________________
४९८
[सू० ४६६] पंचविधे पच्चक्खाणे पन्नत्ते, तंजहा-सद्दहणसुद्धे, विणयसुद्धे, अणुभासणासुद्धे, अणुपालणासुद्धे, भावसुद्धे ।
पंचविधे पडिक्कमणे पन्नत्ते, तंजहा-आसवदारपडिक्कमणे, मिच्छत्तपडिक्कमणे, कसायपडिक्कमणे, जोगपडिक्कमणे, भावपडिक्कमणे ।
[टी०] धर्मकथामन्थनिर्मथितमिथ्याभावाश्च भव्या: शुद्धं प्रत्याख्यानं प्रपद्यन्त इति तदाह- पंचविहेत्यादि, प्रति प्रतिषेधत आख्यानं मर्यादया कथनं [प्रतिज्ञानं] प्रत्याख्यानम्, तत्र श्रद्धानेन तथेतिप्रत्ययलक्षणेन शुद्धं निरवद्यं श्रद्धानशुद्धम्, श्रद्धानाभावे हि तदशुद्धं भवति, एवं सर्वत्र, इह नियुक्तिगाथा
पच्चक्खाणं सव्वण्णुदेसियं जं जहिं जया काले । तं जो सद्दहइ नरो तं जाणसु सद्दहणसुद्धं ॥ [आव० भा० २४६] विनयशुद्धं यथाकिइकम्मस्स विसोहिं पउंजए जो अहीणमइरित्तं । मणवयणकायगुत्तो तं जाणसु विणयओ सुद्धं ॥ [आव० भा० २४८] अनुभाषणाशुद्धं यथाअणुभासइ गुरुवयणं अक्खरपयवंजणेहिं परिसुद्धं । पंजलिउडो अभिमुहो तं जाणऽणुभासणासुद्धं ॥ [आव० भा० २४९] नवरं गुरुर्भणति- वोसिरइ त्ति, शिष्यस्तु वोसिरामि त्ति । अनुपालनाशुद्धं यथाकंतारे दुब्भिक्खे आयंके वा महया महतीत्यर्थः समुप्पण्णे । जं पालियं न भग्गं तं जाणऽणुपालणासुद्धं ॥ [आव० भा० २५०], भावशुद्धं यथारागेण व दोसेण व परिणामेण व इहलोकाद्याशंसालक्षणेन न दूसियं जं तु । तं खलु पच्चक्खाणं भावविशुद्धं मुणेयव्वं ॥ [आव० भा० २५१] ति । अन्यदपि षष्ठं ज्ञानशुद्धमिति निर्युक्तावुक्तम्, यदाहपच्चक्खाणं जाणइ कप्पे जं जम्मि होइ कायव्वं ।
मूलगुणउत्तरगुणे तं जाणसु जाणणासुद्धं ॥ [आव० भा० २४७] ति । इह तु पञ्चस्थानकानुरोधान्नेदमुक्तम्, श्रद्धानशुद्धेन वा सगृहीतत्वात्, ज्ञानविशेषत्वात् श्रद्धानस्येति ।
प्रत्याख्याने च कृते कदाचिदतिचार: सम्भवति, तत्र च प्रतिक्रमणं कर्त्तव्यमिति