________________
६८२
इत्येवंसम्बन्धस्यास्य व्याख्या, इहापि संहितादिचर्चः प्रथमाध्ययनवत्, केवलं लोकस्य पञ्चास्तिकायात्मकस्य स्थितिः स्वभाव: लोकस्थितिः, यदित्युद्देशे, णमिति वाक्यालङ्कारे, उद्दाइत्त त्ति अपद्राय मृत्वेत्यर्थः, तत्थेव त्ति लोकदेशे गतौ योनौ कुले वा सान्तरं निरन्तरं वौचित्येन भूयो भूयः पुन: पुन: प्रत्याजायन्ते प्रत्युत्पद्यन्त इत्येवमप्येका लोकस्थितिरिति १, अपिशब्द उत्तरवाक्यापेक्षया, अपि: क्वचिन्न दृश्यते।
अथ द्वितीया- जन्नमित्यादि, सदा प्रवाहतोऽनाद्यपर्यवसितं कालं समियं ति निरन्तरं पापं कर्म ज्ञानावरणादिकं सर्व्वमपि मोक्षविबन्धकत्वेन सर्वस्यापि पापत्वादिति क्रियते बध्यते इत्येवमप्येका अन्येत्यर्थः, सततकर्मबन्धनमिति द्वितीया २ । मोहणिजे त्ति मोहनीयं प्रधानतया भेदेन निर्दिष्टमिति सततमोहनीयबन्धनं तृतीया ३। जीवा-ऽजीवानामजीव-जीवत्वाभावश्चतुर्थी ४। त्रसानां स्थावराणां चाव्यवच्छेदः पञ्चमी ५। लोका-ऽलोकयोरलोक-लोकत्वेनाभवनं षष्ठी ६। तयोरेवान्योन्याप्रवेश: सप्तमी ७।
जाव ताव लोए ताव ताव जीव त्ति यावल्लोकस्तावज्जीवा:, यावति क्षेत्रे लोकव्यपदेशस्तावति जीवा इत्यर्थः । जाव ताव जीवा ताव ताव लोए त्ति, इह यावज्जीवास्तावत्तावल्लोकः, यावति यावति क्षेत्रे जीवास्तावत् क्षेत्रं लोक इति भावार्थ:, जाव तावेत्यादिवाक्यरचना तु भाषामात्रमित्यष्टमी ८ । यावज्जीवादीनां गतिपर्यायस्तावल्लोक इति नवमी ९।। ___ सर्वेषु लोकान्तेषु अबद्धपासपुट्ट त्ति बद्धा गाढश्लेषा:, पार्श्वस्पृष्टा: छुप्तमात्राः, ये न तथा तेऽबद्धपार्श्वस्पृष्टाः, रूक्षद्रव्यान्तरेणेति गम्यते, तत्सम्पर्कादजातरूक्षपरिणामाः सन्त इति भाव:, लोकान्ते स्वभावात् पुद्गला: रूक्षतया क्रियन्ते रूक्षतया परिणमन्ति, [अथवा लोकान्तस्वभावाद्या रूक्षता भवति तया ते पुद्गला अबद्धपार्श्वस्पृष्टाः परस्परमसम्बद्धाः क्रियन्ते, किं सर्वथा ?, नैवम्, अपि तु तेनेत्यस्य गम्यमानत्वात्तेन] रूपेण क्रियन्ते येन जीवा: सकर्मापुद्गला:, पुद्गलाश्च परमाण्वादयः, नो संचायंति त्ति न शक्नुवन्ति बहिस्ताल्लोकान्ताद् गमनतायै गन्तुमिति, छान्दसत्वेन तुमर्थे युट्प्रत्ययविधानादिति, एवमप्यन्या लोकस्थितिर्दशमी १०, शेषं कण्ठ्यमिति ।