________________
पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः ।
४६७ पञ्चाशद्योजनमानमस्तकविस्तारैः स्वसमाननामदेवाधिवासैः प्रत्येकं दशयोजनान्तरैः पूर्वापरव्यवस्थितैः गिरिभिरुपेता:, एतेषां च विचित्रकूटादिपर्वतह्रदनिवासिदेवानामसङ्ख्येयतमजम्बूद्वीपे द्वादशयोजनसहस्रप्रमाणास्तन्नामिका नगर्यो भवन्तीति, सव्वे वि णमित्यादि, सर्वेऽपि जम्बूद्वीपादिसम्बन्धिन:, तेणं ति शीताशीतोदे महानद्यौ प्रति ते लक्षणीकृत्य, नदीदिशीत्यर्थः, मन्दरं वा मेरुं वा पर्वतं प्रति, तद्दिशीत्यर्थः, तत्र मालवत्-सौमनस-विद्युत्प्रभ-गन्धमादना गजदन्ताकारपर्वता मेरुं प्रति यथोक्तस्वरूपाः, शेषास्तु वक्षारपर्वता महानद्यौ प्रतीति, इयं चानन्तरोदिता सप्तसूत्री धातकीखण्डस्य पुष्करार्द्धस्य च पूर्वापरार्द्धयोद्देश्येत्यत एवोक्तम्- एवं जहा जंबू इत्यादि ।
समय: कालस्तद्विशिष्टं क्षेत्रं समयक्षेत्रं मनुष्यक्षेत्रं तस्यैवादित्यगतिसमभिव्यङ्ग्यऋत्वयनादिकालयुक्तत्वात्, जाव पंच मंदर त्ति इह यावत्करणात् पञ्च हैमवतानि पञ्च हैरण्यवतानीत्यादि पञ्च शब्दापातिन इत्यादि चोपयुज्य सर्वं चतु:स्थानकद्वितीयोद्देशकानुसारेण वाच्यम्, नवरम् उसुयार त्ति चतु:स्थानके चत्वार इषुकारपर्वता उक्ता:, इह तु ते न वाच्या:, पञ्चस्थानकत्वादस्येति ।
[सू० ४३५] उसभे णं अरहा कोसलिए पंच धणुसताइं उटुंउच्चत्तेणं होत्था १ । भरहे णं राया चाउरंतचक्कवट्टी पंच धणुसयाई उटुंउच्चत्तेणं होत्था २॥ बाहुबली णमणगारे एवं चेव ३, बंभी णमजा एवं चेव ४, एवं सुंदरी वि ५ ।
[टी०] अनन्तरं मनुष्यक्षेत्रे वस्तून्युक्तानीति तदधिकाराद् भरतक्षेत्रवर्त्तमानावसर्पिणीभूषणभूतमृषभजिनवस्तु तत्सम्बन्धादन्यानि च पञ्चस्थानकेऽवतारयन् सूत्रपञ्चकमाह- उसभे णमित्यादि कण्ठ्यम्, नवरं कोसलिए त्ति कोशलदेशोत्पन्नत्वात् कौशलिकः, भरतादयश्च ऋषभापत्यानि ।
[सू० ४३६] पंचहिं ठाणेहिं सुत्ते विबुज्झेजा, तंजहा- सद्देणं, फासेणं, भोयणपरिणामेणं, णिहक्खएणं, सुविणदंसणेणं ।
[टी०] बुद्धाश्चैते, बुद्धश्च भावतो मोहक्षयाद् द्रव्यतो निद्राक्षयादिति द्रव्यबोधं कारणत उपदर्शयन्नाह- पंचहीत्यादि कण्ठ्यम्, नवरमिह निद्राक्षयोऽनन्तरकारणं