________________
४२९
पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । तथा निषद्या उपवेशनविशेषः, सा च पञ्चधा, तत्र यस्यां समं पादौ पुतौ च स्पृशतः सा समपादपुता १, यस्यां तु गोरिव उपवेशनं सा गोनिषधिका २, यत्र पुताभ्यामुपविष्टः सन् एकं पादमुत्पाट्याऽऽस्ते सा हस्तिसुण्डिका ३, पर्यङ्काऽर्धपर्यङ्का च प्रसिद्धा ४-५, निषद्यया चरति नैषधिक इति । ___ दण्डस्येवायतिः दीर्घत्वं पादप्रसारणेन यस्य स दण्डायतिकः । तथा लगण्डं किल दुःसंस्थितं काष्ठम्, तद्वद् मस्तक-पार्णिकानां भुवि लगनेन पृष्ठस्य चालगनेनेत्यर्थः, यः शेते तथाविधाभिग्रहात् स लगण्डशायी ।
तथा आतापयति आतापनां शीता-ऽऽतपादिसहनरूपां करोतीति आतापकः । तथा न विद्यते प्रावृतं प्रावरणमस्येति अप्रावृतकः । तथा न कण्डूयत इति अकण्डूयकः । ___ इह च यद्यपि स्थानातिगत्वादीनामा-तापनायामन्त वस्तथापि प्रधानेतरविवक्षया न पुनरुक्तत्वं मन्तव्यमिति ।।
[सू० ३९७] पंचहिं ठाणेहिं समणे निग्गंथे महानिजरे महापज्जवसमाणे भवति, तंजहा-अगिलाते आयरियवेयावच्चं करेमाणे १, एवं उवज्झायवेयावच्चं करेमाणे २, थेरवेयावच्चं [करेमाणे] ३, तवस्सिवेयावच्चं [करेमाणे] ४, गिलाणवेयावच्चं करेमाणे ५ । __पंचहिं ठाणेहिं समणे निग्गंथे महानिजरे महापज्जवसाणे भवति, तंजहाअगिलाते सेहवेयावच्चं करेमाणे १, अगिलाते कुलवेयावच्चं करेमाणे] २, अगिलाते गणवे[यावच्चं करेमाणे] ३, अगिलाते संघवे यावच्चं करेमाणे] ४, अगिलाते साहम्मियवेयावच्चं करेमाणे ५ ।
[टी०] तथा महानिर्जरो बृहत्कर्मक्षयकारी, महानिर्जरत्वाच्च महद् आत्यन्तिकं पुनरुद्भवाभावात् पर्यवसानम् अन्तो यस्य स तथा । अगिलाए त्ति अग्लान्या अखिन्नतया बहुमानेनेत्यर्थः ।
आचार्यः पञ्चप्रकारः, तद्यथा-प्रव्राजनाचार्यो दिगाचार्य: सूत्रस्य उद्देशनाचार्य: सूत्रस्य समुद्देशनाचार्यो वाचनाचार्यश्चेति, तस्य वैयावृत्यं व्यावृतस्य शुभव्यापारवतो भाव: