________________
४७६
औदारिकशरीरादितया ग्राह्यता इन्द्रियग्राह्यता वा वर्णादिमत्त्वात् परस्परसम्बन्धलक्षणं वा तद् गुणो धर्मो यस्य स तथा ।
[सू० ४४२] पंच गतीतो पन्नत्ताओ, तंजहा- निरयगती, तिरियगती, मणुयगती, देवगती, सिद्धिगती ।
[टी०] अनन्तरमस्तिकाया उक्ता इति तद्विशेषस्य जीवास्तिकायस्य सम्बन्धिवस्तून्याह अध्ययनपरिसमाप्तिं यावदिति महासम्बन्धः । तत्र पंचेत्यादि गतिसूत्रं कण्ठ्यम्, नवरं गमनं गतिः १ गम्यत इति वा गतिः क्षेत्रविशेषः २ गम्यते वा अनया कर्मपुद्गलसंहत्येति गतिः नामकर्मोत्तरप्रकृतिरूपा ३ तत्कृता वा जीवावस्थेति ४, तत्र निरये नरके गतिः ४-१ निरयश्चासौ गतिश्चेति वा २ निरयप्रापिका वा गतिः ३ निरयगतिः, एवं तिर्यक्षु ४-१ तिरश्चां २ तिर्यक्त्वप्रसाधिका वा गतिः ३ तिर्यग्गतिः, एवं मनुष्य-देवगती, सिद्धौ गतिः सिद्धिश्चासौ गतिश्चेति वा सिद्धिगतिः, गतिरिह नामप्रकृतिर्नास्तीति ।
[सू०४४३] पंच इंदियत्था पन्नत्ता, तंजहा- सोतिंदियत्थे जाव फासिंदियत्थे। पंच मुंडा पन्नत्ता, तंजहा- सोतिंदियमुंडे जाव फासिंदियमुंडे २॥
अहवा पंच मुंडा पन्नत्ता, तंजहा- कोहमुंडे, माणमुंडे, मायामुंडे, लोभमुंडे, सिरमुंडे ३॥
[टी०] अनन्तरं सिद्धिगतिरुक्ता, सा चेन्द्रियार्थान् कषायादींश्चाश्रित्य मुण्डितत्वे सति भवतीतीन्द्रियार्थानिन्द्रिय-कषायादिमुण्डांश्चाभिधित्सुः सूत्रत्रयमाह- पंचेत्यादि सुगमम्, नवरम् इन्दनादिन्द्रो जीव: सर्वविषयोपलब्धिभोगलक्षणपरमैश्वर्ययोगात्, तस्य लिङ्गं तेन दृष्टं सृष्टं जुष्टं दत्तमिति वा इन्द्रियं श्रोत्रादि, तच्चतुर्विधं नामादिभेदात्, तत्र नाम-स्थापने सुज्ञाने, निर्वृत्त्युपकरणे द्रव्येन्द्रियम्, लब्ध्युपयोगौ भावेन्द्रियम्, तत्र निर्वृत्तिराकार:, सा च बाह्याऽभ्यन्तरा च, तत्र बाह्या अनेकप्रकारा, अभ्यन्तरा पुन: क्रमेण श्रोत्रादीनां कदम्बपुष्प १ धान्यमसूरा २ ऽतिमुक्तकपुष्पचन्द्रिका ३ क्षुरप ४ नानाप्रकार ५ संस्थाना, उपकरणेन्द्रियं विषयग्रहणे समर्थम्, छेद्यच्छेदने खड्गस्येव धारा, यस्मिन्नुपहते निर्वृत्तिसद्भावेऽपि विषयं न गृह्णातीति, लब्धीन्द्रियं यस्तदावरणक्षयोपशमः, उपयोगेन्द्रियं