________________
४६४
कोरण्टका उत्पलकन्दा वंशाः शल्लक्यो वटा एवमादयः, व्याख्यातं चैतत् प्रागिति । [सू० ४३२] पंचविधे आयारे पन्नत्ते, तंजहा - णाणायारे, दंसणायारे, चरित्तायारे, तवायारे, वीरियायारे ।
[टी०] आचरणमाचारो ज्ञानादिविषयाऽऽसेवेत्यर्थः, ज्ञानाचार: कालादिरष्टधा, दर्शनं सम्यक्त्वम्, तदाचारो नि:शङ्कितादिरष्टधैव, चारित्राचार: समिति-गुप्तिभेदोऽष्टधा, तपआचारोऽनशनादिभेदो द्वादशधा, वीर्याचारो वीर्यागोपनमेतेष्वेवेति ।
[सू० ४३३] पंचविधे आयारपकप्पे पन्नत्ते, तंजहा - मासिते उग्घातिते, मासिए अणुग्घातिए, चाउम्मासिए उग्घाइए, चाउम्मासिए अणुग्घातिते, आरोवणा ।
आरोवणा पंचविहा पन्नत्ता, तंजहा- पट्ठविया, ठविया, कसिणा, अकसिणा, हाडहडा ।
[टी०] आचारस्य प्रथमाङ्गस्य पदविभागसामाचारीलक्षणप्रकृष्टकल्पाभिधायकत्वात् प्रकल्प आचारप्रकल्प: निशीथाध्ययनम्, स च पञ्चविधः पञ्चविधप्रायश्चित्ताभिधायकत्वात्, तथाहि– तत्र केषुचिदुद्देशकेषु लघुमासप्रायश्चित्तापत्तिरुच्यते १, केषुचिच्च गुरुमासापत्तिः २, एवं लघुचतुर्मास ३ गुरुचतुर्मासा ४ssरोपणाश्चेति ५ । तत्र मासेन निष्पन्नं मासिकं तपः, तच्च उद्घातो भागपातो यत्रास्ति तदुद्घातिकं लध्वित्यर्थः,
यत उक्तम्
अद्वेण छिन्नसे पुव्वद्धेणं तु संजुयं काउं ।
देज्जाहि लहुयाणं गुरुदाणं तत्तियं चेव ॥ [ ] त्ति । एतद्भावना मासिकतपोऽधिकृत्योपदर्श्यते - मासस्यार्द्धछिन्नस्य शेषं दिनानां पञ्चदशकं तत् मासापेक्षया च पूर्वस्य पञ्चविंशकस्यार्द्धेन सार्धद्वादशकेन संयुतं कृतं सार्द्धा सप्तविंशतिर्भवतीति ।
आरोपणा तु चडावण त्ति भणियं होइ, यो हि यथाप्रतिषेवितमालोचयति तस्य प्रतिषेवानिष्पन्नमेव मासलघु-मासगुरुप्रभृतिकं दीयते, यस्तु न तथा तस्य तत्तावद्दीयते एव मायानिष्पन्नं चान्यदारोप्यते इत्यारोपणेति । आरोवण त्ति आरोपणोक्तस्वरूपा,