________________
पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः ।
४५७
से किमित्यादि, अथ किं हे भदन्त ! भट्टारक ! आहुः प्रतिपादयन्ति, के ? आगमबलिका उक्तज्ञानविशेषबलवन्त: श्रमणा निर्ग्रन्थाः केवलिप्रभृतयः, इच्चेयं ति इत्येतद्वक्ष्यमाणम्, अथवा किं तदित्याह- इत्येतम्, इति उक्तरूपम् एतं प्रत्यक्षम्, कम्, पञ्चविधं व्यवहारं प्रायश्चित्तदानादिरूपं सम्मं ववहरमाणे त्ति सम्बध्यते व्यवहरन् प्रवर्त्तयन्नित्यर्थः कथम्? सम्मं ति सम्यक्, तदेव कथमित्याह- यदा यदा यस्मिन् यस्मिन्नवसरे यत्र यत्र प्रयोजने क्षेत्रे वा, यो य: उचितस्तमिति शेष: तदा तदा काले तस्मिंस्तस्मिन् प्रयोजनादौ, कथंभूतमित्याह- अनिश्रितैः सर्वाशंसारहितैरुपाश्रित: अङ्गीकृतोऽनिश्रितोपाश्रितस्तम्, अथवा निश्रितश्च शिष्यत्वादि प्रतिपन्न: उपाश्रितश्च स एव वैयावृत्यकरत्वादिना प्रत्यासन्नतरस्तौ, उपाश्रितं च शिष्य-प्रतीच्छककुलाद्यपेक्षा, ते न स्तो यत्र तत्तथेति क्रियाविशेषणम्, सर्वथा पक्षपातवर्जितत्वेन यथावदित्यर्थः, इह पूज्यव्याख्या
रागो उ होइ निस्सा उवस्सिओ दोससंजुत्तो ॥ [अहवण आहाराई दाही मज्झं तु एस निस्सा उ । सीसो पडिच्छओ वा होइ उवस्सा कुलाईया ॥ [ ] इति,] आज्ञाया जिनोपदेशस्याराधको भवतीति हन्त आहुरेवेति गुरुवचनं गम्यमिति । [सू० ४२२] संजतमणुस्साणं सुत्ताणं पंच जागरा पन्नत्ता, तंजहा- सद्दा जाव फासा १॥
संजतमणुस्साणं जागराणं पंच सुत्ता पन्नत्ता, तंजहा- सद्दा जाव फासा।
असंजयमणुस्साणं सुत्ताणं वा जागराणं वा पंच जागरा पन्नत्ता, तंजहासद्दा जाव फासा ।
[टी०] श्रमणप्रस्तावात् तद्व्यतिकरमेव सूत्रद्वयेनाह- संजयेत्यादि व्यक्तम्, नवरं संयतमनुष्याणां साधूनां सुप्तानां निद्रावतां जाग्रतीति जागरा: असुप्ता जागरा इव जागरा:, इयमत्र भावना- शब्दादयो हि सुप्तानां संयतानां जाग्रद्वह्निवदप्रतिहतशक्तयो भवन्ति, कर्मबन्धाभावकारणस्याप्रमादस्य तदानीं तेषामभावात्, कर्मबन्धकारणं भवन्तीत्यर्थः । द्वितीयसूत्रभावना तु जागराणां शब्दादय: सुप्ता इव सुप्ता: भस्मच्छन्नाग्निवत्