________________
६१६
कारित्वेनेति बादरवनस्पतीनाह - अट्ठविहेत्यादि सुगमम्, नवरं तणवणस्सइत्ति बादरवनस्पतिः, कन्दः स्कन्धस्याधः स्कन्धः स्थुडमिति प्रतीतम्, त्वक् छल्ली, शाला शाखा, प्रवालम् अङ्कुरः, पत्र- पुष्पे प्रतीते ।
[सू० ६१५] चउरिंदिया णं जीवा असमारभमाणस्स अट्ठविधे संजमे कज्जति, तंजहा-चक्खुमातो सोक्खातो अववरोवेत्ता भवति, चक्खुमतेणं दुक्खेणं असंजोएत्ता भवति, एवं जाव फासामातो सोक्खातो अववरोवेत्ता भवति, फासामतेणं दुक्खेणं असंजोगेत्ता भवति ।
चाउरिंदिया णं जीवा समारभमाणस्स अट्ठविधे असंजमे कज्जति, तंजहाचक्खुमातो सोक्खातो ववरोवेत्ता भवति, चक्खुमतेणं दुक्खेणं संजोगेत्ता भवति, एवं जाव फासामातो सोक्खातो [ववरोवेत्ता भवति, फासामतेणं दुक्खेणं संजोगेत्ता भवति । ]
[टी०] एतदाश्रयाश्चतुरिन्द्रियादयो जीवा भवन्तीति चतुरन्द्रियानाश्रित्य संयमाSसंयमसूत्रे, ते च प्रागिवेति ।
७,
[सू० ६१६] अट्ठ सुहुमा पन्नत्ता, तंजहा - पाणसुमे १, पणगसुमे २, बीयसुहुमे ३, हरितसुहुमे ४, पुप्फुसुहुमे ५, अंडसुहुमे ६, सुमे सिणेह ८।
[टी०] सूक्ष्माण्यप्याश्रित्य संयमासंयमौ स्त इति तान्याह— अट्ठ सुहुमेत्यादि, सूक्ष्माणि श्लक्ष्णत्वादल्पाधारतया च तत्र प्राणसूक्ष्मम् अनुद्धरिः कुन्थुः, स हि चलन्नेव विभाव्यते न स्थित: सूक्ष्मत्वादिति १, पनकसूक्ष्मं पनक: उल्ली, स च प्राय: प्रावृट्काले भूमि-काष्ठादिषु पञ्चवर्णस्तद्रव्यलीनो भवति, स एव सूक्ष्ममिति, एवं सर्वत्र २, तथा बीजसूक्ष्मं शाल्यादिबीजस्य मुखमूले कणिका लोके या तुषमुखमित्युच्यते ३, हरितसूक्ष्मम् अत्यन्ताभिनवोद्भिन्नं पृथिवीसमानवर्णं हरितमेवेति ४, पुष्पसूक्ष्मं वोदुम्बराणां पुष्पाणि तानि तद्वर्णानि सूक्ष्माणीति न लक्ष्यन्ते ५, अण्डसूक्ष्मं मक्षिकाकीटिका-गृहकोकिलाद्यण्डकमिति ६, लयनसूक्ष्मं लयनम् आश्रयः सत्त्वानाम्, तच्च कीटिकानगरकादि, तत्र कीटिकाश्चान्ये च सूक्ष्माः सत्त्वा भवन्तीति ७, स्नेहसूक्ष्म