________________
पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः ।
४७५ प्रतिक्षणं सत्ताऽऽलिङ्गितत्वादवस्थितः अनेन रूपेण नित्यत्वादिति, लोकस्यांशभूतं द्रव्यं लोकद्रव्यम्, यत उक्तम्पंचत्थिकायमइयं लोगमणाइनिहणं । [ध्यानश० ५३] इति ।
अथैतत्स्वरूपस्योक्तस्य प्रपञ्चनायानुक्तस्य चाभिधानायाह–स समासतः सङ्कपतः पञ्चविधः, विस्तरस्त्वन्यथापि स्यात्, कथमित्याह- द्रव्यतो द्रव्यतामधिकृत्य, क्षेत्रतः क्षेत्रमाश्रित्य, एवं कालतो भावतश्च, गुणत: कार्यतः कार्यमाश्रित्येत्यर्थः । तत्र द्रव्यतोऽसावेकं द्रव्यं तथाविधैकपरिणामादेकसङ्ख्याया एवेह भावात्, क्षेत्रतो लोकस्य प्रमाणं लोकप्रमाणम् असङ्ख्येयाः प्रदेशाः, तत् परिमाणमस्येति लोकप्रमाणमात्रः, कालतो न कदाचिन्नासीदित्यादि कालत्रयनिर्देशः, एतदेव सुखार्थं व्यतिरेकेणाहअभूच्च भवति च भविष्यति चेति, एवं त्रिकालभावित्वाद् ध्रुवः, मा भूदेकसर्गापेक्षयैव ध्रुवत्वमिति सर्वदैवं भावानियतः, मा भूदनेकसर्गापेक्षयैव नियतत्वमिति प्रलयाभावात् शाश्वतः, एवं सदा भावेनाऽक्षयः, पर्यायापगमेऽप्यनन्तपर्यायतयाऽव्ययः, एवमुभयरूपतया अवस्थितः, अनेन प्रकारेणौघतो नित्य इति पूज्यव्याख्या। तथा गुणतः गमनं गतिस्तद् गुणो गतिपरिणामपरिणतानां जीवपुद्गलानां सहकारिकारणभावतः कार्यं मत्स्यानां जलस्येव यस्यासौ गमनगुणो गमने वा गुणः उपकारो जीवादीनां यस्मादसौ गमनगुण इति । एवं चेव त्ति यथा धर्मास्तिकायोऽधीत एवमधर्मास्तिकायोऽपीति, नवरं केवलमेतावान् विशेषो यदुत- ठाणगुणे त्ति स्थान स्थितिर्गुण: कार्यं यस्य स स्थानगुणः, स हि स्थितिपरिणतानां जीवादीनामपेक्षाकारणतया स्थानं कार्यं करोति, स्थाने वा स्थितौ गुणः उपकारो यस्मात् स तथा। लोगालोगेत्यादि लोकालोकयोस्तद्व्यक्त्योर्यत् प्रमाणम् अनन्ताः प्रदेशास्तदेव परिमाणमस्येति लोकालोकप्रमाणमात्रः, अवगाहना जीवादीनामाश्रयो गुणः कार्यं यस्य तस्यां वा गुणः उपकारो यस्मात् सोऽवगाहनागुणः । अणंताई दव्वाइं ति अनन्ता जीवास्तेषां च प्रत्येकं द्रव्यत्वादिति । अरूवी जीवे त्ति जीवास्तिकायोऽमूर्तस्तथा चेतनावानिति । उपयोगः साकारानाकारभेदं चैतन्यं गुणो धर्मो यस्य स तथा। शेषं तदेव यदधास्तिकायादीनामिति, लोकप्रमाणो जीवास्तिकायः पुद्गलास्तिकायश्च, तयोस्तत्रैव भावादिति । गहणगुणे त्ति ग्रहणम्