________________
अष्टममध्ययनं अष्टस्थानकम् । एणेयको गोत्रत:, स च केतक्यर्द्धजनपदश्वेतवीनगरीराजस्य प्रदेशिनाम्न: श्रमणोपासकस्य निजकः कश्चिद्राजर्षिः ।
तथा सेय आमलकल्पानगर्या: स्वामी, यस्यां हि सूर्यकाभो देव: सौधर्मात् देवलोकाद् भगवतो महावीरस्य वन्दनार्थमवततार नाट्यविधिं चोपदर्शयामास, यत्र च प्रदेशिराजचरितं भगवता प्रत्यपादीति ।
तथा शिव: हस्तिनागपुरराजः, यो ह्येकदा चिन्तयामास- अहमनुदिनं हिरण्यादिना वृद्धिमुपगच्छामि यतस्ततोऽस्ति पुराकृतकर्मणां फलमतोऽधुनापि तदर्थमुद्यच्छामीति, ततो व्यवस्थाप्य राज्ये पुत्रं कृत्वोचितमखिलकर्त्तव्यं दिक्प्रोक्षकतापसतया प्रवव्राज, तत: षष्ठंषष्ठेन तपस्यतस्तथोचितमातापयत: परिशटितपत्रादिना पारयतो विभङ्गज्ञानमुत्पेदे, तेन च विलोकयाञ्चकार सप्त द्वीपान् सप्त समुद्रानिति, उत्पन्नं च मे दिव्यज्ञानमित्यादि विस्तारो भगवत्याम् ।
तथा उदायन: तस्यापि संबन्धो भगवत्यां सविस्तरो ज्ञेय इति। तथा शङ्खः काशीवर्द्धनो वाराणसीनगरीसम्बन्धिजनपदवृद्धिकर इत्यर्थः, अयं च न प्रतीत:, केवलमलकाभिधानो राजा वाराणस्यां भगवता प्रवाजितोऽन्तकृद्दशासु श्रूयते स यदि परं नामान्तरेणायं भवतीति ।
[सू० ६२३] अट्ठविधे आहारे पन्नत्ते, तंजहा-मणुण्णे असणे पाणे खाइमे साइमे, अमणुण्णे असणे पाणे खाइमे साइमे ।
[टी०] एते चाहारादौ मनोज्ञामनोज्ञे समवृत्तय इति प्रस्तावादाहारस्वरूपमाहअट्ठविहेत्यादि सुगमम् ।
[सू० ६२४] उप्पिं सणंकुमारमाहिंदाणं कप्पाणं हव्विं बंभलोगे कप्पे रिट्ठविमाणपत्थडे एत्थ णमक्खाडगसमचउरंससंठाणसंठितातो अट्ट कण्हरातीतो पन्नत्ताओ, तंजहा-पुरस्थिमेणं दो कण्हरातीतो, दाहिणेणं दो कण्हरातीतो, पच्चत्थिमेणं दो कण्हरातीतो, उत्तरेणं दो कण्हरातीतो । पुरत्थिमा अब्भंतरा कण्हराती दाहिणं बाहिरं कण्हराई पुट्ठा, दाहिणा अब्भंतरा कण्हराती पच्चत्थिमं बाहिरं कण्हराई पुट्ठा, पच्चत्थिमा अब्भंतरा कण्हराती उत्तरं बाहिरं