________________
पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः ।
४५९
अवलक्खणेगबंधे दुगतिगअइरेगबंधणं वा वि । जो पायं परियदृइ परिभुङ्क्ते परं दिवड्डाओ मासाओ ॥ [निशीथभा० ७५०] स आज्ञादीनाप्नोतीति । तथा वसते:दूमिय धूमिय वासिय उज्जोइय बलिकडा अवत्ता य । सित्ता संमट्ठा वि य विसोहिकोडिं गया वसही ॥ [निशीथभा० २०४८] इति
दूमिता धवलिता, बलिकृता कूरादिना, अव्यक्ता छगणादिना लिप्ता, संमृष्टा सम्मार्जितेत्यर्थः। तथा परिहरणा आसेवा तयोपध्यादेरकल्प्यता, तत्रोपधेर्यथा एकाकिना हिण्डकसाधुना यदासेवितमुपकरणं तदुपहतं भवतीति समयव्यवस्था, जग्गण अप्पडिबज्झण जइ वि चिरेणं न उवहम्मे [ ] इति वचनाद्, अस्य चायमर्थ:- एकाकी गच्छभ्रष्टो यदि जागर्ति दुग्धादिषु च न प्रतिबध्यते तदा यद्यप्यसौ गच्छे चिरेणागच्छति तथाप्युपधिर्नोपहन्यते अन्यथा तूपहन्यत इति । वसतेरपि मास-चतुर्मासयोरुपरि कालातिक्रान्तेति तथा मासद्वयं चतुर्मासद्वयं चावर्जयित्वा पुनस्तत्रैव वसतामुपस्थानेति च तदोषाभिधानात् ।
तथा भक्तस्यापि पारिष्ठापनिकाकारं प्रत्यकल्प्यता, तदुक्तम्विहिगहियं विहिभुत्तं अइरेगं भत्तपाण भोत्तव्वं । विहिगहिए विहिभुत्ते एत्थ य चउरो भवे भंगा ॥ [ओघनि० ५९२] अहवा वि य विहिगहियं विहिभुत्तं तं गुरूहऽणुन्नायं । सेसा नाणुन्नाया गहणे दिने व निजुहणा ॥ [
] इति । उद्गमादिभिरेव भक्तादीनां कल्प्यता: विशुद्धय इति । [सू० ४२६] पंचहिं ठाणेहिं जीवा दुल्लभबोधियत्ताए कम्मं पगरेंति, तंजहाअरहंताणं अवन्नं वदमाणे, अरहंतपन्नत्तस्स धम्मस्स अवन्नं वदमाणे, आयरियउवज्झायाणं अवन्नं वदमाणे, चाउवण्णस्स संघस्स अवन्नं वयमाणे, विवक्कतवबंभचेराणं देवाणं अवन्नं वदमाणे १॥
पंचहिं ठाणेहिं जीवा सुलभबोधियत्ताए कम्मं पगरेंति, तंजहा- अरहंताणं वन्नं वदमाणे जाव विवक्कतवबंभचेराणं देवाणं वन्नं वदमाणे २॥ [टी०] उपघात-विशुद्धिवृत्तयश्च जीवा निर्द्धर्म-धार्मिकत्वाभ्यां बोधेरलाभ