________________
दशममध्ययनं दशस्थानकम् ।
[सू० ७०५] दसविधे सद्दे पन्नत्ते, तंजहानीहारि पिंडिमे लुक्खे, भिन्ने जज्जरिते ति ।
हे रहस्से पुहुत्ते त, काकणी, खिंखिणिस्सरे ॥ १५० ॥ [टी०] लोकस्थितेरेव विशिष्टवक्तृनिसृष्टा अपि शब्दपुद्गला लोकान्त एव गच्छन्तीति प्रस्तावाच्छब्दभेदानाह– दसविहे इत्यादि, नीहारी सिलोगो, निर्हारी घोषवान् शब्दो घण्टाशब्दवत्, पिण्डेन निर्वृत्तः पिण्डिमो घोषवर्जितः ढक्कादिशब्दवत्, रूक्षः काकादिशब्दवत्, भिन्नः कुष्ठाद्युपहतशब्दवत्, झर्झरितो जर्जरितो वा सतन्त्रीककरटिकादिवाद्यशब्दवत्, दीर्घो दीर्घवर्णाश्रितो दूरश्रव्यो वा मेघादिशब्दवत्, ह्रस्वो ह्रस्ववर्णाश्रयो विवक्षया लघुर्वा वीणादिशब्दवत्, पुहत्ते यत्ति पृथक्त्वे अनेकत्वे, कोऽर्थः ? नानातूर्यादिद्रव्ययोगे यः स्वरो यमल - शङ्खादिशब्दवत् स पृथक्त्व इति, काकणीति सूक्ष्मकण्ठगीतध्वनिः काकलीति यो रूढः, खिंखिणीति किंकिणी क्षुद्रघण्टिका, तस्याः स्वरो ध्वनि: किङ्किणीस्वरः ।
[सू० ७०६] दस इंदियत्था तीता पण्णत्ता, तंजहा - देसेण वि एगे सद्दाई सुणिंसु, सव्वेण वि एगे सद्दाई सुणिंसु, देसेण वि एगे रूवाई पासिंसु, सव्वेण वि एगे रुवाई पासिंसु, एवं गंधाई रसाई फासाई जाव सव्वेण वि एगे फासाइं पडिसंवेदेंसु १ ।
दस इंदियत्था पडुप्पन्ना पन्नत्ता, तंजहा - देसेण वि एगे सद्दाई सुणेति, सव्वेण वि एगे सद्दानं सुणेति, एवं जाव फासाई २ |
दस इंदियत्था अणागता पन्नत्ता, तंजहा - देसेण वि एगे सद्दाई सुणिस्सति, सव्वेण वि एगे सद्दानं सुणिस्सति, एवं जाव सव्वेण वि एगे फासाई पडिसंवेस्सति ३|
[टी०] अनन्तरं शब्द उक्तः, स चेन्द्रियार्थ इति कालभेदेनेन्द्रियार्थान् प्ररूपयन् सूत्रत्रयमाह- दस इंदियेत्यादि कण्ठ्यम्, नवरं देसेण वि त्ति विवक्षितशब्दसमूहापेक्षया देशेन देशतः, कांश्चिदित्यर्थः, एकः कश्चिच्छ्रुतवानिति । सव्वेण वित्ति सर्वतया सर्वानित्यर्थः, इन्द्रियापेक्षया वा श्रोत्रेन्द्रियेण देशतः, सम्भिन्नश्रोतोलब्धियुक्तावस्थानां
६८३