________________
षष्ठमध्ययनं षट्स्थानकम् ।
५४१
छव्विहेत्यादिकमाह, सुगमश्चायम्, नवरम् आयुषो बन्ध: आयुर्बन्धः, तत्र जाति: एकेन्द्रियजात्यादि: पञ्चधा, सैव नाम नाम्न: कर्मण उत्तरप्रकृतिविशेषो जीवपरिणामो वा तेन सह निधत्तं निषिक्तं यदायुस्तजातिनामनिधत्तायुः, निषेकश्च कर्मपुद्गलानां प्रतिसमयानुभवनरचनेति, उक्तं च
मोत्तूण सगमबाहं पढमाए ठिईए बहुतरं दव्वं । सेसे विसेसहीणं जावुक्कस्संति सव्वासिं ॥ [कर्मप्र० ] इति,
०० ०००
स्थापना चेयम्- ..
तथा गति: नरकादिका चतुर्द्धा, शेषं तथैवेति गतिनामनिधत्तायुरिति, तथा स्थितिरिति यत् स्थातव्यं केनचिद्विवक्षितेन भावेन जीवेनायु:कर्मणा वा सैव नाम: परिणामो धर्मः स्थितिनामस्तेन विशिष्टं निधत्तं यदायु:दलिकरूपं तत् स्थितिनामनिधत्तायुः, तथा अवगाहते यस्यां जीव: सा अवगाहना शरीरमौदारिकादि तस्या नाम औदारिकादिशरीरनामकर्मेत्यवगाहनानाम तेन सह यन्निधत्तमायुस्तदवगाहनानाम-निधत्तायुरिति, तथा प्रदेशानाम् आयु:कर्मद्रव्याणां नाम: तथाविधा परिणति: प्रदेशनाम प्रदेशरूपं वा नामकर्मविशेष इत्यर्थः प्रदेशनाम, तेन सह यन्निधत्तमायुस्तत् प्रदेशनामनिधत्तायुरिति, तथा अनुभाग: आयुर्द्रव्याणामेव विपाकस्तल्लक्षण एव नाम: परिणामोऽनुभागनामः, अनुभागरूपं वा नामकर्मानुभागनाम, तेन सह निधत्तं यदायुस्तदनुभागनामनिधत्तायुरिति । __अथ किमर्थं जात्यादिनामकर्मणाऽऽयुर्विशेष्यते ?, उच्यते, आयुष्कस्य प्राधान्योपदर्शनार्थम्, यस्मान्नारकाद्यायुरुदये सति जात्यादिनामकर्मणामुदयो भवति, नारकादिभवोपग्राहकं चायुरेव, यस्मादुक्तं प्रज्ञप्त्याम्- नेरइए णं भंते नेरइएसु उववज्जइ? अनेरइए नेरइएसु उववजइ ?, गोयमा ! नेरइए नेरइएसु उववजइ [भगवती० ४।९।१], एतदुक्तं भवति- नारकायु:संवेदनप्रथमसमय एव नारक इत्युच्यते, तत्सहचारिणां च पञ्चेन्द्रियजात्यादिनामकर्मणामप्युदय इति, इह चायुर्बन्धस्य षड्विधत्वे उपक्षिप्ते यदायुषः षड्विधत्वमुक्तं तद् आयुषो बन्धाव्यतिरेकाद् बद्धस्यैव चायुर्व्यपदेशविषयत्वादिति ।