SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ दशममध्ययनं दशस्थानकम् । ६९१ एतच्च द्वयमपि कार्तिकादिषु गर्भमासेषु भवति, तच्च पतनानन्तरमेव सूक्ष्मत्वात् सर्वमप्कायभावितं करोतीति, रयउग्घाए त्ति विश्रसापरिणामत: समन्ताद्रेणुपतनं रजउद्घातो भण्यते । अस्वाध्यायाधिकारादेवेदमाह- दसविहे ओरालिएत्यादि, औदारिकस्य मनुष्यतिर्यक्शरीरस्येदमौदारिकमस्वाध्यायिकम्, तत्रास्थि-मांस-शोणितानि प्रतीतानि, तत्र च पञ्चेन्द्रियतिरश्चामस्वाध्यायिकं द्रव्यतोऽस्थि-मांस-शोणितानि, ग्रन्थान्तरे चाप्यधीयते, यदाह- सोणिय मंसं चम्मं अट्ठी वि य होंति चत्तारि ॥ [आव० नि० १३६५] इति, क्षेत्रत: षष्टिहस्ताभ्यन्तरे, कालत: सम्भवकालाद्यावत्तृतीया पौरुषी, मार्जारादिभिसृषिकादिव्यापादने अहोरात्रं चेति, भावत: सूत्रं नन्द्यादिकं नाध्येतव्यमिति, मनुष्यसम्बन्ध्यप्येवमेव, नवरं क्षेत्रतो हस्तशतमध्ये कालतोऽहोरात्रं यावत्, आर्त्तवं दिनत्रयम्, स्त्रीजन्मनि दिनाष्टकम्, पुरुषजन्मनि दिनसप्तकम्, अस्थीनि तु जीवविमोक्षदिनादारभ्य हस्तशताभ्यन्तरस्थितानि द्वादश वर्षाणि यावदस्वाध्यायिकं भवति, चिताग्निना दग्धान्युदकवाहेन वा व्यूढान्यस्वाध्यायिकं न भवति, भूमिनिखातान्यस्वाध्यायिकमिति, तथा अशुचीनि अमेध्यानि मूत्र-पुरीषाणि तेषां सामन्तं समीपमशुचिसामन्तमस्वाध्यायिकं भवति, उक्तं च कालग्रहणमाश्रित्य- सोणियमुत्तपुरीसे घाणालोयं परिहरेज्जा [आव० नि० १४१४] इति । श्मशानसामन्तं शबस्थानसमीपम् । चन्द्रस्य चन्द्रविमानस्योपरागो राहुविमानतेजसोपरञ्जनं चन्द्रोपरागो ग्रहणमित्यर्थः, एवं सूरोपरागोऽपि, इह चेदं कालमानं यदि चन्द्रः सूर्यो वा ग्रहणे सति सग्रहोऽन्यथा वा निमज्जति तदा ग्रहणकालं तद्रात्रिशेषं तदहोरात्रशेषं च तत: परमहोरात्रं च वर्जयन्ति, आह च- चंदिमसूरुवरागे निग्घाए गुंजिए अहोरत्तं । [आव० नि० १३५१] ति, आचरितं तु यदि तत्रैव रात्रौ दिने वा मुक्तस्तदा चन्द्रग्रहणे तस्या एव रात्रे: शेष परिहरन्ति, सूर्यग्रहणे तु तद्दिनशेष परिहत्यानन्तरं रात्रिमपि परिहरन्तीति, चन्द्रसूर्योपरागयोश्चौदारिकत्वं तद्विमानपृथिवीकायिकापेक्षयाऽवसे यमान्तरीक्षकत्वं तु सदपि न विवक्षितम्, आन्तरीक्षत्वेनोक्तेभ्य आकस्मिकेभ्य उल्कादिभ्यश्चन्द्रादिविमानानां शाश्वतत्वेन
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy