________________
६१८
कण्ठ्यम्, केवलं स्वप्नदर्शनस्याचक्षुर्दर्शनान्तर्भावेऽपि सुप्तावस्थोपाधितो भेदो विवक्षित इति ।
[सू० ६२०] अट्ठविधे अद्धोवमिते पन्नत्ते, तंजहा-पलितोवमे, सागरोवमे, ओसप्पिणी, उस्सप्पिणी, पोग्गलपरियट्टे, तीतद्धा, अणागतद्धा, सव्वद्धा ।
[टी०] सम्यग्दर्शनादेश्च स्थितिप्रमाणमौपम्याद्धया भवतीति तां प्ररूपयन्नाह- अट्ठविहे अद्धोवमिते इत्यादि सुगमम्, नवरम् औपम्यमुपमा पल्य-सागररूपा तत्प्रधाना अद्धा कालोऽद्धौपम्यं राजदन्तादिदर्शनात्, पल्येनोपमा यत्र काले परिमाणत: स पल्योपमम्, रूढितो नपुंसकलिङ्गता, एवं सागरोपमम्, अवसर्पिण्यादीनां तु सागरोपमनिष्पन्नत्वादुपमाकालत्वं भावनीयम्, समयादिस्तु शीर्षप्रहेलिकान्त: कालोऽनुपमाकाल इति।
[सू० ६२१] अरहतो णं अरिट्टनेमिस्स जाव अट्ठमातो पुरिसजुगातो जुगंतकरभूमी, दुवासपरियाते अंतमकासी । ___ [टी०] कालाधिकारादिदमपरमाह- अरहओ इत्यादि, जाव अट्ठमाउ त्ति अष्टमं पुरुषयुगम् अष्टमपुरुषकालं यावत् युगान्तकरभूमि: पुरुषलक्षणयुगापेक्षयाऽन्तकराणां भवक्षयकारिणां भूमिः कालः सा आसीदिति । इदमुक्तं भवति- नेमिनाथस्य शिष्यप्रशिष्यक्रमेण अष्टौ पुरुषान् यावद् निर्वाणं गतवन्तो न परत इति, तथा पर्यायापेक्षयाऽप्यन्तकरभूमि: प्रसङ्गादुच्यते- दुवास त्ति द्विवर्षमात्रे केवलिपर्याये नेमिनाथस्य जाते सति साधवो भवान्तमकार्षुरिति ।।
[सू० ६२२] समणेणं भगवता महावीरेणं अट्ठ रायाणो मुंडा भवेत्ता अगारातो अणगारितं पव्वाविता, तंजहावीरंगते वीरजसे संजय एणिज्जते य रायरिसी । सेय सिवे उद्दायणे संखे कासीवद्धणे ॥१५॥ [टी०] तीर्थकरवक्तव्यताधिकारादिदमाह- समणेणमित्यादि सुगमम्, नवरं भवित्त त्ति अन्तर्भूतकारितार्थत्वात् मुण्डान् भावयित्वेति दृश्यम्, वीरंगते इत्यादि, तह संखे कासिवद्धणए इत्येवं चतुर्थपादे सति गाथा भवति, न चैवं दृश्यते पुस्तकेष्विति, एते च यथा प्रव्राजितास्तथोच्यते, तत्र वीराङ्गको वीरयशा: संजय इत्येते अप्रतीता: ।