________________
४६३
पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः । संघट्टादीनामविषयीकुर्वत: सप्तदशप्रकारस्य संयमस्य मध्ये पञ्चविध: संयमो व्युपरमोऽनाश्रवः क्रियते भवति, तद्यथा-पृथिवीकायिकेषु विषये संयमः सङ्घट्टाधुपरम: पृथिवीकायिकसंयमः, एवमन्यान्यपि पदानि, असंयमसूत्रं संयमसूत्रवद् विपर्ययेण व्याख्येयमिति ।
[सू० ४३०] पंचिंदिया णं जीवा असमारभमाणस्स पंचविधे संजमे कजति, तंजहा- सोतिंदितसंजमे जाव फासिंदितसंजमे । ___पंचिंदिया णं जीवा समारभमाणस्स पंचविधे असंजमे कजति, तंजहासोतिंदियअसंजमे जाव फासिंदियअसंजमे ।
सव्वपाण-भूय-जीव-सत्ता णं असमारभमाणस्स पंचविधे संजमे कजति, तंजहा- एगेंदितसंजमे जाव पंचेंदितसंजमे ।
सव्वपाण-भूत-जीव-सत्ता णं समारभमाणस्स पंचविधे असंजमे कजति, तंजहा- एगेंदितअसंजमे जाव पंचेदितअसंजमे ।
[टी०] पंचेंदिया णमित्यादि, इह सप्तदशप्रकारसंयमभेदस्य पञ्चेन्द्रियसंयमलक्षणस्येन्द्रियभेदेन भेदविवक्षणात् पञ्चविधत्वम्, तत्र पञ्चेन्द्रियानारम्भे श्रोत्रेन्द्रियस्य व्याघातपरिवर्जनं श्रोत्रेन्द्रियसंयमः, एवं चक्षुरिन्द्रियसंयमादयोऽपि वाच्याः । असंयमसूत्रमेतद्विपर्यासेन बोद्धव्यमिति । सव्वपाणेत्यादि, पूर्वमेकेन्द्रिय-पञ्चेन्द्रियजीवाश्रयेण संयमा-ऽसंयमावुक्ताविह तु सर्वजीवाश्रयेणात एव सर्वग्रहणं कृतमिति, प्राणादीनां चायं विशेष:
प्राणा द्वित्रिचतुः प्रोक्ता भूतास्तु तरव: स्मृताः । जीवा: पञ्चेन्द्रिया ज्ञेया: शेषा: सत्त्वा इतीरिता: ॥ [
] इति । इह सप्तदशप्रकारसंयमस्याद्या नव भेदा: सगृहीता:, एकेन्द्रियसंयमग्रहणेन पृथिव्यादिसंयमपञ्चकस्य गृहीतत्वादिति, एतद्व्यत्ययेनासंयमसूत्रम् ।।
[सू० ४३१] पंचविधा तणवणस्सतिकातिता पन्नत्ता, तंजहा- अग्गबीया, मूलबीया, पोरबीया, खंधबीया, बीयरुहा ।
[टी०] तणवणस्सइ त्ति तृणवनस्पतयो बादरा वनस्पतयोऽग्रबीजादय: क्रमेण