________________
पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः ।।
४९७ अप्रतिपतितैकसत्त्वाधारापेक्षया च तावानेवावधिज्ञानस्यापि, तथा यथैव मतिज्ञानश्रुतज्ञानयोर्विपर्ययज्ञाने भवत: एवमिदमपि मिथ्यादृष्टेर्विभङ्गज्ञानं भवतीति, तथा य एव तयोः स्वामी स एवास्यापि भवतीति, तथा विभङ्गज्ञानिनस्त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपदेव ज्ञानत्रयलाभसम्भव इति । ___ तथा छद्मस्थ-विषय-भावा-ऽध्यक्षत्वसाधादवधिज्ञानानन्तरं मन:पर्यवज्ञानस्योपन्यासः, तथाहि- यथाऽवधिज्ञानं छद्मस्थस्य भवति एवं मन:पर्यायज्ञानमपि, तथा यथाऽवधिज्ञानं रूपिद्रव्यविषयमेवमेतदपि, तथा यथाऽवधिज्ञानं क्षायोपशमिके भावे तथेदमपि, तथा यथाऽवधिज्ञानं प्रत्यक्षं तथेदमपीति ।
तथा मन:पर्यायज्ञानानन्तरं केवलज्ञानोपन्यास: तस्य सकलज्ञानोत्तमत्वात्, तथा अप्रमत्तयतिस्वामिसाधर्म्यात्, तथाहि- यथा मन:पर्यायज्ञानमुत्तमयतेरेव भवति एवमिदमपि, तथा अवसानलाभात्, यो हि सर्वज्ञानानि समासादयति स खल्वन्त एवेदमाप्नोतीति, तथा विपर्ययाभावसाधर्म्यात्, तथाहि- यथा मन:पर्यायज्ञानं सविपर्ययं न भवत्येवं केवलमपीति ।
उक्तस्वरूपस्य ज्ञानस्य यदावारकं कर्म तत्स्वरूपाभिधानाय सूत्रं पंचेत्यादि सुगमम् ।
[सू० ४६५] पंचविधे सज्झाए पन्नत्ते, तंजहा-वायणा, पुच्छणा, परियट्टणा, अणुप्पेहा, धम्मकहा । ___ [टी०] उक्तं ज्ञानावरणमिति तत्क्षपणोपायविशेषस्य स्वाध्यायस्य भेदानाहपंचविहेत्यादि सुगमम्, नवरं शोभनम् आ मर्यादया अध्ययनं श्रुतस्याधिकमनुसरणं स्वाध्यायः, तत्र वक्ति शिष्यस्तं प्रति गुरोः प्रयोजकभावो वाचना पाठनमित्यर्थः, गृहीतवाचनेनापि संशयाद्युत्पत्तौ पुन: प्रष्टव्यमिति पूर्वाधीतस्य सूत्रादेः शङ्कितादौ प्रश्न: प्रच्छनेति, प्रच्छनाविशोधितस्य सूत्रस्य मा भूद्विस्मरणमिति परिवर्तना, सूत्रस्य गुणनमित्यर्थः, सूत्रवदर्थेऽपि सम्भवति विस्मरणमत: सोऽपि परिभावनीय इत्यनुप्रेक्षणमनुप्रेक्षा, चिन्तनिकेत्यर्थः, एवमभ्यस्तश्रुतेन धर्मकथा विधेयेति धर्मस्य श्रुतरूपस्य कथा व्याख्या धर्मकथेति ।