________________
४७८
___ओरालतस त्ति त्रसत्वं तेजोवायुष्वपि प्रसिद्धम्, अतस्तद्व्यवच्छेदेन द्वीन्द्रियादिप्रतिपत्त्यर्थमोरालग्रहणम्, ओराला: स्थूला एकेन्द्रियापेक्षयेति, एकमिन्द्रियं करणं स्पर्शनलक्षणमेकेन्द्रियजातिनामकर्मोदयात्तदावरणक्षयोपशमाच्च येषां ते एकेन्द्रिया: पृथिव्यादय:, एवं द्वीन्द्रियादयोऽपि, नवरमिन्द्रियविशेषो जातिविशेषश्च वाच्य इति । __एकेन्द्रिया इत्युक्तमिति तान् पञ्चस्थानकानुपातिनो विशेषत: सूत्रत्रयेणाहपंचेविहेत्यादि, अङ्गारः प्रतीत:, ज्वाला अग्निशिखा छिन्नमूला, सैवाच्छिन्नमूलाऽर्चिः, मुर्मुरो भस्ममिश्राग्निकणरूप:, अलातम् उल्मुकमिति । प्राचीनवात: पूर्ववात:, प्रतीचीन: पश्चिम:, दक्षिण: प्रतीतः, उदीचीन: उत्तरः, तदन्यस्तु विदिग्वात इति।
आक्रान्ते पादादिना भूतलादौ यो भवति स आक्रान्तः, यस्तु ध्माते दृत्यादौ स ध्मातः, जलार्द्रवस्त्रे निष्पीड्यमाने पीडितः, उद्गारोच्छ्वासादिः शरीरानुगतः, व्यजनादिजन्य: सम्मूर्छिमः । एते च पूर्वमचेतनास्ततः सचेतना अपि भवन्तीति ।
[सू० ४४५] पंच नियंठा पन्नत्ता, तंजहा- पुलाते, बउसे, कुसीले, णियंठे, सिणाते । ___ पुलाते पंचविहे पन्नत्ते, तंजहा- णाणपुलाते, दंसणपुलाते, चरित्तपुलाते, लिंगपुलाते, अहासुहुमपुलाते नामं पंचमे २।
बउसे पंचविधे पन्नत्ते, तंजहा- आभोगबउसे, अणाभोगबउसे, संवुडबउसे, असंवुडबउसे, अहासुहमबउसे नामं पंचमे ३।
कुसीले पंचविधे पन्नत्ते, तंजहा- णाणकुसीले, दंसणकुसीले, चरित्तकुसीले, लिंगकुसीले, अहासुहुमकुसीले नामं पंचमे ४।
नियंठे पंचविहे पन्नत्ते, तंजहा- पढमसमयनियंठे, अपढमसमयनियंठे, चरिमसमयनियंठे, अचरिमसमयनियंठे, अहासुहुमनियंठे नामं पंचमे ५।
सिणाते पंचविधे पन्नत्ते, तंजहा- अच्छवी, असबले, अकम्मंसे, संसुद्धणाणदंसणधरे अरहा जिणे केवली, अपरिस्सावी ६॥
[टी०] पूर्वं पञ्चेन्द्रिया उक्ताः इति पञ्चेन्द्रियविशेषानाह, अथवा अनन्तरं सचेतनाचेतना वायव उक्ता:, तांश्च रक्षन्ति निर्ग्रन्था एवेति तानाह- पंच नियंठेत्यादि सूत्रषट्कं