________________
४३२
आयरियउवज्झाए गणंसि जे सुतपजवजाते धारेति ते काले काले सम्म अणुपवाइत्ता भवइ ३, एवं गिलाण-सेहवेतावच्चं सम्मं [अब्भुट्टित्ता भवति] ४, आयरियउवज्झाते गणंसि आपुच्छियचारी यावि भवति, णो अणापुच्छियचारी ५ ।
[टी०] तथा आचार्योपाध्यायस्येति समाहारद्वन्द्वः कर्मधारयो वा, ततश्चाचार्यस्योपाध्यायस्य च आचार्योपाध्यायस्य वा गणंसि त्ति गणे विग्रहस्थानानि कलहाश्रया:, आचार्योपाध्यायो द्वयं वा गणे गणविषये आज्ञां ‘साधो ! भवतेदं विधेयम्' इत्येवंरूपामादिष्टिम्, धारणां 'न विधेयमिदम्' इत्येवंरूपां नो नैव सम्यग्
औचित्येन प्रयोक्ता भवतीति साधवः परस्परं कलहायन्ते इत्येवं सर्वत्रेति प्रथमम् । तथा स एव आहाराइणियाए त्ति रत्नानि द्विधा- द्रव्यतो भावतश्च, तत्र द्रव्यतः कर्केतनादीनि भावतो ज्ञानादीनि, तत्र रत्नैः ज्ञानादिभिर्व्यवहरतीति रात्निक: बृहत्पर्यायः, यो यो रात्निको यथारात्निकम्, तद्भावस्तत्ता, तया यथारानिकतया यथाज्येष्ठं कृतिकर्म वन्दनकं विनय एव वैनयिकं तच्च न सम्यक् प्रयोक्ता, अन्तर्भूतकारितार्थत्वाद्वा प्रयोजयिता भवतीति द्वितीयम् । तथा स एव यानि श्रुतस्य पर्यवजातानि सूत्रार्थप्रकारान् धारयति धारणाविषयीकरोति तानि काले काले यथावसरं न सम्यगनुप्रवाचयिता भवति न पाठयतीत्यर्थः इति तृतीयम्, काले अनुप्रवाचयितेत्युक्तं तत्र गाथा:
कालक्कमेण पत्तं संवच्छरमाइणा उ जं जम्मि । तं तम्मि चेव धीरो वाएज्जा सो य कालोऽयं ॥ तिवरिसपरियागस्स उ आयारपकप्पनाममज्झयणं । चउवरिसस्स य सम्मं सूयगडं नाम अंगं ति ॥ दस-कप्प-व्ववहारा संवच्छरपणगदिक्खियस्सेव । ठाणं समवाओ वि य अंगे ते अट्ठवासस्स ॥ दसवासस्स विवाहो एक्कारसवासयस्स य इमे उ । खुड्डियविमाणमाई अज्झयणा पंच नायव्वा ॥ बारसवासस्स तहा अरुणुववायाइ पंच अज्झयणा । तेरसवासस्स तहा उट्ठाणसुयाइया चउरो ॥