________________
षष्ठमध्ययनं षट्स्थानकम् ।
५३९ [टी०] एवंभूतार्थानां च निर्णयो निरतिशयस्याऽऽप्तप्रश्नतो भवतीति प्रश्नविभागमाहछव्विहेत्यादि, प्रच्छनं प्रश्नः, तत्र संशयप्रश्नः क्वचिदर्थे संशये सति यो विधीयते यथा
जइ तवसा वोदाणं संजमओऽणासवो त्ति ते कह णु । देवत्तं जंति जई ? गुरुराह सरागसंजमओ ॥ [ ]
व्युद्ग्रहेण मिथ्याभिनिवेशेन विप्रतिपत्त्येत्यर्थः, परपक्षदूषणार्थं य: क्रियते प्रश्न: स व्युद्ग्रहप्रश्नः, यथा
सामन्नाउ विसेसो अन्नोऽणन्नो व होज जइ अन्नो ।
सो नत्थि खपुप्फ पिवऽणन्नो सामन्नमेव तयं ॥ [विशेषाव० ३४] ति । __अनुयोगीति अनुयोगो व्याख्यानं प्ररूपणेति यावत् स यत्रास्ति तदर्थं य: क्रियत इति भावः, यथा- चउहिं समएहिं लोगो इत्यादिप्ररूपणाय कइहिं समएहीत्यादि ग्रन्थकार एव प्रश्नयति, अनुलोमो अनुलोमनार्थम् अनुकूलकरणाय परस्य यो विधीयते, यथा क्षेमं भवतामित्यादि, तहनाणे त्ति यथा प्रच्छनीयार्थे प्रष्टव्यस्य ज्ञानं तथैव प्रच्छकस्यापि ज्ञानं यत्र प्रश्ने स तथाज्ञानः, जानत्प्रश्न इत्यर्थः, स च गौतमादेः यथा केवइकालेणं भंते ! चमरचंचा रायहाणी विरहिया उववाएण [ ] मित्यादिरिति, एतद्विपरीतस्त्वतथाज्ञानोऽजानत्प्रश्न इत्यर्थः, क्वचित् छव्विहे अढे इति पाठस्तत्र संशयादिभिरर्थो विशेषणीय इति ।
[सू० ५३५] चमरचंचा णं रायहाणी उक्कोसेणं छम्मासा विरहिता उववातेणं। एगमेगे णं इंदट्ठाणे उक्कोसेणं छम्मासे विरहिते उववातेणं । अधेसत्तमा णं पुढवी उक्कोसेणं छम्मासा विरहिता उववातेणं । सिद्धिगती णं उक्कोसेणं छम्मासा विरहिता उववातेणं ।
[टी०] इहानन्तरसूत्रे तथाज्ञानप्रश्नो दर्शितस्तत्र चोत्तरवस्तुना भाव्यमिति तद् दर्शयतिचमरचंचेत्यादि, चमरस्य दाक्षिणात्यस्यासुरनिकायनायकस्य चञ्चा चञ्चाख्या नगरी चमरचञ्चा, या हि जम्बूद्वीपमन्दरस्य पर्वतस्य दक्षिणेन तिर्यगसङ्ख्येयान् द्वीपसमुद्रान व्यतिव्रज्यारुणवरद्वीपस्य बाह्याद् वेदिकान्तादरुणोदं समुद्रं द्विचत्वारिंशद्योजनसहस्राण्यवगाह्य चमरस्यासुरराजस्य तिगिंच्छिकूटो नामा य उत्पातपर्वतोऽस्ति