SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ नवममध्ययनं नवस्थानकम् । ६७७ __ अपि च, उचितचेलसद्भावे चारित्रधर्मो भवत्येव तदुपकारित्वाच्छरीराऽऽहारादिवदिति । अथ कथं चेलस्य चारित्रोपकारितेति चेत्, उच्यते, शीतादित्राणतो जीवसंसक्तिनिमित्ततृणपरिहारादिहेतुत्वात्, उक्तं चतणगहणानलसेवानिवारणा धम्मसुक्कझाणट्ठा । दिळं कप्पग्गहणं गिलाणमरणट्ठया चेव ॥ [ओघनि० ७०६, पञ्चव० ८१३] इति । तथा सेज्जायरे त्ति शेरते यस्यां साधवः सा शय्या, तया तरति भवसागरमिति शय्यातरो वसतिदाता, तस्य पिण्डो भक्तादिः शय्यातरपिण्डः, स च अशनादि ४ र्वस्त्रादिः ४ सूच्यादि ४ श्चेति, तद्ग्रहणे दोषास्त्वमीतित्थंकरपडिकुट्ठो अन्नायं उग्गमो वि य न सुज्झे । अविमुत्ती अलाघवता दुल्लहसेजा विउच्छेओ॥ [पञ्चा०१७।१८, बृहत्कल्प०३५४०] इति। राज्ञः चक्रवर्त्तिवासुदेवादेः पिण्डो राजपिण्डः । इदानीमुभयोरपि जिनयो: समानतानिगमनार्थमाह- जस्सील गाहा, यौ शीलसमाचारौ स्वभावा-ऽनुष्ठाने यस्य स यच्छीलसमाचारः, तावेव शील-समाचारौ यस्य स तथेति । [सू० ६९४] णव नक्खत्ता पच्छंभागा पन्नत्ता, तंजहाअभिती समणो धणिट्ठा, रेवति अस्सोति मिगसिरं पूसो । हत्थो चित्ता य तधा, पच्छंभागा णव हवंति ॥१४९॥ [टी०] महापद्मजिनो हि महावीरवदुत्तरफाल्गुनीनक्षत्रजन्मादिव्यतिकर इति नक्षत्रसम्बन्धान्नक्षत्रसूत्रं कण्ठ्यं च, नवरं पच्छंभाग त्ति पश्चाद्भागश्चन्द्रेण भोगो येषां तानि पश्चाद्भागानि चन्द्रोऽतिक्रम्य यानि भुङ्क्ते, पृष्ठं दत्त्वेत्यर्थः, अभिई गाहा, अस्सोइ त्ति अश्विनी, मतान्तरं पुनरेवम् अस्सिणि भरणी समणो अणुराह धणिट्ठ रेवई पूसो । मियसिर हत्थो चित्ता पच्छिमजोगा मुणेयव्वा ॥ [ ] इति । [सू० ६९५] आणत-पाणत-आरण-ऽच्चुतेसु कप्पेसु विमाणा णव जोयणसताई उटुंउच्चत्तेणं पन्नत्ता ।। [टी०] नक्षत्रविमानव्यतिकर उक्त इति विमानविशेषव्यतिकरसूत्रं व्यक्तम् ।
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy