________________
४९६
परिच्छिद्यते मर्यादया वेत्यर्थः, स चावधिज्ञानावरणक्षयोपशम एव, तदुपयोगहेतुत्वादिति, अवधिश्चासौ ज्ञानं चेत्यवधिज्ञानम् ।
तथा परि: सर्वतोभावे, अवनम् अवः, अयनम् वा अय:, आयो वा गमनं वेदनमिति पर्यायाः, परि अवः अयः आयो वा पर्यवः पर्ययः पर्यायो वा, मनसि मनसो वा पर्यवः पर्ययः पर्यायो वा मन:पर्यवो मन:पर्ययो मनः पर्यायो वा, सर्वतस्तत्परिच्छेद इत्यर्थः, स एव ज्ञानं मनः पर्यवज्ञानं मन:पर्ययज्ञानं मनः पर्यायज्ञानं वा ।
केवलम् असहायं मत्यादिज्ञाननिरपेक्षत्वात् शुद्धं वा आवरणमलकलङ्करहितत्वात् सकलं वा तत्प्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेः असाधारणं वा अनन्यसदृशत्वात् अनन्तं वा ज्ञेयानन्तत्वात् यथावस्थिताशेषभूतभवद्भाविभावस्वभावावभासीति भावना, तच्च तत् ज्ञानं चेति केवलज्ञानम्, उक्तं च–
केवलमेगं सुद्धं सगलमसाहारणं अनंतं च ।
पायं च नाणसद्दो नाणसमाणाहिगरणोऽयं ॥ [विशेषाव० ८४] ।
प्राय इति मन:पर्यायज्ञाने तत्पुरुषस्यापि दर्शितत्वात् । इह च स्वामि-काल-कारणविषय-परोक्षत्वसाधर्म्यात् तद्भावे च शेषज्ञानसद्भावादादावेव मतिज्ञान - श्रुतज्ञानयोरुपन्यास इति, तथाहि— य एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्य, जत्थमति तत्थ सुयनाणं [नन्दीसू० १५] इति वचनात् तथा यावान् मतिज्ञानस्य स्थितिकाल - स्तावानेवेतरस्य, प्रवाहापेक्षया अतीतादिः सर्व एव, अप्रतिपतितैकजीवापेक्षया तु षट्षष्टिसागरोपमाण्यधिकानीति, तथा यथा मतिज्ञानं क्षयोपशमहेतुकं तथा श्रुतज्ञानमपि, यथा च मतिज्ञानमोघतः सर्वद्रव्यादिविषयमेवं श्रुतज्ञानमपि, यथा च मतिज्ञानं परोक्षं एवं श्रुतज्ञानमपि, तथा मतिज्ञानश्रुतज्ञानभावे चावध्यादिभावादिति, मतिपूर्वकत्वात् श्रुतस्य विशिष्टमत्यंशरूपत्वाद्वा श्रुतस्यादौ मतेरुपन्यास इति, उक्तं च
मइव्वं जेण सुयं तेणाईए मई विसिट्ठो वा ।
मइभेओ चेव सुयं तो मइसमणंतरं भणियं ॥ [विशेषाव० ८६ ] ति ।
तथा काल-विपर्यय-स्वामि-लाभसाधर्म्याद् मतिज्ञानश्रुतज्ञानानन्तरमवधिज्ञानस्योपन्यास:, तथाहि— यावानेव मतिज्ञान - श्रुतज्ञानयोः स्थितिकालः प्रवाहापेक्षा