________________
अष्टममध्ययनं अष्टस्थानकम् ।
६१५
शल्यहत्येत्युच्यते, तद्धि विविधतृण-काष्ठ- पाषाण-पांशु-लोह-लोष्ठा-ऽस्थिनखप्रायाऽङ्गान्तर्गतशल्योद्धरणार्थमिति ४, जङ्गोलीति विषविघाततन्त्रम्, अगदतन्त्रमित्यर्थः, तद्धि सर्प-कीट-लूतादष्टविषविनाशनार्थं विविधविषसंयोगोपशमनार्थं
चेति ५, भूतादीनां निग्रहार्थं विद्यातन्त्रं भूतविद्या, सा हि देवा-ऽसुर-गन्धर्व-यक्षरक्ष:-पितृ-पिशाच-नाग-ग्रहाद्युपसृष्टचेतसां शान्तिकर्म-बलिकरणादिग्रहोपशमनार्थेति ६, क्षारतन्त्रमिति क्षरणं क्षार: शुक्रस्य, तद्विषयं तन्त्रं यत् तत्तथा, इदं हि सुश्रुतादिषु वाजीकरणतन्त्रमुच्यते, अवाजिनो वाजीकरणं रेतोवृद्ध्या अश्वस्येव करणमित्यनयोः शब्दार्थः सम एवेति, तत् तन्त्रं हि अल्प-क्षीण-विशुष्करेतसामाप्यायन-प्रसादोपजनननिमित्तं प्रहर्षजननार्थमिति ७, रस: अमृतरसः, तस्याऽयनं प्राप्ति: रसायनम्, तद्धि वय:स्थापनमायुर्मेधाकरणं रोगापहरणसमर्थं च, तत्प्रतिपादकं शास्त्रं रसायनतन्त्रमिति।।
[सू० ६१२] सक्कस्स णं देविंदस्स देवरन्नो अट्ठऽग्गमहिसीतो पन्नत्ताओ, तंजहा-पउमा, सिवा, सूती, अंजू, अमला, अच्छरा, णवमिया, रोहिणी१।
ईसाणस्स णं देविंदस्स देवरन्नो अट्ठऽग्गमहिसीओ पन्नत्ताओ, तंजहाकण्हा, कण्हराती, रामा, रामरक्खिता, वसू, वसुगुत्ता, वसुमित्ता, वसुंधरा२। ___ सक्कस्स णं देविंदस्स देवरन्नो सोमस्स महारण्णो अट्ठऽग्गमहिसीओ पन्नत्ताओ३।
ईसाणस्स णं देविंदस्स देवरण्णो वेसमणस्स महारन्नो अट्ठऽग्गमहिसीओ पन्नत्ताओ ४ ।
[सू० ६१३] अट्ठ महग्गहा पन्नत्ता, तंजहा-चंदे, सूरे, सुक्के, बुधे, बहस्सती, अंगारते, सणिचरे, केऊ ५ ।।
[टी०] कृतरसायनश्च देववन्निरुपक्रमायुर्भवतीति देवप्रस्तावाद्देवानामष्टकान्याह, तत्र सक्कस्सेत्यादि सूत्रपञ्चकं सुगमम्, नवरं महाग्रहा महार्था-ऽनर्थसाधकत्वादिति ।
[सू० ६१४] अट्ठविधा तणवणस्सतिकातिया पन्नत्ता, तंजहा-मूले, कंदे, खंधे, तया, साले, पवाले, पत्ते, पुप्फे । [टी०] महाग्रहाश्च मनुष्य-तिरश्चामुपघाता-ऽनुग्रहकारिणो बादरवनस्पत्युपघातादि