________________
५४०
सप्तदशैकविंशत्युत्तराणि योजनशतान्युच्चस्तस्य दक्षिणेन षड् योजनकोटीशतानि साधिकान्यरुणोदे समुद्रे तिर्यग् व्यतिव्रज्याधो रत्नप्रभाया: पृथिव्याः चत्वारिंशतं योजनसहस्राण्यवगाह्य व्यवस्थिता जम्बूद्वीपप्रमाणा च, सा चमरचञ्चा राजधानी उत्कृष्टेन षण्मासान् विरहिता वियुक्ता उपपातेन, इहोत्पद्यमानदेवानां षण्मासान् यावद्विरहो भवतीति भावः । __विरहाधिकारादिदं सूत्रत्रयम्- एगेत्यादि, एकैकमिन्द्रस्थानं चमरादिसम्बन्ध्याश्रयो भवन-नगर-विमानरूपस्तदुत्कर्षेण षण्मासान् यावद्विरहितमुपपातेनेन्द्रापेक्षयेति ।
अधःसप्तमीत्यत्र सप्तमी हि रत्नप्रभापि कथञ्चिद्भवतीति तद्व्यवच्छेदार्थमधोग्रहणं अतस्तमस्तमेत्यर्थः, सा षण्मासान् विरहितोपपातेन, यदाह
चउवीसई मुहुत्ता १ सत्त अहोरत्त २ तह य पन्नरस ३ । मासो य ४ दो य ५ चउरो ६ छम्मासा विरहकालो उ ७ ॥ [बृहत्सं० २८१] इति । सिद्धिगतावुपपातो गमनमात्रमुच्यते न जन्म, तद्धेतूनां सिद्धस्याभावादिति, इहोक्तम्एगसमओ जहन्नं उक्कोसेणं हवंति छम्मासा । विरहो सिद्धिगईए उव्वदृणवज्जिया नियमा ॥ [बृहत्सं० ३४५] इति । शेषं सुगममिति। [सू० ५३६] छव्विधे आउयबंधे पन्नत्ते, तंजहा-जातिणामनिधत्ताउते, गतिणामणिधत्ताउते, ठितिनामनिधत्ताउते, ओगाहणाणामनिधत्ताउते, पदेसणामनिधत्ताउते, अणुभावणामनिहत्ताउते ।
नेरतियाणं छव्विहे आउयबंधे पन्नत्ते, तंजहा-जातिणामनिहत्ताउते जाव अणुभावनामणिहत्ताउए । एवं जाव वेमाणियाणं ।
नेरइया णियमं छम्मासावसेसाउता परभवियाउयं पगरेति । एवं असुरकुमारा वि जाव थणियकुमारा ।
असंखेजवासाउयसन्निपंचेंदियतिरिक्खजोणिया णियमं छम्मासावसेसाउया परभवियाउयं पगरेंति । असंखेजवासाउया सन्निमणुस्सा नियमं जाव पगरेंति।
वाणमंतरा जोतिसिता वेमाणिता जधा णेरतिता । [टी०] अनन्तरमुपपातस्य विरह उक्त:, उपपातश्चायुर्बन्धे सति भवतीत्यायुर्बन्धसूत्रप्रपञ्च