________________
६१४
७ । अष्टम्यामन्त्रणी भवेदिति, सु औ जसिति, प्रथमाऽपीयं विभक्तिरामन्त्रणलक्षणस्यार्थस्य कर्म-करणादिवत् लिङ्गार्थमात्रातिरिक्तस्य प्रतिपादकत्वेनाष्टम्युक्ता, यथा हे युवन्निति श्लोकद्वयार्थः ८। उदाहरणगाथास्तु व्याख्यातानुसारेण भावनीयाः, तत्थ गाहा, तइया गाहा, इह हंदीत्युपप्रदर्शने, पयाणम्मि त्ति सम्प्रदाने । अवणे गाहा, अवणे त्ति अपनयेत्यर्थः, [इदं चाऽनुयोगद्वारानुसारेण व्याख्यातम्, आदर्शेषु तु अमणे इति दृश्यते, तत्र च स्त्र्यामन्त्रणतया गमनीयम्, हे अमनस्के इत्यर्थः ।]
[सू० ६१०] अट्ठ ठाणाई छउमत्थे सव्वभावेणं ण याणति न पासति, तंजहा-धम्मत्थिगातं जाव गंधं, वातं । ___ एताणि चेव उप्पन्ननाणदंसणधरे जाव गंधं, वातं ।
[टी०] अथ वचनविभक्तियुक्तशास्त्रसंस्कारात् किं छद्मस्था: साक्षाददृश्यार्थान् विदन्ति ?, उच्यते, नेत्याह- अट्ठ ठाणेत्यादि व्याख्यातं प्राक्, नवरं यावत्करणात् 'अधम्मत्थिकायं २, आगासत्थिकायं ३, जीवमसरीरपडिबद्धं ४, परमाणुपोग्गलं ५, सद्द ६' मिति द्रष्टव्यमिति, एतान्येव जिनो जानातीत्याह- एयाणीत्यादि सुगमम् ।
[सू० ६११] अट्ठविधे आउव्वेदे पन्नत्ते, तंजहा-कुमारभिच्चे, कायचिगिच्छा, सालाती, सल्लहत्ता, जंगोली, भूतवेज्जा, खारतंते, रसातणे ।
टी०] यथा धर्मास्तिकायादीन् जिनो जानाति तथाऽऽयुर्वेदमपि जानाति, स चायम्- अट्ठविहे आउव्वेए इत्यादि, आयुः जीवितं तद्विदन्ति रक्षितुमनुभवन्ति वोपक्रमरक्षणेन विन्दन्ते वा लभन्ते यथाकालं तेन तस्मात्तस्मिन् वेत्यायुर्वेदः चिकित्साशास्त्रं तदष्टविधम्, तद्यथा- कुमाराणां बालकानां भृतौ पोषणे साधु कुमारभृत्यम्, तद्धि तन्त्रं कुमारभरण-क्षीरदोषसंशोधनार्थं दुष्टस्तन्यनिमित्तानां व्याधीनामुपशमनार्थं चेति १, कायस्य ज्वरादिरोगग्रस्तस्य चिकित्साप्रतिपादकं तन्त्रं कायचिकित्सा, तत्तन्त्रं हि मध्याङ्गसमाश्रितानां ज्वरा-ऽतीसार-रक्तशोषोन्मादप्रमेह-कुष्ठादीनां शमनार्थमिति २, शलाकाया: कर्म शालाक्यम्, तत्प्रतिपादकं तन्त्रं शालाक्यम्, तद्धि उर्ध्वजत्रुगतानां रोगाणां श्रवण-वदन-नयन-घ्राणादिसंश्रितानामुपशमनार्थमिति ३, शल्यस्य हत्या हननमुद्धारः शल्यहत्या, तत्प्रतिपादकं तन्त्रमपि