________________
४२८
शुद्धा अनतिचारा एषणा शङ्कितादिदोष-वर्जनरूपा संसट्ठमसंसट्टे[ ]त्यादिसप्तप्रकारा अन्यतरा वा, तया चरतीत्युत्तर-पदवृद्ध्या शुद्धैषणिकः, सङ्ख्याप्रधाना: परिमिता एव दत्तय: सकृद्रक्तादिक्षेपलक्षणा ग्राह्या: यस्य स सङ्ख्यादत्तिकः, दत्तिलक्षणश्लोकोऽत्रदत्ती उ जत्तिए वारे खिवई होंति तत्तिया । अवोच्छिन्नणिवायाओ दत्ती होइ दवेतरा ॥ [ ] इति । तथा दृष्टस्यैव भक्तादेर्लाभस्तेन चरतीति तथैव दृष्टलाभिकः, पृष्टस्यैव ‘साधो ! दीयते ते' ? इत्येवं यो लाभस्तेन चरतीति प्राग्वत् पृष्टलाभिकः, आचाम्लं समयप्रसिद्धम्, तेन चरतीत्याचाम्लिकः, निर्गतो घृतादिविकृतिभ्यो य: स निर्व्विकृतिकः, पुरिमार्द्ध पूर्वाह्नलक्षणं प्रत्याख्यानविशेषोऽस्ति यस्य स तथा, परिमितो द्रव्यादिपरिमाणत: पिण्डपातो भक्तादिलाभो यस्यास्ति स परिमितपिण्डपातिकः, भिन्नस्यैव स्फोटितस्यैव पिण्डस्य सक्तुकादिसम्बन्धिन: पातो लाभो यस्यास्ति स भिन्नपिण्डपातिकः ।
ग्रहणानन्तरमभ्यवहरणं भवतीत्यत एतदुच्यते- अरसं हिङ्ग्वादिभिरसंस्कृतमाहारयतीत्यरसो वाऽऽहारो यस्यासावरसाहारः, एवं सर्वत्र, नवरं विरसं विगतरसं पुराणधान्यौदनादि, रूक्षं तैलादिवर्जितमिति, तथा अरसेन जीवितुं शीलमाजन्मापि यस्य स तथा, एवमन्यत्रापि ।
सूत्रद्व्यं सुगमम्, नवरं ठाणाइए त्ति स्थानं कायोत्सर्गः, तमतिददाति प्रकरोति अतिगच्छति वेति स्थानातिदः स्थानातिगो वेति ।
उत्कुटुकासनं पीठादौ पुतालगनेनोपवेशनरूपमभिग्रहतो यस्यास्ति स उत्कुटुकासनिकः।
तथा प्रतिमया एकरात्रिक्यादिकया कायोत्सर्गविशेषेणैव तिष्ठतीत्येवंशीलो यः स प्रतिमास्थायी ।
वीरासनं भून्यस्तपादस्य सिंहासने उपविष्टस्य तदपनयने या कायावस्था तद्रूपम्, दुष्करं च तदिति, अत एव वीरस्य साहसिकस्यासनमिति वीरासनमुक्तम्, तदस्यास्तीति वीरासनिकः ।