________________
पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः ।
४९९ प्रतिक्रमणं निरूपयन्नाह– पंचविहेत्यादि, प्रतीपं क्रमणं प्रतिक्रमणम्, एतदुक्तं भवतिशुभयोगेभ्योऽशुभयोगान् क्रान्तस्य शुभेष्वेव गमनमिति, उक्तं च
स्वस्थानाद्यत् परं स्थानम् प्रमादस्य वशागत: । तत्रैव क्रमणं भूय: प्रतिक्रमणमुच्यते ॥
इदं च विषयभेदात् पञ्चधेति, तत्र आश्रवद्वाराणि प्राणातिपातादीनि, तेभ्य: प्रतिक्रमणं निवर्त्तनं पुनरकरणमित्यर्थः आश्रवद्वारप्रतिक्रमणम्, असंयमप्रतिक्रमणमिति हृदयम्, मिथ्यात्वप्रतिक्रमणं यदाभोगा-ऽनाभोग-सहसाकारैर्मिथ्यात्वगमनं तन्निवृत्ति:, एवं कषायप्रतिक्रमणम्, योगप्रतिक्रमणं तु यत् मनो-वचन-कायव्यापाराणामशोभनानां व्यावर्त्तनमिति, आश्रवद्वारादिप्रतिक्रमणमेवाविवक्षितविशेषं भावप्रतिक्रमणमिति, आह चमिच्छत्ताइ न गच्छइ न य गच्छावेइ नाणुजाणाइ। जं मणवइकाएहिं तं भणियं भावपडिकमणं ॥ [ ] ति ।
[सू० ४६७] पंचहिं ठाणेहिं सुत्तं वाएजा, तंजहा-संगहट्ठयाते, उवग्गहट्ठताते, णिजरट्ठयाते, सुते वा मे पज्जवजाते भविस्सति, सुतस्स वा अव्वोच्छित्तिणयट्ठयाते ।
पंचहिं ठाणेहिं सुत्तं सिक्खेजा, तंजहा-णाणट्ठताते, दंसणट्ठताते, चरित्तट्ठताते, वुग्गहविमोतणट्ठयाते, अहत्थे वा भावे जाणिस्सामीति कट्ट।
[टी०] भावप्रतिक्रमणं च श्रुतभावितमतेरेव भवतीति श्रुतं वाचनीयं शिक्षणीयं चेत्येतद्धेतूपदर्शनार्थं द्वे सूत्रे पंचहीत्यादि सुगमे, नवरं सुत्तं श्रुतं सूत्रमात्रं वा वाचयेत् पाठयेत्, तत्र सङ्ग्रहः शिष्याणां श्रुतोपादानम्, स एवार्थः प्रयोजनम्, तस्मै सङ्ग्रहार्थाय, सङ्ग्रह एवार्थो यस्य स सङ्ग्रहार्थः, तद्भावस्तत्ता, तया सङ्ग्रहार्थतया, श्रुतसङ्ग्रहो भवत्वेषामिति प्रयोजनेनेति भावः, अथवैत एव मया एवं सगृहीता भवन्ति शिष्यीकृता भवन्तीति सङ्ग्रहार्थतया, तत्सङ्ग्रहायेति भावः, एवमुपग्रहार्थायोपग्रहार्थतया वा, एवं ह्येते भक्त-पान-वस्त्राद्युत्पादनसमर्थतयोपष्टम्भिता भवन्त्विति भावः, निर्जरार्थाय निर्जरणमेवं मे कर्मणां भवत्विति, श्रुतं वा ग्रन्थो मे मम वाचयत इति गम्यते