________________
५४२
नियमं ति अवश्यंभावादित्यर्थः, छम्मासावसेसाउय त्ति षण्मासा अवशेषा अवशिष्टा यस्य तत्तथा तदायुर्वेषां ते षण्मासावशेषायुष्काः, परभवो विद्यते यस्मिंस्तत् परभविकं तच्च तदायुश्चेति परभविकायुः प्रकुर्वन्ति बध्नन्ति, असङ्ख्येयानि वर्षाण्यायुर्येषां ते तथा ते च ते संज्ञिनश्च समनस्का: पञ्चेन्द्रियतिर्यग्योनिकाश्चेत्यसङ्ख्येयवर्षायुष्कसंज्ञिपञ्चेन्द्रियतिर्यग्योनिकाः, इह च संज्ञिग्रहणमसङ्ख्येयवर्षायुष्का: संज्ञिन एव भवन्तीति नियमदर्शनार्थम्, न त्वसङ्ख्येयवर्षायुषामसंज्ञिनां व्यवच्छेदार्थम्, तेषामभावादेवेति। एवमसङ्ख्येयवर्षायुष्कसंज्ञिपञ्चेन्द्रियमनुष्याऽपि वाच्या। शेषं वृत्तौ।
[सू० ५३७] छव्विधे भावे पन्नत्ते, तंजहा-ओदतिते, उवसमिते, खतिते, खतोवसमिते, पारिणामिते, सन्निवाइए ।
[टी०] अनन्तरमायु:कर्मबन्ध उक्तः, आयु: पुनरौदयिकभावहेतुरित्यौदयिकभावं भावसाधाच्छेषभावांश्च प्रतिपादयन्नाह- छव्विहे भावे इत्यादि, भवनं भाव: पर्याय इत्यर्थः, तत्रौदयिको द्विविधः- उदय उदयनिष्पन्नश्च, तत्रोदयोऽष्टानां कर्मप्रकृतीनामुदय: शान्तावस्थापरित्यागेनोदीरणावलिकामतिक्रम्योदयावलिकायामात्मीयात्मीयरूपेण विपाक इत्यर्थः, अत्र चैवं व्युत्पत्ति:- उदय एवौदयिकः, उदयनिष्पन्नस्तु कर्मोदयजनितो जीवस्य मानुषत्वादि: पर्यायः, तत्र च उदयेन निर्वृत्तस्तत्र वा भव इत्यौदयिकः इत्येवं व्युत्पत्तिरिति, तथा औपशमिकोऽपि द्विविध:- उपशम उपशमनिष्पन्नश्च, तत्रोपशमो मोहनीयकर्मणोऽनन्तानुबन्ध्यादिभेदभिन्नस्योपशमश्रेणिप्रतिपन्नस्य मोहनीयभेदान् अनन्तानुबन्ध्यादीनुपशमयतः उदयाभाव इत्यर्थः, उपशम एवौपशमिकः, उपशमनिष्पन्नस्तु उपशान्तक्रोध इत्यादिरुदयाभावफलरूप आत्मपरिणाम इति भावना, तत्र च व्युत्पत्ति:उपशमेन निवृत्त औपशमिक इति, तथा क्षायिको द्विविध:- क्षय: क्षयनिष्पन्नश्च, तत्र क्षयोऽष्टानां कर्मप्रकृतीनां ज्ञानावरणादिभेदानां क्षयः काभाव एवेत्यर्थः, तत्र क्षय एव क्षायिकः, क्षयनिष्पन्नस्तु तत्फलरूपो विचित्र आत्मपरिणामः केवलज्ञान-दर्शनचारित्रादिः, तत्र क्षयेण निर्वृत्तः क्षायिक इति व्युत्पत्तिः, तथा क्षायोपशमिको द्विविध:-क्षयोपशमः क्षयोपशमनिष्पन्नश्च, तत्र क्षयोपशमश्चतुर्णां घातिकर्मणां केवलज्ञानप्रतिबन्धकानां ज्ञानावरण-दर्शनावरण-मोहनीया-ऽन्तरायाणाम्, क्षयोपशम इह उदीर्णस्य