________________
अष्टममध्ययनं अष्टस्थानकम् ।
६१७
मवश्याय-हिम-महिका-करक-हरतनुरूपमिति ८ । _ [सू० ६१७] भरहस्स णं रन्नो चाउरंतचक्कवहिस्स अट्ठ पुरिसजुगाइं अणुबद्धं सिद्धाइं जाव सव्वदुक्खप्पहीणाई, तंजहा-आदिच्चजसे, महाजसे, अतिबले, महाबले, तेतवीरिते, कत्तवीरिते, दंडवीरिते, जलवीरिते ।
[टी०] अनन्तरोक्तसूक्ष्मविषयसंयममासेव्य ये अष्टकतया सिद्धास्तानाहभरहस्सेत्यादि कण्ठ्यम्, किन्तु पुरिसजुगाई ति पुरुषा युगानीव कालविशेषा इव क्रमवृत्तित्वात् पुरुषयुगानि, अनुबद्धं सततम् यावत्करणात् 'बुद्धाइं मुक्काइं परिनिव्वुडाइंति, एतेषां चाऽऽदित्ययश:प्रभृतीनामिहोक्तक्रमस्यान्यथात्वमप्युपलभ्यते, तथाहि
राया आइच्चजसे महाजसे अइबले अ बलभद्दे । बलविरिय कत्तविरिए जलविरिए दंडविरिए य ॥ [आव० नि० ३६३] इति । इह चान्यथात्वमेकस्यापि नामान्तरभावाद् गाथानुलोम्याच्च सम्भाव्यत इति । [सू० ६१८] पासस्सणं अरहओ पुरिसादाणितस्स अट्ठगणा अट्ठ गणधरा होत्था, तंजहा-सुभे, अजघोसे, वसिट्टे, बंभचारी, सोमे, सिरिधरे, वीरिते, भद्दजसे।
[टी०] संयमवदधिकारात् संयमवतामेवाष्टकान्तरमाह- पासेत्यादि व्यक्तम्, किन्तु पुरिसादाणीयस्स त्ति पुरुषाणां मध्ये आदीयत इत्यादानीय उपादेय इत्यर्थः, गणा एकक्रिया-वाचनानां साधूनां समुदाया:, गणधरा: तन्नायका आचार्या: भगवत: सातिशयानन्तरशिष्या:, आवश्यके तूभयेऽपि दश श्रूयन्ते, दस नवगं गणाण माणं जिणिंदाणं [आव० नि० २६८] इति वचनात् जावइया जस्स गणा तावइया गणहरा तस्स [आव० नि० २६९] इति वचनाच्च । तदिहाल्पायुष्कत्वादिकं कारणमपेक्ष्य द्वयोरविवक्षणमिति सम्भाव्यते, न चाष्टस्थानकानुरोध इह समाधानं वक्तुं शक्यते पर्युषणाकल्पे-ऽप्यष्टानामेवाभिधानादिति।
[सू० ६१९] अट्ठविधे दंसणे पन्नत्ते, तंजहा-सम्मइंसणे, मिच्छदसणे, सम्मामिच्छइंसणे, चक्खुदंसणे, जाव केवलदंसणे, सुविणदंसणे । [टी०] गणधराश्च दर्शनवन्त इति दर्शनं निरूपयन्नाह– अट्टविहे दंसणे इत्यादि