________________
५४४
हि प्रतिक्रमणं कुर्वन्ति साधवः, यदाह
गमणागमण विहारे सुत्ते वा सुमिणदंसणे राओ । नावानइसंतारे इरियावहियापडिक्कमणं ॥ [आव० नि० १५४७]
यत:- आउलमाउलाए सोवणवत्तियाए [आव० सू०] इत्यादि प्रतिक्रमणसूत्रम्, तथा स्वप्नकृतप्राणातिपातादिष्वन्वर्थगत्या प्रतीपक्रमणरूपकार्योत्सर्गलक्षणप्रतिक्रमणमेवमुक्तम्।
सू० ५३९] कत्तिताणक्खत्ते छतारे पण्णत्ते । असिलेसाणक्खत्ते छतारे पन्नत्ते ।
[सू० ५४०] जीवा णं छट्ठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा ३, तंजहा-पुढविकाइयनिव्वत्तिते जाव तसकाइयणिव्वत्तिते । एवंचिण उवचिण बंध उदीर वेय तध निजरा चेव ।
छप्पतेसिया णं खंधा अणंता पण्णत्ता । छप्पदेसोगाढा पोग्गला अणंता पण्णत्ता । छस्समयट्टितीता पोग्गला अणंता पण्णत्ता । छग्गुणकालगा पोग्गला जाव छग्गुणलुक्खा पोग्गला अणंता पण्णत्ता ।
॥ छट्ठाणं छ?मज्झयणं समत्तं ॥ अनन्तरं प्रतिक्रमणमुक्तम्, तच्चावश्यकमप्युच्यते, आवश्यकं च नक्षत्रोदयाद्यवसरे कुर्वन्तीति नक्षत्रसूत्रं शेषसूत्राणि चा अध्ययनपरिसमाप्तेः पूर्वाध्ययनवदवसेयानीति । इति श्रीमत्तपागच्छाधिराजभट्टारकपुरन्दरसूरीश्वरश्रीविजयसेनसूरिराज्ये
श्रीमत्तपागच्छश्रृंगारहारसूरीश्वरश्रीविजयदेवसूरियौवराज्ये पण्डितश्रीकुशलवर्धनगणिशिष्यनगर्षिगणिना स्ववाचनपरोपकारकृते कृतोद्धाररूपयां श्रीसकलवाचकशिरोमणिमहोपाध्यायश्रीविमलहर्षगणिभिः संशोधितायां सुखावबोधायां श्रीस्थानाङ्गदीपिकायां षट्स्थानकाख्यं षष्ठमममध्ययनं
समाप्तम्।