________________
५४५
अथ सप्तममध्ययनं सप्तस्थानकम् । [सू० ५४१] सत्तविधे गणावक्कमणे पन्नत्ते, तंजहा-सव्वधम्मा रोएमि १, एगतिता रोएमि, एगइया णो रोएमि २, सव्वधम्मा वितिगिच्छामि ३, एगतिता वितिगिच्छामि, एगतिता नो वितिगिच्छामि ४, सव्वधम्मा जुहुणामि ५, एगतिता जुहुणामि, एगइया णो जुहुणामि ६, इच्छामि णं भंते ! एगल्लविहारपडिमं उवसंपजित्ता णं विहरित्तते ७ ।
[टी०] व्याख्यातं षष्ठमध्ययनमधुना सप्तममारभ्यते, अस्य चायमभिसम्बन्ध:इहानन्तराध्ययने षट्सङ्ख्योपेता: पदार्थाः प्ररूपिता:, इह तु त एव सप्तसङ्ख्योपेता: प्ररूप्यन्त इत्येवंसम्बन्धस्यास्य चतुरनुयोगद्वारस्येदमादिसूत्रम्- सत्तविहेत्यादि । अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः- अनन्तरसूत्रे पुद्गला: पर्यायत उक्ताः, इह तु पुद्गलविशेषाणामेव क्षयोपशमतो योऽनुष्ठानविशेषो जीवस्य भवति तस्य सप्तविधत्वमुच्यते इत्येवंसम्बन्धस्यास्य व्याख्या, संहितादिस्तु तत्क्रम: प्रतीत एव, नवरं सप्तविधं सप्तप्रकारं प्रयोजनभेदेन भेदात् गणाद् गच्छादपक्रमणं निर्गमो गणापक्रमणं प्रज्ञप्तं तीर्थकरादिभिः, तद्यथा- सर्वान् धर्मान् निर्जराहेतून् श्रुतभेदान् सूत्रार्थोभयविषयान् अपूर्वग्रहण-विस्मृतसन्धान-पूर्वाधीतपरावर्तनरूपान् चारित्रभेदांश्च क्षपण-वैयावृत्यरूपान् रोचयामि रुचिविषयीकरोमि चिकीर्षामि, ते चामुत्र परगणे सम्पद्यन्ते नेह स्वगणे, बहुश्रुतादि-सामग्र्यभावाद्, ‘अतस्तदर्थं स्वगणादपक्रामामि भदन्त !' इत्येवं गुरुपृच्छाद्वारेणैकं गणापक्रमणमुक्तम् १, अथ ‘सर्वधर्मान् रोचयामी'त्युक्ते कथं पृच्छार्थोऽवगम्यते इति?, उच्यते, ‘इच्छामि णं भंते ! एकल्लविहारपडिम'मित्यादिपृच्छावचन-साधर्म्यादिति, रुचेस्तु करणेच्छार्थता पत्तियामि रोएमी'त्यत्र व्याख्यातैवेति, क्वचित्तु ‘सव्वधम्मं जाणामि, एवं पि एगे अवक्कमे' इत्येवं पाठः, तत्र ‘ज्ञानी अहमिति किं गणेन' इति मदादपक्रामति १, तथा एगइय त्ति एककान् कांश्चन श्रुतधर्मांश्चारित्रधर्मान् वा रोचयामि चिकीर्षामि एककांश्च श्रुतधर्मांश्चारित्रधर्मान् वा नो रोचयामिन चिकीर्षामीत्यतश्चिकीर्षितधर्माणां स्वगणे करणसामग्र्यभावादपक्रामामि भदन्त इति द्वितीयम् २, तथा सर्वधर्मान् उक्तलक्षणान् विचिकित्सामि