________________
पञ्चममध्ययनं पञ्चस्थानकम । तृतीय उद्देशकः ।
४७७
य: स्वविषये व्यापार इत्यादि । ___ अर्थ्यन्ते अभिलष्यन्ते क्रियार्थिभिरर्यन्ते वा अधिगम्यन्त इत्यर्थाः, इन्द्रियाणामा इन्द्रियार्थाः तद्विषया: शब्दादयः, श्रूयतेऽनेनेति श्रोत्रम्, तच्च तदिन्द्रियं च श्रोत्रेन्द्रियम्, तस्यार्थो ग्राह्यः श्रोत्रेन्द्रियार्थः शब्दः, एवं क्रमेण रूप-गन्ध-रस-स्पर्शाश्चक्षुराद्या इति । मुण्डनं मुण्ड: अपनयनम्, स च द्वेधा- द्रव्यतो भावतश्च, तत्र द्रव्यत: शिरस: केशापनयनम्, भावतस्तु चेतस इन्द्रियार्थगतप्रेमा-ऽप्रेम्णो: कषायाणां वाऽपनयनमिति मुण्डलक्षणधर्मयोगात् पुरुषो मुण्ड उच्यते, तत्र श्रोत्रेन्द्रिये मुण्डः श्रोत्रेन्द्रियेण वा मुण्ड:, पादेन खञ्ज इत्यादिवत् श्रोत्रेन्द्रियमुण्डः, शब्दे रागादिमुण्डनाच्छ्रोत्रेन्द्रियार्थमुण्ड इति भाव इत्येवं सर्वत्र, तथा क्रोधे मुण्ड: क्रोधमुण्डस्तच्छेदनादेवमन्यत्रापि, तथा शिरसि शिरसा वा मुण्ड: शिरोमुण्ड इति । ।
[सू० ४४४] [१] अहेलोगे णं पंच बादरा पन्नत्ता, तंजहा- पुढविकाइया, आउ[काइया], वा[काइया], वणस्सतिकाइया, ओराला तसा पाणा १।
उड्डलोगे णं पंच बादरा एते चेव । तिरियलोगे णं पंच बादरा पन्नत्ता, तंजहा- एगिदिया जाव पंचिंदिया। [२] पंचविधा बादरतेउकाइया पन्नत्ता, तंजहा- इंगाले, जाला, मुम्मुरे, अच्ची, अलाते १॥
पंचविधा बादरवाउकाइया पन्नत्ता, तंजहा- पाईणवाते, पडीणवाते, दाहिणवाते, उदीणवाते, विदिसंवाते २।
पंचविधा अचित्ता वाउकाइया पन्नत्ता, तंजहा- अंकते, धंते, पीलिते, सरीराणुगते, सम्मुच्छिमे ३॥
[टी०] इदं च मुण्डितत्वं बादरजीवविशेषाणां भवतीति लोकत्रयापेक्षया बादरजीवकायान् प्ररूपयन् सूत्रत्रयमाह- अहेत्यादि सुगमम्, नवरमधऊर्ध्वलोकयोस्तैजसा बादरा न सन्तीति पञ्चैते उक्ता:, अन्यथा षट् स्युरिति, अधोलोकग्रामेषु ये बादरास्तैजसास्ते अल्पतया न विवक्षिता:, ये चोर्ध्वकपाटद्वये ते उत्पत्तुकामत्वेनोत्पत्तिस्थानास्थितत्वादिति।