________________
षष्ठमध्ययनं षट्स्थानकम् ।
५४३ क्षयोऽनुदीर्णस्य च विपाकमधिकृत्योपशम इति गृह्यते, आह- औपशमिकोऽप्येवंभूत एव, नैवम्, तत्रोपशान्तस्य प्रदेशानुभवतोऽप्यवेदनाद् अस्मिंश्च वेदनादिति, अयं च क्षयोपशम: क्रियारूप एवेति, क्षयोपशम एव क्षायोपशमिकः, क्षयोपशमनिष्पन्नस्त्वाभिनिबोधिकज्ञानादिलब्धिपरिणाम आत्मन एव, क्षयोपशमेन निवृत्त: क्षायोपशमिक: इति च व्युत्पत्तिरिति । तथा परिणमनं परिणाम: अपरित्यक्तपूर्वावस्थस्यैव तद्भावगमनमित्यर्थः, स एव पारिणामिक इत्युच्यते, स च साद्यनादिभेदेन द्विविधः, तत्र सादि: जीर्णघृतादीनाम्, तद्भावस्य सादित्वादिति, अनादिपारिणामिकस्तु धर्मास्तिकायादीनाम्, तद्भावस्य तेषामनादित्वादिति । तथा सन्निपातो मेलकस्तेन निर्वृत्त: सान्निपातिकः, अयं चैषां पञ्चानामौदयिकादिभावानां व्यादिसंयोगत: सम्भवासम्भवानपेक्षया षड्विंशतिभङ्गरूप:, तत्र द्विकसंयोगे दश, त्रिकसंयोगेऽपि दशैव, चतुष्कसंयोगे पञ्च, पञ्चकसंयोगे त्वेक एवेत्यादि विस्तरो वृत्तौ।
[सू० ५३८] छव्विहे पडिक्कमणे पन्नत्ते, तंजहा-उच्चारपडिक्कमणे, पासवणपडिक्कमणे, इत्तिरिते, आवकहिते, जंकिंचिमिच्छा, सोमणंतिते ।
[टी०] अनन्तरं भावा उक्तास्तेषु चाप्रशस्तेषु यद् वृत्तं यच्च प्रशस्तेषु न वृत्तं विपरीतश्रद्धान-प्ररूपणे वा ये कृते तत्र प्रतिक्रमितव्यं भवतीति प्रतिक्रमणमाह- छव्विहे पडिक्कमणे इत्यादि, प्रतिक्रमणं द्वितीयप्रायश्चित्तभेदलक्षणं मिथ्यादुष्कृतकरणमिति भावः, तत्रोच्चारोत्सर्गं विधाय यदीर्यापथिकीप्रतिक्रमणं तदुच्चारप्रतिक्रमणम्, एवं प्रश्रवणविषयमपीति, इत्तरियं ति इत्वरं स्वल्पकालिकं दैवसिक-रात्रिकादि, आवकहियंति यावत्कथिकं यावज्जीविकं महाव्रत-भक्तपरिज्ञादिरूपम्, प्रतिक्रमणत्वं चास्य विनिवृत्ति-लक्षणान्वर्थयोगादिति, जंकिंचिमिच्छ त्ति खेल-सिंघानाविधिनिसर्गाऽऽभोगा-ऽनाभोगसहसाकाराद्यसंयमस्वरूपं यत्किञ्चिन्मिथ्या असम्यक तद्विषयं मिथ्येदमित्येवं-प्रतिपत्तिपूर्वकं मिथ्यादुष्कृतकरणं यत्किञ्चिन्मिथ्याप्रतिक्रमणमिति, तथा सोमणंतिए त्ति स्वापनान्तिकं स्वपनस्य सुप्तिक्रियाया अन्ते अवसाने भवं स्वापनान्तिकम्, सुप्तोत्थिता हि ईर्यां प्रतिक्रामन्ति साधव इति, अथवा स्वप्नो निद्रावशविकल्पस्तस्याऽन्तो विभाग: स्वप्नान्तस्तत्र भवं स्वाप्नान्तिकम्, स्वप्नविशेष