________________
४५८
प्रतिहतशक्तयो भवन्ति, कर्मबन्धकारणस्य प्रमादस्य तदानीं तेषामभावात्, कर्मबन्धकारणं न भवन्तीत्यर्थः । संयतविपरीता ह्यसंयता इति तानधिकृत्याहअसंजयेत्यादि व्यक्तम्, नवरमसंयतानां प्रमादितया अवस्थाद्वयेऽपि कर्मबन्धकारणतया अप्रतिहतशक्तित्वाच्छब्दादयो जागरा इव जागरा भवन्तीति भावना ।
[सू० ४२३] पंचहिं ठाणेहिं जीवा रतं आदियंति, तंजहा- पाणातिवातेणं जाव परिग्गहेणं १॥ ___ पंचहिं ठाणेहिं जीवा रतं वमंति, तंजहा- पाणातिवातवेरमणेणं जाव परिग्गहवेरमणेणं । ___ [टी०] संयतासंयताधिकारात् तद्व्यतिकराभिधायि सूत्रद्वयं सुगमम्, नवरं जीव त्ति असंयतजीवा: रयं ति जीवस्वरूपोपरञ्जनाद्रज इव रज: कर्म आइयंति त्ति आददति गृह्णन्ति बध्नन्तीत्यर्थः, जीव त्ति संयतजीवा: वमंति त्ति त्यजन्ति क्षपयन्तीत्यर्थः ।
[सू० ४२४] पंचमासियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स कप्पंति पंच दत्तीओ भोयणस्स पडिगाहेत्तते, पंच पाणगस्स ।
[सू० ४२५] पंचविधे उवघाते पन्नत्ते, तंजहा- उग्गमोवघाते, उप्पायणोवघाते, एसणोवघाते, परिकम्मोवघाते, परिहरणोवघाते । पंचविधा विसोधी पन्नत्ता, तंजहा- उग्गमविसोधी, उप्पायणविसोधी, एसणाविसोधी, परिकम्मणविसोधी, परिहरणाविसोधी ।
[टी०] संयताधिकारादेवापरं सूत्रद्वयं पंचमासिएत्यादि व्यक्तम्, नवरम् उपघात: अशुद्धता, उद्गमोपघात: उद्गमदोषैराधाकर्मादिभिः षोडशप्रकारैर्भक्त-पानो-पकरणाऽऽलयानामशुद्धता, एवं सर्वत्र, नवरम् उत्पादनया उत्पादनादोषैः षोडशभि: धात्र्यादिभिः, एषणया तद्दोषैर्दशभिः शङ्कितादिभिरिति, परिकर्म वस्त्रपात्रादे: छेदन-सीवनादि, तेन तस्योपघात: अकल्प्यता, तत्र वस्त्रस्य परिकर्मोपघाता यथातिण्ह परि फालियाणं वत्थं जो फालियं तु संसीवे । पंचण्हं एगतरं ऊर्णिकाद्यन्यतरत् सो पावइ आणमाईणि॥ [निशीथभा० ७८७] । तथा पात्रस्य