________________
४२७
पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । खंती य मद्दवऽज्जव मुत्ती तवसंजमे य बोद्धव्वे । सच्चं सोयं आकिंचणं च बंभं च जइधम्मो ॥ [पञ्चाशक० ११।१९ आव० सं० ] इति।
इतश्च साधुधर्मभेदस्य बाह्यतपोविशेषस्य वृत्तिसक्षेपाभिधानस्य भेदा: उक्खित्तचरए इत्यादिना अभिधीयन्ते, तत्र उत्क्षिप्तं स्वप्रयोजनाय पाकभाजनादुद्धृतं तदर्थमभिग्रहविशेषाच्चरति तद्गवेषणाय गच्छतीत्युत्क्षिप्तचरकः, एवं सर्वत्र, नवरं निक्षिप्तम् अनुद्धृतम्, अन्ते भवमान्तं भुक्तावशेष वल्लादि, प्रकृष्टमान्तं प्रान्तं तदेव पर्युषितम्, रूक्षं नि:स्नेहमिति, इह च भावप्रत्ययप्रधानत्वेन उत्क्षिप्तचरकत्वमित्यादि द्रष्टव्यमेवमुत्तरत्रापि भावप्रधानता दृश्या, इह चाद्यौ भावाभिग्रहावितरे द्रव्याभिग्रहाः, यतोऽभाणि
उक्खित्तमाइचरगा भावजुया खलु अभिग्गहा होति । गायंतो य रुयंतो जं देइ निसण्णमाई वा ॥ [पञ्चव० ३०३] तथालेवडमलेवडं वा असुगं दव्वं व अज घेच्छामि । असुगेण उ दव्वेणं अह दव्वाभिग्गहो नामं ॥ [पञ्चव० २९८] ति । एवमन्यत्रापि विशेष ऊह्य इति। अज्ञात: अनुपदर्शितस्वाजन्यर्द्धिमत्प्रव्रजितादिभाव: सन् चरति भिक्षार्थमटतीत्यज्ञातचरकः, तथा अन्नइलायचरए त्ति अन्नग्लानको दोषान्नभुगिति भगवतीटीपनके उक्तः, एवंविध: सन्, अथवा अन्नं विना ग्लायकः, समुत्पन्नवेदनादिकारण एवेत्यर्थः, अन्यस्मै वा ग्लायकाय भोजनार्थं चरतीति अन्नग्लानकचरकोऽन्नग्लायकचरकोऽन्यग्लायकचरको वा, क्वचित् पाठः अन्नवेल त्ति, तत्राऽन्यस्यां भोजनकालापेक्षयाऽऽद्यवसानरूपायां वेलायां समये चरतीत्यादि दृश्यम्, अयं च कालाभिग्रह इति । तथा मौनं मौनव्रतं तेन चरति मौनचरकः, तथा संसृष्टेन खरण्टितेनेत्यर्थो हस्त-भाजनादिना दीयमानं कल्पिकं कल्पवत् कल्पनीयमुचितमभिग्रहविशेषाद्भक्तादि यस्य स संसृष्टकल्पिकः, तथा तजातेन देयद्रव्यप्रकारेण यत् संसृष्टं हस्तादि तेन दीयमानं कल्पिकं यस्येति विग्रह इति । तथा सूत्रपञ्चकं [चतुष्कं] कण्ठ्यं, नवरं उवनिहितेत्यादि उपनिधीयत इत्युपनिधिः प्रत्यासन्नं यद्यथाकथञ्चिदानीतम्, तेन चरति, तद्ग्रहणायेत्यर्थः इत्यौपनिधिकः, उपनिहितमेव वा यस्य ग्रहणविषयतयाऽस्ति स प्रज्ञादेराकृतिगणत्वेन मत्वर्थीयाण्प्रत्यये औपनिहित इति, तथा