________________
दशममध्ययनं दशस्थानकम् ।
६८५ मे सद्द जाव अवहरिंसु अवहरति अवहरिस्सति उवहरिंसु उवहरति उवहरिस्सति ९, अहं च णं आयरियउवज्झायाणं सम्मं वहामि ममं च णं आयरियउवज्झाया मिच्छं विप्पडिवन्ना १० ।
टी०] पुद्गलाधिकारादेव पुद्गलधर्मानिन्द्रियार्थानाश्रित्य यद्भवति तदाह- दसहीत्यादि गतार्थम्, नवरं स्थानविभागोऽयम्- तत्र मनोज्ञान् शब्दादीन् मेऽपहृतवानित्येवं भावयत: क्रोधोत्पत्तिः स्यादित्येकम्, एवम् अमनोज्ञानुपहृतवान् उपनीतवान्, इह चैकवचन-बहुवचनयोर्न विशेषः प्राकृतत्वादिति द्वितीयम्, एवं वर्तमाननिर्देशेनापि द्वयं भविष्यतापि द्वयमित्येवं षट्, तथा मनोज्ञानामपहारत: कालत्रयनिर्देशेन सप्तमः, एवममनोज्ञानामुपहारतोऽष्टमम्, मनोज्ञा-ऽमनोज्ञानामपहारोपहारत: कालत्रयनिर्देशेन नवमम्, अहं चेत्यादि दशमम्, मिच्छं ति वैपरीत्यं विशेषेण प्रतिपन्नौ विप्रतिपन्नाविति ।
[सू० ७०९] दसविधे संजमे पन्नत्ते, तंजहा-पुढविकाइयसंजमे आउकाइयसंजमे] तेउकाइयसंजमे] वाकाइयसंजमे] वणस्सति[काइयसंजमे] बेइंदितसंजमे तेंदितसंजमे चउरिंदितसंजमे पंचेंदितसंजमे अजीवकायसंजमे ।
दसविधे असंजमे पन्नत्ते, तंजहा-पुढविकाइयअसंजमे जाव अजीवकायअसंजमे ।
दसविधे संवरे पन्नत्ते, तंजहा-सोतिंदितसंवरे जाव फासेंदितसंवरे, मण[संवरे], वासंवरे], काय[संवरे], उवकरणसंवरे, सूचीकुसग्गसंवरे ।
दसविधे असंवरे पन्नत्ते, तंजहा-सोतिदितअसंवरे जाव सूचीकुसग्गअसंवरे। [टी०] क्रोधोत्पत्ति: संयमिनां नास्तीति संयमसूत्रम्, सूत्रचतुष्ट्यं समसूत्रम्। संयमविपक्षश्चासंयम इत्यसंयमसूत्रम्, असंयमविपक्ष: संवर इति संवरसूत्रम्, संवरविपरीतोऽसंवर इत्यसंवरसूत्रम्, सुगमानि चैतानि, नवरमुपकरणसंवरः अप्रतिनियताकल्पनीयवस्त्राद्यग्रहणरूपोऽथवा विप्रकीर्णस्य वस्त्राद्युपकरणस्य संवरणमुपकरणसंवरः, अयं चौघिकोपकरणापेक्षः, तथा शूच्या: कुशाग्राणां च शरीरोपघातकत्वाद्यत् संवरणं सङ्गोपनं स शूची-कुशाग्रसंवरः, एष तूपलक्षणत्वात् समस्तौपग्रहिकोपकरणापेक्षो द्रष्टव्यः, इह चान्त्यपदद्वयेन द्रव्यसंवरावुक्ताविति ।