________________
६९२
विलक्षणत्वादिति ।
पडणे त्ति पतनं मरणं राजा-ऽमात्य-सेनापति-ग्रामभोगिकादीनाम्, तत्र यदा दण्डिकः कालगतो भवति राजा वाऽन्यो यावन्न भवति तदा सभये निर्भये वा स्वाध्यायं वर्जयन्ति, निर्भयश्रवणानन्तरमप्यहोरात्रं वर्जयन्तीति, ग्राममहत्तरेऽधिकारनियुक्ते बहुस्वजने वा शय्यातरे वा पुरुषान्तरे वा सप्तगृहाभ्यन्तरमृतेऽहोरात्रं स्वाध्यायं वर्जयन्ति शनैर्वा पठन्ति, निर्दुःखा एत इति गर्हां लोको मा कार्षीदिति ।
तथा रायवुग्गहे त्ति राज्ञां सङ्ग्राम उपलक्षणत्वात् सेनापति-ग्रामभोगिकमहत्तर-पुरुष-स्त्री-मल्लयुद्धान्यस्वाध्यायिकम्, एवं पांशु - पिष्टादिभण्डनान्यपि, यत ते प्रायो व्यन्तरबहुलास्तेषु प्रमत्तं देवता छलयेन्निर्दुःखा एत इत्युड्डाहो वाऽप्रीतिकं वा भवेदित्यतो यद्विग्रहादिकं यच्चिरकालं यस्मिन् क्षेत्रे भवति तत्र विग्रहादिके तावत्कालं तत्र क्षेत्रे स्वाध्यायं परिहरन्तीति ।
तथोपाश्रयस्य वसतेरन्तः मध्ये वर्त्तमानमौदारिकं मनुष्यादिसत्कं शरीरकं यद्युद्भिन्नं भवति तदा हस्तशताभ्यन्तरेऽस्वाध्यायिकं भवति, अथानुद्भिन्नं तथापि कुत्सितत्वादाचरितत्वाच्च हस्तशतं वर्ज्यते, परिष्ठापिते तु तत्र तत्स्थानं शुद्धं भवतीति।
[सू० ७१५] पंचेंदिया णं जीवा असमारभमाणस्स दसविधे संजमे कज्जति, तंजहा- सोतामताओ सोक्खाओ अवरोवेत्ता भवति, सोतामतेणं दुक्खेणं असंजोगेत्ता भवति, एवं जाव फासामतेणं दुक्खेणं असंजोएत्ता भवति । एवं असंजमो वि भाणितव्वो ।
[टी०] पञ्चेन्द्रियशरीरमस्वाध्यायिकमित्यनन्तरमुक्तमिति पञ्चेन्द्रियाधिकारात् तदाश्रितसंयमा-ऽसंयमसूत्रे सुगमे ।
[सू० ७१६] दस सुहुमा पन्नत्ता, तंजहा - पाणसुहुमे, पणगसुहुमे जाव सिणेहसुहमे, गणितसुहमे, भंगसुहमे ।
[टी०] संयमासंयमाधिकारात् तद्विषयभूतानि सूक्ष्माणि प्ररूपयन्नाह – दस सुहुमेत्यादि, प्राणसूक्ष्मम् अनुद्धरितकुन्थुः, पनकसूक्ष्मम् उल्ली, यावत्करणादिदं द्रष्टव्यम्, बीजसूक्ष्मं व्रीह्यादीनां नखिका, हरितसूक्ष्मं भूमिसमवर्णं तृणम्, पुष्पसूक्ष्मं वटादिपुष्पाणि,