव्ये वा वस्तुनि विषये आगम: केवलादिः स्याद् भवेत्, तादृशेनेति शेष:, आगमेन व्यवहारं प्रायश्चित्तदानादिकं प्रस्थापयेत् प्रवर्त्तयेत्, न शेषैः, आगमेऽपि षड्विधे केवलेनावन्ध्यबोधत्वात् तस्य, एतदभावे च मन:पर्यायेण, एवं प्रधानतराभावे इतरेणेति, अथ नो नैव से तस्य स वा तत्र व्यवहर्त्तव्यादावागमः स्यात् यथा यत्प्रकारं तत्र श्रुतं स्यात् तादृशेन श्रुतेन व्यवहारं प्रस्थापयेदिति । इच्चेएहिं इत्यादि निगमनं सामान्येनेति, यथा यथाऽसौ तत्रागमादि स्यात्तथा तथा व्यवहारं प्रस्थापयेदिति तु विशेषनिगमनम् इति । एतैर्व्यवहर्तुः प्रश्नद्वारेण फलमाह