________________
६८४
सर्वेन्द्रियैः सर्वतः, अथवैककर्णेन देशत उभाभ्यां सर्वत:, एवं सर्वत्र । पडुप्पन्न त्ति प्रत्युत्पन्ना वर्तमानाः ।
[सू० ७०७] दसहिं ठाणेहिमच्छिन्ने पोग्गले चलेजा, तंजहा-आहारेजमाणे वा चलेजा, परिणामेज्जमाणे वा चलेज्जा, उस्ससिज्जमाणे वा चलेजा, निस्ससिजमाणे वा चलेजा, वेदेजमाणे वा चलेजा, णिजरिजमाणे वा चलेजा, विउव्विजमाणे वा चलेजा, परितारिज्जमाणे वा चलेजा, जक्खातिढे वा चलेजा, वातपरिगते वा चलेजा ।
[टी०] इन्द्रियार्थाश्च पुद्गलधर्मा इति पुद्गलस्वरूपमाह- दसहीत्यादि स्पष्टम्, नवरम् अच्छिन्ने त्ति अच्छिन्न: अपृथग्भूत: शरीरे विवक्षितस्कन्धे वा सम्बद्ध एव चलेत् स्थानान्तरं गच्छेत्, आहारेजमाणे त्ति आह्रियमाण: खाद्यमान: पुद्गल: आहारे वा अभ्यवह्रियमाणे सति पुद्गलश्चलेत्, परिणम्यमान: पुद्गल एवोदराग्निना खल-रसभावेन परिणम्यमाने वा भोजने, उच्छ्वस्यमान: उच्छासवायुपुद्गल: उच्छ्वस्यमाने वा उच्छ्वसिते क्रियमाणे, एवं निःश्वस्यमानो निःश्वस्यमाने वा, वेद्यमानो निर्जीर्यमाणश्च कर्मपुद्गलोऽथवा वेद्यमाने निर्जीर्यमाणे च कर्मणि, वैक्रियमाणो वैक्रियशरीरतया परिणम्यमान: वैक्रियमाणे वा शरीरे, परिचार्यमाणो मैथुनसंज्ञाया विषयीक्रियमाण: शुक्रपुद्गलादिः परिचार्यमाणे वा भुज्यमाने स्त्रीशरीरादौ शुक्रादिरेव, यक्षाविष्टो भूताद्यधिष्ठित: यक्षाविष्टे वा सति पुरुषे यक्षावेशे वा सति तच्छरीरलक्षण: पुद्गल:, वातपरिगतो देहगतवायुप्रेरित:, वातपरिगते वा देहे सति, बाह्यवातेन वोत्क्षिप्त इति।
[सू० ७०८] दसहिं ठाणेहिं कोधुप्पत्ती सिया, तंजहा-मणुन्नाइं मे सद्दफरिस-रस-रूव-गंधाइमवहरिंसु १, अमणुन्नाई मे सद्द-फरिस-रस-रूवगंधाइं उवहरिंसु २, मणुण्णाइं मे सद्द-फरिस-रस-रूव-गंधाइं अवहरति ३, अमणुन्नाइं मे सद्दफरिस जाव गंधाइं उवहरति ४, मणुण्णाइं मे सद्द जाव अवहरिस्सति ५, अमणुण्णाई मे सद्द जाव उवहरिस्सति ६, मणुण्णाई मे सद्द जाव गंधाइं अवहरिंसु अवहरइ अवहरिस्सति ७, अमणुण्णाइं मे सद्द जाव रस-रूव-गंधाइं उवहरिंसु उवहरति उवहरिस्सति ८, मणुण्णामणुण्णाई