________________
४६६
धायइसंडदीवपुरथिमद्धे णं मंदरस्स पव्वतस्स पुरत्थिमेणं सीताते महाणतीते उत्तरेणं पंच वक्खारपव्वता पन्नत्ता, तंजहा- मालवंते एवं जधा जंबुद्दीवे तधा जाव पुक्खरवरदीवड्डपच्चत्थिमद्धे वक्खारा दहा य वक्खारपव्वयाणं उच्चत्तं भाणितव्वं ।
समयखेत्ते णं पंच भरहाई पंच एरवताइं, एवं जधा चउट्ठाणे बितीयउद्देसे तथा एत्थ वि भाणियव्वं जाव पंच मंदरा पंच मंदरचूलिताओ, णवरं उसुयारा णत्थि ।
[टी०] अयं च संयतासंयतगतवस्तुविशेषाणां व्यतिकरो मनुष्यक्षेत्र एव भवतीति मनुष्यक्षेत्रवर्त्तिनो वस्तुविशेषान् जंबुद्दीवेत्यादिना उसुयारा नत्थि त्ति पर्यवसानेन ग्रन्थेनाह, कण्ठ्यश्चायम्, नवरं मालवतो गजदन्तकात् प्रदक्षिणया सूत्रचतुष्टयोक्ता विंशति-वक्षस्कारगिरयोऽवगन्तव्या इति, इह च देवकुरुषु निषधवर्षधरपर्वतादुत्तरेणाष्टौ योजनानां शतानि चतुस्त्रिंशदधिकानि योजनस्य चतुरश्च सप्तभागानतिक्रम्य शीतोदाया महानद्या: पूर्वापरकूलयोर्विचित्रकूट-चित्रकूटाभिधानौ योजनसहस्रोच्छितौ मूले सहस्रायामविष्कम्भावुपरि पञ्चयोजनशतायाम-विष्कम्भौ प्रासादमण्डितौ स्वसमाननामदेवनिवासभूतौ पर्वतौ स्तः, ततस्ताभ्यामुत्तरतोऽनन्तरोदितान्तरः शीतोदामहानदीमध्यभागवर्ती दक्षिणोत्तरतो योजनसहनमायत: पूर्वापरत: पञ्च योजनशतानि विस्तीर्ण: वेदिकावनखण्डद्वयपरिक्षिप्तो दशयोजनावगाहो नानामणिमयेन दशयोजननालेनाद्धयोजनबाहल्येन योजनविष्कम्भेनार्द्धयोजनविस्तीर्णया क्रोशोच्छ्रितया कर्णिकया युक्तेन निषधाभिधानदेवनिवासभूतभवनभासितमध्येन तदर्द्धप्रमाणाष्टोत्तरशतसङ्ख्यपद्यैस्तदन्येषां च सामानिकादिदेवनिवासभूतानां पद्मानामनेकलक्षैः समन्तात् परिवृतेन महापद्मन विराजमानमध्यभागो निषधो महाहूदः, एवमन्येऽपि निषधसमानवक्तव्यता: स्वसमानाभिधानदेवनिवासा उक्तान्तरा: समवसेयाः, नवरं नीलवन्महाह्रदो विचित्रकूटचित्रकूटपर्वतसमवक्तव्यताभ्यां यमकाभिधानाभ्यां स्वसमाननामदेवावासाभ्यां पर्वताभ्यामनन्तरं द्रष्टव्यस्ततो दक्षिणत: शेषाश्चत्वार इति, एते च सर्वेऽपि प्रत्येक दशभिर्दशभिः काञ्चनकाभिधानैः योजनशतोच्छ्रि तैयोजनशतमूलविष्कम्भैः