________________
६९०
गुरुकम् अधोगमनस्वभावं वज्रादि, लघुकम् ऊर्ध्वगमनस्वभावं धूमादि, गुरुकलघुकं तिर्यग्गामि वायु-ज्योतिष्कविमानादि, अगुरुलघुकम् आकाशादीति ।
शब्दपरिणामः शुभाशुभभेदाद् द्विधेति ।
[सू० ७१४] दसविधे अंतलिक्खिते असज्झाइए पन्नत्ते, तंजहा-उक्कावाते, दिसिदाघे, गज्जिते, विज्जुते, निग्धाते, जूवते, जक्खालित्तते, धूमिता, महिता, युग्घा ।
सविधे ओरालिते असज्झातिते पन्नत्ते, तंजहा - अट्ठि, मंसे, सोणिते, असुतिसामंते, सुसाणसामंते, चंदोवराते, सूरोवराते, पडणे, रायवुग्गहे, उवस्सस्स अंतो ओरालिते सरीरगे ।
[टी०] अजीवपरिणामाधिकारात् पुद्गललक्षणाजीवपरिणाममन्तरीक्षलक्षणाजीवपरिणामोपाधिकमस्वाध्यायिकव्यपदेश्यं दसविहेत्यादिना सूत्रेणाह - तत्र अंतलिक्खए त्ति अन्तरीक्षम् आकाशं तत्र भवमान्तरीक्षकम्, स्वाध्यायो वाचनादिः पञ्चविधो यथासम्भवं यस्मिन्नस्ति तत् स्वाध्यायिकम्, तदभावोऽस्वाध्यायिकम्, तत्रोल्का आकाशजा, तस्या: पात: उल्कापात:, तथा दिशो दिशि वा दाहो दिग्दाहः, इदमुक्तं भवति– एकतरदिग्विभागे महानगरप्रदीपनकमिव य उद्द्योतो भूमावप्रतिष्ठितो गगनतलवर्त्ती स दिग्दाह इति, गर्जितं जीमूतध्वनिः, विद्युत् तडित्, निर्घात: साभ्रे निरभ्रे वा गगने व्यन्तरकृतो महागर्जितध्वनिः, जूयए त्ति सन्ध्याप्रभा चन्द्रप्रभा च यद्युगपद् भवतस्तत् जूयगो त्ति भणितम्, सन्ध्याप्रभा - चन्द्रप्रभयोर्मिश्रत्वमिति भावः, तत्र चन्द्रप्रभाऽऽवृता सन्ध्या अपगच्छन्ती न ज्ञायते शुक्लपक्षप्रतिपदादिषु दिनेषु, सन्ध्याच्छेदे चाज्ञायमाने कालवेलां न जानन्त्यतस्त्रीणि दिनानि प्रादोषिकं कालं न गृह्णन्ति, ततः कालिकस्यास्वाध्यायः स्यादिति, उल्कादीनां चेदं स्वरूपम्
दिसिदाहो छिन्नमूलो उक्क सरेहा पयासजुत्ता वा ।
संझाछेयावरणो जूयओ सुक्के दिणे तिन्नि || [ आव० नि० १३४९ ]
जक्खालित्तं ति यक्षादीप्तमाकाशे भवति, एतेषु स्वाध्यायं कुर्वतां क्षुद्रदेवता छलनां करोति, धूमिका महिकाभेदो वर्णतो धूमिका धूमाकारा धूम्रेत्यर्थः, महिका प्रतीता,