________________
५३८
सणंकुमार-माहिंदेसु णं कप्पेसु देवाणं भवधारणिजगा सरीरगा उक्कोसेणं छ रतणीओ उटुंउच्चत्तेणं पन्नत्ता २ ।
[टी०] इयं च कल्पस्थितिर्महावीरेण देशितेति सम्बन्धान्महावीरवक्तव्यतासूत्रत्रयम्, तथा अनेनेयमपरापि कल्पस्थितिर्दर्शितेति कल्पसूत्रद्वयमुपन्यस्तम्, सुगमं चैतत् पञ्चकमपि, नवरं षष्ठेन भक्तेन उपवासद्वयलक्षणेनाऽपानकेन पानीयपानपरिहारवता यावत्करणात् [निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदसणे'त्ति दृश्यम्, सिद्धे जाव त्ति करणात्] 'बुद्धे मुत्ते [अंतकडे परिनिव्वुडे'त्ति] दृश्यम् ।।
[सू० ५३३] छव्विहे भोयणपरिणामे पन्नत्ते, तंजहा-मणुण्णे, रसिते, पीणणिजे, बिंहणिजे, दीवणिजे, दप्पणिजे ।
छव्विहे विसपरिणामे पन्नत्ते, तंजहा-डक्के, भुत्ते, निवतिते, मंसाणुसारी, सोणिताणुसारी, अट्ठिमिंजाणुसारी ।
[टी०] उक्तरूपेषु च देवशरीरेष्वाहारपरिणामोऽस्तीत्याहारपरिणामनिरूपणायाहछविहे भोयणेत्यादि, भोजनस्येति आहारविशेषस्य परिणाम: पर्याय: स्वभावो धर्म इति यावत, तत्र मणुन्ने त्ति मनोज्ञमभिलषणीयं भोजनमित्येकस्तत्परिणाम:. परिणामवता सहाभेदोपचारात्, तथा रसिकं माधुर्याद्युपेतम्, तथा प्रीणनीयं रसादिधातुसमताकारि, बृंहणीयं धातूपचयकारि, दीपनीयम् अग्निबलजनकम्, दर्पणीयं बलकरम्, उत्साहवृद्धिकरमित्यन्य इति । __परिणामाधिकारादायातं विषपरिणामसूत्रमप्येवम, नवरं डक्के त्ति दष्टस्य प्राणिनो दंष्ट्राविषादिना यत् पीडाकारि तद् दष्टं जङ्गमविषम्, यच्च भुक्तं सत् पीडयति तद् भुक्तमित्युच्यते, तच्च स्थावरम्, यत् पुनर्निपतितम् उपरि पतितं सत् पीडयति तन्निपतितं त्वग्विषं दृष्टिविषं चेति त्रिविधं स्वरूपतः, तथा किञ्चिन्मांसानुसारि मांसान्तधातुव्यापकं किञ्चिच्छोणितानुसारि तथैव किञ्चिच्चाऽस्थिमिञ्जानुसारि तथैवेति त्रिविधं कार्यतः, एवं च सति षड्विधं तत्, ततस्तत्परिणामोऽपि षोलैवेति ।।
[सू० ५३४] छव्विहे पट्टे पन्नत्ते, तंजहा-संसयपट्टे, वुग्गहपट्टे, अणुजोगी, अणुलोमे, तहणाणे, अतहणाणे ।