________________
४६२
छेदोपस्थापनिकम्, अथवा पूर्वपर्यायच्छेदेनोपस्थाप्यते आरोप्यते यन्महाव्रतलक्षणं चारित्रं तच्छेदोपस्थापनीयम्, तदपि द्विधा- अनतिचारं सातिचारं च, तत्रानतिचारं यदित्वरसामायिकस्य शिक्षकस्यारोप्यते पार्श्वनाथसाधोर्वा पञ्चयामधर्मप्रतिपत्तौ, सातिचारं तु यन्मूलप्रायश्चित्तप्राप्तस्येति ।। __तथा परिहरणं परिहार: तपोविशेष:, तेन विशुद्धं परिहारो वा विशेषेण शुद्धो यस्मिंस्तत् परिहारविशुद्धम्, तदेव परिहारविशुद्धिकम्, तच्च द्विधा- निर्विशमानकं निर्विष्टकायिकं च, तत्र निर्विशमानकानां तदासेवकानां यत्तन्निर्विशमानकम्, यत्तु निर्विष्टकायिकानामासेवितविवक्षितचारित्रकायानां तनिर्विष्टकायिकमिति । इह च नवको गणो भवति, तत्र चत्वारः परिहारिका अपरे तु तद्वैयावृत्यकराश्चत्वार एवानुपरिहारिका:, एकस्तु कल्पस्थितो वाचनाचार्यो गुरुभूत इत्यर्थः, एतेषां च निर्विशमानकानामयं परिहार:- ग्रीष्मे जघन्यादीनि चतुर्थ-षष्ठा-ऽष्टमादीनि, शिशिरे षष्ठा-ऽष्टम-दशमानि, वर्षास्वष्टम-दशम-द्वादशानि, पारणके चायामम्, इतरेषां सर्वेषामायाममेव, एवमेते चत्वारः षण्मासान्, पुनरन्ये चत्वारः षडेव, पुनर्वाचनाचार्य: षडिति सर्व एवायमष्टादशमासिक: कल्प इति ।
तथा सूक्ष्मा: लोभकिट्टिकारूपाः सम्परायाः कषाया यत्र तत् सूक्ष्मसम्परायम्, तदपि द्विधा- विशुद्ध्यमानकं सक्लिश्यमानकं च, तत्राद्यं क्षपकोपशमश्रेणिद्वयं समारोहत:, सक्लिश्यमानकं तूपशमश्रेणित: प्रच्यवमानस्येति । ___ अथशब्दो यथार्थः, यथैवाऽकषायतयेत्यर्थः, आख्यातम् अभिहितम् अथाख्यातम्, तदेव संयमोऽथाख्यातसंयमः, अयं च छद्मस्थस्योपशान्तमोहस्य क्षीणमोहस्य च स्यात् केवलिन: सयोगस्यायोगस्य च स्यादिति । - [सू० ४२९] एगिदिया णं जीवा असमारभमाणस्स पंचविधे संजमे कजति, तंजहा- पुढविकातितसंजमे जाव वणस्सतिकातितसंजमे । एगिंदिया णं जीवा समारभमाणस्स पंचविहे असंजमे कजति, तंजहा- पुढविकातितअसंजमे जाव वणस्सतिकातितअसंजमे ।
टी०] एगिदिया णं जीव त्ति एकेन्द्रियान् णमित्यलङ्कारे जीवान् असमारभाणस्य