________________
अष्टममध्ययनं अष्टस्थानकम् ।
[ टी० ] एतानि च शास्त्राणि वचनविभक्तियोगे नाभिधेयप्रतिपादकानीति वचनविभक्तिस्वरूपमाह- अट्ठविहा वयणविभत्तीत्यादि, उच्यते एकत्व-द्वित्वबहुत्वलक्षणोऽर्थो यैस्तानि वचनानि, विभज्यते कर्तृत्व-कर्म्मत्वादिलक्षणोऽर्थो विभक्तिः, वचनात्मिका विभक्तिर्वचनविभक्ति:, सु औ जस् [पा० ४।१।२] इत्यादि। निद्देसे सिलोगो, निर्देशनं निर्देश: कर्मादिकारकशक्तिभिरनधिकस्य लिङ्गार्थमात्रस्य प्रतिपादनम्, तत्र प्रथमा भवति, यथा स वा अयं वाऽऽस्ते अहं वा आसे १ । तथा उपदिश्यत इत्युपदेशनम् उपदेशक्रियाया यद् व्याप्यम्, उपलक्षणत्वादस्य क्रियाया यद् व्याप्यं कर्मेत्यर्थः, तत्र द्वितीया, यथा भण इमं श्लोकम्, कुरु वा तं घटम्, ददाति तम्, याति ग्रामम् २। तथा क्रियते येन तत् करणं क्रियां प्रति साधकतमम्, करोतीति वा करणः कर्त्ता कृत्यल्युटो बहुलम् [पा० ३ | ३ | ११३] इति वचनादिति, करणे तृतीया कृता विहिता, यथा नीतं सस्यं तेन शकटेन, कृतं कुण्डं मयेति ३ । तथा संपदावणे त्ति सत्कृत्य प्रदाप्यते यस्मै उपलक्षणत्वात् सम्प्रदीयते वा यस्मै स सम्प्रदापनं सम्प्रदानं वा, तत्र चतुर्थी, यथा भिक्षवे भिक्षां दापयति ददाति वेति, सम्प्रदापनस्योपलक्षणत्वादेव नमः - स्वस्ति - स्वाहा स्वधा - ऽलं - वषड्युक्ताच्च चतुर्थी भवति, नमः शाखायै वैरादिकायै, नमः प्रभृतियोगोऽपि कैश्चित् सम्प्रदानमभ्युपगम्यते इति ४ । पंचमीय श्लोकः, अपादीयते अपायतो विश्लेषत आ मर्यादया दीयते दो अवखण्डने [पा० धा० ११४८] इति वचनात् खण्ड्यते भिद्यते आदीयते वा गृह्यते यस्मात्तदपादानमवधिमात्रमित्यर्थः, तत्र पञ्चमी भवति, यथा अपनय ततो गृहाद्धान्यमितो वा कुशूलाद् गृहाणेति ५ । छट्ठी सस्सामिवायणे त्ति स्वं च स्वामी च स्वस्वामिनी तयोर्वचनं प्रतिपादनम्, तत्र स्वस्वामिवचने, स्वस्वामिसम्बन्धे इत्यर्थः, षष्ठी भवति, यथा तस्यास्य वा गतस्य वाऽयं भृत्यः, वायणे तीह प्राकृतत्वाद् दीर्घत्वम् ६ । सन्निधीयते क्रिया अस्मिन्निति सन्निधानम् आधारः, तदेवार्थः सन्निधानार्थः, तत्र सप्तमी, विषयोपलक्षणत्वाच्चास्य काले भावे च क्रियाविशेषणे, तत्र सन्निधाने तद्भक्तमिह पात्रे, तत् सप्तच्छदवनमिह शरदि पुष्यति, पुष्पनक्रिया शरदा विशेषिता, तत् कुटुम्बकमिह गवि दुह्यमानायां गतम्, इह गमनक्रिया गोदोहनभावेन विशेषितेति
६१३