________________
४६०
लाभस्थानेषु वर्त्तन्त इति तत्प्रतिपादनाय सूत्रद्वयम्- पंचहीत्यादि सुगमम्, नवरं दुर्लभा बोधि: जिनधर्मो यस्य स तथा, तद्भावस्तत्ता, तया दुर्लभबोधिकतया तस्यै वा कर्म मोहनीयादि प्रकुर्वन्ति बध्नन्ति, अर्हतामवर्णम् अश्लाघां वदन्, यथा
नत्थी अरहंतत्ती जाणं वा कीस भुंजए भोए ?। ... पाहड़ियं तुवजीवइ समवसरणादिरूपाम् एमाइ जिणाण उ अवन्नो ॥ इत्यादि। तथा अर्हत्प्रज्ञप्तस्य धर्मस्य श्रुत-चारित्ररूपस्य प्राकृतभाषानिबद्धमेतत्, तथा किं चारित्रेण ? दानमेव श्रेय इत्यादिकमवर्णं वदन्, उत्तरं चात्र प्राकृतभाषात्वं श्रुतस्य न दुष्टं बालादीनां सुखाध्येयत्वेनोपकारित्वात्, तथा चारित्रमेव श्रेयो निर्वाणस्यानन्तरहेतुत्वादिति । आचार्योपाध्यायानामवर्णं वदन् यथा बालोऽयमित्यादि, [न च बालत्वादिर्दोषो बुद्ध्यादिभिर्वृद्धत्वादिति । तथा चत्वारो वर्णाः प्रकाराः श्रमणादयो यस्मिन् स तथा, स एव स्वार्थिकाण्विधानाच्चातुर्वर्णस्तस्य सङ्घस्यावर्णं वदन्, यथा कोऽयं सङ्घो य: समवायबलेन पशुसङ्घ इवामार्गमपि मार्गीकरोतीति, न चैतत् साधु, ज्ञानादिगुणसमुदायात्मकत्वात् तस्य, तेन च मार्गस्यैव मार्गीकरणादिति, तथा विपक्वं सुपरिनिष्ठितं प्रकर्षपर्यन्तमुपगतमित्यर्थः, तपश्च ब्रह्मचर्यं च भवान्तरे येषां विपक्वं वा उदयागतं तपोब्रह्मचर्यं तद्धेतुकं देवायुष्कादि कर्म येषां ते तथा, तेषामवर्णं वदन् न सन्त्येव देवा: कदाचनाप्यनुपलभ्यमानत्वात् किं वा तैर्विटैरिव कामासक्तमनोभिरविरतैश्चेत्यादिकम् ?, इहोत्तरम्- सन्ति देवा: तत्कृतानुग्रहोपघातादिदर्शनात्, इत्यादि।
तथा अर्हतां वर्णवादो यथाजियरागदोसमोहा सव्वन्नू तियसनाहकयपूया । अच्चंतसच्चवयणा सिवगइगमणा जयंति जिणा ॥ [ ] इति । अर्हत्प्रणीतधर्मावर्णो यथावत्थुपयासणसूरो अइसयरयणाण सायरो जयइ । सव्वजयजीवबंधुरबंधू दुविहो वि जिणधम्मो ॥ [ ] आचार्यवर्णवादो यथातेसि नमो तेसि नमो भावेण पुणो वि तेसि चेव नमो । अणुवकयपरहियरया जे नाणं देंति भव्वाणं ॥ [पञ्चव० १६००]