________________
पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः ।
४६१
चतुर्वर्णश्रमणसङ्घवर्णो यथाएयम्मि पूइयम्मी नत्थि तयं जं न पूइयं होइ । भुवणे वि पूयणिज्जो न गुणी संघाओ जं अन्नो ॥ [ देववर्णवादो यथादेवाण अहो सीलं विसयविसमोहिया वि जिणभवणे । अच्छरसाहिं पि समं हासाई जेण न करेंति ॥ [ ] इति । [सू० ४२७] पंच पडिसंलीणा पन्नत्ता, तंजहा- सोतिंदियपडिसंलीणे जाव फासिंदियपडिसंलीणे ।
पंच अप्पडिसंलीणा पन्नत्ता, तंजहा- सोतिंदियअप्पडिसंलीणे जाव फासिंदियअप्पडिसंलीणे ।। पंचविधे संवरे पन्नत्ते, तंजहा- सोतिंदियसंवरे जाव फासिंदियसंवरे । पंचविधे असंवरे पन्नत्ते, तंजहा- सोतिंदियअसंवरे जाव फासिंदियअसंवरे।
[टी०] संयतासंयतव्यतिकरमेव पंच पडिसंलीणेत्यादिना आरोपणासूत्रपर्यन्तेन ग्रन्थेनाह, गतार्थश्चायम्, नवरं श्रोत्रेन्द्रियादिक्रमो यथाप्राधान्यात्, प्राधान्यं च क्षयोपशमबहुत्वकृतम् । तथा प्रतिसंलीनेतरसूत्रयोः पुरुषो धर्मी उक्तः, संवरेतरसूत्रयोस्तु धर्म एवेति ।
[सू० ४२८] पंचविधे संजमे पन्नत्ते, तंजहा- सामातितसंजमे, छेदोवट्ठावणियसंजमे, परिहारविसुद्धितसंजमे, सुहुमसंपरायसंजमे, अहक्खायसंजमे ।
[टी०] तथा संयमनं संयम: पापोपरम इत्यर्थः । तत्र समो रागादिरहितः, तस्य अयो गमनं प्रवृत्तिरित्यर्थ: समायः, समाय एव समाये भवं समायेन निर्वृत्तं समायस्य विकारोंऽशो वा समायो वा प्रयोजनमस्येति सामायिकम् ।।
तच्च द्विधा- इत्वरकालिकं यावज्जीविकं च, तत्रेत्वरकालिकं सर्वेषु प्रथमपश्चिमतीर्थकरतीर्थेष्वनारोपितव्रतस्य, यावज्जीविकं तु मध्यम-विदेहतीर्थकरतीर्थेषु भवति, तेषूपस्थापनाऽभावादिति, सामायिकं च तत् संयमश्चेत्येवं सर्वत्र वाक्यं कार्यमिति ।
तथा छेदश्च पूर्वपर्यायस्योपस्थापनं च व्रतेषु यत्र तच्छेदोपस्थापनम्, तदेव